Samskritam Songs · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
कर्तुराज्ञया प्राप्यते फलम् । कर्म किं परं कर्म तज्जडम् ॥ 1 ॥
कृतिमहोदधौ पतनकारणम् । फलमशाश्वतं गतिनिरोधकम् ॥ 2 ॥
ईश्वरार्पितं नेच्छया कृतम् । चित्तशोधकं मुक्तिसाधकम् ॥ 3 ॥
कायवाङ्मनः कार्यमुत्तमम् । पूजनं जपश्चिंतनं क्रमात् ॥ 4 ॥
जगत ईशधी युक्तसेवनम् । अष्टमूर्तिभृद्देवपूजनम् ॥ 5 ॥
उत्तमस्तवादुच्चमंदतः । चित्तजं जपध्यानमुत्तमम् ॥ 6 ॥
आज्यधारया स्रोतसा समम् । सरलचिंतनं विरलतः परम् ॥ 7 ॥
भेदभावनात् सोऽहमित्यसौ । भावनाऽभिदा पावनी मता ॥ 8 ॥
भावशून्यसद्भावसुस्थितिः । भावनाबलाद्भक्तिरुत्तमा ॥ 9 ॥
हृत्स्थले मनः स्वस्थता क्रिया । भक्तियोगबोधाश्च निश्चितम् ॥ 10 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
वायुरोधनाल्लीयते मनः । जालपक्षिवद्रोधसाधनम् ॥ 11 ॥
चित्तवायवश्चित्क्रियायुताः । शाखयोर्द्वयी शक्तिमूलका ॥ 12 ॥
लयविनाशने उभयरोधने । लयगतं पुनर्भवति नो मृतम् ॥ 13 ॥
प्राणबंधनाल्लीनमानसम् । एकचिंतनान्नाशमेत्यदः ॥ 14 ॥
नष्टमानसोत्कृष्टयोगिनः । कृत्यमस्ति किं स्वस्थितिं यतः ॥ 15 ॥
दृश्यवारितं चित्तमात्मनः । चित्त्वदर्शनं तत्त्वदर्शनम् ॥ 16 ॥
मानसं तु किं मार्गणे कृते । नैव मानसं मार्ग आर्जवात् ॥ 17 ॥
वृत्तयस्त्वहं वृत्तिमाश्रिताः । वृत्तयो मनो विद्ध्यहं मनः ॥ 18 ॥
अहमयं कुतो भवति चिन्वतः । अयि पतत्यहं निजविचारणम् ॥ 19 ॥
अहमि नाशभाज्यहमहंतया । स्फुरति हृत्स्वयं परमपूर्णसत् ॥ 20 ॥
इदमहं पदाऽभिख्यमन्वहम् । अहमिलीनकेऽप्यलयसत्तया ॥ 21 ॥
विग्रहेंद्रियप्राणधीतमः । नाहमेकसत्तज्जडं ह्यसत् ॥ 22 ॥
सत्त्वभासिका चित्क्ववेतरा । सत्तया हि चिच्चित्तया ह्यहम् ॥ 23 ॥
ईशजीवयोर्वेषधीभिदा । सत्स्वभावतो वस्तु केवलम् ॥ 24 ॥
वेषहानतः स्वात्मदर्शनम् । ईशदर्शनं स्वात्मरूपतः ॥ 25 ॥
आत्मसंस्थितिः स्वात्मदर्शनम् । आत्मनिर्द्वयादात्मनिष्ठता ॥ 26 ॥
ज्ञानवर्जिताऽज्ञानहीनचित् । ज्ञानमस्ति किं ज्ञातुमंतरम् ॥ 27 ॥
किं स्वरूपमित्यात्मदर्शने । अव्ययाऽभवाऽऽपूर्णचित्सुखम् ॥ 28 ॥
बंधमुक्त्यतीतं परं सुखम् । विंदतीह जीवस्तु दैविकः ॥ 29 ॥
अहमपेतकं निजविभानकम् । महदिदंतपो रमनवागियम् ॥ 30 ॥
Browse Related Categories: