Samskritam Songs · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
सरलभाषा संस्कृतं सरसभाषा संस्कृतम् । सरससरलमनोज्ञमंगलदेवभाषा संस्कृतम् ॥ 1 ॥
मधुरभाषा संस्कृतं मृदुलभाषा संस्कृतम् । मृदुलमधुरमनोहरामृततुल्यभाषा संस्कृतम् ॥ 2 ॥
देवभाषा संस्कृतं वेदभाषा संस्कृतम् । भेदभावविनाशकं खलु दिव्यभाषा संस्कृतम् ॥ 3 ॥
अमृतभाषा संस्कृतं अतुलभाषा संस्कृतम् । सुकृतिजनहृदि परिलसितशुभवरदभाषा संस्कृतम् ॥ 4 ॥
भुवनभाषा संस्कृतं भवनभाषा संस्कृतम् । भरतभुवि परिलसितकाव्यमनोज्ञभाषा संस्कृतम् ॥ 5 ॥
शस्त्रभाषा संस्कृतं शास्त्रभाषा संस्कृतम् । शस्त्रशास्त्रभृदार्षभारतराष्ट्रभाषा संस्कृतम् ॥ 6 ॥
धर्मभाषा संस्कृतं कर्मभाषा संस्कृतम् । धर्मकर्मप्रचोदकं खलु विश्वभाषा संस्कृतम् ॥ 7 ॥
Browse Related Categories:
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts