Ganesha · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
1. श्री बाल गणपतिः करस्थ कदलीचूतपनसेक्षुकमोदकम् । बालसूर्यनिभं वंदे देवं बालगणाधिपम् ॥ 1 ॥
2. श्री तरुण गणपतिः पाशांकुशापूपकपित्थजंबू- -स्वदंतशालीक्षुमपि स्वहस्तैः । धत्ते सदा यस्तरुणारुणाभः पायात् स युष्मांस्तरुणो गणेशः ॥ 2 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
3. श्री भक्त गणपतिः नारिकेलाम्रकदलीगुडपायसधारिणम् । शरच्चंद्राभवपुषं भजे भक्तगणाधिपम् ॥ 3 ॥
4. श्री वीर गणपतिः वेतालशक्तिशरकार्मुकचक्रखड्ग- -खट्वांगमुद्गरगदांकुशनागपाशान् । शूलं च कुंतपरशुं ध्वजमुद्वहंतं वीरं गणेशमरुणं सततं स्मरामि ॥ 4 ॥
5. श्री शक्ति गणपतिः आलिंग्य देवीं हरितांगयष्टिं परस्पराश्लिष्टकटिप्रदेशम् । संध्यारुणं पाशसृणी वहंतं भयापहं शक्तिगणेशमीडे ॥ 5 ॥
6. श्री द्विज गणपतिः यं पुस्तकाक्ष गुणदंडकमंडलु श्री- -विद्योतमानकरभूषणमिंदुवर्णम् । स्तंबेरमाननचतुष्टयशोभमानं त्वां यः स्मरेत् द्विजगणाधिपते स धन्यः ॥ 6 ॥
7. श्री सिद्ध गणपतिः पक्वचूतफलपुष्पमंजरी- -रिक्षुदंडतिलमोदकैः सह । उद्वहन् परशुमस्तु ते नमः श्रीसमृद्धियुत हेमपिंगल ॥ 7 ॥
8. श्री उच्छिष्ट गणपतिः नीलाब्जदाडिमीवीणाशालीगुंजाक्षसूत्रकम् । दधदुच्छिष्टनामायं गणेशः पातु मेचकः ॥ 8 ॥
9. श्री विघ्न गणपतिः शंखेक्षुचापकुसुमेषुकुठारपाश- -चक्रस्वदंतसृणिमंजरिकाशराद्यैः । पाणिश्रितैः परिसमीहितभूषणश्री- -विघ्नेश्वरो विजयते तपनीयगौरः ॥ 9 ॥
10. श्री क्षिप्र गणपतिः दंतकल्पलतापाशरत्नकुंभांकुशोज्ज्वलम् । बंधूककमनीयाभं ध्यायेत् क्षिप्रगणाधिपम् ॥ 10 ॥
11. श्री हेरंब गणपतिः अभयवरदहस्तः पाशदंताक्षमाला- -सृणिपरशु दधानो मुद्गरं मोदकं च । फलमधिगतसिंहः पंचमातंगवक्त्रो गणपतिरतिगौरः पातु हेरंबनामा ॥ 11 ॥
12. श्री लक्ष्मी गणपतिः बिभ्राणः शुकबीजपूरकमिलन्माणिक्यकुंभाकुशान् पाशं कल्पलतां च खड्गविलसज्ज्योतिः सुधानिर्झरः । श्यामेनात्तसरोरुहेण सहितं देवीद्वयं चांतिके गौरांगो वरदानहस्तसहितो लक्ष्मीगणेशोऽवतात् ॥ 12 ॥
13. श्री महा गणपतिः हस्तींद्राननमिंदुचूडमरुणच्छायं त्रिनेत्रं रसा- -दाश्लिष्टं प्रियया सपद्मकरया स्वांकस्थया संततम् । बीजापूरगदेक्षुकार्मुकलसच्चक्राब्जपाशोत्पल- -व्रीह्यग्रस्वविषाणरत्नकलशान् हस्तैर्वहंतं भजे ॥ 13 ॥
14. श्री विजय गणपतिः पाशांकुशस्वदंताम्रफलवानाखुवाहनः । विघ्नं निहंतु नः सर्वं रक्तवर्णो विनायकः ॥ 14 ॥
15. श्री नृत्त गणपतिः पाशांकुशापूपकुठारदंत- -चंचत्कराक्लुप्तवरांगुलीकम् । पीतप्रभं कल्पतरोरधस्थं भजामि नृत्तोपपदं गणेशम् ॥ 15 ॥
16. श्री ऊर्ध्व गणपतिः कल्हारशालिकमलेक्षुकचापबाण- -दंतप्ररोहकगदी कनकोज्ज्वलांगः । आलिंगनोद्यतकरो हरितांगयष्ट्या देव्या करोतु शुभमूर्ध्वगणाधिपो मे ॥ 16 ॥
17. श्री एकाक्षर गणपतिः रक्तो रक्तांगरागांकुशकुसुमयुतस्तुंदिलश्चंद्रमौलिः नेत्रैर्युक्तस्त्रिभिर्वामनकरचरणो बीजपूरं दधानः । हस्ताग्राक्लुप्त पाशांकुशरदवरदो नागवक्त्रोऽहिभूषो देवः पद्मासनस्थो भवतु सुखकरो भूतये विघ्नराजः ॥ 17 ॥
18. श्री वर गणपतिः सिंदूराभमिभाननं त्रिनयनं हस्ते च पाशांकुशौ बिभ्राणं मधुमत्कपालमनिशं साध्विंदुमौलिं भजे । पुष्ट्याश्लिष्टतनुं ध्वजाग्रकरया पद्मोल्लसद्धस्तया तद्योन्याहित पाणिमात्तवसुमत्पात्रोल्लसत्पुष्करम् ॥ 18 ॥
19. श्री त्र्यक्षर गणपतिः गजेंद्रवदनं साक्षाच्चलत्कर्णसुचामरं हेमवर्णं चतुर्बाहुं पाशांकुशधरं वरम् । स्वदंतं दक्षिणे हस्ते सव्ये त्वाम्रपलं तथा पुष्करैर्मोदकं चैव धारयंतमनुस्मरेत् ॥ 19 ॥
20. श्री क्षिप्रप्रसाद गणपतिः धृतपाशांकुशकल्पलता स्वरदश्च बीजपूरयुतः शशिशकलकलितमौलिस्त्रिलोचनोऽरुणश्च गजवदनः । भासुरभूषणदीप्तो बृहदुदरः पद्मविष्टरोल्लसितः विघ्नपयोधरपवनः करधृतकमलः सदास्तु मे भूत्यै ॥ 20 ॥
21. श्री हरिद्रा गणपतिः हरिद्राभं चतुर्बाहुं करींद्रवदनं प्रभुम् । पाशांकुशधरं देवं मोदकं दंतमेव च । भक्ताभयप्रदातारं वंदे विघ्नविनाशनम् ॥ 21 ॥
22. श्री एकदंत गणपतिः लंबोदरं श्यामतनुं गणेशं कुठारमक्षस्रजमूर्ध्वगात्रम् । सलड्डुकं दंतमधः कराभ्यां वामेतराभ्यां च दधानमीडे ॥ 22 ॥
23. श्री सृष्टि गणपतिः पाशांकुशस्वदंताम्रफलवानाखुवाहनः । विघ्नं निहंतु नः शोणः सृष्टिदक्षो विनायकः ॥ 23 ॥
24. श्री उद्दंड गणपतिः कल्हारांबुजबीजपूरकगदादंतेक्षुचापं सुमं बिभ्राणो मणिकुंभशालिकलशौ पाशं सृणिं चाब्जकम् । गौरांग्या रुचिरारविंदकरया देव्या समालिंगतः शोणांगः शुभमातनोतु भजतामुद्दंडविघ्नेश्वरः ॥ 24 ॥
25. श्री ऋणमोचक गणपतिः पाशांकुशौ दंतजंबु दधानः स्फाटिकप्रभः । रक्तांशुको गणपतिर्मुदे स्यादृणमोचकः ॥ 25 ॥
26. श्री ढुंढि गणपतिः अक्षमालां कुठारं च रत्नपात्रं स्वदंतकम् । धत्ते करैर्विघ्नराजो ढुंढिनामा मुदेऽस्तु नः ॥ 26 ॥
27. श्री द्विमुख गणपतिः स्वदंतपाशांकुशरत्नपात्रं करैर्दधानो हरिनीलगात्रः । रक्तांशुको रत्नकिरीटमाली भूत्यै सदा मे द्विमुखो गणेशः ॥ 27 ॥
28. श्री त्रिमुख गणपतिः श्रीमत्तीक्ष्णशिखांकुशाक्षवरदान् दक्षे दधानः करैः पाशं चामृतपूर्णकुंभमभयं वामे दधानो मुदा । पीठे स्वर्णमयारविंदविलसत्सत्कर्णिकाभासुरे स्वासीनस्त्रिमुखः पलाशरुचिरो नागाननः पातु नः ॥ 28 ॥
29. श्री सिंह गणपतिः वीणां कल्पलतामरिं च वरदं दक्षे विदत्ते करै- -र्वामे तामरसं च रत्नकलशं सन्मंजरीं चाभयम् । शुंडादंडलसन्मृगेंद्रवदनः शंखेंदुगौरः शुभो दीव्यद्रत्ननिभांशुको गणपतिः पायादपायत् स नः ॥ 29 ॥
30. श्री योग गणपतिः योगारूढो योगपट्टाभिरामो बालार्काभश्चेंद्रनीलांशुकाढ्यः । पाशेक्ष्वक्षान् योगदंडं दधानो पायान्नित्यं योगविघ्नेश्वरो नः ॥ 30 ॥
31. श्री दुर्गा गणपतिः तप्तकांचनसंकाशश्चाष्टहस्तो महत्तनुः दीप्तांकुशं शरं चाक्षं दंतु दक्षे वहन् करैः । वामे पाशं कार्मुकं च लतां जंबु दधत्करैः रक्तांशुकः सदा भूयाद्दुर्गागणपतिर्मुदे ॥ 31 ॥
32. श्री संकष्टहर गणपतिः बालार्कारुणकांतिर्वामे बालां वहन्नंके लसदिंदीवरहस्तां गौरांगीं रत्नशोभाढ्याम् । दक्षेऽंकुशवरदानं वामे पाशं च पायसं पात्रं नीलांशुकलसमानः पीठे पद्मारुणे तिष्ठन् ॥ 32 ॥ संकटहरणः पायात् संकटपूगाद्गजाननो नित्यम् ।
श्री वल्लभ गणपति बीजापूर गदेक्षुकार्मुकभुजाचक्राब्ज पाशोत्पल व्रीह्यग्रस्वविषाण रत्नकलश प्रोद्यत्करांभोरुहः । ध्येयो वल्लभया च पद्मकरयाश्लिष्टो ज्वलद्भूषया विश्वोत्पत्तिविनाशसंस्थितिकरो विघ्नो विशिष्टार्थदः ॥
श्री सिद्धिदेवी पीतवर्णां द्विनेत्रां तामेकवक्त्रांबुजद्वयां नवरत्नकिरीटां च पीतांबरसुधारिणीम् । वामहस्ते महापद्मं दक्षे लंबकरान्वितां जाजीचंपकमालां च त्रिभंगीं ललितांगिकाम् ॥ गणेशदक्षिणे भागे गुरुः सिद्धिं तु भावयेत् ॥
श्री बुद्धिदेवी द्विहस्तां च द्विनेत्रां तामेकवक्त्रां त्रिभंगिकां मुक्तामणिकिरीटां च दक्षे हस्ते महोत्पलम् । वामे प्रलंबहस्तां च दिव्यांबरसुधारिणीं श्यामवर्णनिभां भास्वत्सर्वाभरणभूषिताम् ॥ पारिजातोत्पलामाल्यां गणेशो वामपार्श्वके ध्यात्वा बुद्धिं सुरूपां समर्चयेद्देशिकोत्तमः ॥
Browse Related Categories: