Navagraha · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
अस्य श्रीबृहस्पति कवचमहा मंत्रस्य, ईश्वर ऋषिः, अनुष्टुप् छंदः, बृहस्पतिर्देवता, गं बीजं, श्रीं शक्तिः, क्लीं कीलकम्, बृहस्पति प्रसाद सिद्ध्यर्थे जपे विनियोगः ॥
ध्यानम् अभीष्टफलदं वंदे सर्वज्ञं सुरपूजितम् । अक्षमालाधरं शांतं प्रणमामि बृहस्पतिम् ॥
अथ बृहस्पति कवचम् बृहस्पतिः शिरः पातु ललाटं पातु मे गुरुः । कर्णौ सुरगुरुः पातु नेत्रे मेभीष्टदायकः ॥ 1 ॥
जिह्वां पातु सुराचार्यः नासं मे वेदपारगः । मुखं मे पातु सर्वज्ञः कंठं मे देवतागुरुः ॥ 2 ॥
भुजा वंगीरसः पातु करौ पातु शुभप्रदः । स्तनौ मे पातु वागीशः कुक्षिं मे शुभलक्षणः ॥ 3 ॥
नाभिं देवगुरुः पातु मध्यं पातु सुखप्रदः । कटिं पातु जगद्वंद्यः ऊरू मे पातु वाक्पतिः ॥ 4 ॥
जानुजंघे सुराचार्यः पादौ विश्वात्मकः सदा । अन्यानि यानि चांगानि रक्षेन्मे सर्वतो गुरुः ॥ 5 ॥
फलशृतिः इत्येतत्कवचं दिव्यं त्रिसंध्यं यः पठेन्नरः । सर्वान् कामानवाप्नोति सर्वत्र विजयी भवेत् ॥
॥ इति श्री बृहस्पति कवचम् ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
Browse Related Categories: