Chanakya Neethi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
धनहीनो न हीनश्च धनिकः स सुनिश्चयः । विद्यारत्नेन हीनो यः स हीनः सर्ववस्तुषु ॥ 01 ॥
दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं पिबेज्जलम् । शास्त्रपूतं वदेद्वाक्यः मनःपूतं समाचरेत् ॥ 02 ॥
सुखार्थी चेत्त्यजेद्विद्यां विद्यार्थी चेत्त्यजेत्सुखम् । सुखार्थिनः कुतो विद्या सुखं विद्यार्थिनः कुतः ॥ 03 ॥
कवयः किं न पश्यंति किं न भक्षंति वायसाः । मद्यपाः किं न जल्पंति किं न कुर्वंति योषितः ॥ 04 ॥
रंकं करोति राजानं राजानं रंकमेव च । धनिनं निर्धनं चैव निर्धनं धनिनं विधिः ॥ 05 ॥
लुब्धानां याचकः शत्रुर्मूर्खानां बोधको रिपुः । जारस्त्रीणां पतिः शत्रुश्चौराणां चंद्रमा रिपुः ॥ 06 ॥
येषां न विद्या न तपो न दानं ज्ञानं न शीलां न गुणो न धर्मः । ते मर्त्यलोके भुवि भारभूता मनुष्यरूपेण मृगाश्चरंति ॥ 07 ॥
अंतःसारविहीनानामुपदेशो न जायते । मलयाचलसंसर्गान्न वेणुश्चंदनायते ॥ 08 ॥
यस्य नास्ति स्वयं प्रज्ञा शास्त्रं तस्य करोति किम् । लोचनाभ्यां विहीनस्य दर्पणः किं करिष्यति ॥ 09 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
दुर्जनं सज्जनं कर्तुमुपायो नहि भूतले । अपानं शातधा धौतं न श्रेष्ठमिंद्रियं भवेत् ॥ 10 ॥
आप्तद्वेषाद्भवेन्मृत्युः परद्वेषाद्धनक्षयः । राजद्वेषाद्भवेन्नाशो ब्रह्मद्वेषात्कुलक्षयः ॥ 11 ॥
वरं वनं व्याघ्रगजेंद्रसेवितं द्रुमालयं पत्रफलांबुसेवनम् । तृणेषु शय्या शतजीर्णवल्कलं न बंधुमध्ये धनहीनजीवनम् ॥ 12 ॥
विप्रो वृक्षस्तस्य मूलं च संध्या वेदः शाखा धर्मकर्माणि पत्रम् । तस्मान्मूलं यत्नतो रक्षणीयं छिन्ने मूले नैव शाखा न पत्रम् ॥ 13 ॥
माता च कमला देवी पिता देवो जनार्दनः । बांधवा विष्णुभक्ताश्च स्वदेशो भुवनत्रयम् ॥ 14 ॥
एकवृक्षसमारूढा नानावर्णा विहंगमाः । प्रभाते दिक्षु दशसु यांति का तत्र वेदना ॥ 15 ॥
बुद्धिर्यस्य बलं तस्य निर्बुद्धेश्च कुतो बलम् । वने सिंहो यदोन्मत्तः मशकेन निपातितः ॥ 16 ॥
का चिंता मम जीवने यदि हरिर्विश्वंभरो गीयते नो चेदर्भकजीवनाय जननीस्तन्यं कथं निर्ममे । इत्यालोच्य मुहुर्मुहुर्यदुपते लक्ष्मीपते केवलं त्वत्पादांबुजसेवनेन सततं कालो मया नीयते ॥ 17 ॥
गीर्वाणवाणीषु विशिष्टबुद्धि- स्तथापि भाषांतरलोलुपोऽहम् । यथा सुधायाममरेषु सत्यां स्वर्गांगनानामधरासवे रुचिः ॥ 18 ॥
अन्नाद्दशगुणं पिष्टं पिष्टाद्दशगुणं पयः । पयसोऽष्टगुणं मांसां मांसाद्दशगुणं घृतम् ॥ 19 ॥
शोकेन रोगा वर्धंते पयसा वर्धते तनुः । घृतेन वर्धते वीर्यं मांसान्मांसं प्रवर्धते ॥ 20 ॥
Browse Related Categories: