Ganga · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
भगवति भवलीलामौलिमाले तवांभः कणमणुपरिमाणं प्राणिनो ये स्पृशंति । अमरनगरनारीचामरग्राहिणीनां विगतकलिकलंकातंकमंके लुठंति ॥ 1 ॥
ब्रह्मांडं खंडयंती हरशिरसि जटावल्लिमुल्लासयंती स्वर्लोकादापतंती कनकगिरिगुहागंडशैलात् स्खलंती । क्षोणीपृष्टे लुठंती दुरितचयचमूर्निर्भरं भर्त्सयंती पाथोधिं पूरयंती सुरनगरसरित्पावनी नः पुनातु ॥ 2 ॥
मज्जन्मातंगकुंभच्युतमदमदिरामोदमत्तालिजालं स्नानैः सिद्धांगनानां कुचयुगविगलत्कुंकुमासंगपिंगम् । सायं प्रातर्मुनीनां कुशकुसुमचयैश्छिन्नतीरस्थनीरं पायान्नो गांगमंभः करिकरमकराक्रांतरहस्तरंगम् ॥ 3 ॥
आदावादिपितामहस्य नियमव्यापारपात्रे जलं पश्चात्पन्नगशायिनो भगवतः पादोदकं पावनम् । भूयः शंभुजटाविभूषणमणिर्जह्नोर्महर्षेरियं कन्या कल्मषनाशिनी भगवती भागीरथी पातु माम् ॥ 4 ॥
शैलेंद्रादवतारिणी निजजले मज्जज्जनोत्तारिणी पारावारविहारिणी भवभयश्रेणीसमुत्सारिणी । शेषांगैरनुकारिणी हरशिरोवल्लीदलाकारिणी काशीप्रांतविहारिणी विजयते गंगा मनोहारिणी ॥ 5 ॥
कुतो वीची वीचिस्तव यदि गता लोचनपथं त्वमापीता पीतांबरपुरवासं वितरसि । त्वदुत्संगे गंगे पतति यदि कायस्तनुभृतां तदा मातः शांतक्रतवपदलाभोऽप्यतिलघुः ॥ 6 ॥
भगवति तव तीरे नीरमात्राशनोऽहं विगतविषयतृष्णः कृष्णमाराधयामि । सकलकलुषभंगे स्वर्गसोपानसंगे तरलतरतरंगे देवि गंगे प्रसीद ॥ 7 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
मातर्जाह्नवि शंभुसंगमिलिते मौलौ निधायांजलिं त्वत्तीरे वपुषोऽवसानसमये नारायणांघ्रिद्वयम् । सानंदं स्मरतो भविष्यति मम प्राणप्रयाणोत्सवे भूयाद्भक्तिरविच्युता हरिहराद्वैतात्मिका शाश्वती ॥ 8 ॥
गंगाष्टकमिदं पुण्यं यः पठेत्प्रयतो नरः । सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ 9 ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविंदभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ गंगाष्टकं संपूर्णम् ।
Browse Related Categories: