Vedic · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
॥ अथ केनोपनिषत् ॥
ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ।
ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥
ॐ आप्यायंतु ममांगानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिंद्रियाणि च सर्वाणि । सर्वं ब्रह्मौपनिषदं माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु । तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि संतु ते मयि संतु ।
ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥
केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैति युक्तः । केनेषितां-वाँचमिमां-वँदंति चक्षुः श्रोत्रं क उ देवो युनक्ति ॥ 1 ॥
श्रोत्रस्य श्रोत्रं मनसो मनो यद् वाचो ह वाचं स उ प्राणस्य प्राणः । चक्षुषश्चक्षुरतिमुच्य धीराः प्रेत्यास्माल्लोकादमृता भवंति ॥ 2 ॥
न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनः । न विद्मो न विजानीमो यथैतदनुशिष्यात् ॥ 3 ॥
अन्यदेव तद्विदितादथो अविदितादधि । इति शुश्रुम पूर्वेषां-येँ नस्तद्व्याचचक्षिरे ॥ 4 ॥
Offered for worship and study, not as prediction. Non-commercial.
यद्वाचाऽनभ्युदितं-येँन वागभ्युद्यते । तदेव ब्रह्म त्वं-विँद्धि नेदं-यँदिदमुपासते ॥ 5 ॥
यन्मनसा न मनुते येनाहुर्मनो मतम् । तदेव ब्रह्म त्वं-विँद्धि नेदं-यँदिदमुपासते ॥ 6 ॥
यच्चक्षुषा न पश्यति येन चक्षूंषि पश्यति । तदेव ब्रह्म त्वं-विँद्धि नेदं-यँदिदमुपासते ॥ 7 ॥
यच्छ्रोत्रेण न शऋणोति येन श्रोत्रमिदं श्रुतम् । तदेव ब्रह्म त्वं-विँद्धि नेदं-यँदिदमुपासते ॥ 8 ॥
यत्प्राणेन न प्राणिति येन प्राणः प्रणीयते । तदेव ब्रह्म त्वं-विँद्धि नेदं-यँदिदमुपासते ॥ 9 ॥
॥ इति केनोपनिषदि प्रथमः खंडः ॥
Browse Related Categories: