Kanda 1 - Krishna Yajurveda Taittiriya Samhita · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
1) इ॒षे त्वा᳚ त्वे॒ष इ॒षे त्वा᳚ । 2) त्वो॒र्ज ऊ॒र्जे त्वा᳚ त्वो॒र्जे । 3) ऊ॒र्जे त्वा᳚ त्वो॒र्ज ऊ॒र्जे त्वा᳚ । 4) त्वा॒ वा॒यवो॑ वा॒यव॑स्त्वा त्वा वा॒यवः॑ । 5) वा॒यव॑-स्स्थ स्थ वा॒यवो॑ वा॒यव॑-स्स्थ । 6) स्थो॒पा॒यव॑ उपा॒यव॑-स्स्थ स्थोपा॒यवः॑ । 7) उ॒पा॒यव॑-स्स्थ स्थोपा॒यव॑ उपा॒यव॑-स्स्थ । 7) उ॒पा॒यव॒ इत्यु॑प - आ॒यवः॑ । 8) स्थ॒ दे॒वो दे॒व-स्स्थ॑ स्थ दे॒वः । 9) दे॒वो वो॑ वो दे॒वो दे॒वो वः॑ । 10) व॒-स्स॒वि॒ता स॑वि॒ता वो॑ व-स्सवि॒ता । 11) स॒वि॒ता प्र प्र स॑वि॒ता स॑वि॒ता प्र । 12) प्रार्प॑यत्वर्पयतु॒ प्र प्रार्प॑यतु । 13) अ॒र्प॒य॒तु॒ श्रेष्ठ॑तमाय॒ श्रेष्ठ॑तमायार्पयत्वर्पयतु॒ श्रेष्ठ॑तमाय । 14) श्रेष्ठ॑तमाय॒ कर्म॑णे॒ कर्म॑णे॒ श्रेष्ठ॑तमाय॒ श्रेष्ठ॑तमाय॒ कर्म॑णे । 14) श्रेष्ठ॑तमा॒येति॒ श्रेष्ठ॑ - त॒मा॒य॒ । 15) कर्म॑ण॒ आ कर्म॑णे॒ कर्म॑ण॒ आ । 16) आ प्या॑यद्ध्व-म्प्यायद्ध्व॒ मा प्या॑यद्ध्वम् । 17) प्या॒य॒द्ध्व॒ म॒घ्नि॒या॒ अ॒घ्नि॒याः॒ प्या॒य॒द्ध्व॒-म्प्या॒य॒द्ध्व॒ म॒घ्नि॒याः॒ । 18) अ॒घ्नि॒या॒ दे॒व॒भा॒ग-न्दे॑वभा॒ग म॑घ्निया अघ्निया देवभा॒गम् । 19) दे॒व॒भा॒ग मूर्ज॑स्वती॒ रूर्ज॑स्वती-र्देवभा॒ग-न्दे॑वभा॒ग मूर्ज॑स्वतीः । 19) दे॒व॒भा॒गमिति॑ देव - भा॒गम् । 20) ऊर्ज॑स्वतीः॒ पय॑स्वतीः॒ पय॑स्वती॒ रूर्ज॑स्वती॒ रूर्ज॑स्वतीः॒ पय॑स्वतीः । 21) पय॑स्वतीः प्र॒जाव॑तीः प्र॒जाव॑तीः॒ पय॑स्वतीः॒ पय॑स्वतीः प्र॒जाव॑तीः । 22) प्र॒जाव॑तीरनमी॒वा अ॑नमी॒वाः प्र॒जाव॑तीः प्र॒जाव॑तीरनमी॒वाः । 22) प्र॒जाव॑ती॒रिति॑ प्र॒जा - व॒तीः॒ । 23) अ॒न॒मी॒वा अ॑य॒क्ष्मा अ॑य॒क्ष्मा अ॑नमी॒वा अ॑नमी॒वा अ॑य॒क्ष्माः । 24) अ॒य॒क्ष्मा मा मा ऽय॒क्ष्मा अ॑य॒क्ष्मा मा । 25) मा वो॑ वो॒ मा मा वः॑ । 26) व॒-स्स्ते॒न-स्स्ते॒नो वो॑ व-स्स्ते॒नः । 27) स्ते॒न ई॑शतेशत स्ते॒न-स्स्ते॒न ई॑शत । 28) ई॒श॒त॒ मा मेश॑तेशत॒ मा । 29) मा ऽघशग्ं॑सो॒ ऽघशग्ं॑सो॒ मा मा ऽघशग्ं॑सः । 30) अ॒घशग्ं॑सो रु॒द्रस्य॑ रु॒द्रस्या॒ घशग्ं॑सो॒ ऽघशग्ं॑सो रु॒द्रस्य॑ । 30) अ॒घशग्ं॑स॒ इत्य॒घ - श॒ग्ं॒सः॒ । 31) रु॒द्रस्य॑ हे॒तिर्-हे॒ती रु॒द्रस्य॑ रु॒द्रस्य॑ हे॒तिः । 32) हे॒तिः परि॒ परि॑ हे॒तिर्-हे॒तिः परि॑ । 33) परि॑ वो वः॒ परि॒ परि॑ वः । 34) वो॒ वृ॒ण॒क्तु॒ वृ॒ण॒क्तु॒ वो॒ वो॒ वृ॒ण॒क्तु॒ । 35) वृ॒ण॒क्तु॒ ध्रु॒वा ध्रु॒वा वृ॑णक्तु वृणक्तु ध्रु॒वाः । 36) ध्रु॒वा अ॒स्मि-न्न॒स्मि-न्ध्रु॒वा ध्रु॒वा अ॒स्मिन्न् । 37) अ॒स्मि-न्गोप॑तौ॒ गोप॑ता व॒स्मि-न्न॒स्मि-न्गोप॑तौ । 38) गोप॑तौ स्यात स्यात॒ गोप॑तौ॒ गोप॑तौ स्यात । 38) गोप॑ता॒विति॒ गो - प॒तौ॒ । 39) स्या॒त॒ ब॒ह्वी-र्ब॒ह्वी-स्स्या॑त स्यात ब॒ह्वीः । 40) ब॒ह्वीर्यज॑मानस्य॒ यज॑मानस्य ब॒ह्वी-र्ब॒ह्वीर्यज॑मानस्य । 41) यज॑मानस्य प॒शू-न्प॒शून्. यज॑मानस्य॒ यज॑मानस्य प॒शून् । 42) प॒शू-न्पा॑हि पाहि प॒शू-न्प॒शू-न्पा॑हि । 43) पा॒हीति॑ पाहि । ॥ 1 ॥ (43/49) ॥ अ. 1 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
1) य॒ज्ञस्य॑ घो॒ष-द्घो॒ष-द्य॒ज्ञस्य॑ य॒ज्ञस्य॑ घो॒षत् । 2) घो॒षद॑स्यसि घो॒ष-द्घो॒षद॑सि । 3) अ॒सि॒ प्रत्यु॑ष्ट॒-म्प्रत्यु॑ष्ट मस्यसि॒ प्रत्यु॑ष्टम् । 4) प्रत्यु॑ष्ट॒ग्ं॒ रक्षो॒ रक्षः॒ प्रत्यु॑ष्ट॒-म्प्रत्यु॑ष्ट॒ग्ं॒ रक्षः॑ । 4) प्रत्यु॑ष्ट॒मिति॒ प्रति॑ - उ॒ष्ट॒म् । 5) रक्षः॒ प्रत्यु॑ष्टाः॒ प्रत्यु॑ष्टा॒ रक्षो॒ रक्षः॒ प्रत्यु॑ष्टाः । 6) प्रत्यु॑ष्टा॒ अरा॑त॒यो ऽरा॑तयः॒ प्रत्यु॑ष्टाः॒ प्रत्यु॑ष्टा॒ अरा॑तयः । 6) प्रत्यु॑ष्टा॒ इति॒ प्रति॑ - उ॒ष्टाः॒ । 7) अरा॑तयः॒ प्र प्रारा॑त॒यो ऽरा॑तयः॒ प्र । 8) प्रे य मि॒य-म्प्र प्रे यम् । 9) इ॒य म॑गादगादि॒य मि॒य म॑गात् । 10) अ॒गा॒-द्धि॒षणा॑ धि॒षणा॑ ऽगादगा-द्धि॒षणा᳚ । 11) धि॒षणा॑ ब॒र्॒हि-र्ब॒र्॒हि-र्धि॒षणा॑ धि॒षणा॑ ब॒र्॒हिः । 12) ब॒र्॒हिरच्छाच्छ॑ ब॒र्॒हि-र्ब॒र्॒हिरच्छ॑ । 13) अच्छ॒ मनु॑ना॒ मनु॒ना ऽच्छाच्छ॒ मनु॑ना । 14) मनु॑ना कृ॒ता कृ॒ता मनु॑ना॒ मनु॑ना कृ॒ता । 15) कृ॒ता स्व॒धया᳚ स्व॒धया॑ कृ॒ता कृ॒ता स्व॒धया᳚ । 16) स्व॒धया॒ वित॑ष्टा॒ वित॑ष्टा स्व॒धया᳚ स्व॒धया॒ वित॑ष्टा । 16) स्व॒धयेति॑ स्व - धया᳚ । 17) वित॑ष्टा॒ ते ते वित॑ष्टा॒ वित॑ष्टा॒ ते । 17) वित॒ष्टेति॒ वि - त॒ष्टा॒ । 18) त आ ते त आ । 19) आ व॑हन्ति वह॒न्त्या व॑हन्ति । 20) व॒ह॒न्ति॒ क॒वयः॑ क॒वयो॑ वहन्ति वहन्ति क॒वयः॑ । 21) क॒वयः॑ पु॒रस्ता᳚-त्पु॒रस्ता᳚-त्क॒वयः॑ क॒वयः॑ पु॒रस्ता᳚त् । 22) पु॒रस्ता᳚-द्दे॒वेभ्यो॑ दे॒वेभ्यः॑ पु॒रस्ता᳚-त्पु॒रस्ता᳚-द्दे॒वेभ्यः॑ । 23) दे॒वेभ्यो॒ जुष्ट॒-ञ्जुष्ट॑-न्दे॒वेभ्यो॑ दे॒वेभ्यो॒ जुष्ट᳚म् । 24) जुष्ट॑ मि॒हे ह जुष्ट॒-ञ्जुष्ट॑ मि॒ह । 25) इ॒ह ब॒र्॒हि-र्ब॒र्॒हिरि॒हे ह ब॒र्॒हिः । 26) ब॒र्॒हिरा॒सद॑ आ॒सदे॑ ब॒र्॒हि-र्ब॒र्॒हिरा॒सदे᳚ । 27) आ॒सदे॑ दे॒वाना᳚-न्दे॒वाना॑ मा॒सद॑ आ॒सदे॑ दे॒वाना᳚म् । 27) आ॒सद॒ इत्या᳚ - सदे᳚ । 28) दे॒वाना᳚-म्परिषू॒त-म्प॑रिषू॒त-न्दे॒वाना᳚-न्दे॒वाना᳚-म्परिषू॒तम् । 29) प॒रि॒षू॒त म॑स्यसि परिषू॒त-म्प॑रिषू॒त म॑सि । 29) प॒रि॒षू॒तमिति॑ परि - सू॒तम् । 30) अ॒सि॒ व॒र्॒षवृ॑द्धं-वँ॒र्॒षवृ॑द्ध मस्यसि व॒र्॒षवृ॑द्धम् । 31) व॒र्॒षवृ॑द्ध मस्यसि व॒र्॒षवृ॑द्धं-वँ॒र्॒षवृ॑द्ध मसि । 31) व॒र्॒षवृ॑द्ध॒मिति॑ व॒र्॒ष - वृ॒द्ध॒म् । 32) अ॒सि॒ देव॑बर्हि॒-र्देव॑बर्हिरस्यसि॒ देव॑बर्हिः । 33) देव॑बर्हि॒-र्मा मा देव॑बर्हि॒-र्देव॑बर्हि॒-र्मा । 33) देव॑बर्हि॒रिति॒ देव॑ - ब॒र्॒हिः॒ । 34) मा त्वा᳚ त्वा॒ मा मा त्वा᳚ । 35) त्वा॒ ऽन्वग॒न्व-क्त्वा᳚ त्वा॒ ऽन्वक् । 36) अ॒न्व-म्मा मा ऽन्वग॒न्व-म्मा । 37) मा ति॒र्य-क्ति॒र्य-म्मा मा ति॒र्यक् । 38) ति॒र्य-क्पर्व॒ पर्व॑ ति॒र्य-क्ति॒र्य-क्पर्व॑ । 39) पर्व॑ ते ते॒ पर्व॒ पर्व॑ ते । 40) ते॒ रा॒द्ध्या॒स॒ग्ं॒ रा॒द्ध्या॒स॒-न्ते॒ ते॒ रा॒द्ध्या॒स॒म् । 41) रा॒द्ध्या॒स॒ मा॒च्छे॒त्ता ऽऽच्छे॒त्ता रा᳚द्ध्यासग्ं राद्ध्यास माच्छे॒त्ता । 42) आ॒च्छे॒त्ता ते॑ त आच्छे॒त्ता ऽऽच्छे॒त्ता ते᳚ । 42) आ॒च्छे॒त्तेत्या᳚ - छे॒त्ता । 43) ते॒ मा मा ते॑ ते॒ मा । 44) मा रि॑षग्ं रिष॒-म्मा मा रि॑षम् । 45) रि॒ष॒-न्देव॑बर्हि॒-र्देव॑बर्ही रिषग्ं रिष॒-न्देव॑बर्हिः । 46) देव॑बर्हि-श्श॒तव॑ल्शग्ं श॒तव॑ल्श॒-न्देव॑बर्हि॒-र्देव॑बर्हि-श्श॒तव॑ल्शम् । 46) देव॑बर्हि॒रिति॒ देव॑ - ब॒र्॒हिः॒ । 47) श॒तव॑ल्शं॒-विँ वि श॒तव॑ल्शग्ं श॒तव॑ल्शं॒-विँ । 47) श॒तव॑ल्श॒मिति॑ श॒त - व॒ल्श॒म् । 48) वि रो॑ह रोह॒ वि वि रो॑ह । 49) रो॒ह॒ स॒हस्र॑वल्शा-स्स॒हस्र॑वल्शा रोह रोह स॒हस्र॑वल्शाः । 50) स॒हस्र॑वल्शा॒ वि वि स॒हस्र॑वल्शा-स्स॒हस्र॑वल्शा॒ वि । 50) स॒हस्र॑वल्शा॒ इति॑ स॒हस्र॑ - व॒ल्॒.शाः॒ । ॥ 2 ॥ (50/62)
1) वि व॒यं-वँ॒यं-विँ वि व॒यम् । 2) व॒यग्ं रु॑हेम रुहेम व॒यं-वँ॒यग्ं रु॑हेम । 3) रु॒हे॒म॒ पृ॒थि॒व्याः पृ॑थि॒व्या रु॑हेम रुहेम पृथि॒व्याः । 4) पृ॒थि॒व्या-स्स॒म्पृच॑-स्स॒म्पृचः॑ पृथि॒व्याः पृ॑थि॒व्या-स्स॒म्पृचः॑ । 5) स॒म्पृचः॑ पाहि पाहि स॒म्पृच॑-स्स॒म्पृचः॑ पाहि । 5) स॒म्पृच॒ इति॑ सं - पृचः॑ । 6) पा॒हि॒ सु॒स॒म्भृता॑ सुस॒म्भृता॑ पाहि पाहि सुस॒म्भृता᳚ । 7) सु॒स॒म्भृता᳚ त्वा त्वा सुस॒म्भृता॑ सुस॒म्भृता᳚ त्वा । 7) सु॒स॒म्भृतेति॑ सु - स॒म्भृता᳚ । 8) त्वा॒ सग्ं स-न्त्वा᳚ त्वा॒ सम् । 9) स-म्भ॑रामि भरामि॒ सग्ं स-म्भ॑रामि । 10) भ॒रा॒म्यदि॑त्या॒ अदि॑त्यै भरामि भरा॒म्यदि॑त्यै । 11) अदि॑त्यै॒ रास्ना॒ रास्ना ऽदि॑त्या॒ अदि॑त्यै॒ रास्ना᳚ । 12) रास्ना᳚ ऽस्यसि॒ रास्ना॒ रास्ना॑ ऽसि । 13) अ॒सी॒न्द्रा॒ण्या इ॑न्द्रा॒ण्या अ॑स्यसीन्द्रा॒ण्यै । 14) इ॒न्द्रा॒ण्यै स॒न्नह॑नग्ं स॒न्नह॑न मिन्द्रा॒ण्या इ॑न्द्रा॒ण्यै स॒न्नह॑नम् । 15) स॒न्नह॑न-म्पू॒षा पू॒षा स॒न्नह॑नग्ं स॒न्नह॑न-म्पू॒षा । 15) स॒न्नह॑न॒मिति॑ सं - नह॑नम् । 16) पू॒षा ते॑ ते पू॒षा पू॒षा ते᳚ । 17) ते॒ ग्र॒न्थि-ङ्ग्र॒न्थि-न्ते॑ ते ग्र॒न्थिम् । 18) ग्र॒न्थि-ङ्ग्र॑थ्नातु ग्रथ्नातु ग्र॒न्थि-ङ्ग्र॒न्थि-ङ्ग्र॑थ्नातु । 19) ग्र॒थ्ना॒तु॒ स स ग्र॑थ्नातु ग्रथ्नातु॒ सः । 20) स ते॑ ते॒ स स ते᳚ । 21) ते॒ मा मा ते॑ ते॒ मा । 22) मा ऽऽस्था᳚-थ्स्था॒दा मा मा ऽऽस्था᳚त् । 23) आ स्था᳚-थ्स्था॒दा स्था᳚त् । 24) स्था॒दिन्द्र॒स्ये न्द्र॑स्य स्था-थ्स्था॒दिन्द्र॑स्य । 25) इन्द्र॑स्य त्वा॒ त्वेन्द्र॒स्ये न्द्र॑स्य त्वा । 26) त्वा॒ बा॒हुभ्या᳚-म्बा॒हुभ्या᳚-न्त्वा त्वा बा॒हुभ्या᳚म् । 27) बा॒हुभ्या॒ मुदु-द्बा॒हुभ्या᳚-म्बा॒हुभ्या॒ मुत् । 27) बा॒हुभ्या॒मिति॑ बा॒हु - भ्या॒म् । 28) उ-द्य॑च्छे यच्छ॒ उदु-द्य॑च्छे । 29) य॒च्छे॒ बृह॒स्पते॒-र्बृह॒स्पते᳚र्यच्छे यच्छे॒ बृह॒स्पतेः᳚ । 30) बृह॒स्पते᳚-र्मू॒र्ध्ना मू॒र्ध्ना बृह॒स्पते॒-र्बृह॒स्पते᳚-र्मू॒र्ध्ना । 31) मू॒र्ध्ना ह॑रामि हरामि मू॒र्ध्ना मू॒र्ध्ना ह॑रामि । 32) ह॒रा॒ म्यु॒रू॑रु ह॑रामि हरा म्यु॒रु । 33) उ॒र्व॑न्तरि॑क्ष म॒न्तरि॑क्ष मु॒रू᳚(1॒)र्व॑न्तरि॑क्षम् । 34) अ॒न्तरि॑क्ष॒ मन्वन्व॒न्तरि॑क्ष म॒न्तरि॑क्ष॒ मनु॑ । 35) अन्वि॑ही॒ह्यन्वन्वि॑हि । 36) इ॒हि॒ दे॒व॒ङ्ग॒म-न्दे॑वङ्ग॒म मि॑हीहि देवङ्ग॒मम् । 37) दे॒व॒ङ्ग॒म म॑स्यसि देवङ्ग॒म-न्दे॑वङ्ग॒म म॑सि । 37) दे॒व॒ङ्ग॒ममिति॑ देवम् - ग॒मम् । 38) अ॒सीत्य॑सि । ॥ 3 ॥ (38/43) ॥ अ. 2 ॥
1) शुन्ध॑द्ध्व॒-न्दैव्या॑य॒ दैव्या॑य॒ शुन्ध॑द्ध्व॒ग्ं॒ शुन्ध॑द्ध्व॒-न्दैव्या॑य । 2) दैव्या॑य॒ कर्म॑णे॒ कर्म॑णे॒ दैव्या॑य॒ दैव्या॑य॒ कर्म॑णे । 3) कर्म॑णे देवय॒ज्यायै॑ देवय॒ज्यायै॒ कर्म॑णे॒ कर्म॑णे देवय॒ज्यायै᳚ । 4) दे॒व॒य॒ज्यायै॑ मात॒रिश्व॑नो मात॒रिश्व॑नो देवय॒ज्यायै॑ देवय॒ज्यायै॑ मात॒रिश्व॑नः । 4) दे॒व॒य॒ज्याया॒ इति॑ देव - य॒ज्यायै᳚ । 5) मा॒त॒रिश्व॑नो घ॒र्मो घ॒र्मो मा॑त॒रिश्व॑नो मात॒रिश्व॑नो घ॒र्मः । 6) घ॒र्मो᳚ ऽस्यसि घ॒र्मो घ॒र्मो॑ ऽसि । 7) अ॒सि॒ द्यौ-र्द्यौर॑स्यसि॒ द्यौः । 8) द्यौर॑स्यसि॒ द्यौ-र्द्यौर॑सि । 9) अ॒सि॒ पृ॒थि॒वी पृ॑थि॒व्य॑स्यसि पृथि॒वी । 10) पृ॒थि॒व्य॑स्यसि पृथि॒वी पृ॑थि॒व्य॑सि । 11) अ॒सि॒ वि॒श्वधा॑या वि॒श्वधा॑या अस्यसि वि॒श्वधा॑याः । 12) वि॒श्वधा॑या अस्यसि वि॒श्वधा॑या वि॒श्वधा॑या असि । 12) वि॒श्वधा॑या॒ इति॑ वि॒श्व - धा॒याः॒ । 13) अ॒सि॒ प॒र॒मेण॑ पर॒मेणा᳚स्यसि पर॒मेण॑ । 14) प॒र॒मेण॒ धाम्ना॒ धाम्ना॑ पर॒मेण॑ पर॒मेण॒ धाम्ना᳚ । 15) धाम्ना॒ दृग्ंह॑स्व॒ दृग्ंह॑स्व॒ धाम्ना॒ धाम्ना॒ दृग्ंह॑स्व । 16) दृग्ंह॑स्व॒ मा मा दृग्ंह॑स्व॒ दृग्ंह॑स्व॒ मा । 17) मा ह्वा᳚र्-ह्वा॒-र्मा मा ह्वाः᳚ । 18) ह्वा॒-र्वसू॑नां॒-वँसू॑नाग् ह्वार्-ह्वा॒-र्वसू॑नाम् । 19) वसू॑ना-म्प॒वित्र॑-म्प॒वित्रं॒-वँसू॑नां॒-वँसू॑ना-म्प॒वित्र᳚म् । 20) प॒वित्र॑ मस्यसि प॒वित्र॑-म्प॒वित्र॑ मसि । 21) अ॒सि॒ श॒तधा॑रग्ं श॒तधा॑र मस्यसि श॒तधा॑रम् । 22) श॒तधा॑रं॒-वँसू॑नां॒-वँसू॑नाग्ं श॒तधा॑रग्ं श॒तधा॑रं॒-वँसू॑नाम् । 22) श॒तधा॑र॒मिति॑ श॒त - धा॒र॒म् । 23) वसू॑ना-म्प॒वित्र॑-म्प॒वित्रं॒-वँसू॑नां॒-वँसू॑ना-म्प॒वित्र᳚म् । 24) प॒वित्र॑ मस्यसि प॒वित्र॑-म्प॒वित्र॑ मसि । 25) अ॒सि॒ स॒हस्र॑धारग्ं स॒हस्र॑धार मस्यसि स॒हस्र॑धारम् । 26) स॒हस्र॑धारग्ं हु॒तो हु॒त-स्स॒हस्र॑धारग्ं स॒हस्र॑धारग्ं हु॒तः । 26) स॒हस्र॑धार॒मिति॑ स॒हस्र॑ - धा॒र॒म् । 27) हु॒त-स्स्तो॒क-स्स्तो॒को हु॒तो हु॒त-स्स्तो॒कः । 28) स्तो॒को हु॒तो हु॒त-स्स्तो॒क-स्स्तो॒को हु॒तः । 29) हु॒तो द्र॒फ्सो द्र॒फ्सो हु॒तो हु॒तो द्र॒फ्सः । 30) द्र॒फ्सो᳚ ऽग्नये॒ ऽग्नये᳚ द्र॒फ्सो द्र॒फ्सो᳚ ऽग्नये᳚ । 31) अ॒ग्नये॑ बृह॒ते बृ॑ह॒ते᳚ ऽग्नये॒ ऽग्नये॑ बृह॒ते । 32) बृ॒ह॒ते नाका॑य॒ नाका॑य बृह॒ते बृ॑ह॒ते नाका॑य । 33) नाका॑य॒ स्वाहा॒ स्वाहा॒ नाका॑य॒ नाका॑य॒ स्वाहा᳚ । 34) स्वाहा॒ द्यावा॑पृथि॒वीभ्या॒-न्द्यावा॑पृथि॒वीभ्या॒ग्॒ स्वाहा॒ स्वाहा॒ द्यावा॑पृथि॒वीभ्या᳚म् । 35) द्यावा॑पृथि॒वीभ्या॒ग्ं॒ सा सा द्यावा॑पृथि॒वीभ्या॒-न्द्यावा॑पृथि॒वीभ्या॒ग्ं॒ सा । 35) द्यावा॑पृथि॒वीभ्या॒मिति॒ द्यावा᳚ - पृ॒थि॒वीभ्या᳚म् । 36) सा वि॒श्वायु॑-र्वि॒श्वायु॒-स्सा सा वि॒श्वायुः॑ । 37) वि॒श्वायु॒-स्सा सा वि॒श्वायु॑-र्वि॒श्वायु॒-स्सा । 37) वि॒श्वायु॒रिति॑ वि॒श्व - आ॒युः॒ । 38) सा वि॒श्वव्य॑चा वि॒श्वव्य॑चा॒-स्सा सा वि॒श्वव्य॑चाः । 39) वि॒श्वव्य॑चा॒-स्सा सा वि॒श्वव्य॑चा वि॒श्वव्य॑चा॒-स्सा । 39) वि॒श्वव्य॑चा॒ इति॑ वि॒श्व - व्य॒चाः॒ । 40) सा वि॒श्वक॑र्मा वि॒श्वक॑र्मा॒ सा सा वि॒श्वक॑र्मा । 41) वि॒श्वक॑र्मा॒ सग्ं सं-विँ॒श्वक॑र्मा वि॒श्वक॑र्मा॒ सम् । 41) वि॒श्वक॒र्मेति॑ वि॒श्व - क॒र्मा॒ । 42) स-म्पृ॑च्यद्ध्व-म्पृच्यद्ध्व॒ग्ं॒ सग्ं स-म्पृ॑च्यद्ध्वम् । 43) पृ॒च्य॒द्ध्व॒ मृ॒ता॒व॒री॒र्॒ ऋ॒ता॒व॒रीः॒ पृ॒च्य॒द्ध्व॒-म्पृ॒च्य॒द्ध्व॒ मृ॒ता॒व॒रीः॒ । 44) ऋ॒ता॒व॒री॒ रू॒र्मिणी॑ रू॒र्मिणीर्॑. ऋतावरीर्-ऋतावरी रू॒र्मिणीः᳚ । 44) ऋ॒ता॒व॒री॒रित्यृ॑त - व॒रीः॒ । 45) ऊ॒र्मिणी॒-र्मधु॑मत्तमा॒ मधु॑मत्तमा ऊ॒र्मिणी॑ रू॒र्मिणी॒-र्मधु॑मत्तमाः । 46) मधु॑मत्तमा म॒न्द्रा म॒न्द्रा मधु॑मत्तमा॒ मधु॑मत्तमा म॒न्द्राः । 46) मधु॑मत्तमा॒ इति॒ मधु॑मत् - त॒माः॒ । 47) म॒न्द्रा धन॑स्य॒ धन॑स्य म॒न्द्रा म॒न्द्रा धन॑स्य । 48) धन॑स्य सा॒तये॑ सा॒तये॒ धन॑स्य॒ धन॑स्य सा॒तये᳚ । 49) सा॒तये॒ सोमे॑न॒ सोमे॑न सा॒तये॑ सा॒तये॒ सोमे॑न । 50) सोमे॑न त्वा त्वा॒ सोमे॑न॒ सोमे॑न त्वा । 51) त्वा-ऽऽ त्वा॒ त्वा । 52) आ त॑नच्मि तन॒च्म्या त॑नच्मि । 53) त॒न॒च्मीन्द्रा॒ये न्द्रा॑य तनच्मि तन॒च्मीन्द्रा॑य । 54) इन्द्रा॑य॒ दधि॒ दधीन्द्रा॒ये न्द्रा॑य॒ दधि॑ । 55) दधि॒ विष्णो॒ विष्णो॒ दधि॒ दधि॒ विष्णो᳚ । 56) विष्णो॑ ह॒व्यग्ं ह॒व्यं-विँष्णो॒ विष्णो॑ ह॒व्यम् । 56) विष्णो॒ इति॒ विष्णो᳚ । 57) ह॒व्यग्ं र॑क्षस्व रक्षस्व ह॒व्यग्ं ह॒व्यग्ं र॑क्षस्व । 58) र॒क्ष॒स्वेति॑ रक्षस्व । ॥ 4 ॥ (58/69) ॥ अ. 3 ॥
1) कर्म॑णे वां-वाँ॒-ङ्कर्म॑णे॒ कर्म॑णे वाम् । 2) वा॒-न्दे॒वेभ्यो॑ दे॒वेभ्यो॑ वां-वाँ-न्दे॒वेभ्यः॑ । 3) दे॒वेभ्य॑-श्शकेयग्ं शकेय-न्दे॒वेभ्यो॑ दे॒वेभ्य॑-श्शकेयम् । 4) श॒के॒यं॒-वेँषा॑य॒ वेषा॑य शकेयग्ं शकेयं॒-वेँषा॑य । 5) वेषा॑य त्वा त्वा॒ वेषा॑य॒ वेषा॑य त्वा । 6) त्वा॒ प्रत्यु॑ष्ट॒-म्प्रत्यु॑ष्ट-न्त्वा त्वा॒ प्रत्यु॑ष्टम् । 7) प्रत्यु॑ष्ट॒ग्ं॒ रक्षो॒ रक्षः॒ प्रत्यु॑ष्ट॒-म्प्रत्यु॑ष्ट॒ग्ं॒ रक्षः॑ । 7) प्रत्यु॑ष्ट॒मिति॒ प्रति॑ - उ॒ष्ट॒म् । 8) रक्षः॒ प्रत्यु॑ष्टाः॒ प्रत्यु॑ष्टा॒ रक्षो॒ रक्षः॒ प्रत्यु॑ष्टाः । 9) प्रत्यु॑ष्टा॒ अरा॑त॒यो ऽरा॑तयः॒ प्रत्यु॑ष्टाः॒ प्रत्यु॑ष्टा॒ अरा॑तयः । 9) प्रत्यु॑ष्टा॒ इति॒ प्रति॑ - उ॒ष्टाः॒ । 10) अरा॑तयो॒ धू-र्धूररा॑त॒यो ऽरा॑तयो॒ धूः । 11) धूर॑स्यसि॒ धू-र्धूर॑सि । 12) अ॒सि॒ धूर्व॒ धूर्वा᳚स्यसि॒ धूर्व॑ । 13) धूर्व॒ धूर्व॑न्त॒-न्धूर्व॑न्त॒-न्धूर्व॒ धूर्व॒ धूर्व॑न्तम् । 14) धूर्व॑न्त॒-न्धूर्व॒ धूर्व॒ धूर्व॑न्त॒-न्धूर्व॑न्त॒-न्धूर्व॑ । 15) धूर्व॒ त-न्त-न्धूर्व॒ धूर्व॒ तम् । 16) तं-योँ यस्त-न्तं-यः ँ। 17) यो᳚ ऽस्मा न॒स्मान्. यो यो᳚ ऽस्मान् । 18) अ॒स्मा-न्धूर्व॑ति॒ धूर्व॑त्य॒स्मा न॒स्मा-न्धूर्व॑ति । 19) धूर्व॑ति॒ त-न्त-न्धूर्व॑ति॒ धूर्व॑ति॒ तम् । 20) त-न्धू᳚र्व धूर्व॒ त-न्त-न्धू᳚र्व । 21) धू॒र्व॒ यं-यँ-न्धू᳚र्व धूर्व॒ यम् । 22) यं-वँ॒यं-वँ॒यं-यंँ यं-वँ॒यम् । 23) व॒य-न्धूर्वा॑मो॒ धूर्वा॑मो व॒यं-वँ॒य-न्धूर्वा॑मः । 24) धूर्वा॑म॒स्त्व-न्त्व-न्धूर्वा॑मो॒ धूर्वा॑म॒स्त्वम् । 25) त्व-न्दे॒वाना᳚-न्दे॒वाना॒-न्त्व-न्त्व-न्दे॒वाना᳚म् । 26) दे॒वाना॑ मस्यसि दे॒वाना᳚-न्दे॒वाना॑ मसि । 27) अ॒सि॒ सस्नि॑तम॒ग्ं॒ सस्नि॑तम मस्यसि॒ सस्नि॑तमम् । 28) सस्नि॑तम॒-म्पप्रि॑तम॒-म्पप्रि॑तम॒ग्ं॒ सस्नि॑तम॒ग्ं॒ सस्नि॑तम॒-म्पप्रि॑तमम् । 28) सस्नि॑तम॒मिति॒ सस्नि॑ - त॒म॒म् । 29) पप्रि॑तम॒-ञ्जुष्ट॑तम॒-ञ्जुष्ट॑तम॒-म्पप्रि॑तम॒-म्पप्रि॑तम॒-ञ्जुष्ट॑तमम् । 29) पप्रि॑तम॒मिति॒ पप्रि॑ - त॒म॒म् । 30) जुष्ट॑तमं॒-वँह्नि॑तमं॒-वँह्नि॑तम॒-ञ्जुष्ट॑तम॒-ञ्जुष्ट॑तमं॒-वँह्नि॑तमम् । 30) जुष्ट॑तम॒मिति॒ जुष्ट॑ - त॒म॒म् । 31) वह्नि॑तम-न्देव॒हूत॑म-न्देव॒हूत॑मं॒-वँह्नि॑तमं॒-वँह्नि॑तम-न्देव॒हूत॑मम् । 31) वह्नि॑तम॒मिति॒ वह्नि॑ - त॒म॒म् । 32) दे॒व॒हूत॑म॒ मह्रु॑त॒ मह्रु॑त-न्देव॒हूत॑म-न्देव॒हूत॑म॒ मह्रु॑तम् । 32) दे॒व॒हूत॑म॒मिति॑ देव - हूत॑मम् । 33) अह्रु॑त मस्य॒स्यह्रु॑त॒ मह्रु॑त मसि । 34) अ॒सि॒ ह॒वि॒र्धानग्ं॑ हवि॒र्धान॑ मस्यसि हवि॒र्धान᳚म् । 35) ह॒वि॒र्धान॒-न्दृग्ंह॑स्व॒ दृग्ंह॑स्व हवि॒र्धानग्ं॑ हवि॒र्धान॒-न्दृग्ंह॑स्व । 35) ह॒वि॒र्धान॒मिति॑ हविः - धान᳚म् । 36) दृग्ंह॑स्व॒ मा मा दृग्ंह॑स्व॒ दृग्ंह॑स्व॒ मा । 37) मा ह्वा᳚र्-ह्वा॒-र्मा मा ह्वाः᳚ । 38) ह्वा॒-र्मि॒त्रस्य॑ मि॒त्रस्य॑ ह्वार्-ह्वा-र्मि॒त्रस्य॑ । 39) मि॒त्रस्य॑ त्वा त्वा मि॒त्रस्य॑ मि॒त्रस्य॑ त्वा । 40) त्वा॒ चक्षु॑षा॒ चक्षु॑षा त्वा त्वा॒ चक्षु॑षा । 41) चक्षु॑षा॒ प्र प्र चक्षु॑षा॒ चक्षु॑षा॒ प्र । 42) प्रेक्ष॑ ईक्षे॒ प्र प्रेक्षे᳚ । 43) ई॒क्षे॒ मा मेक्ष॑ ईक्षे॒ मा । 44) मा भे-र्भे-र्मा मा भेः । 45) भे-र्मा मा भे-र्भे-र्मा । 46) मा सग्ं स-म्मा मा सम् । 47) सं-विँ॑क्था विक्था॒-स्सग्ं सं-विँ॑क्थाः । 48) वि॒क्था॒ मा मा वि॑क्था विक्था॒ मा । 49) मा त्वा᳚ त्वा॒ मा मा त्वा᳚ । 50) त्वा॒ हि॒ग्ं॒सि॒ष॒ग्ं॒हि॒ग्ं॒सि॒ष॒-न्त्वा॒ त्वा॒ हि॒ग्ं॒सि॒ष॒म् । ॥ 5 ॥ (50/58)
1) हि॒ग्ं॒सि॒ष॒ मु॒रू॑रु हिग्ं॑सिषग्ं हिग्ंसिष मु॒रु । 2) उ॒रु वाता॑य॒ वाता॑यो॒रू॑रु वाता॑य । 3) वाता॑य दे॒वस्य॑ दे॒वस्य॒ वाता॑य॒ वाता॑य दे॒वस्य॑ । 4) दे॒वस्य॑ त्वा त्वा दे॒वस्य॑ दे॒वस्य॑ त्वा । 5) त्वा॒ स॒वि॒तु-स्स॑वि॒तुस्त्वा᳚ त्वा सवि॒तुः । 6) स॒वि॒तुः प्र॑स॒वे प्र॑स॒वे स॑वि॒तु-स्स॑वि॒तुः प्र॑स॒वे । 7) प्र॒स॒वे᳚ ऽश्विनो॑र॒श्विनोः᳚ प्रस॒वे प्र॑स॒वे᳚ ऽश्विनोः᳚ । 7) प्र॒स॒व इति॑ प्र - स॒वे । 8) अ॒श्विनो᳚-र्बा॒हुभ्या᳚-म्बा॒हुभ्या॑ म॒श्विनो॑र॒श्विनो᳚-र्बा॒हुभ्या᳚म् । 9) बा॒हुभ्या᳚-म्पू॒ष्णः पू॒ष्णो बा॒हुभ्या᳚-म्बा॒हुभ्या᳚-म्पू॒ष्णः । 9) बा॒हुभ्या॒मिति॑ बा॒हु - भ्या॒म् । 10) पू॒ष्णो हस्ता᳚भ्या॒ग्ं॒ हस्ता᳚भ्या-म्पू॒ष्णः पू॒ष्णो हस्ता᳚भ्याम् । 11) हस्ता᳚भ्या म॒ग्नये॒ ऽग्नये॒ हस्ता᳚भ्या॒ग्ं॒ हस्ता᳚भ्या म॒ग्नये᳚ । 12) अ॒ग्नये॒ जुष्ट॒-ञ्जुष्ट॑ म॒ग्नये॒ ऽग्नये॒ जुष्ट᳚म् । 13) जुष्ट॒न्नि-र्णि-र्जुष्ट॒-ञ्जुष्ट॒न्निः । 14) नि-र्व॑पामि वपामि॒ नि-र्णि-र्व॑पामि । 15) व॒पा॒म्य॒ग्नीषोमा᳚भ्या म॒ग्नीषोमा᳚भ्यां-वँपामि वपाम्य॒ग्नीषोमा᳚भ्याम् । 16) अ॒ग्नीषोमा᳚भ्या मि॒द मि॒द म॒ग्नीषोमा᳚भ्या म॒ग्नीषोमा᳚भ्या मि॒दम् । 16) अ॒ग्नीषोमा᳚भ्या॒मित्य॒ग्नी - सोमा᳚भ्याम् । 17) इ॒द-न्दे॒वाना᳚-न्दे॒वाना॑ मि॒द मि॒द-न्दे॒वाना᳚म् । 18) दे॒वाना॑ मि॒द मि॒द-न्दे॒वाना᳚-न्दे॒वाना॑ मि॒दम् । 19) इ॒द मु॑ वु वि॒द मि॒द मु॑ । 20) उ॒ नो॒ न॒ उ॒ वु॒ नः॒ । 21) न॒-स्स॒ह स॒ह नो॑ न-स्स॒ह । 22) स॒ह स्फा॒त्यै स्फा॒त्यै स॒ह स॒ह स्फा॒त्यै । 23) स्फा॒त्यै त्वा᳚ त्वा स्फा॒त्यै स्फा॒त्यै त्वा᳚ । 24) त्वा॒ न न त्वा᳚ त्वा॒ न । 25) नारा᳚त्या॒ अरा᳚त्यै॒ न नारा᳚त्यै । 26) अरा᳚त्यै॒ सुव॒-स्सुव॒ ररा᳚त्या॒ अरा᳚त्यै॒ सुवः॑ । 27) सुव॑ र॒भ्य॑भि सुव॒-स्सुव॑ र॒भि । 28) अ॒भि वि व्या᳚(1॒)भ्य॑भि वि । 29) वि ख्ये॑ष-ङ्ख्येषं॒-विँ वि ख्ये॑षम् । 30) ख्ये॒षं॒-वैँ॒श्वा॒न॒रं-वैँ᳚श्वान॒र-ङ्ख्ये॑ष-ङ्ख्येषं-वैँश्वान॒रम् । 31) वै॒श्वा॒न॒र-ञ्ज्योति॒-र्ज्योति॑-र्वैश्वान॒रं-वैँ᳚श्वान॒र-ञ्ज्योतिः॑ । 32) ज्योति॒-र्दृग्ंह॑न्ता॒-न्दृग्ंह॑न्ता॒-ञ्ज्योति॒-र्ज्योति॒-र्दृग्ंह॑न्ताम् । 33) दृग्ंह॑न्ता॒-न्दुर्या॒ दुर्या॒ दृग्ंह॑न्ता॒-न्दृग्ंह॑न्ता॒-न्दुर्याः᳚ । 34) दुर्या॒ द्यावा॑पृथि॒व्यो-र्द्यावा॑पृथि॒व्यो-र्दुर्या॒ दुर्या॒ द्यावा॑पृथि॒व्योः । 35) द्यावा॑पृथि॒व्योरु॒रू॑रु द्यावा॑पृथि॒व्यो-र्द्यावा॑पृथि॒व्योरु॒रु । 35) द्यावा॑पृथि॒व्योरिति॒ द्यावा᳚ - पृ॒थि॒व्योः । 36) उ॒र्व॑न्तरि॑क्ष म॒न्तरि॑क्ष मु॒रू᳚(1॒)र्व॑न्तरि॑क्षम् । 37) अ॒न्तरि॑क्ष॒ मन्वन्व॒न्तरि॑क्ष म॒न्तरि॑क्ष॒ मनु॑ । 38) अन्वि॑ही॒ह्यन्वन्वि॑हि । 39) इ॒ह्यदि॑त्या॒ अदि॑त्या इही॒ह्यदि॑त्याः । 40) अदि॑त्यास्त्वा॒ त्वा ऽदि॑त्या॒ अदि॑त्यास्त्वा । 41) त्वो॒पस्थ॑ उ॒पस्थे᳚ त्वा त्वो॒पस्थे᳚ । 42) उ॒पस्थे॑ सादयामि सादया म्यु॒पस्थ॑ उ॒पस्थे॑ सादयामि । 42) उ॒पस्थ॒ इत्यु॒प - स्थे॒ । 43) सा॒द॒या॒म्यग्ने ऽग्ने॑ सादयामि सादया॒म्यग्ने᳚ । 44) अग्ने॑ ह॒व्यग्ं ह॒व्य मग्ने ऽग्ने॑ ह॒व्यम् । 45) ह॒व्यग्ं र॑क्षस्व रक्षस्व ह॒व्यग्ं ह॒व्यग्ं र॑क्षस्व । 46) र॒क्ष॒स्वेति॑ रक्षस्व । ॥ 6 ॥ (46/51) ॥ अ. 4 ॥
1) दे॒वो वो॑ वो दे॒वो दे॒वो वः॑ । 2) व॒-स्स॒वि॒ता स॑वि॒ता वो॑ व-स्सवि॒ता । 3) स॒वि॒तोदु-थ्स॑वि॒ता स॑वि॒तोत् । 4) उ-त्पु॑नातु पुना॒तूदु-त्पु॑नातु । 5) पु॒ना॒त्वच्छि॑द्रे॒णाच्छि॑द्रेण पुनातु पुना॒त्वच्छि॑द्रेण । 6) अच्छि॑द्रेण प॒वित्रे॑ण प॒वित्रे॒णाच्छि॑द्रे॒णाच्छि॑द्रेण प॒वित्रे॑ण । 7) प॒वित्रे॑ण॒ वसो॒-र्वसोः᳚ प॒वित्रे॑ण प॒वित्रे॑ण॒ वसोः᳚ । 8) वसो॒-स्सूर्य॑स्य॒ सूर्य॑स्य॒ वसो॒-र्वसो॒-स्सूर्य॑स्य । 9) सूर्य॑स्य र॒श्मिभी॑ र॒श्मिभि॒-स्सूर्य॑स्य॒ सूर्य॑स्य र॒श्मिभिः॑ । 10) र॒श्मिभि॒राप॒ आपो॑ र॒श्मिभी॑ र॒श्मिभि॒रापः॑ । 10) र॒श्मिभि॒रिति॑ र॒श्मि - भिः॒ । 11) आपो॑ देवी-र्देवी॒राप॒ आपो॑ देवीः । 12) दे॒वी॒र॒ग्रे॒पु॒वो॒ अ॒ग्रे॒पु॒वो॒ दे॒वी॒-र्दे॒वी॒र॒ग्रे॒पु॒वः॒ । 13) अ॒ग्रे॒पु॒वो॒ अ॒ग्रे॒गु॒वो॒ ऽग्रे॒गु॒वो॒ ऽग्रे॒पु॒वो॒ अ॒ग्रे॒पु॒वो॒ अ॒ग्रे॒गु॒वः॒ । 13) अ॒ग्रे॒पु॒व॒ इत्य॑ग्रे - पु॒वः॒ । 14) अ॒ग्रे॒गु॒वो ऽग्रे ऽग्रे᳚ ऽग्रेगुवो ऽग्रेगु॒वो ऽग्रे᳚ । 14) अ॒ग्रे॒गु॒व॒ इत्य॑ग्रे - गु॒वः॒ । 15) अग्र॑ इ॒म मि॒म मग्रे ऽग्र॑ इ॒मम् । 16) इ॒मं-यँ॒ज्ञं-यँ॒ज्ञ मि॒म मि॒मं-यँ॒ज्ञम् । 17) य॒ज्ञन्न॑यत नयत य॒ज्ञं-यँ॒ज्ञन्न॑यत । 18) न॒य॒ताग्रे ऽग्रे॑ नयत नय॒ताग्रे᳚ । 19) अग्रे॑ य॒ज्ञप॑तिं-यँ॒ज्ञप॑ति॒ मग्रे ऽग्रे॑ य॒ज्ञप॑तिम् । 20) य॒ज्ञप॑ति-न्धत्त धत्त य॒ज्ञप॑तिं-यँ॒ज्ञप॑ति-न्धत्त । 20) य॒ज्ञप॑ति॒मिति॑ य॒ज्ञ - प॒ति॒म् । 21) ध॒त्त॒ यु॒ष्मान्. यु॒ष्मा-न्ध॑त्त धत्त यु॒ष्मान् । 22) यु॒ष्मा निन्द्र॒ इन्द्रो॑ यु॒ष्मान्. यु॒ष्मा निन्द्रः॑ । 23) इन्द्रो॑ ऽवृणीतावृणी॒ते न्द्र॒ इन्द्रो॑ ऽवृणीत । 24) अ॒वृ॒णी॒त॒ वृ॒त्र॒तूर्ये॑ वृत्र॒तूर्ये॑ ऽवृणीतावृणीत वृत्र॒तूर्ये᳚ । 25) वृ॒त्र॒तूर्ये॑ यू॒यं-यूँ॒यं-वृँ॑त्र॒तूर्ये॑ वृत्र॒तूर्ये॑ यू॒यम् । 25) वृ॒त्र॒तूर्य॒ इति॑ वृत्र - तूर्ये᳚ । 26) यू॒य मिन्द्र॒ मिन्द्रं॑-यूँ॒यं-यूँ॒य मिन्द्र᳚म् । 27) इन्द्र॑ मवृणीद्ध्व मवृणीद्ध्व॒ मिन्द्र॒ मिन्द्र॑ मवृणीद्ध्वम् । 28) अ॒वृ॒णी॒द्ध्वं॒-वृँ॒त्र॒तूर्ये॑ वृत्र॒तूर्ये॑ ऽवृणीद्ध्व मवृणीद्ध्वं-वृँत्र॒तूर्ये᳚ । 29) वृ॒त्र॒तूर्ये॒ प्रोक्षि॑ताः॒ प्रोक्षि॑ता वृत्र॒तूर्ये॑ वृत्र॒तूर्ये॒ प्रोक्षि॑ताः । 29) वृ॒त्र॒तूर्य॒ इति॑ वृत्र - तूर्ये᳚ । 30) प्रोक्षि॑ता-स्स्थ स्थ॒ प्रोक्षि॑ताः॒ प्रोक्षि॑ता-स्स्थ । 30) प्रोक्षि॑ता॒ इति॒ प्र - उ॒क्षि॒ताः॒ । 31) स्था॒ग्नये॒ ऽग्नये᳚ स्थ स्था॒ग्नये᳚ । 32) अ॒ग्नये॑ वो वो॒ ऽग्नये॒ ऽग्नये॑ वः । 33) वो॒ जुष्ट॒-ञ्जुष्टं॑-वोँ वो॒ जुष्ट᳚म् । 34) जुष्ट॒-म्प्र प्र जुष्ट॒-ञ्जुष्ट॒-म्प्र । 35) प्रोक्षा᳚ म्युक्षामि॒ प्र प्रोक्षा॑मि । 36) उ॒क्षा॒म्य॒ग्नीषोमा᳚भ्या म॒ग्नीषोमा᳚भ्या मुक्षा म्युक्षाम्य॒ग्नीषोमा᳚भ्याम् । 37) अ॒ग्नीषोमा᳚भ्या॒ग्ं॒ शुन्ध॑द्ध्व॒ग्ं॒ शुन्ध॑द्ध्व म॒ग्नीषोमा᳚भ्या म॒ग्नीषोमा᳚भ्या॒ग्ं॒ शुन्ध॑द्ध्वम् । 37) अ॒ग्नीषोमा᳚भ्या॒मित्य॒ग्नी - सोमा᳚भ्याम् । 38) शुन्ध॑द्ध्व॒-न्दैव्या॑य॒ दैव्या॑य॒ शुन्ध॑द्ध्व॒ग्ं॒ शुन्ध॑द्ध्व॒-न्दैव्या॑य । 39) दैव्या॑य॒ कर्म॑णे॒ कर्म॑णे॒ दैव्या॑य॒ दैव्या॑य॒ कर्म॑णे । 40) कर्म॑णे देवय॒ज्यायै॑ देवय॒ज्यायै॒ कर्म॑णे॒ कर्म॑णे देवय॒ज्यायै᳚ । 41) दे॒व॒य॒ज्याया॒ अव॑धूत॒ मव॑धूत-न्देवय॒ज्यायै॑ देवय॒ज्याया॒ अव॑धूतम् । 41) दे॒व॒य॒ज्याया॒ इति॑ देव - य॒ज्यायै᳚ । 42) अव॑धूत॒ग्ं॒ रक्षो॒ रक्षो ऽव॑धूत॒ मव॑धूत॒ग्ं॒ रक्षः॑ । 42) अव॑धूत॒मित्यव॑ - धू॒त॒म् । 43) रक्षो ऽव॑धूता॒ अव॑धूता॒ रक्षो॒ रक्षो ऽव॑धूताः । 44) अव॑धूता॒ अरा॑त॒यो ऽरा॑त॒यो ऽव॑धूता॒ अव॑धूता॒ अरा॑तयः । 44) अव॑धूता॒ इत्यव॑ - धू॒ताः॒ । 45) अरा॑त॒यो ऽदि॑त्या॒ अदि॑त्या॒ अरा॑त॒यो ऽरा॑त॒यो ऽदि॑त्याः । 46) अदि॑त्या॒स्त्व-क्त्वगदि॑त्या॒ अदि॑त्या॒स्त्वक् । 47) त्वग॑स्यसि॒ त्व-क्त्वग॑सि । 48) अ॒सि॒ प्रति॒ प्रत्य॑स्यसि॒ प्रति॑ । 49) प्रति॑ त्वा त्वा॒ प्रति॒ प्रति॑ त्वा । 50) त्वा॒ पृ॒थि॒वी पृ॑थि॒वी त्वा᳚ त्वा पृथि॒वी । ॥ 7 ॥ (50/61)
1) पृ॒थि॒वी वे᳚त्तु वेत्तु पृथि॒वी पृ॑थि॒वी वे᳚त्तु । 2) वे॒त्त्व॒धि॒षव॑ण मधि॒षव॑णं-वेँत्तु वेत्त्वधि॒षव॑णम् । 3) अ॒धि॒षव॑ण मस्यस्यधि॒षव॑ण मधि॒षव॑ण मसि । 3) अ॒धि॒षव॑ण॒मित्य॑धि - सव॑नम् । 4) अ॒सि॒ वा॒न॒स्प॒त्यं-वाँ॑नस्प॒त्य म॑स्यसि वानस्प॒त्यम् । 5) वा॒न॒स्प॒त्य-म्प्रति॒ प्रति॑ वानस्प॒त्यं-वाँ॑नस्प॒त्य-म्प्रति॑ । 6) प्रति॑ त्वा त्वा॒ प्रति॒ प्रति॑ त्वा । 7) त्वा ऽदि॑त्या॒ अदि॑त्यास्त्वा॒ त्वा ऽदि॑त्याः । 8) अदि॑त्या॒स्त्व-क्त्वगदि॑त्या॒ अदि॑त्या॒स्त्वक् । 9) त्वग् वे᳚त्तु वेत्तु॒ त्व-क्त्वग् वे᳚त्तु । 10) वे॒त्त्व॒ग्नेर॒ग्ने-र्वे᳚त्तु वेत्त्व॒ग्नेः । 11) अ॒ग्ने स्त॒नू स्त॒नू र॒ग्ने र॒ग्ने स्त॒नूः । 12) त॒नूर॑स्यसि त॒नूस्त॒नूर॑सि । 13) अ॒सि॒ वा॒चो वा॒चो᳚ ऽस्यसि वा॒चः । 14) वा॒चो वि॒सर्ज॑नं-विँ॒सर्ज॑नं-वाँ॒चो वा॒चो वि॒सर्ज॑नम् । 15) वि॒सर्ज॑न-न्दे॒ववी॑तये दे॒ववी॑तये वि॒सर्ज॑नं-विँ॒सर्ज॑न-न्दे॒ववी॑तये । 15) वि॒सर्ज॑न॒मिति॑ वि - सर्ज॑नम् । 16) दे॒ववी॑तये त्वा त्वा दे॒ववी॑तये दे॒ववी॑तये त्वा । 16) दे॒ववी॑तय॒ इति॑ दे॒व - वी॒त॒ये॒ । 17) त्वा॒ गृ॒ह्णा॒मि॒ गृ॒ह्णा॒मि॒ त्वा॒ त्वा॒ गृ॒ह्णा॒मि॒ । 18) गृ॒ह्णा॒म्यद्रि॒रद्रि॑-र्गृह्णामि गृह्णा॒म्यद्रिः॑ । 19) अद्रि॑रस्य॒स्यद्रि॒रद्रि॑रसि । 20) अ॒सि॒ वा॒न॒स्प॒त्यो वा॑नस्प॒त्यो᳚ ऽस्यसि वानस्प॒त्यः । 21) वा॒न॒स्प॒त्य-स्स स वा॑नस्प॒त्यो वा॑नस्प॒त्य-स्सः । 22) स इ॒द मि॒दग्ं स स इ॒दम् । 23) इ॒द-न्दे॒वेभ्यो॑ दे॒वेभ्य॑ इ॒द मि॒द-न्दे॒वेभ्यः॑ । 24) दे॒वेभ्यो॑ ह॒व्यग्ं ह॒व्य-न्दे॒वेभ्यो॑ दे॒वेभ्यो॑ ह॒व्यम् । 25) ह॒व्यग्ं सु॒शमि॑ सु॒शमि॑ ह॒व्यग्ं ह॒व्यग्ं सु॒शमि॑ । 26) सु॒शमि॑ शमिष्व शमिष्व सु॒शमि॑ सु॒शमि॑ शमिष्व । 26) सु॒शमीति॑ सु - शमि॑ । 27) श॒मि॒ष्वे ष॒ मिषग्ं॑ शमिष्व शमि॒ष्वे ष᳚म् । 28) इष॒ मेष॒ मिष॒ मा । 29) आ व॑द व॒दा व॑द । 30) व॒दोर्ज॒ मूर्जं॑-वँद व॒दोर्ज᳚म् । 31) ऊर्ज॒ मोर्ज॒ मूर्ज॒ मा । 32) आ व॑द व॒दा व॑द । 33) व॒द॒ द्यु॒म-द्द्यु॒म-द्व॑द वद द्यु॒मत् । 34) द्यु॒म-द्व॑दत वदत द्यु॒म-द्द्यु॒म-द्व॑दत । 34) द्यु॒मदिति॑ द्यु - मत् । 35) व॒द॒त॒ व॒यं-वँ॒यं-वँ॑दत वदत व॒यम् । 36) व॒यग्ं स॑ङ्घा॒तग्ं स॑ङ्घा॒तं-वँ॒यं-वँ॒यग्ं स॑ङ्घा॒तम् । 37) स॒ङ्घा॒त-ञ्जे᳚ष्म जेष्म सङ्घा॒तग्ं स॑ङ्घा॒त-ञ्जे᳚ष्म । 37) स॒ङ्घा॒तमिति॑ सं - घा॒तम् । 38) जे॒ष्म॒ व॒र्॒षवृ॑द्धं-वँ॒र्॒षवृ॑द्ध-ञ्जेष्म जेष्म व॒र्॒षवृ॑द्धम् । 39) व॒र्॒षवृ॑द्ध मस्यसि व॒र्॒षवृ॑द्धं-वँ॒र्॒षवृ॑द्ध मसि । 39) व॒र्॒षवृ॑द्ध॒मिति॑ व॒र्॒ष - वृ॒द्ध॒म् । 40) अ॒सि॒ प्रति॒ प्रत्य॑स्यसि॒ प्रति॑ । 41) प्रति॑ त्वा त्वा॒ प्रति॒ प्रति॑ त्वा । 42) त्वा॒ व॒र्॒षवृ॑द्धं-वँ॒र्॒षवृ॑द्ध-न्त्वा त्वा व॒र्॒षवृ॑द्धम् । 43) व॒र्॒षवृ॑द्धं-वेँत्तु वेत्तु व॒र्॒षवृ॑द्धं-वँ॒र्॒षवृ॑द्धं-वेँत्तु । 43) व॒र्॒षवृ॑द्ध॒मिति॑ व॒र्॒ष - वृ॒द्ध॒म् । 44) वे॒त्तु॒ परा॑पूत॒-म्परा॑पूतं-वेँत्तु वेत्तु॒ परा॑पूतम् । 45) परा॑पूत॒ग्ं॒ रक्षो॒ रक्षः॒ परा॑पूत॒-म्परा॑पूत॒ग्ं॒ रक्षः॑ । 45) परा॑पूत॒मिति॒ परा᳚ - पू॒त॒म् । 46) रक्षः॒ परा॑पूताः॒ परा॑पूता॒ रक्षो॒ रक्षः॒ परा॑पूताः । 47) परा॑पूता॒ अरा॑त॒यो ऽरा॑तयः॒ परा॑पूताः॒ परा॑पूता॒ अरा॑तयः । 47) परा॑पूता॒ इति॒ परा᳚ - पू॒ताः॒ । 48) अरा॑तयो॒ रक्ष॑सा॒ग्ं॒ रक्ष॑सा॒ मरा॑त॒यो ऽरा॑तयो॒ रक्ष॑साम् । 49) रक्ष॑सा-म्भा॒गो भा॒गो रक्ष॑सा॒ग्ं॒ रक्ष॑सा-म्भा॒गः । 50) भा॒गो᳚ ऽस्यसि भा॒गो भा॒गो॑ ऽसि । 51) अ॒सि॒ वा॒यु-र्वा॒युर॑स्यसि वा॒युः । 52) वा॒यु-र्वो॑ वो वा॒यु-र्वा॒यु-र्वः॑ । 53) वो॒ वि वि वो॑ वो॒ वि । 54) वि वि॑नक्तु विनक्तु॒ वि वि वि॑नक्तु । 55) वि॒न॒क्तु॒ दे॒वो दे॒वो वि॑नक्तु विनक्तु दे॒वः । 56) दे॒वो वो॑ वो दे॒वो दे॒वो वः॑ । 57) व॒-स्स॒वि॒ता स॑वि॒ता वो॑ व-स्सवि॒ता । 58) स॒वि॒ता हिर॑ण्यपाणि॒र्॒ हिर॑ण्यपाणि-स्सवि॒ता स॑वि॒ता हिर॑ण्यपाणिः । 59) हिर॑ण्यपाणिः॒ प्रति॒ प्रति॒ हिर॑ण्यपाणि॒र्॒ हिर॑ण्यपाणिः॒ प्रति॑ । 59) हिर॑ण्यपाणि॒रिति॒ हिर॑ण्य - पा॒णिः॒ । 60) प्रति॑ गृह्णातु गृह्णातु॒ प्रति॒ प्रति॑ गृह्णातु । 61) गृ॒ह्णा॒त्विति॑ गृह्णातु । ॥ 8 ॥ (61/72) ॥ अ. 5 ॥
1) अव॑धूत॒ग्ं॒ रक्षो॒ रक्षो ऽव॑धूत॒ मव॑धूत॒ग्ं॒ रक्षः॑ । 1) अव॑धूत॒मित्यव॑ - धू॒त॒म् । 2) रक्षो ऽव॑धूता॒ अव॑धूता॒ रक्षो॒ रक्षो ऽव॑धूताः । 3) अव॑धूता॒ अरा॑त॒यो ऽरा॑त॒यो ऽव॑धूता॒ अव॑धूता॒ अरा॑तयः । 3) अव॑धूता॒ इत्यव॑ - धू॒ताः॒ । 4) अरा॑त॒यो ऽदि॑त्या॒ अदि॑त्या॒ अरा॑त॒यो ऽरा॑त॒यो ऽदि॑त्याः । 5) अदि॑त्या॒स्त्व-क्त्वगदि॑त्या॒ अदि॑त्या॒स्त्वक् । 6) त्वग॑स्यसि॒ त्व-क्त्वग॑सि । 7) अ॒सि॒ प्रति॒ प्रत्य॑स्यसि॒ प्रति॑ । 8) प्रति॑ त्वा त्वा॒ प्रति॒ प्रति॑ त्वा । 9) त्वा॒ पृ॒थि॒वी पृ॑थि॒वी त्वा᳚ त्वा पृथि॒वी । 10) पृ॒थि॒वी वे᳚त्तु वेत्तु पृथि॒वी पृ॑थि॒वी वे᳚त्तु । 11) वे॒त्तु॒ दि॒वो दि॒वो वे᳚त्तु वेत्तु दि॒वः । 12) दि॒व-स्स्क॑म्भ॒नि-स्स्क॑म्भ॒नि-र्दि॒वो दि॒व-स्स्क॑म्भ॒निः । 13) स्क॒म्भ॒निर॑स्यसि स्कम्भ॒नि-स्स्क॑म्भ॒निर॑सि । 14) अ॒सि॒ प्रति॒ प्रत्य॑स्यसि॒ प्रति॑ । 15) प्रति॑ त्वा त्वा॒ प्रति॒ प्रति॑ त्वा । 16) त्वा ऽदि॑त्या॒ अदि॑त्यास्त्वा॒ त्वा ऽदि॑त्याः । 17) अदि॑त्या॒स्त्व-क्त्वगदि॑त्या॒ अदि॑त्या॒स्त्वक् । 18) त्वग् वे᳚त्तु वेत्तु॒ त्व-क्त्वग् वे᳚त्तु । 19) वे॒त्तु॒ धि॒षणा॑ धि॒षणा॑ वेत्तु वेत्तु धि॒षणा᳚ । 20) धि॒षणा᳚ ऽस्यसि धि॒षणा॑ धि॒षणा॑ ऽसि । 21) अ॒सि॒ प॒र्व॒त्या प॑र्व॒त्या ऽस्य॑सि पर्व॒त्या । 22) प॒र्व॒त्या प्रति॒ प्रति॑ पर्व॒त्या प॑र्व॒त्या प्रति॑ । 23) प्रति॑ त्वा त्वा॒ प्रति॒ प्रति॑ त्वा । 24) त्वा॒ दि॒वो दि॒वस्त्वा᳚ त्वा दि॒वः । 25) दि॒व-स्स्क॑म्भ॒नि-स्स्क॑म्भ॒नि-र्दि॒वो दि॒व-स्स्क॑म्भ॒निः । 26) स्क॒म्भ॒नि-र्वे᳚त्तु वेत्तु स्कम्भ॒नि-स्स्क॑म्भ॒नि-र्वे᳚त्तु । 27) वे॒त्तु॒ धि॒षणा॑ धि॒षणा॑ वेत्तु वेत्तु धि॒षणा᳚ । 28) धि॒षणा᳚ ऽस्यसि धि॒षणा॑ धि॒षणा॑ ऽसि । 29) अ॒सि॒ पा॒र्व॒ते॒यी पा᳚र्वते॒य्य॑स्यसि पार्वते॒यी । 30) पा॒र्व॒ते॒यी प्रति॒ प्रति॑ पार्वते॒यी पा᳚र्वते॒यी प्रति॑ । 31) प्रति॑ त्वा त्वा॒ प्रति॒ प्रति॑ त्वा । 32) त्वा॒ प॒र्व॒तिः प॑र्व॒तिस्त्वा᳚ त्वा पर्व॒तिः । 33) प॒र्व॒ति-र्वे᳚त्तु वेत्तु पर्व॒तिः प॑र्व॒ति-र्वे᳚त्तु । 34) वे॒त्तु॒ दे॒वस्य॑ दे॒वस्य॑ वेत्तु वेत्तु दे॒वस्य॑ । 35) दे॒वस्य॑ त्वा त्वा दे॒वस्य॑ दे॒वस्य॑ त्वा । 36) त्वा॒ स॒वि॒तु-स्स॑वि॒तुस्त्वा᳚ त्वा सवि॒तुः । 37) स॒वि॒तुः प्र॑स॒वे प्र॑स॒वे स॑वि॒तु-स्स॑वि॒तुः प्र॑स॒वे । 38) प्र॒स॒वे᳚ ऽश्विनो॑र॒श्विनोः᳚ प्रस॒वे प्र॑स॒वे᳚ ऽश्विनोः᳚ । 38) प्र॒स॒व इति॑ प्र - स॒वे । 39) अ॒श्विनो᳚-र्बा॒हुभ्या᳚-म्बा॒हुभ्या॑ म॒श्विनो॑र॒श्विनो᳚-र्बा॒हुभ्या᳚म् । 40) बा॒हुभ्या᳚-म्पू॒ष्णः पू॒ष्णो बा॒हुभ्या᳚-म्बा॒हुभ्या᳚-म्पू॒ष्णः । 40) बा॒हुभ्या॒मिति॑ बा॒हु - भ्या॒म् । 41) पू॒ष्णो हस्ता᳚भ्या॒ग्ं॒ हस्ता᳚भ्या-म्पू॒ष्णः पू॒ष्णो हस्ता᳚भ्याम् । 42) हस्ता᳚भ्या॒ मध्यधि॒ हस्ता᳚भ्या॒ग्ं॒ हस्ता᳚भ्या॒ मधि॑ । 43) अधि॑ वपामि वपा॒म्यध्यधि॑ वपामि । 44) व॒पा॒मि॒ धा॒न्य॑-न्धा॒न्यं॑-वँपामि वपामि धा॒न्य᳚म् । 45) धा॒न्य॑ मस्यसि धा॒न्य॑-न्धा॒न्य॑ मसि । 46) अ॒सि॒ धि॒नु॒हि धि॑नु॒ह्य॑स्यसि धिनु॒हि । 47) धि॒नु॒हि दे॒वा-न्दे॒वा-न्धि॑नु॒हि धि॑नु॒हि दे॒वान् । 48) दे॒वा-न्प्रा॒णाय॑ प्रा॒णाय॑ दे॒वा-न्दे॒वा-न्प्रा॒णाय॑ । 49) प्रा॒णाय॑ त्वा त्वा प्रा॒णाय॑ प्रा॒णाय॑ त्वा । 49) प्रा॒णायेति॑ प्र - अ॒नाय॑ । 50) त्वा॒ ऽपा॒नाया॑पा॒नाय॑ त्वा त्वा ऽपा॒नाय॑ । 51) अ॒पा॒नाय॑ त्वा त्वा ऽपा॒नाया॑पा॒नाय॑ त्वा । 51) अ॒पा॒नात्ये॑प - अ॒नाय॑ । 52) त्वा॒ व्या॒नाय॑ व्या॒नाय॑ त्वा त्वा व्या॒नाय॑ । 53) व्या॒नाय॑ त्वा त्वा व्या॒नाय॑ व्या॒नाय॑ त्वा । 53) व्या॒नायेति॑ वि - अ॒नाय॑ । 54) त्वा॒ दी॒र्घा-न्दी॒र्घा-न्त्वा᳚ त्वा दी॒र्घाम् । 55) दी॒र्घा मन्वनु॑ दी॒र्घा-न्दी॒र्घा मनु॑ । 56) अनु॒ प्रसि॑ति॒-म्प्रसि॑ति॒ मन्वनु॒ प्रसि॑तिम् । 57) प्रसि॑ति॒ मायु॑ष॒ आयु॑षे॒ प्रसि॑ति॒-म्प्रसि॑ति॒ मायु॑षे । 57) प्रसि॑ति॒मिति॒ प्र - सि॒ति॒म् । 58) आयु॑षे धा-न्धा॒ मायु॑ष॒ आयु॑षे धाम् । 59) धा॒-न्दे॒वो दे॒वो धा᳚-न्धा-न्दे॒वः । 60) दे॒वो वो॑ वो दे॒वो दे॒वो वः॑ । 61) व॒-स्स॒वि॒ता स॑वि॒ता वो॑ व-स्सवि॒ता । 62) स॒वि॒ता हिर॑ण्यपाणि॒र्॒ हिर॑ण्यपाणि-स्सवि॒ता स॑वि॒ता हिर॑ण्यपाणिः । 63) हिर॑ण्यपाणिः॒ प्रति॒ प्रति॒ हिर॑ण्यपाणि॒र्॒ हिर॑ण्यपाणिः॒ प्रति॑ । 63) हिर॑ण्यपाणि॒रिति॒ हिर॑ण्य - पा॒णिः॒ । 64) प्रति॑ गृह्णातु गृह्णातु॒ प्रति॒ प्रति॑ गृह्णातु । 65) गृ॒ह्णा॒त्विति॑ गृह्णातु । ॥ 9 ॥ (65/74) ॥ अ. 6 ॥
1) धृष्टि॑रस्यसि॒ धृष्टि॒-र्धृष्टि॑रसि । 2) अ॒सि॒ ब्रह्म॒ ब्रह्मा᳚स्यसि॒ ब्रह्म॑ । 3) ब्रह्म॑ यच्छ यच्छ॒ ब्रह्म॒ ब्रह्म॑ यच्छ । 4) य॒च्छापाप॑ यच्छ य॒च्छाप॑ । 5) अपा᳚ग्ने॒ ऽग्ने ऽपापा᳚ग्ने । 6) अ॒ग्ने॒ ऽग्नि म॒ग्नि म॑ग्ने ऽग्ने॒ ऽग्निम् । 7) अ॒ग्नि मा॒माद॑ मा॒माद॑ म॒ग्नि म॒ग्नि मा॒माद᳚म् । 8) आ॒माद॑-ञ्जहि जह्या॒माद॑ मा॒माद॑-ञ्जहि । 8) आ॒माद॒मित्या॑म - अद᳚म् । 9) ज॒हि॒ नि-र्णि-र्ज॑हि जहि॒ निः । 10) निष् क्र॒व्याद॑-ङ्क्र॒व्याद॒न्नि-र्णिष् क्र॒व्याद᳚म् । 11) क्र॒व्यादग्ं॑ सेध सेध क्र॒व्याद॑-ङ्क्र॒व्यादग्ं॑ सेध । 11) क्र॒व्याद॒मिति॑ क्रव्य - अद᳚म् । 12) से॒धा से॑ध से॒धा । 13) आ दे॑व॒यज॑-न्देव॒यज॒ मा दे॑व॒यज᳚म् । 14) दे॒व॒यजं॑-वँह वह देव॒यज॑-न्देव॒यजं॑-वँह । 14) दे॒व॒यज॒मिति॑ देव - यज᳚म् । 15) व॒ह॒ निर्द॑ग्ध॒न्निर्द॑ग्धं-वँह वह॒ निर्द॑ग्धम् । 16) निर्द॑ग्ध॒ग्ं॒ रक्षो॒ रक्षो॒ निर्द॑ग्ध॒न्निर्द॑ग्ध॒ग्ं॒ रक्षः॑ । 16) निर्द॑ग्ध॒मिति॒ निः - द॒ग्ध॒म् । 17) रक्षो॒ निर्द॑ग्धा॒ निर्द॑ग्धा॒ रक्षो॒ रक्षो॒ निर्द॑ग्धाः । 18) निर्द॑ग्धा॒ अरा॑त॒यो ऽरा॑तयो॒ निर्द॑ग्धा॒ निर्द॑ग्धा॒ अरा॑तयः । 18) निर्द॑ग्धा॒ इति॒ निः - द॒ग्धाः॒ । 19) अरा॑तयो ध्रु॒व-न्ध्रु॒व मरा॑त॒यो ऽरा॑तयो ध्रु॒वम् । 20) ध्रु॒व म॑स्यसि ध्रु॒व-न्ध्रु॒व म॑सि । 21) अ॒सि॒ पृ॒थि॒वी-म्पृ॑थि॒वी म॑स्यसि पृथि॒वीम् । 22) पृ॒थि॒वी-न्दृग्ं॑ह दृग्ंह पृथि॒वी-म्पृ॑थि॒वी-न्दृग्ं॑ह । 23) दृ॒ग्ं॒हायु॒रायु॑-र्दृग्ंह दृ॒ग्ं॒हायुः॑ । 24) आयु॑-र्दृग्ंह दृ॒ग्ं॒हायु॒रायु॑-र्दृग्ंह । 25) दृ॒ग्ं॒ह॒ प्र॒जा-म्प्र॒जा-न्दृग्ं॑ह दृग्ंह प्र॒जाम् । 26) प्र॒जा-न्दृग्ं॑ह दृग्ंह प्र॒जा-म्प्र॒जा-न्दृग्ं॑ह । 26) प्र॒जामिति॑ प्र - जाम् । 27) दृ॒ग्ं॒ह॒ स॒जा॒ता-न्थ्स॑जा॒ता-न्दृग्ं॑ह दृग्ंह सजा॒तान् । 28) स॒जा॒ता न॒स्मा अ॒स्मै स॑जा॒ता-न्थ्स॑जा॒ता न॒स्मै । 28) स॒जा॒तानिति॑ स - जा॒तान् । 29) अ॒स्मै यज॑मानाय॒ यज॑मानाया॒स्मा अ॒स्मै यज॑मानाय । 30) यज॑मानाय॒ परि॒ परि॒ यज॑मानाय॒ यज॑मानाय॒ परि॑ । 31) पर्यू॑होह॒ परि॒ पर्यू॑ह । 32) ऊ॒ह॒ ध॒र्त्र-न्ध॒र्त्र मू॑होह ध॒र्त्रम् । 33) ध॒र्त्र म॑स्यसि ध॒र्त्र-न्ध॒र्त्र म॑सि । 34) अ॒स्य॒न्तरि॑क्ष म॒न्तरि॑क्ष मस्यस्य॒न्तरि॑क्षम् । 35) अ॒न्तरि॑क्ष-न्दृग्ंह दृग्ंहा॒न्तरि॑क्ष म॒न्तरि॑क्ष-न्दृग्ंह । 36) दृ॒ग्ं॒ह॒ प्रा॒ण-म्प्रा॒ण-न्दृग्ं॑ह दृग्ंह प्रा॒णम् । 37) प्रा॒ण-न्दृग्ं॑ह दृग्ंह प्रा॒ण-म्प्रा॒ण-न्दृग्ं॑ह । 37) प्रा॒णमिति॑ प्र - अ॒नम् । 38) दृ॒ग्ं॒हा॒पा॒न म॑पा॒न-न्दृग्ं॑ह दृग्ंहापा॒नम् । 39) अ॒पा॒न-न्दृग्ं॑ह दृग्ंहापा॒न म॑पा॒न-न्दृग्ं॑ह । 39) अ॒पा॒नमित्य॑प - अ॒नम् । 40) दृ॒ग्ं॒ह॒ स॒जा॒ता-न्थ्स॑जा॒ता-न्दृग्ं॑ह दृग्ंह सजा॒तान् । 41) स॒जा॒ता न॒स्मा अ॒स्मै स॑जा॒ता-न्थ्स॑जा॒ता न॒स्मै । 41) स॒जा॒तानिति॑ स - जा॒तान् । 42) अ॒स्मै यज॑मानाय॒ यज॑मानाया॒स्मा अ॒स्मै यज॑मानाय । 43) यज॑मानाय॒ परि॒ परि॒ यज॑मानाय॒ यज॑मानाय॒ परि॑ । 44) पर्यू॑होह॒ परि॒ पर्यू॑ह । 45) ऊ॒ह॒ ध॒रुण॑-न्ध॒रुण॑ मूहोह ध॒रुण᳚म् । 46) ध॒रुण॑ मस्यसि ध॒रुण॑-न्ध॒रुण॑ मसि । 47) अ॒सि॒ दिव॒-न्दिव॑ मस्यसि॒ दिव᳚म् । 48) दिव॑-न्दृग्ंह दृग्ंह॒ दिव॒-न्दिव॑-न्दृग्ंह । 49) दृ॒ग्ं॒ह॒ चक्षु॒श्चक्षु॑-र्दृग्ंह दृग्ंह॒ चक्षुः॑ । 50) चक्षु॑-र्दृग्ंह दृग्ंह॒ चक्षु॒श्चक्षु॑-र्दृग्ंह । ॥ 10 ॥ (50/60)
1) दृ॒ग्ं॒ह॒ श्रोत्र॒ग्ग्॒ श्रोत्र॑-न्दृग्ंह दृग्ंह॒ श्रोत्र᳚म् । 2) श्रोत्र॑-न्दृग्ंह दृग्ंह॒ श्रोत्र॒ग्ग्॒ श्रोत्र॑-न्दृग्ंह । 3) दृ॒ग्ं॒ह॒ स॒जा॒ता-न्थ्स॑जा॒ता-न्दृग्ं॑ह दृग्ंह सजा॒तान् । 4) स॒जा॒ता न॒स्मा अ॒स्मै स॑जा॒ता-न्थ्स॑जा॒ता न॒स्मै । 4) स॒जा॒तानिति॑ स - जा॒तान् । 5) अ॒स्मै यज॑मानाय॒ यज॑मानाया॒स्मा अ॒स्मै यज॑मानाय । 6) यज॑मानाय॒ परि॒ परि॒ यज॑मानाय॒ यज॑मानाय॒ परि॑ । 7) पर्यू॑होह॒ परि॒ पर्यू॑ह । 8) ऊ॒ह॒ धर्म॒ धर्मो॑होह॒ धर्म॑ । 9) धर्मा᳚स्यसि॒ धर्म॒ धर्मा॑सि । 10) अ॒सि॒ दिशो॒ दिशो᳚ ऽस्यसि॒ दिशः॑ । 11) दिशो॑ दृग्ंह दृग्ंह॒ दिशो॒ दिशो॑ दृग्ंह । 12) दृ॒ग्ं॒ह॒ योनिं॒-योँनि॑-न्दृग्ंह दृग्ंह॒ योनि᳚म् । 13) योनि॑-न्दृग्ंह दृग्ंह॒ योनिं॒-योँनि॑-न्दृग्ंह । 14) दृ॒ग्ं॒ह॒ प्र॒जा-म्प्र॒जा-न्दृग्ं॑ह दृग्ंह प्र॒जाम् । 15) प्र॒जा-न्दृग्ं॑ह दृग्ंह प्र॒जा-म्प्र॒जा-न्दृग्ं॑ह । 15) प्र॒जामिति॑ प्र - जाम् । 16) दृ॒ग्ं॒ह॒ स॒जा॒ता-न्थ्स॑जा॒ता-न्दृग्ं॑ह दृग्ंह सजा॒तान् । 17) स॒जा॒ता न॒स्मा अ॒स्मै स॑जा॒ता-न्थ्स॑जा॒ता न॒स्मै । 17) स॒जा॒तानिति॑ स - जा॒तान् । 18) अ॒स्मै यज॑मानाय॒ यज॑मानाया॒स्मा अ॒स्मै यज॑मानाय । 19) यज॑मानाय॒ परि॒ परि॒ यज॑मानाय॒ यज॑मानाय॒ परि॑ । 20) पर्यू॑होह॒ परि॒ पर्यू॑ह । 21) ऊ॒ह॒ चित॒श्चित॑ ऊहोह॒ चितः॑ । 22) चित॑-स्स्थ स्थ॒ चित॒श्चित॑-स्स्थ । 23) स्थ॒ प्र॒जा-म्प्र॒जाग् स्थ॑ स्थ प्र॒जाम् । 24) प्र॒जा म॒स्मा अ॒स्मै प्र॒जा-म्प्र॒जा म॒स्मै । 24) प्र॒जामिति॑ प्र - जाम् । 25) अ॒स्मै र॒यिग्ं र॒यि म॒स्मा अ॒स्मै र॒यिम् । 26) र॒यि म॒स्मा अ॒स्मै र॒यिग्ं र॒यि म॒स्मै । 27) अ॒स्मै स॑जा॒ता-न्थ्स॑जा॒ता न॒स्मा अ॒स्मै स॑जा॒तान् । 28) स॒जा॒ता न॒स्मा अ॒स्मै स॑जा॒ता-न्थ्स॑जा॒ता न॒स्मै । 28) स॒जा॒तानिति॑ स - जा॒तान् । 29) अ॒स्मै यज॑मानाय॒ यज॑मानाया॒स्मा अ॒स्मै यज॑मानाय । 30) यज॑मानाय॒ परि॒ परि॒ यज॑मानाय॒ यज॑मानाय॒ परि॑ । 31) पर्यू॑होह॒ परि॒ पर्यू॑ह । 32) ऊ॒ह॒ भृगू॑णा॒-म्भृगू॑णा मूहोह॒ भृगू॑णाम् । 33) भृगू॑णा॒ मङ्गि॑रसा॒ मङ्गि॑रसा॒-म्भृगू॑णा॒-म्भृगू॑णा॒ मङ्गि॑रसाम् । 34) अङ्गि॑रसा॒-न्तप॑सा॒ तप॒सा ऽङ्गि॑रसा॒ मङ्गि॑रसा॒-न्तप॑सा । 35) तप॑सा तप्यद्ध्व-न्तप्यद्ध्व॒-न्तप॑सा॒ तप॑सा तप्यद्ध्वम् । 36) त॒प्य॒द्ध्वं॒-याँनि॒ यानि॑ तप्यद्ध्व-न्तप्यद्ध्वं॒-याँनि॑ । 37) यानि॑ घ॒र्मे घ॒र्मे यानि॒ यानि॑ घ॒र्मे । 38) घ॒र्मे क॒पाला॑नि क॒पाला॑नि घ॒र्मे घ॒र्मे क॒पाला॑नि । 39) क॒पाला᳚न् युपचि॒न्वन्त् यु॑पचि॒न्वन्ति॑ क॒पाला॑नि क॒पाला᳚न् युपचि॒न्वन्ति॑ । 40) उ॒प॒चि॒न्वन्ति॑ वे॒धसो॑वे॒धस॑ उपचि॒न्वन्त् यु॑पचि॒न्वन्ति॑ वे॒धसः॑ । 40) उ॒प॒चि॒न्वन्तीत्यु॑प - चि॒न्वन्ति॑ । 41) वे॒धस॒ इति॑ वे॒धसः॑ । 42) पू॒ष्णस्तानि॒ तानि॑ पू॒ष्णः पू॒ष्णस्तानि॑ । 43) तान्यप्यपि॒ तानि॒ तान्यपि॑ । 44) अपि॑ व्र॒ते व्र॒ते ऽप्यपि॑ व्र॒ते । 45) व्र॒त इ॑न्द्रवा॒यू इ॑न्द्रवा॒यू व्र॒ते व्र॒त इ॑न्द्रवा॒यू । 46) इ॒न्द्र॒वा॒यू वि वीन्द्र॑वा॒यू इ॑न्द्रवा॒यू वि । 46) इ॒न्द्र॒वा॒यू इती᳚न्द्र - वा॒यू । 47) वि मु॑ञ्चता-म्मुञ्चतां॒-विँ वि मु॑ञ्चताम् । 48) मु॒ञ्च॒ता॒मिति॑ मुञ्चताम् । ॥ 11 ॥ (48/55) ॥ अ. 7 ॥
1) सं-वँ॑पामि वपामि॒ सग्ं सं-वँ॑पामि । 2) व॒पा॒मि॒ सग्ं सं-वँ॑पामि वपामि॒ सम् । 3) स माप॒ आप॒-स्सग्ं स मापः॑ । 4) आपो॑ अ॒द्भिर॒द्भिराप॒ आपो॑ अ॒द्भिः । 5) अ॒द्भि र॑ग्मताग्मता॒द्भि र॒द्भिर॑ग्मत । 5) अ॒द्भिरित्य॑त् - भिः । 6) अ॒ग्म॒त॒ सग्ं स म॑ग्मताग्मत॒ सम् । 7) स मोष॑धय॒ ओष॑धय॒-स्सग्ं स मोष॑धयः । 8) ओष॑धयो॒ रसे॑न॒ रसे॒नौष॑धय॒ ओष॑धयो॒ रसे॑न । 9) रसे॑न॒ सग्ं सग्ं रसे॑न॒ रसे॑न॒ सम् । 10) सग्ं रे॒वती॑ रे॒वती॒-स्सग्ं सग्ं रे॒वतीः᳚ । 11) रे॒वती॒-र्जग॑तीभि॒-र्जग॑तीभी रे॒वती॑ रे॒वती॒-र्जग॑तीभिः । 12) जग॑तीभि॒-र्मधु॑मती॒-र्मधु॑मती॒-र्जग॑तीभि॒-र्जग॑तीभि॒-र्मधु॑मतीः । 13) मधु॑मती॒-र्मधु॑मतीभि॒-र्मधु॑मतीभि॒-र्मधु॑मती॒-र्मधु॑मती॒-र्मधु॑मतीभिः । 13) मधु॑मती॒रिति॒ मधु॑ - म॒तीः॒ । 14) मधु॑मतीभि-स्सृज्यद्ध्वग्ं सृज्यद्ध्व॒-म्मधु॑मतीभि॒-र्मधु॑मतीभि-स्सृज्यद्ध्वम् । 14) मधु॑मतीभि॒रिति॒ मधु॑ - म॒ती॒भिः॒ । 15) सृ॒ज्य॒द्ध्व॒ म॒द्भ्यो᳚ ऽद्भ्य-स्सृ॑ज्यद्ध्वग्ं सृज्यद्ध्व म॒द्भ्यः । 16) अ॒द्भ्यः परि॒ पर्य॒द्भ्यो᳚ ऽद्भ्यः परि॑ । 16) अ॒द्भ्य इत्य॑त् - भ्यः । 17) परि॒ प्रजा॑ताः॒ प्रजा॑ताः॒ परि॒ परि॒ प्रजा॑ताः । 18) प्रजा॑ता-स्स्थ स्थ॒ प्रजा॑ताः॒ प्रजा॑ता-स्स्थ । 18) प्रजा॑ता॒ इति॒ प्र - जा॒ताः॒ । 19) स्थ॒ सग्ं सग्ग् स्थ॑ स्थ॒ सम् । 20) स म॒द्भिर॒द्भि-स्सग्ं स म॒द्भिः । 21) अ॒द्भिः पृ॑च्यद्ध्व-म्पृच्यद्ध्व म॒द्भिर॒द्भिः पृ॑च्यद्ध्वम् । 21) अ॒द्भिरित्य॑त् - भिः । 22) पृ॒च्य॒द्ध्व॒-ञ्जन॑यत्यै॒ जन॑यत्यै पृच्यद्ध्व-म्पृच्यद्ध्व॒-ञ्जन॑यत्यै । 23) जन॑यत्यै त्वा त्वा॒ जन॑यत्यै॒ जन॑यत्यै त्वा । 24) त्वा॒ सग्ं स-न्त्वा᳚ त्वा॒ सम् । 25) सं-यौँ॑मि यौमि॒ सग्ं सं-यौँ॑मि । 26) यौ॒म्य॒ग्नये॒ ऽग्नये॑ यौमि यौम्य॒ग्नये᳚ । 27) अ॒ग्नये᳚ त्वा त्वा॒ ऽग्नये॒ ऽग्नये᳚ त्वा । 28) त्वा॒ ऽग्नीषोमा᳚भ्या म॒ग्नीषोमा᳚भ्या-न्त्वा त्वा॒ ऽग्नीषोमा᳚भ्याम् । 29) अ॒ग्नीषोमा᳚भ्या-म्म॒खस्य॑ म॒खस्या॒ग्नीषोमा᳚भ्या म॒ग्नीषोमा᳚भ्या-म्म॒खस्य॑ । 29) अ॒ग्नीषोमा᳚भ्या॒मित्य॒ग्नी - सोमा᳚भ्याम् । 30) म॒खस्य॒ शिर॒-श्शिरो॑ म॒खस्य॑ म॒खस्य॒ शिरः॑ । 31) शिरो᳚ ऽस्यसि॒ शिर॒-श्शिरो॑ ऽसि । 32) अ॒सि॒ घ॒र्मो घ॒र्मो᳚ ऽस्यसि घ॒र्मः । 33) घ॒र्मो᳚ ऽस्यसि घ॒र्मो घ॒र्मो॑ ऽसि । 34) अ॒सि॒ वि॒श्वायु॑-र्वि॒श्वायु॑रस्यसि वि॒श्वायुः॑ । 35) वि॒श्वायु॑रु॒रू॑रु वि॒श्वायु॑-र्वि॒श्वायु॑रु॒रु । 35) वि॒श्वायु॒रुरिति॑ वि॒श्व - आ॒युः॒ । 36) उ॒रु प्र॑थस्व प्रथस्वो॒रू॑रु प्र॑थस्व । 37) प्र॒थ॒स्वो॒रू॑रु प्र॑थस्व प्रथस्वो॒रु । 38) उ॒रु ते॑ त उ॒रू॑रु ते᳚ । 39) ते॒ य॒ज्ञप॑तिर्य॒ज्ञप॑तिस्ते ते य॒ज्ञप॑तिः । 40) य॒ज्ञप॑तिः प्रथता-म्प्रथतां-यँ॒ज्ञप॑ति-र्य॒ज्ञप॑तिः प्रथताम् । 40) य॒ज्ञप॑ति॒रिति॑ य॒ज्ञ - प॒तिः॒ । 41) प्र॒थ॒ता॒-न्त्वच॒-न्त्वच॑-म्प्रथता-म्प्रथता॒-न्त्वच᳚म् । 42) त्वच॑-ङ्गृह्णीष्व गृह्णीष्व॒ त्वच॒-न्त्वच॑-ङ्गृह्णीष्व । 43) गृ॒ह्णी॒ष्वा॒न्तरि॑त म॒न्तरि॑त-ङ्गृह्णीष्व गृह्णीष्वा॒न्तरि॑तम् । 44) अ॒न्तरि॑त॒ग्ं॒ रक्षो॒ रक्षो॒ ऽन्तरि॑त म॒न्तरि॑त॒ग्ं॒ रक्षः॑ । 44) अ॒न्तरि॑त॒मित्य॒न्तः - इ॒त॒म् । 45) रक्षो॒ ऽन्तरि॑ता अ॒न्तरि॑ता॒ रक्षो॒ रक्षो॒ ऽन्तरि॑ताः । 46) अ॒न्तरि॑ता॒ अरा॑त॒यो ऽरा॑तयो॒ ऽन्तरि॑ता अ॒न्तरि॑ता॒ अरा॑तयः । 46) अ॒न्तरि॑ता॒ इत्य॒न्तः - इ॒ताः॒ । 47) अरा॑तयो दे॒वो दे॒वो ऽरा॑त॒यो ऽरा॑तयो दे॒वः । 48) दे॒वस्त्वा᳚ त्वा दे॒वो दे॒वस्त्वा᳚ । 49) त्वा॒ स॒वि॒ता स॑वि॒ता त्वा᳚ त्वा सवि॒ता । 50) स॒वि॒ता श्र॑पयतु श्रपयतु सवि॒ता स॑वि॒ता श्र॑पयतु । 51) श्र॒प॒य॒तु॒ वर्षि॑ष्ठे॒ वर्षि॑ष्ठे श्रपयतु श्रपयतु॒ वर्षि॑ष्ठे । 52) वर्षि॑ष्ठे॒ अध्यधि॒ वर्षि॑ष्ठे॒ वर्षि॑ष्ठे॒ अधि॑ । 53) अधि॒ नाके॒ नाके ऽध्यधि॒ नाके᳚ । 54) नाके॒ ऽग्निर॒ग्नि-र्नाके॒ नाके॒ ऽग्निः । 55) अ॒ग्निस्ते॑ ते॒ ऽग्निर॒ग्निस्ते᳚ । 56) ते॒ त॒नुव॑-न्त॒नुव॑-न्ते ते त॒नुव᳚म् । 57) त॒नुव॒-म्मा मा त॒नुव॑-न्त॒नुव॒-म्मा । 58) मा ऽत्यति॒ मा मा ऽति॑ । 59) अति॑ धाग् धा॒गत्यति॑ धाक् । 60) धा॒गग्ने ऽग्ने॑ धाग् धा॒गग्ने᳚ । 61) अग्ने॑ ह॒व्यग्ं ह॒व्य मग्ने ऽग्ने॑ ह॒व्यम् । 62) ह॒व्यग्ं र॑क्षस्व रक्षस्व ह॒व्यग्ं ह॒व्यग्ं र॑क्षस्व । 63) र॒क्ष॒स्व॒ सग्ं सग्ं र॑क्षस्व रक्षस्व॒ सम् । 64) स-म्ब्रह्म॑णा॒ ब्रह्म॑णा॒ सग्ं स-म्ब्रह्म॑णा । 65) ब्रह्म॑णा पृच्यस्व पृच्यस्व॒ ब्रह्म॑णा॒ ब्रह्म॑णा पृच्यस्व । 66) पृ॒च्य॒स्वै॒क॒तायै॑क॒ताय॑ पृच्यस्व पृच्यस्वैक॒ताय॑ । 67) ए॒क॒ताय॒ स्वाहा॒ स्वाहै॑क॒तायै॑क॒ताय॒ स्वाहा᳚ । 68) स्वाहा᳚ द्वि॒ताय॑ द्वि॒ताय॒ स्वाहा॒ स्वाहा᳚ द्वि॒ताय॑ । 69) द्वि॒ताय॒ स्वाहा॒ स्वाहा᳚ द्वि॒ताय॑ द्वि॒ताय॒ स्वाहा᳚ । 70) स्वाहा᳚ त्रि॒ताय॑ त्रि॒ताय॒ स्वाहा॒ स्वाहा᳚ त्रि॒ताय॑ । 71) त्रि॒ताय॒ स्वाहा॒ स्वाहा᳚ त्रि॒ताय॑ त्रि॒ताय॒ स्वाहा᳚ । 72) स्वाहेति॒ स्वाहा᳚ । ॥ 12 ॥ (72/83) ॥ अ. 8 ॥
1) आ द॑दे दद॒ आ द॑दे । 2) द॒द॒ इन्द्र॒स्ये न्द्र॑स्य ददे दद॒ इन्द्र॑स्य । 3) इन्द्र॑स्य बा॒हु-र्बा॒हुरिन्द्र॒स्ये न्द्र॑स्य बा॒हुः । 4) बा॒हुर॑स्यसि बा॒हु-र्बा॒हुर॑सि । 5) अ॒सि॒ दक्षि॑णो॒ दक्षि॑णो ऽस्यसि॒ दक्षि॑णः । 6) दक्षि॑ण-स्स॒हस्र॑भृष्टि-स्स॒हस्र॑भृष्टि॒-र्दक्षि॑णो॒ दक्षि॑ण-स्स॒हस्र॑भृष्टिः । 7) स॒हस्र॑भृष्टि-श्श॒तते॑जा-श्श॒तते॑जा-स्स॒हस्र॑भृष्टि-स्स॒हस्र॑भृष्टि-श्श॒तते॑जाः । 7) स॒हस्र॑भृष्टि॒रिति॑ स॒हस्र॑ - भृ॒ष्टिः॒ । 8) श॒तते॑जा वा॒यु-र्वा॒यु-श्श॒तते॑जा-श्श॒तते॑जा वा॒युः । 8) श॒तते॑जा॒ इति॑ श॒त - ते॒जाः॒ । 9) वा॒युर॑स्यसि वा॒यु-र्वा॒युर॑सि । 10) अ॒सि॒ ति॒ग्मते॑जास्ति॒ग्मते॑जा अस्यसि ति॒ग्मते॑जाः । 11) ति॒ग्मते॑जाः॒ पृथि॑वि॒ पृथि॑वि ति॒ग्मते॑जा स्ति॒ग्मते॑जाः॒ पृथि॑वि । 11) ति॒ग्मते॑जा॒ इति॑ ति॒ग्म - ते॒जाः॒ । 12) पृथि॑वि देवयजनि देवयजनि॒ पृथि॑वि॒ पृथि॑वि देवयजनि । 13) दे॒व॒य॒ज॒न्योष॑द्ध्या॒ ओष॑द्ध्या देवयजनि देवयज॒न्योष॑द्ध्याः । 13) दे॒व॒य॒ज॒नीति॑ देव - य॒ज॒नि॒ । 14) ओष॑द्ध्यास्ते त॒ ओष॑द्ध्या॒ ओष॑द्ध्यास्ते । 15) ते॒ मूल॒-म्मूल॑-न्ते ते॒ मूल᳚म् । 16) मूल॒-म्मा मा मूल॒-म्मूल॒-म्मा । 17) मा हिग्ं॑सिषग्ं हिग्ंसिष॒-म्मा मा हिग्ं॑सिषम् । 18) हि॒ग्ं॒सि॒ष॒ मप॑ह॒तो ऽप॑हतो हिग्ंसिषग्ं हिग्ंसिष॒ मप॑हतः । 19) अप॑हतो॒ ऽररु॑ र॒ररु॒ रप॑ह॒तो ऽप॑हतो॒ ऽररुः॑ । 19) अप॑हत॒ इत्यप॑ - ह॒तः॒ । 20) अ॒ररुः॑ पृथि॒व्यै पृ॑थि॒व्या अ॒ररु॑र॒ररुः॑ पृथि॒व्यै । 21) पृ॒थि॒व्यै व्र॒जं-व्रँ॒ज-म्पृ॑थि॒व्यै पृ॑थि॒व्यै व्र॒जम् । 22) व्र॒ज-ङ्ग॑च्छ गच्छ व्र॒जं-व्रँ॒ज-ङ्ग॑च्छ । 23) ग॒च्छ॒ गो॒स्थान॑-ङ्गो॒स्थान॑-ङ्गच्छ गच्छ गो॒स्थान᳚म् । 24) गो॒स्थानं॒-वँर्ष॑तु॒ वर्ष॑तु गो॒स्थान॑-ङ्गो॒स्थानं॒-वँर्ष॑तु । 24) गो॒स्थान॒मिति॑ गो - स्थान᳚म् । 25) वर्ष॑तु ते ते॒ वर्ष॑तु॒ वर्ष॑तु ते । 26) ते॒ द्यौ-र्द्यौस्ते॑ ते॒ द्यौः । 27) द्यौ-र्ब॑धा॒न ब॑धा॒न द्यौ-र्द्यौ-र्ब॑धा॒न । 28) ब॒धा॒न दे॑व देव बधा॒न ब॑धा॒न दे॑व । 29) दे॒व॒ स॒वि॒त॒-स्स॒वि॒त॒-र्दे॒व॒ दे॒व॒ स॒वि॒तः॒ । 30) स॒वि॒तः॒ प॒र॒मस्या᳚-म्पर॒मस्याग्ं॑ सवित-स्सवितः पर॒मस्या᳚म् । 31) प॒र॒मस्या᳚-म्परा॒वति॑ परा॒वति॑ पर॒मस्या᳚-म्पर॒मस्या᳚-म्परा॒वति॑ । 32) प॒रा॒वति॑ श॒तेन॑ श॒तेन॑ परा॒वति॑ परा॒वति॑ श॒तेन॑ । 32) प॒रा॒वतीति॑ परा - वति॑ । 33) श॒तेन॒ पाशैः॒ पाशै᳚-श्श॒तेन॑ श॒तेन॒ पाशैः᳚ । 34) पाशै॒र्यो यः पाशैः॒ पाशै॒र्यः । 35) यो᳚ ऽस्मा न॒स्मान्. यो यो᳚ ऽस्मान् । 36) अ॒स्मा-न्द्वेष्टि॒ द्वेष्ट्य॒स्मा न॒स्मा-न्द्वेष्टि॑ । 37) द्वेष्टि॒ यं-यँ-न्द्वेष्टि॒ द्वेष्टि॒ यम् । 38) य-ञ्च॑ च॒ यं-यँ-ञ्च॑ । 39) च॒ व॒यं-वँ॒य-ञ्च॑ च व॒यम् । 40) व॒य-न्द्वि॒ष्मो द्वि॒ष्मो व॒यं-वँ॒य-न्द्वि॒ष्मः । 41) द्वि॒ष्मस्त-न्त-न्द्वि॒ष्मो द्वि॒ष्मस्तम् । 42) त मतो ऽत॒स्त-न्त मतः॑ । 43) अतो॒ मा मा ऽतो ऽतो॒ मा । 44) मा मौ᳚-म्मौ॒-म्मा मा मौ᳚क् । 45) मौ॒गप॑ह॒तो ऽप॑हतो मौ-म्मौ॒गप॑हतः । 46) अप॑हतो॒ ऽररु॑र॒ररु॒रप॑ह॒तो ऽप॑हतो॒ ऽररुः॑ । 46) अप॑हत॒ इत्यप॑ - ह॒तः॒ । 47) अ॒ररुः॑ पृथि॒व्यै पृ॑थि॒व्या अ॒ररु॑ र॒ररुः॑ पृथि॒व्यै । 48) पृ॒थि॒व्यै दे॑व॒यज॑न्यै देव॒यज॑न्यै पृथि॒व्यै पृ॑थि॒व्यै दे॑व॒यज॑न्यै । 49) दे॒व॒यज॑न्यै व्र॒जं-व्रँ॒ज-न्दे॑व॒यज॑न्यै देव॒यज॑न्यै व्र॒जम् । 49) दे॒व॒यज॑न्या॒ इति॑ देव - यज॑न्यै । 50) व्र॒ज-ङ्ग॑च्छ गच्छ व्र॒जं-व्रँ॒ज-ङ्ग॑च्छ । ॥ 13 ॥ (50/59)
1) ग॒च्छ॒ गो॒स्थान॑-ङ्गो॒स्थान॑-ङ्गच्छ गच्छ गो॒स्थान᳚म् । 2) गो॒स्थानं॒-वँर्ष॑तु॒ वर्ष॑तु गो॒स्थान॑-ङ्गो॒स्थानं॒-वँर्ष॑तु । 2) गो॒स्थान॒मिति॑ गो - स्थान᳚म् । 3) वर्ष॑तु ते ते॒ वर्ष॑तु॒ वर्ष॑तु ते । 4) ते॒ द्यौ-र्द्यौस्ते॑ ते॒ द्यौः । 5) द्यौ-र्ब॑धा॒न ब॑धा॒न द्यौ-र्द्यौ-र्ब॑धा॒न । 6) ब॒धा॒न दे॑व देव बधा॒न ब॑धा॒न दे॑व । 7) दे॒व॒ स॒वि॒त॒-स्स॒वि॒त॒-र्दे॒व॒ दे॒व॒ स॒वि॒तः॒ । 8) स॒वि॒तः॒ प॒र॒मस्या᳚-म्पर॒मस्याग्ं॑ सवित-स्सवितः पर॒मस्या᳚म् । 9) प॒र॒मस्या᳚-म्परा॒वति॑ परा॒वति॑ पर॒मस्या᳚-म्पर॒मस्या᳚-म्परा॒वति॑ । 10) प॒रा॒वति॑ श॒तेन॑ श॒तेन॑ परा॒वति॑ परा॒वति॑ श॒तेन॑ । 10) प॒रा॒वतीति॑ परा - वति॑ । 11) श॒तेन॒ पाशैः॒ पाशै᳚-श्श॒तेन॑ श॒तेन॒ पाशैः᳚ । 12) पाशै॒र्यो यः पाशैः॒ पाशै॒र्यः । 13) यो᳚ ऽस्मा न॒स्मान्. यो यो᳚ ऽस्मान् । 14) अ॒स्मा-न्द्वेष्टि॒ द्वेष्ट्य॒स्मा न॒स्मा-न्द्वेष्टि॑ । 15) द्वेष्टि॒ यं-यँ-न्द्वेष्टि॒ द्वेष्टि॒ यम् । 16) य-ञ्च॑ च॒ यं-यँ-ञ्च॑ । 17) च॒ व॒यं-वँ॒य-ञ्च॑ च व॒यम् । 18) व॒य-न्द्वि॒ष्मो द्वि॒ष्मो व॒यं-वँ॒य-न्द्वि॒ष्मः । 19) द्वि॒ष्मस्त-न्त-न्द्वि॒ष्मो द्वि॒ष्मस्तम् । 20) त मतो ऽत॒स्त-न्त मतः॑ । 21) अतो॒ मा मा ऽतो ऽतो॒ मा । 22) मा मौ᳚-म्मौ॒-म्मा मा मौ᳚क् । 23) मौ॒गप॑ह॒तो ऽप॑हतो मौ-म्मौ॒गप॑हतः । 24) अप॑हतो॒ ऽररु॑र॒ररु॒रप॑ह॒तो ऽप॑हतो॒ ऽररुः॑ । 24) अप॑हत॒ इत्यप॑ - ह॒तः॒ । 25) अ॒ररुः॑ पृथि॒व्याः पृ॑थि॒व्या अ॒ररु॑र॒ररुः॑ पृथि॒व्याः । 26) पृ॒थि॒व्या अदे॑वयज॒नो ऽदे॑वयजनः पृथि॒व्याः पृ॑थि॒व्या अदे॑वयजनः । 27) अदे॑वयजनो व्र॒जं-व्रँ॒ज मदे॑वयज॒नो ऽदे॑वयजनो व्र॒जम् । 27) अदे॑वयजन॒ इत्यदे॑व - य॒ज॒नः॒ । 28) व्र॒ज-ङ्ग॑च्छ गच्छ व्र॒जं-व्रँ॒ज-ङ्ग॑च्छ । 29) ग॒च्छ॒ गो॒स्थान॑-ङ्गो॒स्थान॑-ङ्गच्छ गच्छ गो॒स्थान᳚म् । 30) गो॒स्थानं॒-वँर्ष॑तु॒ वर्ष॑तु गो॒स्थान॑-ङ्गो॒स्थानं॒-वँर्ष॑तु । 30) गो॒स्थान॒मिति॑ गो - स्थान᳚म् । 31) वर्ष॑तु ते ते॒ वर्ष॑तु॒ वर्ष॑तु ते । 32) ते॒ द्यौ-र्द्यौस्ते॑ ते॒ द्यौः । 33) द्यौ-र्ब॑धा॒न ब॑धा॒न द्यौ-र्द्यौ-र्ब॑धा॒न । 34) ब॒धा॒न दे॑व देव बधा॒न ब॑धा॒न दे॑व । 35) दे॒व॒ स॒वि॒त॒-स्स॒वि॒त॒-र्दे॒व॒ दे॒व॒ स॒वि॒तः॒ । 36) स॒वि॒तः॒ प॒र॒मस्या᳚-म्पर॒मस्याग्ं॑ सवित-स्सवितः पर॒मस्या᳚म् । 37) प॒र॒मस्या᳚-म्परा॒वति॑ परा॒वति॑ पर॒मस्या᳚-म्पर॒मस्या᳚-म्परा॒वति॑ । 38) प॒रा॒वति॑ श॒तेन॑ श॒तेन॑ परा॒वति॑ परा॒वति॑ श॒तेन॑ । 38) प॒रा॒वतीति॑ परा - वति॑ । 39) श॒तेन॒ पाशैः॒ पाशै᳚-श्श॒तेन॑ श॒तेन॒ पाशैः᳚ । 40) पाशै॒र्यो यः पाशैः॒ पाशै॒र्यः । 41) यो᳚ ऽस्मा न॒स्मान्. यो यो᳚ ऽस्मान् । 42) अ॒स्मा-न्द्वेष्टि॒ द्वेष्ट्य॒स्मा न॒स्मा-न्द्वेष्टि॑ । 43) द्वेष्टि॒ यं-यँ-न्द्वेष्टि॒ द्वेष्टि॒ यम् । 44) य-ञ्च॑ च॒ यं-यँ-ञ्च॑ । 45) च॒ व॒यं-वँ॒य-ञ्च॑ च व॒यम् । 46) व॒य-न्द्वि॒ष्मो द्वि॒ष्मो व॒यं-वँ॒य-न्द्वि॒ष्मः । 47) द्वि॒ष्मस्त-न्त-न्द्वि॒ष्मो द्वि॒ष्मस्तम् । 48) त मतो ऽत॒स्त-न्त मतः॑ । 49) अतो॒ मा मा ऽतो ऽतो॒ मा । 50) मा मौ᳚-म्मौ॒-म्मा मा मौ᳚क् । ॥ 14 ॥ (50/56)
1) मौ॒ ग॒ररु॑ र॒ररु॑-र्मौ-म्मौग॒ररुः॑ । 2) अ॒ररु॑स्ते ते॒ ऽररु॑ र॒ररु॑स्ते । 3) ते॒ दिव॒-न्दिव॑-न्ते ते॒ दिव᳚म् । 4) दिव॒-म्मा मा दिव॒-न्दिव॒-म्मा । 5) मा स्का᳚-न्थ्स्का॒-न्मा मा स्कान्॑ । 6) स्का॒न्॒. वस॑वो॒ वस॑व-स्स्का-न्थ्स्का॒न्॒. वस॑वः । 7) वस॑वस्त्वा त्वा॒ वस॑वो॒ वस॑वस्त्वा । 8) त्वा॒ परि॒ परि॑ त्वा त्वा॒ परि॑ । 9) परि॑ गृह्णन्तु गृह्णन्तु॒ परि॒ परि॑ गृह्णन्तु । 10) गृ॒ह्ण॒न्तु॒ गा॒य॒त्रेण॑ गाय॒त्रेण॑ गृह्णन्तु गृह्णन्तु गाय॒त्रेण॑ । 11) गा॒य॒त्रेण॒ छन्द॑सा॒ छन्द॑सा गाय॒त्रेण॑ गाय॒त्रेण॒ छन्द॑सा । 12) छन्द॑सा रु॒द्रा रु॒द्राश्छन्द॑सा॒ छन्द॑सा रु॒द्राः । 13) रु॒द्रास्त्वा᳚ त्वा रु॒द्रा रु॒द्रास्त्वा᳚ । 14) त्वा॒ परि॒ परि॑ त्वा त्वा॒ परि॑ । 15) परि॑ गृह्णन्तु गृह्णन्तु॒ परि॒ परि॑ गृह्णन्तु । 16) गृ॒ह्ण॒न्तु॒ त्रैष्टु॑भेन॒ त्रैष्टु॑भेन गृह्णन्तु गृह्णन्तु॒ त्रैष्टु॑भेन । 17) त्रैष्टु॑भेन॒ छन्द॑सा॒ छन्द॑सा॒ त्रैष्टु॑भेन॒ त्रैष्टु॑भेन॒ छन्द॑सा । 18) छन्द॑सा ऽऽदि॒त्या आ॑दि॒त्याश्छन्द॑सा॒ छन्द॑सा ऽऽदि॒त्याः । 19) आ॒दि॒त्यास्त्वा᳚ त्वा ऽऽदि॒त्या आ॑दि॒त्यास्त्वा᳚ । 20) त्वा॒ परि॒ परि॑ त्वा त्वा॒ परि॑ । 21) परि॑ गृह्णन्तु गृह्णन्तु॒ परि॒ परि॑ गृह्णन्तु । 22) गृ॒ह्ण॒न्तु॒ जाग॑तेन॒ जाग॑तेन गृह्णन्तु गृह्णन्तु॒ जाग॑तेन । 23) जाग॑तेन॒ छन्द॑सा॒ छन्द॑सा॒ जाग॑तेन॒ जाग॑तेन॒ छन्द॑सा । 24) छन्द॑सा दे॒वस्य॑ दे॒वस्य॒ छन्द॑सा॒ छन्द॑सा दे॒वस्य॑ । 25) दे॒वस्य॑ सवि॒तु-स्स॑वि॒तु-र्दे॒वस्य॑ दे॒वस्य॑ सवि॒तुः । 26) स॒वि॒तु-स्स॒वे स॒वे स॑वि॒तु-स्स॑वि॒तु-स्स॒वे । 27) स॒वे कर्म॒ कर्म॑ स॒वे स॒वे कर्म॑ । 28) कर्म॑ कृण्वन्ति कृण्वन्ति॒ कर्म॒ कर्म॑ कृण्वन्ति । 29) कृ॒ण्व॒न्ति॒ वे॒धसो॑वे॒धसः॑ कृण्वन्ति कृण्वन्ति वे॒धसः॑ । 30) वे॒धस॑ ऋ॒त मृ॒तं-वेँ॒धसो॑वे॒धस॑ ऋ॒तम् । 31) ऋ॒त म॑स्यस्यृ॒त मृ॒त म॑सि । 32) अ॒स्यृ॒त॒सद॑न मृत॒सद॑न मस्यस्यृत॒सद॑नम् । 33) ऋ॒त॒सद॑न मस्यस्यृत॒सद॑न मृत॒सद॑न मसि । 33) ऋ॒त॒सद॑न॒मित्यृ॑त - सद॑नम् । 34) अ॒स्यृ॒त॒श्रीर्-ऋ॑त॒श्रीर॑स्यस्यृत॒श्रीः । 35) ऋ॒त॒श्री र॑स्यस्यृत॒श्रीर्-ऋ॑त॒श्रीर॑सि । 35) ऋ॒त॒श्रीरित्यृ॑त - श्रीः । 36) अ॒सि॒ धा धा अ॑स्यसि॒ धाः । 37) धा अ॑स्यसि॒ धा धा अ॑सि । 38) अ॒सि॒ स्व॒धा स्व॒धा अ॑स्यसि स्व॒धा । 39) स्व॒धा अ॑स्यसि स्व॒धा स्व॒धा अ॑सि । 39) स्व॒धेति॑ स्व - धा । 40) अ॒स्यु॒र्व् यू᳚(1॒)र्व्य॑स्यस्यु॒र्वी । 41) उ॒र्वी च॑ चो॒र्व्यु॑र्वी च॑ । 42) चा॒स्य॒सि॒ च॒ चा॒सि॒ । 43) अ॒सि॒ वस्वी॒ वस्व्य॑स्यसि॒ वस्वी᳚ । 44) वस्वी॑ च च॒ वस्वी॒ वस्वी॑ च । 45) चा॒स्य॒सि॒ च॒ चा॒सि॒ । 46) अ॒सि॒ पु॒रा पु॒रा ऽस्य॑सि पु॒रा । 47) पु॒रा क्रू॒रस्य॑ क्रू॒रस्य॑ पु॒रा पु॒रा क्रू॒रस्य॑ । 48) क्रू॒रस्य॑ वि॒सृपो॑ वि॒सृपः॑ क्रू॒रस्य॑ क्रू॒रस्य॑ वि॒सृपः॑ । 49) वि॒सृपो॑ विरफ्शिन्. विरफ्शिन्. वि॒सृपो॑ वि॒सृपो॑ विरफ्शिन्न् । 49) वि॒सृप॒ इति॑ वि - सृपः॑ । 50) वि॒र॒फ्शि॒-न्नु॒दा॒दायो॑दा॒दाय॑ विरफ्शिन्. विरफ्शि-न्नुदा॒दाय॑ । 50) वि॒र॒फ्शि॒न्निति॑ वि - र॒फ्शि॒न्न् । 51) उ॒दा॒दाय॑ पृथि॒वी-म्पृ॑थि॒वी मु॑दा॒दायो॑दा॒दाय॑ पृथि॒वीम् । 51) उ॒दा॒दायेत्यु॑त् - आ॒दाय॑ । 52) पृ॒थि॒वी-ञ्जी॒रदा॑नु-र्जी॒रदा॑नुः पृथि॒वी-म्पृ॑थि॒वी-ञ्जी॒रदा॑नुः । 53) जी॒रदा॑नु॒र्यां-याँ-ञ्जी॒रदा॑नु-र्जी॒रदा॑नु॒र्याम् । 53) जी॒रदा॑नु॒रिति॑ जी॒र - दा॒नुः॒ । 54) या मैर॑य॒-न्नैर॑य॒न्॒. यां-याँ मैर॑यन्न् । 55) ऐर॑यन् च॒न्द्रम॑सि च॒न्द्रम॒स्यैर॑य॒-न्नैर॑यन् च॒न्द्रम॑सि । 56) च॒न्द्रम॑सि स्व॒धाभि॑-स्स्व॒धाभि॑श्च॒न्द्रम॑सि च॒न्द्रम॑सि स्व॒धाभिः॑ । 57) स्व॒धाभि॒स्ता-न्ताग् स्व॒धाभि॑-स्स्व॒धाभि॒स्ताम् । 57) स्व॒धाभि॒रिति॑ स्व - धाभिः॑ । 58) ता-न्धीरा॑सो॒ धीरा॑स॒स्ता-न्ता-न्धीरा॑सः । 59) धीरा॑सो अनु॒दृश्या॑नु॒दृश्य॒ धीरा॑सो॒ धीरा॑सो अनु॒दृश्य॑ । 60) अ॒नु॒दृश्य॑ यजन्ते यजन्ते ऽनु॒दृश्या॑नु॒दृश्य॑ यजन्ते । 60) अ॒नु॒दृश्येत्य॑नु - दृश्य॑ । 61) य॒ज॒न्त॒ इति॑ यजन्ते । ॥ 15 ॥ (61/70) ॥ अ. 9 ॥
1) प्रत्यु॑ष्ट॒ग्ं॒ रक्षो॒ रक्षः॒ प्रत्यु॑ष्ट॒-म्प्रत्यु॑ष्ट॒ग्ं॒ रक्षः॑ । 1) प्रत्यु॑ष्ट॒मिति॒ प्रति॑ - उ॒ष्ट॒म् । 2) रक्षः॒ प्रत्यु॑ष्टाः॒ प्रत्यु॑ष्टा॒ रक्षो॒ रक्षः॒ प्रत्यु॑ष्टाः । 3) प्रत्यु॑ष्टा॒ अरा॑त॒यो ऽरा॑तयः॒ प्रत्यु॑ष्टाः॒ प्रत्यु॑ष्टा॒ अरा॑तयः । 3) प्रत्यु॑ष्टा॒ इति॒ प्रति॑ - उ॒ष्टाः॒ । 4) अरा॑तयो॒ ऽग्नेर॒ग्नेररा॑त॒यो ऽरा॑तयो॒ ऽग्नेः । 5) अ॒ग्ने-र्वो॑ वो॒ ऽग्नेर॒ग्ने-र्वः॑ । 6) व॒स्तेजि॑ष्ठेन॒ तेजि॑ष्ठेन वो व॒स्तेजि॑ष्ठेन । 7) तेजि॑ष्ठेन॒ तेज॑सा॒ तेज॑सा॒ तेजि॑ष्ठेन॒ तेजि॑ष्ठेन॒ तेज॑सा । 8) तेज॑सा॒ नि-र्णिष् टेज॑सा॒ तेज॑सा॒ निः । 9) निष् ट॑पामि तपामि॒ नि-र्णिष् ट॑पामि । 10) त॒पा॒मि॒ गो॒ष्ठ-ङ्गो॒ष्ठ-न्त॑पामि तपामि गो॒ष्ठम् । 11) गो॒ष्ठ-म्मा मा गो॒ष्ठ-ङ्गो॒ष्ठ-म्मा । 11) गो॒ष्ठमिति॑ गो - स्थम् । 12) मा नि-र्णि-र्मा मा निः । 13) नि-र्मृ॑क्ष-म्मृक्ष॒न्नि-र्णि-र्मृ॑क्षम् । 14) मृ॒क्षं॒-वाँ॒जिनं॑-वाँ॒जिन॑-म्मृक्ष-म्मृक्षं-वाँ॒जिन᳚म् । 15) वा॒जिन॑-न्त्वा त्वा वा॒जिनं॑-वाँ॒जिन॑-न्त्वा । 16) त्वा॒ स॒प॒त्न॒सा॒हग्ं स॑पत्नसा॒ह-न्त्वा᳚ त्वा सपत्नसा॒हम् । 17) स॒प॒त्न॒सा॒हग्ं सग्ं सग्ं स॑पत्नसा॒हग्ं स॑पत्नसा॒हग्ं सम् । 17) स॒प॒त्न॒सा॒हमिति॑ सपत्न - सा॒हम् । 18) स-म्मा᳚र्ज्मि मार्ज्मि॒ सग्ं स-म्मा᳚र्ज्मि । 19) मा॒र्ज्मि॒ वाचं॒-वाँच॑-म्मार्ज्मि मार्ज्मि॒ वाच᳚म् । 20) वाच॑-म्प्रा॒ण-म्प्रा॒णं-वाँचं॒-वाँच॑-म्प्रा॒णम् । 21) प्रा॒ण-ञ्चक्षु॒श्चक्षुः॑ प्रा॒ण-म्प्रा॒ण-ञ्चक्षुः॑ । 21) प्रा॒णमिति॑ प्र - अ॒नम् । 22) चक्षु॒-श्श्रोत्र॒ग्ग्॒ श्रोत्र॒-ञ्चक्षु॒श्चक्षु॒-श्श्रोत्र᳚म् । 23) श्रोत्र॑-म्प्र॒जा-म्प्र॒जाग् श्रोत्र॒ग्ग्॒ श्रोत्र॑-म्प्र॒जाम् । 24) प्र॒जां-योँनिं॒-योँनि॑-म्प्र॒जा-म्प्र॒जां-योँनि᳚म् । 24) प्र॒जामिति॑ प्र - जाम् । 25) योनि॒-म्मा मा योनिं॒-योँनि॒-म्मा । 26) मा नि-र्णि-र्मा मा निः । 27) नि-र्मृ॑क्ष-म्मृक्ष॒न्नि-र्णि-र्मृ॑क्षम् । 28) मृ॒क्षं॒-वाँ॒जिनीं᳚-वाँ॒जिनी᳚-म्मृक्ष-म्मृक्षं-वाँ॒जिनी᳚म् । 29) वा॒जिनी᳚-न्त्वा त्वा वा॒जिनीं᳚-वाँ॒जिनी᳚-न्त्वा । 30) त्वा॒ स॒प॒त्न॒सा॒हीग्ं स॑पत्नसा॒ही-न्त्वा᳚ त्वा सपत्नसा॒हीम् । 31) स॒प॒त्न॒सा॒हीग्ं सग्ं सग्ं स॑पत्नसा॒हीग्ं स॑पत्नसा॒हीग्ं सम् । 31) स॒प॒त्न॒सा॒हीमिति॑ सपत्न - सा॒हीम् । 32) स-म्मा᳚र्ज्मि मार्ज्मि॒ सग्ं स-म्मा᳚र्ज्मि । 33) मा॒र्ज्म्या॒शासा॑ना॒ ऽऽशासा॑ना मार्ज्मि मार्ज्म्या॒शासा॑ना । 34) आ॒शासा॑ना सौमन॒सग्ं सौ॑मन॒स मा॒शासा॑ना॒ ऽऽशासा॑ना सौमन॒सम् । 34) आ॒शासा॒नेत्या᳚ - शासा॑ना । 35) सौ॒म॒न॒स-म्प्र॒जा-म्प्र॒जाग्ं सौ॑मन॒सग्ं सौ॑मन॒स-म्प्र॒जाम् । 36) प्र॒जाग्ं सौभा᳚ग्य॒ग्ं॒ सौभा᳚ग्य-म्प्र॒जा-म्प्र॒जाग्ं सौभा᳚ग्यम् । 36) प्र॒जामिति॑ प्र - जाम् । 37) सौभा᳚ग्य-न्त॒नू-न्त॒नूग्ं सौभा᳚ग्य॒ग्ं॒ सौभा᳚ग्य-न्त॒नूम् । 38) त॒नूमिति॑ त॒नूम् । 39) अ॒ग्नेरनु॑व्र॒ता ऽनु॑व्रता॒ ऽग्नेर॒ग्नेरनु॑व्रता । 40) अनु॑व्रता भू॒त्वा भू॒त्वा ऽनु॑व्र॒ता ऽनु॑व्रता भू॒त्वा । 40) अनु॑व्र॒तेत्यनु॑ - व्र॒ता॒ । 41) भू॒त्वा सग्ं स-म्भू॒त्वा भू॒त्वा सम् । 42) सन्न॑ह्ये नह्ये॒ सग्ं सन्न॑ह्ये । 43) न॒ह्ये॒ सु॒कृ॒ताय॑ सुकृ॒ताय॑ नह्ये नह्ये सुकृ॒ताय॑ । 44) सु॒कृ॒ताय॒ क-ङ्कग्ं सु॑कृ॒ताय॑ सुकृ॒ताय॒ कम् । 44) सु॒कृ॒तायेति॑ सु - कृ॒ताय॑ । 45) कमिति॒ कम् । 46) सु॒प्र॒जस॑स्त्वा त्वा सुप्र॒जस॑-स्सुप्र॒जस॑स्त्वा । 46) सु॒प्र॒जस॒ इति॑ सु - प्र॒जसः॑ । 47) त्वा॒ व॒यं-वँ॒य-न्त्वा᳚ त्वा व॒यम् । 48) व॒यग्ं सु॒पत्नी᳚-स्सु॒पत्नी᳚-र्व॒यं-वँ॒यग्ं सु॒पत्नीः᳚ । 49) सु॒पत्नी॒रुपोप॑ सु॒पत्नी᳚-स्सु॒पत्नी॒रुप॑ । 49) सु॒पत्नी॒रिति॑ सु - पत्नीः᳚ । 50) उप॑ सेदिम सेदि॒मोपोप॑ सेदिम । ॥ 16 ॥ (50/63)
1) से॒दि॒मेति॑ सेदिम । 2) अग्ने॑ सपत्न॒दम्भ॑नग्ं सपत्न॒दम्भ॑न॒ मग्ने ऽग्ने॑ सपत्न॒दम्भ॑नम् । 3) स॒प॒त्न॒दम्भ॑न॒ मद॑ब्धासो॒ अद॑ब्धास-स्सपत्न॒दम्भ॑नग्ं सपत्न॒दम्भ॑न॒ मद॑ब्धासः । 3) स॒प॒त्न॒दम्भ॑न॒मिति॑ सपत्न - दम्भ॑नम् । 4) अद॑ब्धासो॒ अदा᳚भ्य॒ मदा᳚भ्य॒ मद॑ब्धासो॒ अद॑ब्धासो॒ अदा᳚भ्यम् । 5) अदा᳚भ्य॒मित्यदा᳚भ्यम् । 6) इ॒मं-विँ वीम मि॒मं-विँ । 7) वि ष्या॑मि स्यामि॒ वि वि ष्या॑मि । 8) स्या॒मि॒ वरु॑णस्य॒ वरु॑णस्य स्यामि स्यामि॒ वरु॑णस्य । 9) वरु॑णस्य॒ पाश॒-म्पाशं॒-वँरु॑णस्य॒ वरु॑णस्य॒ पाश᳚म् । 10) पाशं॒-यंँ य-म्पाश॒-म्पाशं॒-यँम् । 11) य मब॑द्ध्नी॒ताब॑द्ध्नीत॒ यं-यँ मब॑द्ध्नीत । 12) अब॑द्ध्नीत सवि॒ता स॑वि॒ता ऽब॑द्ध्नी॒ताब॑द्ध्नीत सवि॒ता । 13) स॒वि॒ता सु॒केत॑-स्सु॒केत॑-स्सवि॒ता स॑वि॒ता सु॒केतः॑ । 14) सु॒केत॒ इति॑ सु - केतः॑ । 15) धा॒तुश्च॑ च धा॒तु-र्धा॒तुश्च॑ । 16) च॒ योनौ॒ योनौ॑ च च॒ योनौ᳚ । 17) योनौ॑ सुकृ॒तस्य॑ सुकृ॒तस्य॒ योनौ॒ योनौ॑ सुकृ॒तस्य॑ । 18) सु॒कृ॒तस्य॑ लो॒के लो॒के सु॑कृ॒तस्य॑ सुकृ॒तस्य॑ लो॒के । 18) सु॒कृ॒तस्येति॑ सु - कृ॒तस्य॑ । 19) लो॒के स्यो॒नग्ग् स्यो॒नम् ँलो॒के लो॒के स्यो॒नम् । 20) स्यो॒न-म्मे॑ मे स्यो॒नग्ग् स्यो॒न-म्मे᳚ । 21) मे॒ स॒ह स॒ह मे॑ मे स॒ह । 22) स॒ह पत्या॒ पत्या॑ स॒ह स॒ह पत्या᳚ । 23) पत्या॑ करोमि करोमि॒ पत्या॒ पत्या॑ करोमि । 24) क॒रो॒मीति॑ करोमि । 25) स मायु॒षा ऽऽयु॑षा॒ सग्ं स मायु॑षा । 26) आयु॑षा॒ सग्ं स मायु॒षा ऽऽयु॑षा॒ सम् । 27) स-म्प्र॒जया᳚ प्र॒जया॒ सग्ं स-म्प्र॒जया᳚ । 28) प्र॒जया॒ सग्ं स-म्प्र॒जया᳚ प्र॒जया॒ सम् । 28) प्र॒जयेति॑ प्र - जया᳚ । 29) स म॑ग्ने ऽग्ने॒ सग्ं स म॑ग्ने । 30) अ॒ग्ने॒ वर्च॑सा॒ वर्च॑सा ऽग्ने ऽग्ने॒ वर्च॑सा । 31) वर्च॑सा॒ पुनः॒ पुन॒-र्वर्च॑सा॒ वर्च॑सा॒ पुनः॑ । 32) पुन॒रिति॒ पुनः॑ । 33) स-म्पत्नी॒ पत्नी॒ सग्ं स-म्पत्नी᳚ । 34) पत्नी॒ पत्या॒ पत्या॒ पत्नी॒ पत्नी॒ पत्या᳚ । 35) पत्या॒ ऽह म॒ह-म्पत्या॒ पत्या॒ ऽहम् । 36) अ॒ह-ङ्ग॑च्छे गच्छे॒ ऽह म॒ह-ङ्ग॑च्छे । 37) ग॒च्छे॒ सग्ं स-ङ्ग॑च्छे गच्छे॒ सम् । 38) स मा॒त्मा ऽऽत्मा सग्ं स मा॒त्मा । 39) आ॒त्मा त॒नुवा॑ त॒नुवा॒ ऽऽत्मा ऽऽत्मा त॒नुवा᳚ । 40) त॒नुवा॒ मम॒ मम॑ त॒नुवा॑ त॒नुवा॒ मम॑ । 41) ममेति॒ मम॑ । 42) म॒ही॒ना-म्पयः॒ पयो॑ मही॒ना-म्म॑ही॒ना-म्पयः॑ । 43) पयो᳚ ऽस्यसि॒ पयः॒ पयो॑ ऽसि । 44) अ॒स्योष॑धीना॒ मोष॑धीना मस्य॒स्योष॑धीनाम् । 45) ओष॑धीना॒ग्ं॒ रसो॒ रस॒ ओष॑धीना॒ मोष॑धीना॒ग्ं॒ रसः॑ । 46) रस॒स्तस्य॒ तस्य॒ रसो॒ रस॒स्तस्य॑ । 47) तस्य॑ ते ते॒ तस्य॒ तस्य॑ ते । 48) ते ऽक्षी॑यमाण॒स्याक्षी॑यमाणस्य ते॒ ते ऽक्षी॑यमाणस्य । 49) अक्षी॑यमाणस्य॒ नि-र्णिरक्षी॑यमाण॒स्याक्षी॑यमाणस्य॒ निः । 50) नि-र्व॑पामि वपामि॒ नि-र्णि-र्व॑पामि । ॥ 17 ॥ (50/53)
1) व॒पा॒मि॒ म॒ही॒ना-म्म॑ही॒नां-वँ॑पामि वपामि मही॒नाम् । 2) म॒ही॒ना-म्पयः॒ पयो॑ मही॒ना-म्म॑ही॒ना-म्पयः॑ । 3) पयो᳚ ऽस्यसि॒ पयः॒ पयो॑ ऽसि । 4) अ॒स्योष॑धीना॒ मोष॑धीना मस्य॒स्योष॑धीनाम् । 5) ओष॑धीना॒ग्ं॒ रसो॒ रस॒ ओष॑धीना॒ मोष॑धीना॒ग्ं॒ रसः॑ । 6) रसो ऽद॑ब्धे॒नाद॑ब्धेन॒ रसो॒ रसो ऽद॑ब्धेन । 7) अद॑ब्धेन त्वा॒ त्वा ऽद॑ब्धे॒नाद॑ब्धेन त्वा । 8) त्वा॒ चक्षु॑षा॒ चक्षु॑षा त्वा त्वा॒ चक्षु॑षा । 9) चक्षु॒षा ऽवाव॒ चक्षु॑षा॒ चक्षु॒षा ऽव॑ । 10) अवे᳚क्ष ई॒क्षे ऽवावे᳚क्षे । 11) ई॒क्षे॒ सु॒प्र॒जा॒स्त्वाय॑ सुप्रजा॒स्त्वाये᳚क्ष ईक्षे सुप्रजा॒स्त्वाय॑ । 12) सु॒प्र॒जा॒स्त्वाय॒ तेज॒स्तेज॑-स्सुप्रजा॒स्त्वाय॑ सुप्रजा॒स्त्वाय॒ तेजः॑ । 12) सु॒प्र॒जा॒स्त्वायेति॑ सुप्रजाः - त्वाय॑ । 13) तेजो᳚ ऽस्यसि॒ तेज॒स्तेजो॑ ऽसि । 14) अ॒सि॒ तेज॒स्तेजो᳚ ऽस्यसि॒ तेजः॑ । 15) तेजो ऽन्वनु॒ तेज॒स्तेजो ऽनु॑ । 16) अनु॒ प्र प्राण्वनु॒ प्र । 17) प्रे ही॑हि॒ प्र प्रे हि॑ । 18) इ॒ह्य॒ग्नि र॒ग्निरि॑हीह्य॒ग्निः । 19) अ॒ग्निस्ते॑ ते॒ ऽग्निर॒ग्निस्ते᳚ । 20) ते॒ तेज॒ स्तेज॑स्ते ते॒ तेजः॑ । 21) तेजो॒ मा मा तेज॒स्तेजो॒ मा । 22) मा वि वि मा मा वि । 23) वि नै᳚-न्नै॒-द्वि वि नै᳚त् । 24) नै॒द॒ग्नेर॒ग्ने-र्नै᳚-न्नैद॒ग्नेः । 25) अ॒ग्ने-र्जि॒ह्वा जि॒ह्वा ऽग्नेर॒ग्ने-र्जि॒ह्वा । 26) जि॒ह्वा ऽस्य॑सि जि॒ह्वा जि॒ह्वा ऽसि॑ । 27) अ॒सि॒ सु॒भू-स्सु॒भूर॑स्यसि सु॒भूः । 28) सु॒भू-र्दे॒वाना᳚-न्दे॒वानाग्ं॑ सु॒भू-स्सु॒भू-र्दे॒वाना᳚म् । 28) सु॒भूरिति॑ सु - भूः । 29) दे॒वाना॒-न्धाम्ने॑धाम्ने॒ धाम्ने॑धाम्ने दे॒वाना᳚-न्दे॒वाना॒-न्धाम्ने॑धाम्ने । 30) धाम्ने॑धाम्ने दे॒वेभ्यो॑ दे॒वेभ्यो॒ धाम्ने॑धाम्ने॒ धाम्ने॑धाम्ने दे॒वेभ्यः॑ । 30) धाम्ने॑धाम्न॒ इति॒ धाम्ने᳚ - धा॒म्ने॒ । 31) दे॒वेभ्यो॒ यजु॑षेयजुषे॒ यजु॑षेयजुषे दे॒वेभ्यो॑ दे॒वेभ्यो॒ यजु॑षेयजुषे । 32) यजु॑षेयजुषे भव भव॒ यजु॑षेयजुषे॒ यजु॑षेयजुषे भव । 32) यजु॑षेयजुष॒ इति॒ यजु॑षे - य॒जु॒षे॒ । 33) भ॒व॒ शु॒क्रग्ं शु॒क्र-म्भ॑व भव शु॒क्रम् । 34) शु॒क्र म॑स्यसि शु॒क्रग्ं शु॒क्र म॑सि । 35) अ॒सि॒ ज्योति॒-र्ज्योति॑रस्यसि॒ ज्योतिः॑ । 36) ज्योति॑रस्यसि॒ ज्योति॒-र्ज्योति॑रसि । 37) अ॒सि॒ तेज॒स्तेजो᳚ ऽस्यसि॒ तेजः॑ । 38) तेजो᳚ ऽस्यसि॒ तेज॒स्तेजो॑ ऽसि । 39) अ॒सि॒ दे॒वो दे॒वो᳚ ऽस्यसि दे॒वः । 40) दे॒वो वो॑ वो दे॒वो दे॒वो वः॑ । 41) व॒-स्स॒वि॒ता स॑वि॒ता वो॑ व-स्सवि॒ता । 42) स॒वि॒तोदु-थ्स॑वि॒ता स॑वि॒तोत् । 43) उ-त्पु॑नातु पुना॒तूदु-त्पु॑नातु । 44) पु॒ना॒त्वच्छि॑द्रे॒णाच्छि॑द्रेण पुनातु पुना॒त्वच्छि॑द्रेण । 45) अच्छि॑द्रेण प॒वित्रे॑ण प॒वित्रे॒णाच्छि॑द्रे॒णाच्छि॑द्रेण प॒वित्रे॑ण । 46) प॒वित्रे॑ण॒ वसो॒-र्वसोः᳚ प॒वित्रे॑ण प॒वित्रे॑ण॒ वसोः᳚ । 47) वसो॒-स्सूर्य॑स्य॒ सूर्य॑स्य॒ वसो॒-र्वसो॒-स्सूर्य॑स्य । 48) सूर्य॑स्य र॒श्मिभी॑ र॒श्मिभि॒-स्सूर्य॑स्य॒ सूर्य॑स्य र॒श्मिभिः॑ । 49) र॒श्मिभि॑-श्शु॒क्रग्ं शु॒क्रग्ं र॒श्मिभी॑ र॒श्मिभि॑-श्शु॒क्रम् । 49) र॒श्मिभि॒रिति॑ र॒श्मि - भिः॒ । 50) शु॒क्र-न्त्वा᳚ त्वा शु॒क्रग्ं शु॒क्र-न्त्वा᳚ । 51) त्वा॒ शु॒क्रायाग्ं॑ शु॒क्राया᳚-न्त्वा त्वा शु॒क्राया᳚म् । 52) शु॒क्राया॒-न्धाम्ने॑धाम्ने॒ धाम्ने॑धाम्ने शु॒क्रायाग्ं॑ शु॒क्राया॒-न्धाम्ने॑धाम्ने । 53) धाम्ने॑धाम्ने दे॒वेभ्यो॑ दे॒वेभ्यो॒ धाम्ने॑धाम्ने॒ धाम्ने॑धाम्ने दे॒वेभ्यः॑ । 53) धाम्ने॑धाम्न॒ इति॒ धाम्ने᳚ - धा॒म्ने॒ । 54) दे॒वेभ्यो॒ यजु॑षेयजुषे॒ यजु॑षेयजुषे दे॒वेभ्यो॑ दे॒वेभ्यो॒ यजु॑षेयजुषे । 55) यजु॑षेयजुषे गृह्णामि गृह्णामि॒ यजु॑षेयजुषे॒ यजु॑षेयजुषे गृह्णामि । 55) यजु॑षेयजुष॒ इति॒ यजु॑षे - य॒जु॒षे॒ । 56) गृ॒ह्णा॒मि॒ ज्योति॒-र्ज्योति॑-र्गृह्णामि गृह्णामि॒ ज्योतिः॑ । 57) ज्योति॑स्त्वा त्वा॒ ज्योति॒-र्ज्योति॑स्त्वा । 58) त्वा॒ ज्योति॑षि॒ ज्योति॑षि त्वा त्वा॒ ज्योति॑षि । 59) ज्योति॑ष्य॒र्चिर॒र्चि-र्ज्योति॑षि॒ ज्योति॑ष्य॒र्चिः । 60) अ॒र्चिस्त्वा᳚ त्वा॒ ऽर्चिर॒र्चिस्त्वा᳚ । 61) त्वा॒ ऽर्चिष्य॒र्चिषि॑ त्वा त्वा॒ ऽर्चिषि॑ । 62) अ॒र्चिषि॒ धाम्ने॑धाम्ने॒ धाम्ने॑धाम्ने॒ ऽर्चिष्य॒र्चिषि॒ धाम्ने॑धाम्ने । 63) धाम्ने॑धाम्ने दे॒वेभ्यो॑ दे॒वेभ्यो॒ धाम्ने॑धाम्ने॒ धाम्ने॑धाम्ने दे॒वेभ्यः॑ । 63) धाम्ने॑धाम्न॒ इति॒ धाम्ने᳚ - धा॒म्ने॒ । 64) दे॒वेभ्यो॒ यजु॑षेयजुषे॒ यजु॑षेयजुषे दे॒वेभ्यो॑ दे॒वेभ्यो॒ यजु॑षेयजुषे । 65) यजु॑षेयजुषे गृह्णामि गृह्णामि॒ यजु॑षेयजुषे॒ यजु॑षेयजुषे गृह्णामि । 65) यजु॑षेयजुष॒ इति॒ यजु॑षे - य॒जु॒षे॒ । 66) गृ॒ह्णा॒मीति॑ गृह्णामि । ॥ 18 ॥ (66/75) ॥ अ. 10 ॥
1) कृष्णो᳚ ऽस्यसि॒ कृष्णः॒ कृष्णो॑ ऽसि । 2) अ॒स्या॒ख॒रे॒ष्ठ आ॑खरे॒ष्ठो᳚ ऽस्यस्याखरे॒ष्ठः । 3) आ॒ख॒रे॒ष्ठो᳚ ऽग्नये॒ ऽग्नय॑ आखरे॒ष्ठ आ॑खरे॒ष्ठो᳚ ऽग्नये᳚ । 3) आ॒ख॒रे॒ष्ठ इत्या॑खरे - स्थः । 4) अ॒ग्नये᳚ त्वा त्वा॒ ऽग्नये॒ ऽग्नये᳚ त्वा । 5) त्वा॒ स्वाहा॒ स्वाहा᳚ त्वा त्वा॒ स्वाहा᳚ । 6) स्वाहा॒ वेदि॒-र्वेदि॒-स्स्वाहा॒ स्वाहा॒ वेदिः॑ । 7) वेदि॑रस्यसि॒ वेदि॒-र्वेदि॑रसि । 8) अ॒सि॒ ब॒र्॒हिषे॑ ब॒र्॒हिषे᳚ ऽस्यसि ब॒र्॒हिषे᳚ । 9) ब॒र्॒हिषे᳚ त्वा त्वा ब॒र्॒हिषे॑ ब॒र्॒हिषे᳚ त्वा । 10) त्वा॒ स्वाहा॒ स्वाहा᳚ त्वा त्वा॒ स्वाहा᳚ । 11) स्वाहा॑ ब॒र्॒हि-र्ब॒र्॒हि-स्स्वाहा॒ स्वाहा॑ ब॒र्॒हिः । 12) ब॒र्॒हिर॑स्यसि ब॒र्॒हि-र्ब॒र्॒हिर॑सि । 13) अ॒सि॒ स्रु॒ग्भ्य-स्स्रु॒ग्भ्यो᳚ ऽस्यसि स्रु॒ग्भ्यः । 14) स्रु॒ग्भ्यस्त्वा᳚ त्वा स्रु॒ग्भ्य-स्स्रु॒ग्भ्यस्त्वा᳚ । 14) स्रु॒ग्भ्य इति॑ स्रुक् - भ्यः । 15) त्वा॒ स्वाहा॒ स्वाहा᳚ त्वा त्वा॒ स्वाहा᳚ । 16) स्वाहा॑ दि॒वे दि॒वे स्वाहा॒ स्वाहा॑ दि॒वे । 17) दि॒वे त्वा᳚ त्वा दि॒वे दि॒वे त्वा᳚ । 18) त्वा॒ ऽन्तरि॑क्षाया॒न्तरि॑क्षाय त्वा त्वा॒ ऽन्तरि॑क्षाय । 19) अ॒न्तरि॑क्षाय त्वा त्वा॒ ऽन्तरि॑क्षाया॒न्तरि॑क्षाय त्वा । 20) त्वा॒ पृ॒थि॒व्यै पृ॑थि॒व्यै त्वा᳚ त्वा पृथि॒व्यै । 21) पृ॒थि॒व्यै त्वा᳚ त्वा पृथि॒व्यै पृ॑थि॒व्यै त्वा᳚ । 22) त्वा॒ स्व॒धा स्व॒धा त्वा᳚ त्वा स्व॒धा । 23) स्व॒धा पि॒तृभ्यः॑ पि॒तृभ्य॑-स्स्व॒धा स्व॒धा पि॒तृभ्यः॑ । 23) स्व॒धेति॑ स्व - धा । 24) पि॒तृभ्य॒ ऊर्गूर्-क्पि॒तृभ्यः॑ पि॒तृभ्य॒ ऊर्क् । 24) पि॒तृभ्य॒ इति॑ पि॒तृ - भ्यः॒ । 25) ऊर्ग् भ॑व भ॒वोर्गूर्ग् भ॑व । 26) भ॒व॒ ब॒र्॒हि॒षद्भ्यो॑ बर्हि॒षद्भ्यो॑ भव भव बर्हि॒षद्भ्यः॑ । 27) ब॒र्॒हि॒षद्भ्य॑ ऊ॒र्जोर्जा ब॑र्हि॒षद्भ्यो॑ बर्हि॒षद्भ्य॑ ऊ॒र्जा । 27) ब॒र्॒हि॒षद्भ्य॒ इति॑ बर्हि॒षत् - भ्यः॒ । 28) ऊ॒र्जा पृ॑थि॒वी-म्पृ॑थि॒वी मू॒र्जोर्जा पृ॑थि॒वीम् । 29) पृ॒थि॒वी-ङ्ग॑च्छत गच्छत पृथि॒वी-म्पृ॑थि॒वी-ङ्ग॑च्छत । 30) ग॒च्छ॒त॒ विष्णो॒-र्विष्णो᳚-र्गच्छत गच्छत॒ विष्णोः᳚ । 31) विष्णो॒-स्स्तूप॒-स्स्तूपो॒ विष्णो॒-र्विष्णो॒-स्स्तूपः॑ । 32) स्तूपो᳚ ऽस्यसि॒ स्तूप॒-स्स्तूपो॑ ऽसि । 33) अ॒स्यूर्णा᳚म्रदस॒ मूर्णा᳚म्रदस मस्य॒स्यूर्णा᳚म्रदसम् । 34) ऊर्णा᳚म्रदस-न्त्वा॒ त्वोर्णा᳚म्रदस॒ मूर्णा᳚म्रदस-न्त्वा । 34) ऊर्णा᳚म्रदस॒मित्यूर्णा᳚ - म्र॒द॒स॒म् । 35) त्वा॒ स्तृ॒णा॒मि॒ स्तृ॒णा॒मि॒ त्वा॒ त्वा॒ स्तृ॒णा॒मि॒ । 36) स्तृ॒णा॒मि॒ स्वा॒स॒स्थग्ग् स्वा॑स॒स्थग्ग् स्तृ॑णामि स्तृणामि स्वास॒स्थम् । 37) स्वा॒स॒स्थ-न्दे॒वेभ्यो॑ दे॒वेभ्य॑-स्स्वास॒स्थग्ग् स्वा॑स॒स्थ-न्दे॒वेभ्यः॑ । 37) स्वा॒स॒स्थमिति॑ सु - आ॒स॒स्थम् । 38) दे॒वेभ्यो॑ गन्ध॒र्वो ग॑न्ध॒र्वो दे॒वेभ्यो॑ दे॒वेभ्यो॑ गन्ध॒र्वः । 39) ग॒न्ध॒र्वो᳚ ऽस्यसि गन्ध॒र्वो ग॑न्ध॒र्वो॑ ऽसि । 40) अ॒सि॒ वि॒श्वाव॑सु-र्वि॒श्वाव॑सुरस्यसि वि॒श्वाव॑सुः । 41) वि॒श्वाव॑सु॒-र्विश्व॑स्मा॒-द्विश्व॑स्मा-द्वि॒श्वाव॑सु-र्वि॒श्वाव॑सु॒-र्विश्व॑स्मात् । 41) वि॒श्वाव॑सु॒रिति॑ वि॒श्व - व॒सुः॒ । 42) विश्व॑स्मा॒दीष॑त॒ ईष॑तो॒ विश्व॑स्मा॒-द्विश्व॑स्मा॒दीष॑तः । 43) ईष॑तो॒ यज॑मानस्य॒ यज॑मान॒स्येष॑त॒ ईष॑तो॒ यज॑मानस्य । 44) यज॑मानस्य परि॒धिः प॑रि॒धि-र्यज॑मानस्य॒ यज॑मानस्य परि॒धिः । 45) प॒रि॒धिरि॒ड इ॒डस्प॑रि॒धिः प॑रि॒धिरि॒डः । 45) प॒रि॒धिरिति॑ परि - धिः । 46) इ॒ड ई॑डि॒त ई॑डि॒त इ॒ड इ॒ड ई॑डि॒तः । 47) ई॒डि॒त इन्द्र॒स्ये न्द्र॑स्येडि॒त ई॑डि॒त इन्द्र॑स्य । 48) इन्द्र॑स्य बा॒हु-र्बा॒हुरिन्द्र॒स्ये न्द्र॑स्य बा॒हुः । 49) बा॒हुर॑स्यसि बा॒हु-र्बा॒हुर॑सि । 50) अ॒सि॒ दक्षि॑णो॒ दक्षि॑णो ऽस्यसि॒ दक्षि॑णः । ॥ 19 ॥ (50/59)
1) दक्षि॑णो॒ यज॑मानस्य॒ यज॑मानस्य॒ दक्षि॑णो॒ दक्षि॑णो॒ यज॑मानस्य । 2) यज॑मानस्य परि॒धिः प॑रि॒धि-र्यज॑मानस्य॒ यज॑मानस्य परि॒धिः । 3) प॒रि॒धिरि॒ड इ॒डस्प॑रि॒धिः प॑रि॒धिरि॒डः । 3) प॒रि॒धिरिति॑ परि - धिः । 4) इ॒ड ई॑डि॒त ई॑डि॒त इ॒ड इ॒ड ई॑डि॒तः । 5) ई॒डि॒तो मि॒त्रावरु॑णौ मि॒त्रावरु॑णा वीडि॒त ई॑डि॒तो मि॒त्रावरु॑णौ । 6) मि॒त्रावरु॑णौ त्वा त्वा मि॒त्रावरु॑णौ मि॒त्रावरु॑णौ त्वा । 6) मि॒त्रावरु॑णा॒विति॑ मि॒त्रा - वरु॑णौ । 7) त्वो॒त्त॒र॒त उ॑त्तर॒तस्त्वा᳚ त्वोत्तर॒तः । 8) उ॒त्त॒र॒तः परि॒ पर्यु॑त्तर॒त उ॑त्तर॒तः परि॑ । 8) उ॒त्त॒र॒त इत्यु॑त् - त॒र॒तः । 9) परि॑ धत्ता-न्धत्ता॒-म्परि॒ परि॑ धत्ताम् । 10) ध॒त्ता॒-न्ध्रु॒वेण॑ ध्रु॒वेण॑ धत्ता-न्धत्ता-न्ध्रु॒वेण॑ । 11) ध्रु॒वेण॒ धर्म॑णा॒ धर्म॑णा ध्रु॒वेण॑ ध्रु॒वेण॒ धर्म॑णा । 12) धर्म॑णा॒ यज॑मानस्य॒ यज॑मानस्य॒ धर्म॑णा॒ धर्म॑णा॒ यज॑मानस्य । 13) यज॑मानस्य परि॒धिः प॑रि॒धिर्यज॑मानस्य॒ यज॑मानस्य परि॒धिः । 14) प॒रि॒धिरि॒ड इ॒डस् प॑रि॒धिः प॑रि॒धिरि॒डः । 14) प॒रि॒धिरिति॑ परि - धिः । 15) इ॒ड ई॑डि॒त ई॑डि॒त इ॒ड इ॒ड ई॑डि॒तः । 16) ई॒डि॒त-स्सूर्य॒-स्सूर्य॑ ईडि॒त ई॑डि॒त-स्सूर्यः॑ । 17) सूर्य॑स्त्वा त्वा॒ सूर्य॒-स्सूर्य॑स्त्वा । 18) त्वा॒ पु॒रस्ता᳚-त्पु॒रस्ता᳚-त्त्वा त्वा पु॒रस्ता᳚त् । 19) पु॒रस्ता᳚-त्पातु पातु पु॒रस्ता᳚-त्पु॒रस्ता᳚-त्पातु । 20) पा॒तु॒ कस्याः॒ कस्याः᳚ पातु पातु॒ कस्याः᳚ । 21) कस्या᳚श्चिच् चि॒-त्कस्याः॒ कस्या᳚श्चित् । 22) चि॒द॒भिश॑स्त्या अ॒भिश॑स्त्याश्चिच् चिद॒भिश॑स्त्याः । 23) अ॒भिश॑स्त्या वी॒तिहो᳚त्रं-वीँ॒तिहो᳚त्र म॒भिश॑स्त्या अ॒भिश॑स्त्या वी॒तिहो᳚त्रम् । 23) अ॒भिश॑स्त्या॒ इत्य॒भि - श॒स्त्याः॒ । 24) वी॒तिहो᳚त्र-न्त्वा त्वा वी॒तिहो᳚त्रं-वीँ॒तिहो᳚त्र-न्त्वा । 24) वी॒तिहो᳚त्र॒मिति॑ वी॒ति - हो॒त्र॒म् । 25) त्वा॒ क॒वे॒ क॒वे॒ त्वा॒ त्वा॒ क॒वे॒ । 26) क॒वे॒ द्यु॒मन्त॑-न्द्यु॒मन्त॑-ङ्कवे कवे द्यु॒मन्त᳚म् । 27) द्यु॒मन्त॒ग्ं॒ सग्ं स-न्द्यु॒मन्त॑-न्द्यु॒मन्त॒ग्ं॒ सम् । 27) द्यु॒मन्त॒मिति॑ द्यु - मन्त᳚म् । 28) स मि॑धीमहीधीमहि॒ सग्ं स मि॑धीमहि । 29) इ॒धी॒म॒ह्यग्ने ऽग्न॑ इधीमहीधीम॒ह्यग्ने᳚ । 30) अग्ने॑ बृ॒हन्त॑-म्बृ॒हन्त॒ मग्ने ऽग्ने॑ बृ॒हन्त᳚म् । 31) बृ॒हन्त॑ मद्ध्व॒रे अ॑द्ध्व॒रे बृ॒हन्त॑-म्बृ॒हन्त॑ मद्ध्व॒रे । 32) अ॒द्ध्व॒रे वि॒शो वि॒शो अ॑द्ध्व॒रे अ॑द्ध्व॒रे वि॒शः । 33) वि॒शो य॒न्त्रे य॒न्त्रे वि॒शो वि॒शो य॒न्त्रे । 34) य॒न्त्रे स्थ॑-स्स्थो य॒न्त्रे य॒न्त्रे स्थः॑ । 34) य॒न्त्रे इति॑ य॒न्त्रे । 35) स्थो॒ वसू॑नां॒-वँसू॑नाग् स्थ-स्स्थो॒ वसू॑नाम् । 36) वसू॑नाग्ं रु॒द्राणाग्ं॑ रु॒द्राणां॒-वँसू॑नां॒-वँसू॑नाग्ं रु॒द्राणा᳚म् । 37) रु॒द्राणा॑ मादि॒त्याना॑ मादि॒त्यानाग्ं॑ रु॒द्राणाग्ं॑ रु॒द्राणा॑ मादि॒त्याना᳚म् । 38) आ॒दि॒त्याना॒ग्ं॒ सद॑सि॒ सद॑स्यादि॒त्याना॑ मादि॒त्याना॒ग्ं॒ सद॑सि । 39) सद॑सि सीद सीद॒ सद॑सि॒ सद॑सि सीद । 40) सी॒द॒ जु॒हू-र्जु॒हू-स्सी॑द सीद जु॒हूः । 41) जु॒हूरु॑प॒भृदु॑प॒भृज् जु॒हू-र्जु॒हूरु॑प॒भृत् । 42) उ॒प॒भृ-द्ध्रु॒वा ध्रु॒वोप॒भृदु॑प॒भृ-द्ध्रु॒वा । 42) उ॒प॒भृदित्यु॑प - भृत् । 43) ध्रु॒वा ऽस्य॑सि ध्रु॒वा ध्रु॒वा ऽसि॑ । 44) अ॒सि॒ घृ॒ताची॑ घृ॒ताच्य॑स्यसि घृ॒ताची᳚ । 45) घृ॒ताची॒ नाम्ना॒ नाम्ना॑ घृ॒ताची॑ घृ॒ताची॒ नाम्ना᳚ । 46) नाम्ना᳚ प्रि॒येण॑ प्रि॒येण॒ नाम्ना॒ नाम्ना᳚ प्रि॒येण॑ । 47) प्रि॒येण॒ नाम्ना॒ नाम्ना᳚ प्रि॒येण॑ प्रि॒येण॒ नाम्ना᳚ । 48) नाम्ना᳚ प्रि॒ये प्रि॒ये नाम्ना॒ नाम्ना᳚ प्रि॒ये । 49) प्रि॒ये सद॑सि॒ सद॑सि प्रि॒ये प्रि॒ये सद॑सि । 50) सद॑सि सीद सीद॒ सद॑सि॒ सद॑सि सीद । 51) सी॒दै॒ता ए॒ता-स्सी॑द सीदै॒ताः । 52) ए॒ता अ॑सद-न्नसद-न्ने॒ता ए॒ता अ॑सदन्न् । 53) अ॒स॒द॒-न्थ्सु॒कृ॒तस्य॑ सुकृ॒तस्या॑सद-न्नसद-न्थ्सुकृ॒तस्य॑ । 54) सु॒कृ॒तस्य॑ लो॒के लो॒के सु॑कृ॒तस्य॑ सुकृ॒तस्य॑ लो॒के । 54) सु॒कृ॒तस्येति॑ सु - कृ॒तस्य॑ । 55) लो॒के तास्ता लो॒के लो॒के ताः । 56) ता वि॑ष्णो विष्णो॒ तास्ता वि॑ष्णो । 57) वि॒ष्णो॒ पा॒हि॒ पा॒हि॒ वि॒ष्णो॒ वि॒ष्णो॒ पा॒हि॒ । 57) वि॒ष्णो॒ इति॑ विष्णो । 58) पा॒हि॒ पा॒हि पा॒हि पा॑हि पाहि पा॒हि । 59) पा॒हि य॒ज्ञं-यँ॒ज्ञ-म्पा॒हि पा॒हि य॒ज्ञम् । 60) य॒ज्ञ-म्पा॒हि पा॒हि य॒ज्ञं-यँ॒ज्ञ-म्पा॒हि । 61) पा॒हि य॒ज्ञप॑तिं-यँ॒ज्ञप॑ति-म्पा॒हि पा॒हि य॒ज्ञप॑तिम् । 62) य॒ज्ञप॑ति-म्पा॒हि पा॒हि य॒ज्ञप॑तिं-यँ॒ज्ञप॑ति-म्पा॒हि । 62) य॒ज्ञप॑ति॒मिति॑ य॒ज्ञ - प॒ति॒म् । 63) पा॒हि मा-म्मा-म्पा॒हि पा॒हि माम् । 64) मां-यँ॑ज्ञ॒नियं॑-यँज्ञ॒निय॒-म्मा-म्मां-यँ॑ज्ञ॒निय᳚म् । 65) य॒ज्ञ॒निय॒मिति॑ यज्ञ - निय᳚म् । ॥ 20 ॥ (65/77) ॥ अ. 11 ॥
1) भुव॑न मस्यसि॒ भुव॑न॒-म्भुव॑न मसि । 2) अ॒सि॒ वि व्य॑स्यसि॒ वि । 3) वि प्र॑थस्व प्रथस्व॒ वि वि प्र॑थस्व । 4) प्र॒थ॒स्वाग्ने ऽग्ने᳚ प्रथस्व प्रथ॒स्वाग्ने᳚ । 5) अग्ने॒ यष्ट॒र्यष्ट॒ रग्ने ऽग्ने॒ यष्टः॑ । 6) यष्ट॑ रि॒द मि॒दं-यँष्ट॒र्यष्ट॑ रि॒दम् । 7) इ॒दन्नमो॒ नम॑ इ॒द मि॒दन्नमः॑ । 8) नम॒ इति॒ नमः॑ । 9) जुह्वा जुहु॒ जुह्वा । 10) एही॒ह्येहि॑ । 11) इ॒ह्य॒ग्नि र॒ग्निरि॑ही ह्य॒ग्निः । 12) अ॒ग्निस्त्वा᳚ त्वा॒ ऽग्निर॒ग्निस्त्वा᳚ । 13) त्वा॒ ह्व॒य॒ति॒ ह्व॒य॒ति॒ त्वा॒ त्वा॒ ह्व॒य॒ति॒ । 14) ह्व॒य॒ति॒ दे॒व॒य॒ज्यायै॑ देवय॒ज्यायै᳚ ह्वयति ह्वयति देवय॒ज्यायै᳚ । 15) दे॒व॒य॒ज्याया॒ उप॑भृ॒दुप॑भृ-द्देवय॒ज्यायै॑ देवय॒ज्याया॒ उप॑भृत् । 15) दे॒व॒य॒ज्याया॒ इति॑ देव - य॒ज्यायै᳚ । 16) उप॑भृ॒दोप॑भृ॒दुप॑भृ॒दा । 16) उप॑भृ॒दित्युप॑ - भृ॒त् । 17) एही॒ह्येहि॑ । 18) इ॒हि॒ दे॒वो दे॒व इ॑हीहि दे॒वः । 19) दे॒वस्त्वा᳚ त्वा दे॒वो दे॒वस्त्वा᳚ । 20) त्वा॒ स॒वि॒ता स॑वि॒ता त्वा᳚ त्वा सवि॒ता । 21) स॒वि॒ता ह्व॑यति ह्वयति सवि॒ता स॑वि॒ता ह्व॑यति । 22) ह्व॒य॒ति॒ दे॒व॒य॒ज्यायै॑ देवय॒ज्यायै᳚ ह्वयति ह्वयति देवय॒ज्यायै᳚ । 23) दे॒व॒य॒ज्याया॒ अग्ना॑विष्णू॒ अग्ना॑विष्णू देवय॒ज्यायै॑ देवय॒ज्याया॒ अग्ना॑विष्णू । 23) दे॒व॒य॒ज्याया॒ इति॑ देव - य॒ज्यायै᳚ । 24) अग्ना॑विष्णू॒ मा मा ऽग्ना॑विष्णू॒ अग्ना॑विष्णू॒ मा । 24) अग्ना॑विष्णू॒ इत्यग्ना᳚ - वि॒ष्णू॒ । 25) मा वां᳚-वाँ॒-म्मा मा वा᳚म् । 26) वा॒ मवाव॑ वां-वाँ॒ मव॑ । 27) अव॑ क्रमिष-ङ्क्रमिष॒ मवाव॑ क्रमिषम् । 28) क्र॒मि॒षं॒-विँ वि क्र॑मिष-ङ्क्रमिषं॒-विँ । 29) वि जि॑हाथा-ञ्जिहाथां॒-विँ वि जि॑हाथाम् । 30) जि॒हा॒था॒-म्मा मा जि॑हाथा-ञ्जिहाथा॒-म्मा । 31) मा मा॑ मा॒ मा मा मा᳚ । 32) मा॒ सग्ं स-म्मा॑ मा॒ सम् । 33) स-न्ता᳚प्त-न्ताप्त॒ग्ं॒ सग्ं स-न्ता᳚प्तम् । 34) ता॒प्त॒म् ँलो॒कम् ँलो॒क-न्ता᳚प्त-न्ताप्तम् ँलो॒कम् । 35) लो॒क-म्मे॑ मे लो॒कम् ँलो॒क-म्मे᳚ । 36) मे॒ लो॒क॒कृ॒तौ॒ लो॒क॒कृ॒तौ॒ मे॒ मे॒ लो॒क॒कृ॒तौ॒ । 37) लो॒क॒कृ॒तौ॒ कृ॒णु॒त॒-ङ्कृ॒णु॒त॒म् ँलो॒क॒कृ॒तौ॒ लो॒क॒कृ॒तौ॒ कृ॒णु॒त॒म् । 37) लो॒क॒कृ॒ता॒विति॑ लोक - कृ॒तौ॒ । 38) कृ॒णु॒तं॒-विँष्णो॒-र्विष्णोः᳚ कृणुत-ङ्कृणुतं॒-विँष्णोः᳚ । 39) विष्णो॒-स्स्थान॒ग्ग्॒ स्थानं॒-विँष्णो॒-र्विष्णो॒-स्स्थान᳚म् । 40) स्थान॑ मस्यसि॒ स्थान॒ग्ग्॒ स्थान॑ मसि । 41) अ॒सी॒त इ॒तो᳚ ऽस्यसी॒तः । 42) इ॒त इन्द्र॒ इन्द्र॑ इ॒त इ॒त इन्द्रः॑ । 43) इन्द्रो॑ अकृणोदकृणो॒दिन्द्र॒ इन्द्रो॑ अकृणोत् । 44) अ॒कृ॒णो॒-द्वी॒र्या॑णि वी॒र्या᳚ण्यकृणोदकृणो-द्वी॒र्या॑णि । 45) वी॒र्या॑णि समा॒रभ्य॑ समा॒रभ्य॑ वी॒र्या॑णि वी॒र्या॑णि समा॒रभ्य॑ । 46) स॒मा॒रभ्यो॒र्ध्व ऊ॒र्ध्व-स्स॑मा॒रभ्य॑ समा॒रभ्यो॒र्ध्वः । 46) स॒मा॒रभ्येति॑ सं - आ॒रभ्य॑ । 47) ऊ॒र्ध्वो अ॑द्ध्व॒रो अ॑द्ध्व॒र ऊ॒र्ध्व ऊ॒र्ध्वो अ॑द्ध्व॒रः । 48) अ॒द्ध्व॒रो दि॑वि॒स्पृश॑-न्दिवि॒स्पृश॑ मद्ध्व॒रो अ॑द्ध्व॒रो दि॑वि॒स्पृश᳚म् । 49) दि॒वि॒स्पृश॒ मह्रु॒तो ऽह्रु॑तो दिवि॒स्पृश॑-न्दिवि॒स्पृश॒ मह्रु॑तः । 49) दि॒वि॒स्पृश॒मिति॑ दिवि - स्पृश᳚म् । 50) अह्रु॑तो य॒ज्ञो य॒ज्ञो ऽह्रु॒तो ऽह्रु॑तो य॒ज्ञः । 51) य॒ज्ञो य॒ज्ञप॑तेर्य॒ज्ञप॑तेर्य॒ज्ञो य॒ज्ञो य॒ज्ञप॑तेः । 52) य॒ज्ञप॑ते॒रिन्द्रा॑वा॒ निन्द्रा॑वान्. य॒ज्ञप॑तेर्य॒ज्ञप॑ते॒रिन्द्रा॑वान् । 52) य॒ज्ञप॑ते॒रिति॑ य॒ज्ञ - प॒तेः॒ । 53) इन्द्रा॑वा॒-न्थ्स्वाहा॒ स्वाहेन्द्रा॑वा॒ निन्द्रा॑वा॒-न्थ्स्वाहा᳚ । 53) इन्द्रा॑वा॒नितीन्द्र॑ - वा॒न् । 54) स्वाहा॑ बृ॒ह-द्बृ॒ह-थ्स्वाहा॒ स्वाहा॑ बृ॒हत् । 55) बृ॒ह-द्भा भा बृ॒ह-द्बृ॒ह-द्भाः । 56) भाः पा॒हि पा॒हि भा भाः पा॒हि । 57) पा॒हि मा॑ मा पा॒हि पा॒हि मा᳚ । 58) मा॒ ऽग्ने॒ ऽग्ने॒ मा॒ मा॒ ऽग्ने॒ । 59) अ॒ग्ने॒ दुश्च॑रिता॒-द्दुश्च॑रितादग्ने ऽग्ने॒ दुश्च॑रितात् । 60) दुश्च॑रिता॒दा दुश्च॑रिता॒-द्दुश्च॑रिता॒दा । 60) दुश्च॑रिता॒दिति॒ दुः - च॒रि॒ता॒त् । 61) आ मा॒ मा ऽऽमा᳚ । 62) मा॒ सुच॑रिते॒ सुच॑रिते मा मा॒ सुच॑रिते । 63) सुच॑रिते भज भज॒ सुच॑रिते॒ सुच॑रिते भज । 63) सुच॑रित॒ इति॒ सु - च॒रि॒ते॒ । 64) भ॒ज॒ म॒खस्य॑ म॒खस्य॑ भज भज म॒खस्य॑ । 65) म॒खस्य॒ शिर॒-श्शिरो॑ म॒खस्य॑ म॒खस्य॒ शिरः॑ । 66) शिरो᳚ ऽस्यसि॒ शिर॒-श्शिरो॑ ऽसि । 67) अ॒सि॒ सग्ं स म॑स्यसि॒ सम् । 68) स-ञ्ज्योति॑षा॒ ज्योति॑षा॒ सग्ं स-ञ्ज्योति॑षा । 69) ज्योति॑षा॒ ज्योति॒-र्ज्योति॒-र्ज्योति॑षा॒ ज्योति॑षा॒ ज्योतिः॑ । 70) ज्योति॑रङ्क्ता मङ्क्ता॒-ञ्ज्योति॒-र्ज्योति॑रङ्क्ताम् । 71) अ॒ङ्क्ता॒मित्य॑ङ्क्ताम् । ॥ 21 ॥ (71/82) ॥ अ. 12 ॥
1) वाज॑स्य मा मा॒ वाज॑स्य॒ वाज॑स्य मा । 2) मा॒ प्र॒स॒वेन॑ प्रस॒वेन॑ मा मा प्रस॒वेन॑ । 3) प्र॒स॒वेनो᳚द्ग्रा॒भेणो᳚द्ग्रा॒भेण॑ प्रस॒वेन॑ प्रस॒वेनो᳚द्ग्रा॒भेण॑ । 3) प्र॒स॒वेनेति॑ प्र - स॒वेन॑ । 4) उ॒द्ग्रा॒भेणो दुदु॑द्ग्रा॒भेणो᳚ द्ग्रा॒भेणोत् । 4) उ॒द्ग्रा॒भेणेत्यु॑त् - ग्रा॒भेण॑ । 5) उद॑ग्रभी दग्रभी॒दुदु द॑ग्रभीत् । 6) अ॒ग्र॒भी॒दित्य॑ग्रभीत् । 7) अथा॑ स॒पत्ना᳚-न्थ्स॒पत्ना॒ग्ं॒ अथाथा॑ स॒पत्नान्॑ । 8) स॒पत्ना॒ग्ं॒ इन्द्र॒ इन्द्र॑-स्स॒पत्ना᳚-न्थ्स॒पत्ना॒ग्ं॒ इन्द्रः॑ । 9) इन्द्रो॑ मे म॒ इन्द्र॒ इन्द्रो॑ मे । 10) मे॒ नि॒ग्रा॒भेण॑ निग्रा॒भेण॑ मे मे निग्रा॒भेण॑ । 11) नि॒ग्रा॒भेणाध॑रा॒ग्ं॒ अध॑रा-न्निग्रा॒भेण॑ निग्रा॒भेणाध॑रान् । 11) नि॒ग्रा॒भेणेति॑ नि - ग्रा॒भेण॑ । 12) अध॑राग्ं अक रक॒ रध॑रा॒ग्ं॒ अध॑राग्ं अकः । 13) अ॒क॒रित्य॑कः । 14) उ॒द्ग्रा॒भ-ञ्च॑ चोद्ग्रा॒भ मु॑द्ग्रा॒भ-ञ्च॑ । 14) उ॒द्ग्रा॒भमित्यु॑त् - ग्रा॒भम् । 15) च॒ नि॒ग्रा॒भन्नि॑ग्रा॒भ-ञ्च॑ च निग्रा॒भम् । 16) नि॒ग्रा॒भ-ञ्च॑ च निग्रा॒भन्नि॑ग्रा॒भ-ञ्च॑ । 16) नि॒ग्रा॒भमिति॑ नि - ग्रा॒भम् । 17) च॒ ब्रह्म॒ ब्रह्म॑ च च॒ ब्रह्म॑ । 18) ब्रह्म॑ दे॒वा दे॒वा ब्रह्म॒ ब्रह्म॑ दे॒वाः । 19) दे॒वा अ॑वीवृध-न्नवीवृध-न्दे॒वा दे॒वा अ॑वीवृधन्न् । 20) अ॒वी॒वृ॒ध॒न्नित्य॑वीवृधन्न् । 21) अथा॑ स॒पत्ना᳚-न्थ्स॒पत्ना॒ नथाथा॑ स॒पत्नान्॑ । 22) स॒पत्ना॑ निन्द्रा॒ग्नी इ॑न्द्रा॒ग्नी स॒पत्ना᳚-न्थ्स॒पत्ना॑ निन्द्रा॒ग्नी । 23) इ॒न्द्रा॒ग्नी मे॑ म इन्द्रा॒ग्नी इ॑न्द्रा॒ग्नी मे᳚ । 23) इ॒न्द्रा॒ग्नी इती᳚न्द्र - अ॒ग्नी । 24) मे॒ वि॒षू॒चीनान्॑. विषू॒चीना᳚-न्मे मे विषू॒चीनान्॑ । 25) वि॒षू॒चीना॒न्॒. वि वि वि॑षू॒चीनान्॑. विषू॒चीना॒न्॒. वि । 26) व्य॑स्यता मस्यतां॒-विँ व्य॑स्यताम् । 27) अ॒स्य॒ता॒मित्य॑स्यताम् । 28) वसु॑भ्यस्त्वा त्वा॒ वसु॑भ्यो॒ वसु॑भ्यस्त्वा । 28) वसु॑भ्य॒ इति॒ वसु॑ - भ्यः॒ । 29) त्वा॒ रु॒द्रेभ्यो॑ रु॒द्रेभ्य॑स्त्वा त्वा रु॒द्रेभ्यः॑ । 30) रु॒द्रेभ्य॑स्त्वा त्वा रु॒द्रेभ्यो॑ रु॒द्रेभ्य॑स्त्वा । 31) त्वा॒ ऽऽदि॒त्येभ्य॑ आदि॒त्येभ्य॑स्त्वा त्वा ऽऽदि॒त्येभ्यः॑ । 32) आ॒दि॒त्येभ्य॑स्त्वा त्वा ऽऽदि॒त्येभ्य॑ आदि॒त्येभ्य॑स्त्वा । 33) त्वा॒ ऽक्त म॒क्त-न्त्वा᳚ त्वा॒ ऽक्तम् । 34) अ॒क्तग्ं रिहा॑णा॒ रिहा॑णा अ॒क्त म॒क्तग्ं रिहा॑णाः । 35) रिहा॑णा वि॒यन्तु॑ वि॒यन्तु॒ रिहा॑णा॒ रिहा॑णा वि॒यन्तु॑ । 36) वि॒यन्तु॒ वयो॒ वयो॑ वि॒यन्तु॑ वि॒यन्तु॒ वयः॑ । 37) वय॒ इति॒ वयः॑ । 38) प्र॒जां-योँनिं॒-योँनि॑-म्प्र॒जा-म्प्र॒जां-योँनि᳚म् । 38) प्र॒जामिति॑ प्र - जाम् । 39) योनि॒-म्मा मा योनिं॒-योँनि॒-म्मा । 40) मा नि-र्णि-र्मा मा निः । 41) नि-र्मृ॑क्ष-म्मृक्ष॒न्नि-र्णि-र्मृ॑क्षम् । 42) मृ॒क्ष॒ मा मृ॑क्ष-म्मृक्ष॒ मा । 43) आ प्या॑यन्ता-म्प्यायन्ता॒ मा प्या॑यन्ताम् । 44) प्या॒य॒न्ता॒ माप॒ आपः॑ प्यायन्ता-म्प्यायन्ता॒ मापः॑ । 45) आप॒ ओष॑धय॒ ओष॑धय॒ आप॒ आप॒ ओष॑धयः । 46) ओष॑धयो म॒रुता᳚-म्म॒रुता॒ मोष॑धय॒ ओष॑धयो म॒रुता᳚म् । 47) म॒रुता॒-म्पृष॑तयः॒ पृष॑तयो म॒रुता᳚-म्म॒रुता॒-म्पृष॑तयः । 48) पृष॑तय-स्स्थ स्थ॒ पृष॑तयः॒ पृष॑तय-स्स्थ । 49) स्थ॒ दिव॒-न्दिवग्ग्॑ स्थ स्थ॒ दिव᳚म् । 50) दिव॑-ङ्गच्छ गच्छ॒ दिव॒-न्दिव॑-ङ्गच्छ । ॥ 22 ॥ (50/58)
1) ग॒च्छ॒ तत॒स्ततो॑ गच्छ गच्छ॒ ततः॑ । 2) ततो॑ नो न॒स्तत॒स्ततो॑ नः । 3) नो॒ वृष्टिं॒-वृँष्टि॑न्नो नो॒ वृष्टि᳚म् । 4) वृष्टि॒ मा वृष्टिं॒-वृँष्टि॒ मा । 5) एर॑येर॒येर॑य । 6) ई॒र॒येती॑रय । 7) आ॒यु॒ष्पा अ॑ग्ने ऽग्न आयु॒ष्पा आ॑यु॒ष्पा अ॑ग्ने । 7) आ॒यु॒ष्पा इत्या॑युः - पाः । 8) अ॒ग्ने॒ ऽस्य॒स्य॒ग्ने॒ ऽग्ने॒ ऽसि॒ । 9) अ॒स्यायु॒ रायु॑ रस्य॒स्यायुः॑ । 10) आयु॑-र्मे म॒ आयु॒रायु॑-र्मे । 11) मे॒ पा॒हि॒ पा॒हि॒ मे॒ मे॒ पा॒हि॒ । 12) पा॒हि॒ च॒क्षु॒ष्पाश्च॑क्षु॒ष्पाः पा॑हि पाहि चक्षु॒ष्पाः । 13) च॒क्षु॒ष्पा अ॑ग्ने ऽग्ने चक्षु॒ष्पाश्च॑क्षु॒ष्पा अ॑ग्ने । 13) च॒क्षु॒ष्पा इति॑ चक्षुः - पाः । 14) अ॒ग्ने॒ ऽस्य॒स्य॒ग्ने॒ ऽग्ने॒ ऽसि॒ । 15) अ॒सि॒ चक्षु॒श्चक्षु॑रस्यसि॒ चक्षुः॑ । 16) चक्षु॑-र्मे मे॒ चक्षु॒श्चक्षु॑-र्मे । 17) मे॒ पा॒हि॒ पा॒हि॒ मे॒ मे॒ पा॒हि॒ । 18) पा॒हि॒ ध्रु॒वा ध्रु॒वा पा॑हि पाहि ध्रु॒वा । 19) ध्रु॒वा ऽस्य॑सि ध्रु॒वा ध्रु॒वा ऽसि॑ । 20) अ॒सि॒ यं-यँ म॑स्यसि॒ यम् । 21) य-म्प॑रि॒धि-म्प॑रि॒धिं-यंँ य-म्प॑रि॒धिम् । 22) प॒रि॒धि-म्प॒र्यध॑त्थाः प॒र्यध॑त्थाः परि॒धि-म्प॑रि॒धि-म्प॒र्यध॑त्थाः । 22) प॒रि॒धिमिति॑ परि - धिम् । 23) प॒र्यध॑त्था॒ अग्ने ऽग्ने॑ प॒र्यध॑त्थाः प॒र्यध॑त्था॒ अग्ने᳚ । 23) प॒र्यध॑त्था॒ इति॑ परि - अध॑त्थाः । 24) अग्ने॑ देव दे॒वाग्ने ऽग्ने॑ देव । 25) दे॒व॒ प॒णिभिः॑ प॒णिभि॑-र्देव देव प॒णिभिः॑ । 26) प॒णिभि॑-र्वी॒यमा॑णो वी॒यमा॑णः प॒णिभिः॑ प॒णिभि॑-र्वी॒यमा॑णः । 26) प॒णिभि॒रिति॑ प॒णि - भिः॒ । 27) वी॒यमा॑ण॒ इति॑ वी॒यमा॑णः । 28) त-न्ते॑ ते॒ त-न्त-न्ते᳚ । 29) त॒ ए॒त मे॒त-न्ते॑ त ए॒तम् । 30) ए॒त मन्वन्वे॒त मे॒त मनु॑ । 31) अनु॒ जोष॒-ञ्जोष॒ मन्वनु॒ जोष᳚म् । 32) जोष॑-म्भरामि भरामि॒ जोष॒-ञ्जोष॑-म्भरामि । 33) भ॒रा॒मि॒ न न भ॑रामि भरामि॒ न । 34) ने दि-न्न नेत् । 35) इदे॒ष ए॒ष इदिदे॒ष । 36) ए॒ष त्व-त्त्वदे॒ष ए॒ष त्वत् । 37) त्वद॑पचे॒तया॑ता अपचे॒तया॑तै॒ त्व-त्त्वद॑पचे॒तया॑तै । 38) अ॒प॒चे॒तया॑तै य॒ज्ञस्य॑ य॒ज्ञस्या॑पचे॒तया॑ता अपचे॒तया॑तै य॒ज्ञस्य॑ । 38) अ॒प॒चे॒तया॑ता॒ इत्य॑प - चे॒तया॑तै । 39) य॒ज्ञस्य॒ पाथः॒ पाथो॑ य॒ज्ञस्य॑ य॒ज्ञस्य॒ पाथः॑ । 40) पाथ॒ उपोप॒ पाथः॒ पाथ॒ उप॑ । 41) उप॒ सग्ं स मुपोप॒ सम् । 42) स मि॑त मित॒ग्ं॒ सग्ं स मि॑तम् । 43) इ॒त॒ग्ं॒ स॒ग्ग्॒स्रा॒वभा॑गा-स्सग्ग्स्रा॒वभा॑गा इत मितग्ं सग्ग्स्रा॒वभा॑गाः । 44) स॒ग्ग्॒स्रा॒वभा॑गा-स्स्थ स्थ सग्ग्स्रा॒वभा॑गा-स्सग्ग्स्रा॒वभा॑गा-स्स्थ । 44) स॒ग्ग्॒स्रा॒वभा॑गा॒ इति॑ सग्ग्स्रा॒व - भा॒गाः॒ । 45) स्थे॒ षा इ॒षा-स्स्थ॑ स्थे॒ षाः । 46) इ॒षा बृ॒हन्तो॑ बृ॒हन्त॑ इ॒षा इ॒षा बृ॒हन्तः॑ । 47) बृ॒हन्तः॑ प्रस्तरे॒ष्ठाः प्र॑स्तरे॒ष्ठा बृ॒हन्तो॑ बृ॒हन्तः॑ प्रस्तरे॒ष्ठाः । 48) प्र॒स्त॒रे॒ष्ठा ब॑र्हि॒षदो॑ बर्हि॒षदः॑ प्रस्तरे॒ष्ठाः प्र॑स्तरे॒ष्ठा ब॑र्हि॒षदः॑ । 48) प्र॒स्त॒रे॒ष्ठा इति॑ प्रस्तरे - स्थाः । 49) ब॒र्॒हि॒षद॑श्च च बर्हि॒षदो॑ बर्हि॒षद॑श्च । 49) ब॒र्॒हि॒षद॒ इति॑ बर्हि - सदः॑ । 50) च॒ दे॒वा दे॒वाश्च॑ च दे॒वाः । ॥ 23 ॥ (50/59)
1) दे॒वा इ॒मा मि॒मा-न्दे॒वा दे॒वा इ॒माम् । 2) इ॒मां-वाँचं॒-वाँच॑ मि॒मा मि॒मां-वाँच᳚म् । 3) वाच॑ म॒भ्य॑भि वाचं॒-वाँच॑ म॒भि । 4) अ॒भि विश्वे॒ विश्वे॒ ऽभ्य॑भि विश्वे᳚ । 5) विश्वे॑ गृ॒णन्तो॑ गृ॒णन्तो॒ विश्वे॒ विश्वे॑ गृ॒णन्तः॑ । 6) गृ॒णन्त॑ आ॒सद्या॒सद्य॑ गृ॒णन्तो॑ गृ॒णन्त॑ आ॒सद्य॑ । 7) आ॒सद्या॒स्मि-न्न॒स्मि न्ना॒सद्या॒सद्या॒स्मिन्न् । 7) आ॒सद्येत्या᳚ - सद्य॑ । 8) अ॒स्मि-न्ब॒र्॒हिषि॑ ब॒र्॒हिष्य॒स्मि-न्न॒स्मि-न्ब॒र्॒हिषि॑ । 9) ब॒र्॒हिषि॑ मादयद्ध्व-म्मादयद्ध्व-म्ब॒र्॒हिषि॑ ब॒र्॒हिषि॑ मादयद्ध्वम् । 10) मा॒द॒य॒द्ध्व॒ म॒ग्नेर॒ग्ने-र्मा॑दयद्ध्व-म्मादयद्ध्व म॒ग्नेः । 11) अ॒ग्ने-र्वां᳚-वाँ म॒ग्नेर॒ग्ने-र्वा᳚म् । 12) वा॒ मप॑न्नगृह॒स्याप॑न्नगृहस्य वां-वाँ॒ मप॑न्नगृहस्य । 13) अप॑न्नगृहस्य॒ सद॑सि॒ सद॒स्यप॑न्नगृह॒स्याप॑न्नगृहस्य॒ सद॑सि । 13) अप॑न्नगृह॒स्येत्यप॑न्न - गृ॒ह॒स्य॒ । 14) सद॑सि सादयामि सादयामि॒ सद॑सि॒ सद॑सि सादयामि । 15) सा॒द॒या॒मि॒ सु॒म्नाय॑ सु॒म्नाय॑ सादयामि सादयामि सु॒म्नाय॑ । 16) सु॒म्नाय॑ सुम्निनी सुम्निनी सु॒म्नाय॑ सु॒म्नाय॑ सुम्निनी । 17) सु॒म्नि॒नी॒ सु॒म्ने सु॒म्ने सु॑म्निनी सुम्निनी सु॒म्ने । 17) सु॒म्नि॒नी॒ इति॑ सुम्निनी । 18) सु॒म्ने मा॑ मा सु॒म्ने सु॒म्ने मा᳚ । 19) मा॒ ध॒त्त॒-न्ध॒त्त॒-म्मा॒ मा॒ ध॒त्त॒म् । 20) ध॒त्त॒-न्धु॒रि धु॒रि ध॑त्त-न्धत्त-न्धु॒रि । 21) धु॒रि धु॒र्यौ॑ धु॒र्यौ॑ धु॒रि धु॒रि धु॒र्यौ᳚ । 22) धु॒र्यौ॑ पात-म्पात-न्धु॒र्यौ॑ धु॒र्यौ॑ पातम् । 23) पा॒त॒ मग्ने ऽग्ने॑ पात-म्पात॒ मग्ने᳚ । 24) अग्ने॑ ऽदब्धायो ऽदब्धा॒यो ऽग्ने ऽग्ने॑ ऽदब्धायो । 25) अ॒द॒ब्धा॒यो॒ ऽशी॒त॒त॒नो॒ अ॒शी॒त॒त॒नो॒ अ॒द॒ब्धा॒यो॒ ऽद॒ब्धा॒यो॒ ऽशी॒त॒त॒नो॒ । 25) अ॒द॒ब्धा॒यो॒ इत्य॑दब्ध - आ॒यो॒ । 26) अ॒शी॒त॒त॒नो॒ पा॒हि पा॒ह्य॑शीततनो अशीततनो पा॒हि । 26) अ॒शी॒त॒त॒नो॒ इत्य॑शीत - त॒नो॒ । 27) पा॒हि मा॑ मा पा॒हि पा॒हि मा᳚ । 28) मा॒ ऽद्याद्य मा॑ मा॒ ऽद्य । 29) अ॒द्य दि॒वो दि॒वो᳚ ऽद्याद्य दि॒वः । 30) दि॒वः पा॒हि पा॒हि दि॒वो दि॒वः पा॒हि । 31) पा॒हि प्रसि॑त्यै॒ प्रसि॑त्यै पा॒हि पा॒हि प्रसि॑त्यै । 32) प्रसि॑त्यै पा॒हि पा॒हि प्रसि॑त्यै॒ प्रसि॑त्यै पा॒हि । 32) प्रसि॑त्या॒ इति॒ प्र - सि॒त्यै॒ । 33) पा॒हि दुरि॑ष्ट्यै॒ दुरि॑ष्ट्यै पा॒हि पा॒हि दुरि॑ष्ट्यै । 34) दुरि॑ष्ट्यै पा॒हि पा॒हि दुरि॑ष्ट्यै॒ दुरि॑ष्ट्यै पा॒हि । 34) दुरि॑ष्ट्या॒ इति॒ दुः - इ॒ष्ट्यै॒ । 35) पा॒हि दु॑रद्म॒न्यै दु॑रद्म॒न्यै पा॒हि पा॒हि दु॑रद्म॒न्यै । 36) दु॒र॒द्म॒न्यै पा॒हि पा॒हि दु॑रद्म॒न्यै दु॑रद्म॒न्यै पा॒हि । 36) दु॒र॒द्म॒न्या इति॑ दुः - अ॒द्म॒न्यै । 37) पा॒हि दुश्च॑रिता॒-द्दुश्च॑रिता-त्पा॒हि पा॒हि दुश्च॑रितात् । 38) दुश्च॑रिता॒दवि॑ष॒ मवि॑ष॒-न्दुश्च॑रिता॒-द्दुश्च॑रिता॒दवि॑षम् । 38) दुश्च॑रिता॒दिति॒ दुः - च॒रि॒ता॒त् । 39) अवि॑षन्नो॒ नो ऽवि॑ष॒ मवि॑षन्नः । 40) नः॒ पि॒तु-म्पि॒तुन्नो॑ नः पि॒तुम् । 41) पि॒तु-ङ्कृ॑णु कृणु पि॒तु-म्पि॒तु-ङ्कृ॑णु । 42) कृ॒णु॒ सु॒षदा॑ सु॒षदा॑ कृणु कृणु सु॒षदा᳚ । 43) सु॒षदा॒ योनिं॒-योँनिग्ं॑ सु॒षदा॑ सु॒षदा॒ योनि᳚म् । 43) सु॒षदेति॑ सु - सदा᳚ । 44) योनि॒ग्ग्॒ स्वाहा॒ स्वाहा॒ योनिं॒-योँनि॒ग्ग्॒ स्वाहा᳚ । 45) स्वाहा॒ देवा॒ देवा॒-स्स्वाहा॒ स्वाहा॒ देवाः᳚ । 46) देवा॑ गातुविदो गातुविदो॒ देवा॒ देवा॑ गातुविदः । 47) गा॒तु॒वि॒दो॒ गा॒तु-ङ्गा॒तु-ङ्गा॑तुविदो गातुविदो गा॒तुम् । 47) गा॒तु॒वि॒द॒ इति॑ गातु - वि॒दः॒ । 48) गा॒तुं-विँ॒त्त्वा वि॒त्त्वा गा॒तु-ङ्गा॒तुं-विँ॒त्त्वा । 49) वि॒त्त्वा गा॒तु-ङ्गा॒तुं-विँ॒त्त्वा वि॒त्त्वा गा॒तुम् । 50) गा॒तु मि॑ते त गा॒तु-ङ्गा॒तु मि॑त । 51) इ॒त॒ मन॑सो॒ मन॑स इते त॒ मन॑सः । 52) मन॑सस् पते पते॒ मन॑सो॒ मन॑सस् पते । 53) प॒त॒ इ॒म मि॒म-म्प॑ते पत इ॒मम् । 54) इ॒मन्नो॑ न इ॒म मि॒मन्नः॑ । 55) नो॒ दे॒व॒ दे॒व॒ नो॒ नो॒ दे॒व॒ । 56) दे॒व॒ दे॒वेषु॑ दे॒वेषु॑ देव देव दे॒वेषु॑ । 57) दे॒वेषु॑ य॒ज्ञं-यँ॒ज्ञ-न्दे॒वेषु॑ दे॒वेषु॑ य॒ज्ञम् । 58) य॒ज्ञग्ग् स्वाहा॒ स्वाहा॑ य॒ज्ञं-यँ॒ज्ञग्ग् स्वाहा᳚ । 59) स्वाहा॑ वा॒चि वा॒चि स्वाहा॒ स्वाहा॑ वा॒चि । 60) वा॒चि स्वाहा॒ स्वाहा॑ वा॒चि वा॒चि स्वाहा᳚ । 61) स्वाहा॒ वाते॒ वाते॒ स्वाहा॒ स्वाहा॒ वाते᳚ । 62) वाते॑ धा धा॒ वाते॒ वाते॑ धाः । 63) धा॒ इति॑ धाः । ॥ 24 ॥ (63/74) ॥ अ. 13 ॥
1) उ॒भा वां᳚-वाँ मु॒भोभा वा᳚म् । 2) वा॒ मि॒न्द्रा॒ग्नी॒ इ॒न्द्रा॒ग्नी॒ वां॒-वाँ॒ मि॒न्द्रा॒ग्नी॒ । 3) इ॒न्द्रा॒ग्नी॒ आ॒हु॒वद्ध्या॑ आहु॒वद्ध्या॑ इन्द्राग्नी इन्द्राग्नी आहु॒वद्ध्यै᳚ । 3) इ॒न्द्रा॒ग्नी॒ इती᳚न्द्र - अ॒ग्नी॒ । 4) आ॒हु॒वद्ध्या॑ उ॒भोभा ऽऽहु॒वद्ध्या॑ आहु॒वद्ध्या॑ उ॒भा । 5) उ॒भा राध॑सो॒ राध॑स उ॒भोभा राध॑सः । 6) राध॑स-स्स॒ह स॒ह राध॑सो॒ राध॑स-स्स॒ह । 7) स॒ह मा॑द॒यद्ध्यै॑ माद॒यद्ध्यै॑ स॒ह स॒ह मा॑द॒यद्ध्यै᳚ । 8) मा॒द॒यद्ध्या॒ इति॑ माद॒यद्ध्यै᳚ । 9) उ॒भा दा॒तारौ॑ दा॒तारा॑ वु॒भोभा दा॒तारौ᳚ । 10) दा॒तारा॑ वि॒षा मि॒षा-न्दा॒तारौ॑ दा॒तारा॑ वि॒षाम् । 11) इ॒षाग्ं र॑यी॒णाग्ं र॑यी॒णा मि॒षा मि॒षाग्ं र॑यी॒णाम् । 12) र॒यी॒णा मु॒भोभा र॑यी॒णाग्ं र॑यी॒णा मु॒भा । 13) उ॒भा वाज॑स्य॒ वाज॑स्यो॒भोभा वाज॑स्य । 14) वाज॑स्य सा॒तये॑ सा॒तये॒ वाज॑स्य॒ वाज॑स्य सा॒तये᳚ । 15) सा॒तये॑ हुवे हुवे सा॒तये॑ सा॒तये॑ हुवे । 16) हु॒वे॒ वां॒-वाँ॒ग्ं॒ हु॒वे॒ हु॒वे॒ वा॒म् । 17) वा॒मिति॑ वाम् । 18) अश्र॑व॒ग्ं॒हि ह्यश्र॑व॒ मश्र॑व॒ग्ं॒हि । 19) हि भू॑रि॒दाव॑त्तरा भूरि॒दाव॑त्तरा॒ हि हि भू॑रि॒दाव॑त्तरा । 20) भू॒रि॒दाव॑त्तरा वां-वाँ-म्भूरि॒दाव॑त्तरा भूरि॒दाव॑त्तरा वाम् । 20) भू॒रि॒दाव॑त्त॒रेति॑ भूरि॒दाव॑त् - त॒रा॒ । 21) वां॒-विँजा॑मातु॒-र्विजा॑मातु-र्वां-वाँं॒-विँजा॑मातुः । 22) विजा॑मातुरु॒तोत विजा॑मातु॒-र्विजा॑मातुरु॒त । 22) विजा॑मातु॒रिति॒ वि - जा॒मा॒तुः॒ । 23) उ॒त वा॑ वो॒तोत वा᳚ । 24) वा॒ घ॒ घ॒ वा॒ वा॒ घ॒ । 25) घा॒ स्या॒ला-थ्स्या॒ला-द्घ॑ घा स्या॒लात् । 26) स्या॒लादिति॑ स्या॒लात् । 27) अथा॒ सोम॑स्य॒ सोम॒स्याथाथा॒ सोम॑स्य । 28) सोम॑स्य॒ प्रय॑ती॒ प्रय॑ती॒ सोम॑स्य॒ सोम॑स्य॒ प्रय॑ती । 29) प्रय॑ती यु॒वभ्यां᳚-युँ॒वभ्या॒-म्प्रय॑ती॒ प्रय॑ती यु॒वभ्या᳚म् । 29) प्रय॒तीति॒ प्र - य॒ती॒ । 30) यु॒वभ्या॒ मिन्द्रा᳚ग्नी॒ इन्द्रा᳚ग्नी यु॒वभ्यां᳚-युँ॒वभ्या॒ मिन्द्रा᳚ग्नी । 30) यु॒वभ्या॒मिति॑ यु॒व - भ्या॒म् । 31) इन्द्रा᳚ग्नी॒ स्तोम॒ग्ग्॒ स्तोम॒ मिन्द्रा᳚ग्नी॒ इन्द्रा᳚ग्नी॒ स्तोम᳚म् । 31) इन्द्रा᳚ग्नी॒ इतीन्द्र॑ - अ॒ग्नी॒ । 32) स्तोम॑-ञ्जनयामि जनयामि॒ स्तोम॒ग्ग्॒ स्तोम॑-ञ्जनयामि । 33) ज॒न॒या॒मि॒ नव्य॒न्नव्य॑-ञ्जनयामि जनयामि॒ नव्य᳚म् । 34) नव्य॒मिति॒ नव्य᳚म् । 35) इन्द्रा᳚ग्नी नव॒तिन्न॑व॒ति मिन्द्रा᳚ग्नी॒ इन्द्रा᳚ग्नी नव॒तिम् । 35) इन्द्रा᳚ग्नी॒ इतीन्द्र॑ - अ॒ग्नी॒ । 36) न॒व॒ति-म्पुरः॒ पुरो॑ नव॒तिन्न॑व॒ति-म्पुरः॑ । 37) पुरो॑ दा॒सप॑त्नी-र्दा॒सप॑त्नीः॒ पुरः॒ पुरो॑ दा॒सप॑त्नीः । 38) दा॒सप॑त्नीरधूनुत मधूनुत-न्दा॒सप॑त्नी-र्दा॒सप॑त्नीरधूनुतम् । 38) दा॒सप॑त्नी॒रिति॑ दा॒स - प॒त्नीः॒ । 39) अ॒धू॒नु॒त॒मित्य॑धूनुतम् । 40) सा॒क मेके॒नैके॑न सा॒कग्ं सा॒क मेके॑न । 41) एके॑न॒ कर्म॑णा॒ कर्म॒णैके॒नैके॑न॒ कर्म॑णा । 42) कर्म॒णेति॒ कर्म॑णा । 43) शुचि॒न्नु नु शुचि॒ग्ं॒ शुचि॒न्नु । 44) नु स्तोम॒ग्ग्॒ स्तोम॒न्नु नु स्तोम᳚म् । 45) स्तोम॒न्नव॑जात॒न्नव॑जात॒ग्ग्॒ स्तोम॒ग्ग्॒ स्तोम॒न्नव॑जातम् । 46) नव॑जात म॒द्याद्य नव॑जात॒न्नव॑जात म॒द्य । 46) नव॑जात॒मिति॒ नव॑ - जा॒त॒म् । 47) अ॒द्ये न्द्रा᳚ग्नी॒ इन्द्रा᳚ग्नी अ॒द्याद्ये न्द्रा᳚ग्नी । 48) इन्द्रा᳚ग्नी वृत्रहणा वृत्रह॒णेन्द्रा᳚ग्नी॒ इन्द्रा᳚ग्नी वृत्रहणा । 48) इन्द्रा᳚ग्नी॒ इतीन्द्र॑ - अ॒ग्नी॒ । 49) वृ॒त्र॒ह॒णा॒ जु॒षेथा᳚-ञ्जु॒षेथां᳚-वृँत्रहणा वृत्रहणा जु॒षेथा᳚म् । 49) वृ॒त्र॒ह॒णेति॑ वृत्र - ह॒ना॒ । 50) जु॒षेथा॒मिति॑ जु॒षेथा᳚म् । ॥ 25 ॥ (50/61)
1) उ॒भा हिह्यु॑भोभा हि । 2) हि वां᳚-वाँ॒ग्ं॒हि हि वा᳚म् । 3) वा॒ग्ं॒ सु॒हवा॑ सु॒हवा॑ वां-वाँग्ं सु॒हवा᳚ । 4) सु॒हवा॒ जोह॑वीमि॒ जोह॑वीमि सु॒हवा॑ सु॒हवा॒ जोह॑वीमि । 4) सु॒हवेति॑ सु - हवा᳚ । 5) जोह॑वीमि॒ ता ता जोह॑वीमि॒ जोह॑वीमि॒ ता । 6) ता वाजं॒-वाँज॒-न्ता ता वाज᳚म् । 7) वाजग्ं॑ स॒द्य-स्स॒द्यो वाजं॒-वाँजग्ं॑ स॒द्यः । 8) स॒द्य उ॑श॒त उ॑श॒ते स॒द्य-स्स॒द्य उ॑श॒ते । 9) उ॒श॒ते धेष्ठा॒ धेष्ठो॑श॒त उ॑श॒ते धेष्ठा᳚ । 10) धेष्ठेति॒ धेष्ठा᳚ । 11) व॒य मु॑ वु व॒यं-वँ॒य मु॑ । 11) फ्भ् (झं-33 व॒य मू॑ व॒यं-वँ॒यमु॑ ) 12) उ॒ त्वा॒ त्व॒ वु॒ त्वा॒ । 13) त्वा॒ प॒थः॒ प॒थ॒स्त्वा॒ त्वा॒ प॒थः॒ । 14) प॒थ॒स्प॒ते॒ प॒ते॒ प॒थः॒ प॒थ॒स्प॒ते॒ । 15) प॒ते॒ रथ॒ग्ं॒ रथ॑-म्पते पते॒ रथ᳚म् । 16) रथ॒न्न न रथ॒ग्ं॒ रथ॒न्न । 17) न वाज॑सातये॒ वाज॑सातये॒ न न वाज॑सातये । 18) वाज॑सातय॒ इति॒ वाज॑ - सा॒त॒ये॒ । 19) धि॒ये पू॑ष-न्पूष-न्धि॒ये धि॒ये पू॑षन्न् । 20) पू॒ष॒-न्न॒यु॒ज्म॒ह्य॒यु॒ज्म॒हि॒ पू॒ष॒-न्पू॒ष॒-न्न॒यु॒ज्म॒हि॒ । 21) अ॒यु॒ज्म॒हीत्य॑युज्महि । 22) प॒थस्प॑थः॒ परि॑पति॒-म्परि॑पति-म्प॒थस्प॑थः प॒थस्प॑थः॒ परि॑पतिम् । 22) प॒थस्प॑थ॒ इति॑ प॒थः - प॒थः॒ । 23) परि॑पतिं-वँच॒स्या व॑च॒स्या परि॑पति॒-म्परि॑पतिं-वँच॒स्या । 23) परि॑पति॒मिति॒ परि॑ - प॒ति॒म् । 24) व॒च॒स्या कामे॑न॒ कामे॑न वच॒स्या व॑च॒स्या कामे॑न । 25) कामे॑न कृ॒तः कृ॒तः कामे॑न॒ कामे॑न कृ॒तः । 26) कृ॒तो अ॒भ्य॑भि कृ॒तः कृ॒तो अ॒भि । 27) अ॒भ्या॑नडानड॒भ्या᳚(1॒)भ्या॑नट् । 28) आ॒न॒ड॒र्क म॒र्क मा॑नडानड॒र्कम् । 29) अ॒र्कमित्य॒र्कम् । 30) स नो॑ न॒-स्स स नः॑ । 31) नो॒ रा॒स॒-द्रा॒स॒-न्नो॒ नो॒ रा॒स॒त् । 32) रा॒स॒च्छु॒रुध॑-श्शु॒रुधो॑ रास-द्रासच्छु॒रुधः॑ । 33) शु॒रुध॑श्च॒न्द्रा᳚ग्राश्च॒न्द्रा᳚ग्रा-श्शु॒रुध॑-श्शु॒रुध॑श्च॒न्द्रा᳚ग्राः । 34) च॒न्द्रा᳚ग्रा॒ धिय॑न्धिय॒-न्धिय॑न्धिय-ञ्च॒न्द्रा᳚ग्राश्च॒न्द्रा᳚ग्रा॒ धिय॑न्धियम् । 34) च॒न्द्राग्रा॒ इति॑ च॒न्द्र - अ॒ग्राः॒ । 35) धिय॑न्धियग्ं सीषधाति सीषधाति॒ धिय॑न्धिय॒-न्धिय॑न्धियग्ं सीषधाति । 35) धिय॑न्धिय॒मिति॒ धियं᳚ - धि॒य॒म् । 36) सी॒ष॒धा॒ति॒ प्र प्र सी॑षधाति सीषधाति॒ प्र । 37) प्र पू॒षा पू॒षा प्र प्र पू॒षा । 38) पू॒षेति॑ पू॒षा । 39) क्षेत्र॑स्य॒ पति॑ना॒ पति॑ना॒ क्षेत्र॑स्य॒ क्षेत्र॑स्य॒ पति॑ना । 40) पति॑ना व॒यं-वँ॒य-म्पति॑ना॒ पति॑ना व॒यम् । 41) व॒यग्ंहि॒तेन॑ हि॒तेन॑ व॒यं-वँ॒यग्ंहि॒तेन॑ । 42) हि॒तेने॑ वे व हि॒तेन॑ हि॒तेने॑ व । 43) इ॒व॒ ज॒या॒म॒सि॒ ज॒या॒म॒सी॒वे॒ व॒ ज॒या॒म॒सि॒ । 44) ज॒या॒म॒सीति॑ जयामसि । 45) गा मश्व॒ मश्व॒-ङ्गा-ङ्गा मश्व᳚म् । 46) अश्व॑-म्पोषयि॒त्नु पो॑षयि॒त्न्वश्व॒ मश्व॑-म्पोषयि॒त्नु । 47) पो॒ष॒यि॒त्न्वा पो॑षयि॒त्नु पो॑षयि॒त्न्वा । 48) आ स स आ सः । 49) स नो॑ न॒-स्स स नः॑ । 50) नो॒ मृ॒डा॒ति॒ मृ॒डा॒ति॒ नो॒ नो॒ मृ॒डा॒ति॒ । ॥ 26 ॥ (50/55)
1) मृ॒डा॒ती॒दृश॑ ई॒दृशे॑ मृडाति मृडाती॒दृशे᳚ । 2) ई॒दृश॒ इती॒दृशे᳚ । 3) क्षेत्र॑स्य पते पते॒ क्षेत्र॑स्य॒ क्षेत्र॑स्य पते । 4) प॒ते॒ मधु॑मन्त॒-म्मधु॑मन्त-म्पते पते॒ मधु॑मन्तम् । 5) मधु॑मन्त मू॒र्मि मू॒र्मि-म्मधु॑मन्त॒-म्मधु॑मन्त मू॒र्मिम् । 5) मधु॑मन्त॒मिति॒ मधु॑ - म॒न्त॒म् । 6) ऊ॒र्मि-न्धे॒नु-र्धे॒नुरू॒र्मि मू॒र्मि-न्धे॒नुः । 7) धे॒नुरि॑वे व धे॒नु-र्धे॒नुरि॑व । 8) इ॒व॒ पयः॒ पय॑ इवे व॒ पयः॑ । 9) पयो॑ अ॒स्मास्व॒स्मासु॒ पयः॒ पयो॑ अ॒स्मासु॑ । 10) अ॒स्मासु॑ धुक्ष्व धुक्ष्वा॒स्मास्व॒स्मासु॑ धुक्ष्व । 11) धु॒क्ष्वेति॑ धुक्ष्व । 12) म॒धु॒श्चुत॑-ङ्घृ॒त-ङ्घृ॒त-म्म॑धु॒श्चुत॑-म्मधु॒श्चुत॑-ङ्घृ॒तम् । 12) म॒धु॒श्चुत॒मिति॑ मधु - श्चुत᳚म् । 13) घृ॒त मि॑वे व घृ॒त-ङ्घृ॒त मि॑व । 14) इ॒व॒ सुपू॑त॒ग्ं॒ सुपू॑त मिवे व॒ सुपू॑तम् । 15) सुपू॑त मृ॒तस्य॒ र्तस्य॒ सुपू॑त॒ग्ं॒ सुपू॑त मृ॒तस्य॑ । 15) सुपू॑त॒मिति॒ सु - पू॒त॒म् । 16) ऋ॒तस्य॑ नो न ऋ॒तस्य॒ र्तस्य॑ नः । 17) नः॒ पत॑यः॒ पत॑यो नो नः॒ पत॑यः । 18) पत॑यो मृडयन्तु मृडयन्तु॒ पत॑यः॒ पत॑यो मृडयन्तु । 19) मृ॒ड॒य॒न्त्विति॑ मृडयन्तु । 20) अग्ने॒ नय॒ नयाग्ने ऽग्ने॒ नय॑ । 21) नय॑ सु॒पथा॑ सु॒पथा॒ नय॒ नय॑ सु॒पथा᳚ । 22) सु॒पथा॑ रा॒ये रा॒ये सु॒पथा॑ सु॒पथा॑ रा॒ये । 22) सु॒पथेति॑ सु - पथा᳚ । 23) रा॒ये अ॒स्मा न॒स्मा-न्रा॒ये रा॒ये अ॒स्मान् । 24) अ॒स्मान्. विश्वा॑नि॒ विश्वा᳚न्य॒स्मा न॒स्मान्. विश्वा॑नि । 25) विश्वा॑नि देव देव॒ विश्वा॑नि॒ विश्वा॑नि देव । 26) दे॒व॒ व॒युना॑नि व॒युना॑नि देव देव व॒युना॑नि । 27) व॒युना॑नि वि॒द्वान्. वि॒द्वान्. व॒युना॑नि व॒युना॑नि वि॒द्वान् । 28) वि॒द्वानिति॑ वि॒द्वान् । 29) यु॒यो॒ध्य॑स्मद॒स्म-द्यु॑यो॒धि यु॑यो॒ध्य॑स्मत् । 30) अ॒स्मज् जु॑हुरा॒ण-ञ्जु॑हुरा॒ण म॒स्मद॒स्मज् जु॑हुरा॒णम् । 31) जु॒हु॒रा॒ण मेन॒ एनो॑ जुहुरा॒ण-ञ्जु॑हुरा॒ण मेनः॑ । 32) एनो॒ भूयि॑ष्ठा॒-म्भूयि॑ष्ठा॒ मेन॒ एनो॒ भूयि॑ष्ठाम् । 33) भूयि॑ष्ठा-न्ते ते॒ भूयि॑ष्ठा॒-म्भूयि॑ष्ठा-न्ते । 34) ते॒ नम॑उक्ति॒न्नम॑उक्ति-न्ते ते॒ नम॑उक्तिम् । 35) नम॑उक्तिं-विँधेम विधेम॒ नम॑उक्ति॒न्नम॑उक्तिं-विँधेम । 35) नम॑उक्ति॒मिति॒ नमः॑ - उ॒क्ति॒म् । 36) वि॒धे॒मेति॑ विधेम । 37) आ दे॒वाना᳚-न्दे॒वाना॒ मा दे॒वाना᳚म् । 38) दे॒वाना॒ मप्यपि॑ दे॒वाना᳚-न्दे॒वाना॒ मपि॑ । 39) अपि॒ पन्था॒-म्पन्था॒ मप्यपि॒ पन्था᳚म् । 40) पन्था॑ मगन्मागन्म॒ पन्था॒-म्पन्था॑ मगन्म । 41) अ॒ग॒न्म॒ य-द्यद॑गन्मागन्म॒ यत् । 42) यच्छ॒क्नवा॑म श॒क्नवा॑म॒ य-द्यच्छ॒क्नवा॑म । 43) श॒क्नवा॑म॒ त-त्तच्छ॒क्नवा॑म श॒क्नवा॑म॒ तत् । 44) तदन्वनु॒ त-त्तदनु॑ । 45) अनु॒ प्रवो॑ढु॒-म्प्रवो॑ढु॒ मन्वनु॒ प्रवो॑ढुम् । 46) प्रवो॑ढु॒मिति॒ प्र - वो॒ढु॒म् । 47) अ॒ग्नि-र्वि॒द्वान्. वि॒द्वा न॒ग्निर॒ग्नि-र्वि॒द्वान् । 48) वि॒द्वा-न्थ्स स वि॒द्वान्. वि॒द्वा-न्थ्सः । 49) स य॑जा-द्यजा॒-थ्स स य॑जात् । 50) य॒जा॒-थ्स स य॑जा-द्यजा॒-थ्सः । ॥ 27 ॥ (50/55)
1) सेदिथ्ससेत् । 2) इदु॑ वु॒ विदिदु॑ । 3) उ॒ होता॒ होत॑ वु॒ होता᳚ । 4) होता॒ स स होता॒ होता॒ सः । 5) सो अ॑द्ध्व॒रा न॑द्ध्व॒रा-न्थ्स सो अ॑द्ध्व॒रान् । 6) अ॒द्ध्व॒रा-न्थ्स सो अ॑द्ध्व॒रा न॑द्ध्व॒रा-न्थ्सः । 7) स ऋ॒तू नृ॒तू-न्थ्स स ऋ॒तून् । 8) ऋ॒तून् क॑ल्पयाति कल्पयात्यृ॒तू नृ॒तून् क॑ल्पयाति । 9) क॒ल्प॒या॒तीति॑ कल्पयाति । 10) य-द्वाहि॑ष्ठं॒-वाँहि॑ष्ठं॒-यँ-द्य-द्वाहि॑ष्ठम् । 11) वाहि॑ष्ठ॒-न्त-त्त-द्वाहि॑ष्ठं॒-वाँहि॑ष्ठ॒-न्तत् । 12) तद॒ग्नये॑ अ॒ग्नये॒ त-त्तद॒ग्नये᳚ । 13) अ॒ग्नये॑ बृ॒ह-द्बृ॒हद॒ग्नये॑ अ॒ग्नये॑ बृ॒हत् । 14) बृ॒हद॑र्चार्च बृ॒ह-द्बृ॒हद॑र्च । 15) अ॒र्च॒ वि॒भा॒व॒सो॒ वि॒भा॒व॒सो॒ अ॒र्चा॒र्च॒ वि॒भा॒व॒सो॒ । 16) वि॒भा॒व॒सो॒ इति॑ विभा - व॒सो॒ । 17) महि॑षीवे व॒ महि॑षी॒ महि॑षीव । 18) इ॒व॒ त्व-त्त्वदि॑वे व॒ त्वत् । 19) त्व-द्र॒यी र॒यिस्त्व-त्त्व-द्र॒यिः । 20) र॒यिस्त्व-त्त्व-द्र॒यी र॒यिस्त्वत् । 21) त्व-द्वाजा॒ वाजा॒स्त्व-त्त्व-द्वाजाः᳚ । 22) वाजा॒ उदु-द्वाजा॒ वाजा॒ उत् । 23) उदी॑रत ईरत॒ उदुदी॑रते । 24) ई॒र॒त॒ इती॑रते । 25) अग्ने॒ त्व-न्त्व मग्ने॒ अग्ने॒ त्वम् । 26) त्व-म्पा॑रय पारय॒ त्व-न्त्व-म्पा॑रय । 27) पा॒र॒या॒ नव्यो॒ नव्यः॑ पारय पारया॒ नव्यः॑ । 28) नव्यो॑ अ॒स्मा न॒स्मा-न्नव्यो॒ नव्यो॑ अ॒स्मान् । 29) अ॒स्मा-न्थ्स्व॒स्तिभि॑-स्स्व॒स्तिभि॑र॒स्मा न॒स्मा-न्थ्स्व॒स्तिभिः॑ । 30) स्व॒स्तिभि॒रत्यति॑ स्व॒स्तिभि॑-स्स्व॒स्तिभि॒रति॑ । 30) स्व॒स्तिभि॒रिति॑ स्व॒स्ति - भिः॒ । 31) अति॑ दु॒र्गाणि॑ दु॒र्गाण्यत्यति॑ दु॒र्गाणि॑ । 32) दु॒र्गाणि॒ विश्वा॒ विश्वा॑ दु॒र्गाणि॑ दु॒र्गाणि॒ विश्वा᳚ । 32) दु॒र्गाणीति॑ दुः - गानि॑ । 33) विश्वेति॒ विश्वा᳚ । 34) पूश्च॑ च॒ पूः पूश्च॑ । 35) च॒ पृ॒थ्वी पृ॒थ्वी च॑ च पृ॒थ्वी । 36) पृ॒थ्वी ब॑हु॒ला ब॑हु॒ला पृ॒थ्वी पृ॒थ्वी ब॑हु॒ला । 37) ब॒हु॒ला नो॑ नो बहु॒ला ब॑हु॒ला नः॑ । 38) न॒ उ॒र्व् यु॑र्वी नो॑ न उ॒र्वी । 39) उ॒र्वी भव॒ भवो॒र्व् यु॑र्वी भव॑ । 40) भवा॑ तो॒काय॑ तो॒काय॒ भव॒ भवा॑ तो॒काय॑ । 41) तो॒काय॒ तन॑याय॒ तन॑याय तो॒काय॑ तो॒काय॒ तन॑याय । 42) तन॑याय॒ शग्ं श-न्तन॑याय॒ तन॑याय॒ शम् । 43) शं-योँर्यो-श्शग्ं शं-योः ँ। 44) योरिति॒ योः । 45) त्व म॑ग्ने अग्ने॒ त्व-न्त्व म॑ग्ने । 46) अ॒ग्ने॒ व्र॒त॒पा व्र॑त॒पा अ॑ग्ने अग्ने व्रत॒पाः । 47) व्र॒त॒पा अ॑स्यसि व्रत॒पा व्र॑त॒पा अ॑सि । 47) व्र॒त॒पा इति॑ व्रत - पाः । 48) अ॒सि॒ दे॒वो दे॒वो᳚ ऽस्यसि दे॒वः । 49) दे॒व आ दे॒वो दे॒व आ । 50) आ मर्त्ये॑षु॒ मर्त्ये॒ष्वा मर्त्ये॑षु । 51) मर्त्ये॒ष्वा मर्त्ये॑षु॒ मर्त्ये॒ष्वा । 52) एत्या । 53) त्वं-यँ॒ज्ञेषु॑ य॒ज्ञेषु॒ त्व-न्त्वं-यँ॒ज्ञेषु॑ । 54) य॒ज्ञेष्वीड्य॒ ईड्यो॑ य॒ज्ञेषु॑ य॒ज्ञेष्वीड्यः॑ । 55) ईड्य॒ इतीड्यः॑ । 56) य-द्वो॑ वो॒ य-द्य-द्वः॑ । 57) वो॒ व॒यं-वँ॒यं-वोँ॑ वो व॒यम् । 58) व॒य-म्प्र॑मि॒नाम॑ प्रमि॒नाम॑ व॒यं-वँ॒य-म्प्र॑मि॒नाम॑ । 59) प्र॒मि॒नाम॑ व्र॒तानि॑ व्र॒तानि॑ प्रमि॒नाम॑ प्रमि॒नाम॑ व्र॒तानि॑ । 59) प्र॒मि॒नामेति॑ प्र - मि॒नाम॑ । 60) व्र॒तानि॑ वि॒दुषां᳚-विँ॒दुषां᳚-व्रँ॒तानि॑ व्र॒तानि॑ वि॒दुषा᳚म् । 61) वि॒दुषा᳚-न्देवा देवा वि॒दुषां᳚-विँ॒दुषा᳚-न्देवाः । 62) दे॒वा॒ अवि॑दुष्टरासो॒ अवि॑दुष्टरासो देवा देवा॒ अवि॑दुष्टरासः । 63) अवि॑दुष्टरास॒ इत्यवि॑दुः - त॒रा॒सः॒ । 64) अ॒ग्निष् ट-त्तद॒ग्निर॒ग्निष् टत् । 65) त-द्विश्वं॒-विँश्व॒-न्त-त्त-द्विश्व᳚म् । 66) विश्व॒ मा विश्वं॒-विँश्व॒ मा । 67) आ पृ॑णाति पृणा॒त्या पृ॑णाति । 68) पृ॒णा॒ति॒ वि॒द्वान्. वि॒द्वा-न्पृ॑णाति पृणाति वि॒द्वान् । 69) वि॒द्वान्. येभि॒र्येभि॑-र्वि॒द्वान्. वि॒द्वान्. येभिः॑ । 70) येभि॑-र्दे॒वा-न्दे॒वान्. येभि॒र्येभि॑-र्दे॒वान् । 71) दे॒वाग्ं ऋ॒तुभि॑र्-ऋ॒तुभि॑-र्दे॒वा-न्दे॒वाग्ं ऋ॒तुभिः॑ । 72) ऋ॒तुभिः॑ क॒ल्पया॑ति क॒ल्पया᳚त्यृ॒तुभि॑र्-ऋ॒तुभिः॑ क॒ल्पया॑ति । 72) ऋ॒तुभि॒रित्यृ॒तु - भिः॒ । 73) क॒ल्पया॒तीति॑ क॒ल्पया॑ति । ॥ 28 ॥ (73, 78)
॥ अ. 14 ॥
Browse Related Categories: