Kanda 5 - Krishna Yajurveda Taittiriya Samhita · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
1) दे॒वा॒सु॒रा-स्संयँ॑त्ता॒-स्संयँ॑त्ता देवासु॒रा दे॑वासु॒रा-स्संयँ॑त्ताः । 1) दे॒वा॒सु॒रा इति॑ देव - अ॒सु॒राः । 2) संयँ॑त्ता आस-न्नास॒-न्थ्संयँ॑त्ता॒-स्संयँ॑त्ता आसन्न् । 2) संयँ॑त्ता॒ इति॒ सं - य॒त्ताः॒ । 3) आ॒स॒-न्ते त आ॑स-न्नास॒-न्ते । 4) ते न न ते ते न । 5) न वि वि न न वि । 6) व्य॑जयन्ता जयन्त॒ वि व्य॑जयन्त । 7) अ॒ज॒य॒न्त॒ स सो॑ ऽजयन्ता जयन्त॒ सः । 8) स ए॒ता ए॒ता-स्स स ए॒ताः । 9) ए॒ता इन्द्र॒ इन्द्र॑ ए॒ता ए॒ता इन्द्रः॑ । 10) इन्द्र॑ स्त॒नू स्त॒नू रिन्द्र॒ इन्द्र॑ स्त॒नूः । 11) त॒नू र॑पश्य दपश्य-त्त॒नू स्त॒नू र॑पश्यत् । 12) अ॒प॒श्य॒-त्ता स्ता अ॑पश्य दपश्य॒-त्ताः । 13) ता उपोप॒ ता स्ता उप॑ । 14) उपा॑धत्ता ध॒त्तो पोपा॑धत्त । 15) अ॒ध॒त्त॒ ताभि॒ स्ताभि॑ रधत्ता धत्त॒ ताभिः॑ । 16) ताभि॒-र्वै वै ताभि॒ स्ताभि॒-र्वै । 17) वै स स वै वै सः । 18) स त॒नुव॑-न्त॒नुव॒ग्ं॒ स स त॒नुव᳚म् । 19) त॒नुव॑ मिन्द्रि॒य मि॑न्द्रि॒य-न्त॒नुव॑-न्त॒नुव॑ मिन्द्रि॒यम् । 20) इ॒न्द्रि॒यं-वीँ॒र्यं॑-वीँ॒र्य॑ मिन्द्रि॒य मि॑न्द्रि॒यं-वीँ॒र्य᳚म् । 21) वी॒र्य॑ मा॒त्म-न्ना॒त्मन्. वी॒र्यं॑-वीँ॒र्य॑ मा॒त्मन्न् । 22) आ॒त्म-न्न॑धत्ता धत्ता॒त्म-न्ना॒त्म-न्न॑धत्त । 23) अ॒ध॒त्त॒ तत॒ स्ततो॑ ऽधत्ता धत्त॒ ततः॑ । 24) ततो॑ दे॒वा दे॒वा स्तत॒ स्ततो॑ दे॒वाः । 25) दे॒वा अभ॑व॒-न्नभ॑व-न्दे॒वा दे॒वा अभ॑वन्न् । 26) अभ॑व॒-न्परा॒ परा ऽभ॑व॒-न्नभ॑व॒-न्परा᳚ । 27) परा ऽसु॑रा॒ असु॑राः॒ परा॒ परा ऽसु॑राः । 28) असु॑रा॒ य-द्यदसु॑रा॒ असु॑रा॒ यत् । 29) यदि॑न्द्रत॒नू रि॑न्द्रत॒नू-र्य-द्यदि॑न्द्रत॒नूः । 30) इ॒न्द्र॒त॒नू रु॑प॒दधा᳚ त्युप॒दधा॑ तीन्द्रत॒नू रि॑न्द्रत॒नू रु॑प॒दधा॑ति । 30) इ॒न्द्र॒त॒नूरिती᳚न्द्र - त॒नूः । 31) उ॒प॒दधा॑ति त॒नुव॑-न्त॒नुव॑ मुप॒दधा᳚ त्युप॒दधा॑ति त॒नुव᳚म् । 31) उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । 32) त॒नुव॑ मे॒वैव त॒नुव॑-न्त॒नुव॑ मे॒व । 33) ए॒व ताभि॒ स्ताभि॑ रे॒वैव ताभिः॑ । 34) ताभि॑ रिन्द्रि॒य मि॑न्द्रि॒य-न्ताभि॒ स्ताभि॑ रिन्द्रि॒यम् । 35) इ॒न्द्रि॒यं-वीँ॒र्यं॑-वीँ॒र्य॑ मिन्द्रि॒य मि॑न्द्रि॒यं-वीँ॒र्य᳚म् । 36) वी॒र्यं॑-यँज॑मानो॒ यज॑मानो वी॒र्यं॑-वीँ॒र्यं॑-यँज॑मानः । 37) यज॑मान आ॒त्म-न्ना॒त्मन्. यज॑मानो॒ यज॑मान आ॒त्मन्न् । 38) आ॒त्म-न्ध॑त्ते धत्त आ॒त्म-न्ना॒त्म-न्ध॑त्ते । 39) ध॒त्ते ऽथो॒ अथो॑ धत्ते ध॒त्ते ऽथो᳚ । 40) अथो॒ सेन्द्र॒ग्ं॒ सेन्द्र॒ मथो॒ अथो॒ सेन्द्र᳚म् । 40) अथो॒ इत्यथो᳚ । 41) सेन्द्र॑ मे॒वैव सेन्द्र॒ग्ं॒ सेन्द्र॑ मे॒व । 41) सेन्द्र॒मिति॒ स - इ॒न्द्र॒म् । 42) ए॒वाग्नि म॒ग्नि मे॒वै वाग्निम् । 43) अ॒ग्निग्ं सत॑नु॒ग्ं॒ सत॑नु म॒ग्नि म॒ग्निग्ं सत॑नुम् । 44) सत॑नु-ञ्चिनुते चिनुते॒ सत॑नु॒ग्ं॒ सत॑नु-ञ्चिनुते । 44) सत॑नु॒मिति॒ स - त॒नु॒म् । 45) चि॒नु॒ते॒ भव॑ति॒ भव॑ति चिनुते चिनुते॒ भव॑ति । 46) भव॑ त्या॒त्मना॒ ऽऽत्मना॒ भव॑ति॒ भव॑ त्या॒त्मना᳚ । 47) आ॒त्मना॒ परा॒ परा॒ ऽऽत्मना॒ ऽऽत्मना॒ परा᳚ । 48) परा᳚ ऽस्यास्य॒ परा॒ परा᳚ ऽस्य । 49) अ॒स्य॒ भ्रातृ॑व्यो॒ भ्रातृ॑व्यो ऽस्यास्य॒ भ्रातृ॑व्यः । 50) भ्रातृ॑व्यो भवति भवति॒ भ्रातृ॑व्यो॒ भ्रातृ॑व्यो भवति । ॥ 1 ॥ (50/57)
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
1) भ॒व॒ति॒ य॒ज्ञो य॒ज्ञो भ॑वति भवति य॒ज्ञः । 2) य॒ज्ञो दे॒वेभ्यो॑ दे॒वेभ्यो॑ य॒ज्ञो य॒ज्ञो दे॒वेभ्यः॑ । 3) दे॒वेभ्यो ऽपाप॑ दे॒वेभ्यो॑ दे॒वेभ्यो ऽप॑ । 4) अपा᳚ क्राम दक्राम॒ दपापा᳚ क्रामत् । 5) अ॒क्रा॒म॒-त्त-न्त म॑क्राम दक्राम॒-त्तम् । 6) त म॑व॒रुध॑ मव॒रुध॒-न्त-न्त म॑व॒रुध᳚म् । 7) अ॒व॒रुध॒-न्न नाव॒रुध॑ मव॒रुध॒-न्न । 7) अ॒व॒रुध॒मित्य॑व - रुध᳚म् । 8) नाश॑क्नुव-न्नशक्नुव॒-न्न नाश॑क्नुवन्न् । 9) अ॒श॒क्नु॒व॒-न्ते ते॑ ऽशक्नुव-न्नशक्नुव॒-न्ते । 10) त ए॒ता ए॒ता स्ते त ए॒ताः । 11) ए॒ता य॑ज्ञत॒नू-र्य॑ज्ञत॒नू रे॒ता ए॒ता य॑ज्ञत॒नूः । 12) य॒ज्ञ॒त॒नू र॑पश्य-न्नपश्यन्. यज्ञत॒नू-र्य॑ज्ञत॒नू र॑पश्यन्न् । 12) य॒ज्ञ॒त॒नूरिति॑ यज्ञ - त॒नूः । 13) अ॒प॒श्य॒-न्ता स्ता अ॑पश्य-न्नपश्य॒-न्ताः । 14) ता उपोप॒ ता स्ता उप॑ । 15) उपा॑दधता दध॒तोपोपा॑ दधत । 16) अ॒द॒ध॒त॒ ताभि॒ स्ताभि॑ रदधता दधत॒ ताभिः॑ । 17) ताभि॒-र्वै वै ताभि॒ स्ताभि॒-र्वै । 18) वै ते ते वै वै ते । 19) ते य॒ज्ञं-यँ॒ज्ञ-न्ते ते य॒ज्ञम् । 20) य॒ज्ञ मवाव॑ य॒ज्ञं-यँ॒ज्ञ मव॑ । 21) अवा॑ रुन्धता रुन्ध॒ता वावा॑ रुन्धत । 22) अ॒रु॒न्ध॒त॒ य-द्यद॑रुन्धता रुन्धत॒ यत् । 23) य-द्य॑ज्ञत॒नू-र्य॑ज्ञत॒नू-र्य-द्य-द्य॑ज्ञत॒नूः । 24) य॒ज्ञ॒त॒नू रु॑प॒दधा᳚ त्युप॒दधा॑ति यज्ञत॒नू-र्य॑ज्ञत॒नू रु॑प॒दधा॑ति । 24) य॒ज्ञ॒त॒नूरिति॑ यज्ञ - त॒नूः । 25) उ॒प॒दधा॑ति य॒ज्ञं-यँ॒ज्ञ मु॑प॒दधा᳚ त्युप॒दधा॑ति य॒ज्ञम् । 25) उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । 26) य॒ज्ञ मे॒वैव य॒ज्ञं-यँ॒ज्ञ मे॒व । 27) ए॒व ताभि॒ स्ताभि॑ रे॒वैव ताभिः॑ । 28) ताभि॒-र्यज॑मानो॒ यज॑मान॒ स्ताभि॒ स्ताभि॒-र्यज॑मानः । 29) यज॑मा॒नो ऽवाव॒ यज॑मानो॒ यज॑मा॒नो ऽव॑ । 30) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 31) रु॒न्धे॒ त्रय॑स्त्रिग्ंशत॒-न्त्रय॑स्त्रिग्ंशतग्ं रुन्धे रुन्धे॒ त्रय॑स्त्रिग्ंशतम् । 32) त्रय॑स्त्रिग्ंशत॒ मुपोप॒ त्रय॑स्त्रिग्ंशत॒-न्त्रय॑स्त्रिग्ंशत॒ मुप॑ । 32) त्रय॑स्त्रिग्ंशत॒मिति॒ त्रयः॑ - त्रि॒ग्ं॒श॒त॒म् । 33) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 34) द॒धा॒ति॒ त्रय॑स्त्रिग्ंश॒-त्त्रय॑स्त्रिग्ंश-द्दधाति दधाति॒ त्रय॑स्त्रिग्ंशत् । 35) त्रय॑स्त्रिग्ंश॒-द्वै वै त्रय॑स्त्रिग्ंश॒-त्त्रय॑स्त्रिग्ंश॒-द्वै । 35) त्रय॑स्त्रिग्ंश॒दिति॒ त्रयः॑ - त्रि॒ग्ं॒श॒त् । 36) वै दे॒वता॑ दे॒वता॒ वै वै दे॒वताः᳚ । 37) दे॒वता॑ दे॒वताः᳚ । 38) दे॒वता॑ ए॒वैव दे॒वता॑ दे॒वता॑ ए॒व । 39) ए॒वावा वै॒वै वाव॑ । 40) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 41) रु॒न्धे ऽथो॒ अथो॑ रुन्धे रु॒न्धे ऽथो᳚ । 42) अथो॒ सात्मा॑न॒ग्ं॒ सात्मा॑न॒ मथो॒ अथो॒ सात्मा॑नम् । 42) अथो॒ इत्यथो᳚ । 43) सात्मा॑न मे॒वैव सात्मा॑न॒ग्ं॒ सात्मा॑न मे॒व । 43) सात्मा॑न॒मिति॒ स - आ॒त्मा॒न॒म् । 44) ए॒वाग्नि म॒ग्नि मे॒वै वाग्निम् । 45) अ॒ग्निग्ं सत॑नु॒ग्ं॒ सत॑नु म॒ग्नि म॒ग्निग्ं सत॑नुम् । 46) सत॑नु-ञ्चिनुते चिनुते॒ सत॑नु॒ग्ं॒ सत॑नु-ञ्चिनुते । 46) सत॑नु॒मिति॒ स - त॒नु॒म् । 47) चि॒नु॒ते॒ सात्मा॒ सात्मा॑ चिनुते चिनुते॒ सात्मा᳚ । 48) सात्मा॒ ऽमुष्मि॑-न्न॒मुष्मि॒-न्थ्सात्मा॒ सात्मा॒ ऽमुष्मिन्न्॑ । 48) सात्मेति॒ स - आ॒त्मा॒ । 49) अ॒मुष्मि॑न् ँलो॒के लो॒के॑ ऽमुष्मि॑-न्न॒मुष्मि॑न् ँलो॒के । 50) लो॒के भ॑वति भवति लो॒के लो॒के भ॑वति । ॥ 2 ॥ (50/60)
1) भ॒व॒ति॒ यो यो भ॑वति भवति॒ यः । 2) य ए॒व मे॒वं-योँ य ए॒वम् । 3) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ । 4) वेद॒ ज्योति॑ष्मती॒-र्ज्योति॑ष्मती॒-र्वेद॒ वेद॒ ज्योति॑ष्मतीः । 5) ज्योति॑ष्मती॒ रुपोप॒ ज्योति॑ष्मती॒-र्ज्योति॑ष्मती॒ रुप॑ । 6) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 7) द॒धा॒ति॒ ज्योति॒-र्ज्योति॑-र्दधाति दधाति॒ ज्योतिः॑ । 8) ज्योति॑ रे॒वैव ज्योति॒-र्ज्योति॑ रे॒व । 9) ए॒वास्मि॑-न्नस्मि-न्ने॒वै वास्मिन्न्॑ । 10) अ॒स्मि॒-न्द॒धा॒ति॒ द॒धा॒ त्य॒स्मि॒-न्न॒स्मि॒-न्द॒धा॒ति॒ । 11) द॒धा॒ त्ये॒ताभि॑ रे॒ताभि॑-र्दधाति दधा त्ये॒ताभिः॑ । 12) ए॒ताभि॒-र्वै वा ए॒ताभि॑ रे॒ताभि॒-र्वै । 13) वा अ॒ग्नि र॒ग्नि-र्वै वा अ॒ग्निः । 14) अ॒ग्नि श्चि॒त श्चि॒तो᳚ ऽग्नि र॒ग्नि श्चि॒तः । 15) चि॒तो ज्व॑लति ज्वलति चि॒त श्चि॒तो ज्व॑लति । 16) ज्व॒ल॒ति॒ ताभि॒ स्ताभि॑-र्ज्वलति ज्वलति॒ ताभिः॑ । 17) ताभि॑ रे॒वैव ताभि॒ स्ताभि॑ रे॒व । 18) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 19) ए॒न॒ग्ं॒ सग्ं स मे॑न मेन॒ग्ं॒ सम् । 20) स मि॑न्ध इन्धे॒ सग्ं स मि॑न्धे । 21) इ॒न्ध॒ उ॒भयो॑ रु॒भयो॑ रिन्ध इन्ध उ॒भयोः᳚ । 22) उ॒भयो॑ रस्मा अस्मा उ॒भयो॑ रु॒भयो॑ रस्मै । 23) अ॒स्मै॒ लो॒कयो᳚-र्लो॒कयो॑ रस्मा अस्मै लो॒कयोः᳚ । 24) लो॒कयो॒-र्ज्योति॒-र्ज्योति॑-र्लो॒कयो᳚-र्लो॒कयो॒-र्ज्योतिः॑ । 25) ज्योति॑-र्भवति भवति॒ ज्योति॒-र्ज्योति॑-र्भवति । 26) भ॒व॒ति॒ न॒क्ष॒त्रे॒ष्ट॒का न॑क्षत्रेष्ट॒का भ॑वति भवति नक्षत्रेष्ट॒काः । 27) न॒क्ष॒त्रे॒ष्ट॒का उपोप॑ नक्षत्रेष्ट॒का न॑क्षत्रेष्ट॒का उप॑ । 27) न॒क्ष॒त्रे॒ष्ट॒का इति॑ नक्षत्र - इ॒ष्ट॒काः । 28) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 29) द॒धा॒ त्ये॒ता न्ये॒तानि॑ दधाति दधा त्ये॒तानि॑ । 30) ए॒तानि॒ वै वा ए॒ता न्ये॒तानि॒ वै । 31) वै दि॒वो दि॒वो वै वै दि॒वः । 32) दि॒वो ज्योतीग्ं॑षि॒ ज्योतीग्ं॑षि दि॒वो दि॒वो ज्योतीग्ं॑षि । 33) ज्योतीग्ं॑षि॒ तानि॒ तानि॒ ज्योतीग्ं॑षि॒ ज्योतीग्ं॑षि॒ तानि॑ । 34) तान्ये॒वैव तानि॒ तान्ये॒व । 35) ए॒वावा वै॒वै वाव॑ । 36) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 37) रु॒न्धे॒ सु॒कृताग्ं॑ सु॒कृताग्ं॑ रुन्धे रुन्धे सु॒कृता᳚म् । 38) सु॒कृतां॒-वैँ वै सु॒कृताग्ं॑ सु॒कृतां॒-वैँ । 38) सु॒कृता॒मिति॑ सु - कृता᳚म् । 39) वा ए॒ता न्ये॒तानि॒ वै वा ए॒तानि॑ । 40) ए॒तानि॒ ज्योतीग्ं॑षि॒ ज्योतीग्॑ ष्ये॒ता न्ये॒तानि॒ ज्योतीग्ं॑षि । 41) ज्योतीग्ं॑षि॒ य-द्यज् ज्योतीग्ं॑षि॒ ज्योतीग्ं॑षि॒ यत् । 42) य-न्नक्ष॑त्राणि॒ नक्ष॑त्राणि॒ य-द्य-न्नक्ष॑त्राणि । 43) नक्ष॑त्राणि॒ तानि॒ तानि॒ नक्ष॑त्राणि॒ नक्ष॑त्राणि॒ तानि॑ । 44) तान्ये॒ वैव तानि॒ तान्ये॒व । 45) ए॒वाप्नो᳚ त्याप्नो त्ये॒वैवाप्नो॑ति । 46) आ॒प्नो॒ त्यथो॒ अथो॑ आप्नो त्याप्नो॒ त्यथो᳚ । 47) अथो॑ अनूका॒श म॑नूका॒श मथो॒ अथो॑ अनूका॒शम् । 47) अथो॒ इत्यथो᳚ । 48) अ॒नू॒का॒श मे॒वैवा नू॑का॒श म॑नूका॒श मे॒व । 48) अ॒नू॒का॒शमित्य॑नु - का॒शम् । 49) ए॒वैता न्ये॒ता न्ये॒वैवैतानि॑ । 50) ए॒तानि॒ ज्योतीग्ं॑षि॒ ज्योतीग्॑ ष्ये॒ता न्ये॒तानि॒ ज्योतीग्ं॑षि । ॥ 3 ॥ (50/54)
1) ज्योतीग्ं॑षि कुरुते कुरुते॒ ज्योतीग्ं॑षि॒ ज्योतीग्ं॑षि कुरुते । 2) कु॒रु॒ते॒ सु॒व॒र्गस्य॑ सुव॒र्गस्य॑ कुरुते कुरुते सुव॒र्गस्य॑ । 3) सु॒व॒र्गस्य॑ लो॒कस्य॑ लो॒कस्य॑ सुव॒र्गस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ । 3) सु॒व॒र्गस्येति॑ सुवः - गस्य॑ । 4) लो॒कस्या नु॑ख्यात्या॒ अनु॑ख्यात्यै लो॒कस्य॑ लो॒कस्या नु॑ख्यात्यै । 5) अनु॑ख्यात्यै॒ य-द्यदनु॑ख्यात्या॒ अनु॑ख्यात्यै॒ यत् । 5) अनु॑ख्यात्या॒ इत्यनु॑ - ख्या॒त्यै॒ । 6) य-थ्सग्ग्स्पृ॑ष्टा॒-स्सग्ग्स्पृ॑ष्टा॒ य-द्य-थ्सग्ग्स्पृ॑ष्टाः । 7) सग्ग्स्पृ॑ष्टा उपद॒द्ध्या दु॑पद॒द्ध्या-थ्सग्ग्स्पृ॑ष्टा॒-स्सग्ग्स्पृ॑ष्टा उपद॒द्ध्यात् । 7) सग्ग्स्पृ॑ष्टा॒ इति॒ सं - स्पृ॒ष्टाः॒ । 8) उ॒प॒द॒द्ध्या-द्वृष्ट्यै॒ वृष्ट्या॑ उपद॒द्ध्या दु॑पद॒द्ध्या-द्वृष्ट्यै᳚ । 8) उ॒प॒द॒द्ध्यादित्यु॑प - द॒द्ध्यात् । 9) वृष्ट्यै॑ लो॒कम् ँलो॒कं-वृँष्ट्यै॒ वृष्ट्यै॑ लो॒कम् । 10) लो॒क मप्यपि॑ लो॒कम् ँलो॒क मपि॑ । 11) अपि॑ दद्ध्या-द्दद्ध्या॒ दप्यपि॑ दद्ध्यात् । 12) द॒द्ध्या॒ दव॑र्षु॒को ऽव॑र्षुको दद्ध्या-द्दद्ध्या॒ दव॑र्षुकः । 13) अव॑र्षुकः प॒र्जन्यः॑ प॒र्जन्यो ऽव॑र्षु॒को ऽव॑र्षुकः प॒र्जन्यः॑ । 14) प॒र्जन्य॑-स्स्या-थ्स्या-त्प॒र्जन्यः॑ प॒र्जन्य॑-स्स्यात् । 15) स्या॒ दसग्ग्॑स्पृष्टा॒ असग्ग्॑स्पृष्टा-स्स्या-थ्स्या॒ दसग्ग्॑स्पृष्टाः । 16) असग्ग्॑स्पृष्टा॒ उपोपा सग्ग्॑स्पृष्टा॒ असग्ग्॑स्पृष्टा॒ उप॑ । 16) असग्ग्॑स्पृष्टा॒ इत्यसं᳚ - स्पृ॒ष्टाः॒ । 17) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 18) द॒धा॒ति॒ वृष्ट्यै॒ वृष्ट्यै॑ दधाति दधाति॒ वृष्ट्यै᳚ । 19) वृष्ट्या॑ ए॒वैव वृष्ट्यै॒ वृष्ट्या॑ ए॒व । 20) ए॒व लो॒कम् ँलो॒क मे॒वैव लो॒कम् । 21) लो॒क-ङ्क॑रोति करोति लो॒कम् ँलो॒क-ङ्क॑रोति । 22) क॒रो॒ति॒ वर्षु॑को॒ वर्षु॑कः करोति करोति॒ वर्षु॑कः । 23) वर्षु॑कः प॒र्जन्यः॑ प॒र्जन्यो॒ वर्षु॑को॒ वर्षु॑कः प॒र्जन्यः॑ । 24) प॒र्जन्यो॑ भवति भवति प॒र्जन्यः॑ प॒र्जन्यो॑ भवति । 25) भ॒व॒ति॒ पु॒रस्ता᳚-त्पु॒रस्ता᳚-द्भवति भवति पु॒रस्ता᳚त् । 26) पु॒रस्ता॑ द॒न्या अ॒न्याः पु॒रस्ता᳚-त्पु॒रस्ता॑ द॒न्याः । 27) अ॒न्याः प्र॒तीचीः᳚ प्र॒तीची॑ र॒न्या अ॒न्याः प्र॒तीचीः᳚ । 28) प्र॒तीची॒ रुपोप॑ प्र॒तीचीः᳚ प्र॒तीची॒ रुप॑ । 29) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 30) द॒धा॒ति॒ प॒श्चा-त्प॒श्चा-द्द॑धाति दधाति प॒श्चात् । 31) प॒श्चा द॒न्या अ॒न्याः प॒श्चा-त्प॒श्चा द॒न्याः । 32) अ॒न्याः प्राचीः॒ प्राची॑ र॒न्या अ॒न्याः प्राचीः᳚ । 33) प्राची॒स् तस्मा॒-त्तस्मा॒-त्प्राचीः॒ प्राची॒ स्तस्मा᳚त् । 34) तस्मा᳚-त्प्रा॒चीना॑नि प्रा॒चीना॑नि॒ तस्मा॒-त्तस्मा᳚-त्प्रा॒चीना॑नि । 35) प्रा॒चीना॑नि च च प्रा॒चीना॑नि प्रा॒चीना॑नि च । 36) च॒ प्र॒ती॒चीना॑नि प्रती॒चीना॑नि च च प्रती॒चीना॑नि । 37) प्र॒ती॒चीना॑नि च च प्रती॒चीना॑नि प्रती॒चीना॑नि च । 38) च॒ नक्ष॑त्राणि॒ नक्ष॑त्राणि च च॒ नक्ष॑त्राणि । 39) नक्ष॑त्रा॒ण्या नक्ष॑त्राणि॒ नक्ष॑त्रा॒ण्या । 40) आ व॑र्तन्ते वर्तन्त॒ आ व॑र्तन्ते । 41) व॒र्त॒न्त॒ इति॑ वर्तन्ते । ॥ 4 ॥ (41/46) ॥ अ. 1 ॥
1) ऋ॒त॒व्या॑ उपोपा᳚ र्त॒व्या॑ ऋत॒व्या॑ उप॑ । 2) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 3) द॒धा॒ त्यृ॒तू॒ना मृ॑तू॒ना-न्द॑धाति दधा त्यृतू॒नाम् । 4) ऋ॒तू॒ना-ङ्क्लृप्त्यै॒ क्लृप्त्या॑ ऋतू॒ना मृ॑तू॒ना-ङ्क्लृप्त्यै᳚ । 5) क्लृप्त्यै᳚ द्व॒न्द्व-न्द्व॒न्द्व-ङ्क्लृप्त्यै॒ क्लृप्त्यै᳚ द्व॒न्द्वम् । 6) द्व॒न्द्व मुपोप॑ द्व॒न्द्व-न्द्व॒न्द्व मुप॑ । 6) द्व॒न्द्वमिति॑ द्वं - द्वम् । 7) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 8) द॒धा॒ति॒ तस्मा॒-त्तस्मा᳚-द्दधाति दधाति॒ तस्मा᳚त् । 9) तस्मा᳚-द्द्व॒न्द्व-न्द्व॒न्द्व-न्तस्मा॒-त्तस्मा᳚-द्द्व॒न्द्वम् । 10) द्व॒न्द्व मृ॒तव॑ ऋ॒तवो᳚ द्व॒न्द्व-न्द्व॒न्द्व मृ॒तवः॑ । 10) द्व॒न्द्वमिति॑ द्वं - द्वम् । 11) ऋ॒तवो ऽधृ॒ता ऽधृ॑त॒ र्तव॑ ऋ॒तवो ऽधृ॑ता । 12) अधृ॑तेवे॒ वाधृ॒ता ऽधृ॑तेव । 13) इ॒व॒ वै वा इ॑वेव॒ वै । 14) वा ए॒षैषा वै वा ए॒षा । 15) ए॒षा य-द्यदे॒षैषा यत् । 16) य-न्म॑द्ध्य॒मा म॑द्ध्य॒मा य-द्य-न्म॑द्ध्य॒मा । 17) म॒द्ध्य॒मा चिति॒ श्चिति॑-र्मद्ध्य॒मा म॑द्ध्य॒मा चितिः॑ । 18) चिति॑ र॒न्तरि॑क्ष म॒न्तरि॑क्ष॒-ञ्चिति॒ श्चिति॑ र॒न्तरि॑क्षम् । 19) अ॒न्तरि॑क्ष मिवे वा॒न्तरि॑क्ष म॒न्तरि॑क्ष मिव । 20) इ॒व॒ वै वा इ॑वेव॒ वै । 21) वा ए॒षैषा वै वा ए॒षा । 22) ए॒षा द्व॒न्द्व-न्द्व॒न्द्व मे॒षैषा द्व॒न्द्वम् । 23) द्व॒न्द्व म॒न्या स्व॒न्यासु॑ द्व॒न्द्व-न्द्व॒न्द्व म॒न्यासु॑ । 23) द्व॒न्द्वमिति॑ द्वं - द्वम् । 24) अ॒न्यासु॒ चिती॑षु॒ चिती᳚ ष्व॒न्या स्व॒न्यासु॒ चिती॑षु । 25) चिती॒षू पोप॒ चिती॑षु॒ चिती॒षूप॑ । 26) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 27) द॒धा॒ति॒ चत॑स्र॒ श्चत॑स्रो दधाति दधाति॒ चत॑स्रः । 28) चत॑स्रो॒ मद्ध्ये॒ मद्ध्ये॒ चत॑स्र॒ श्चत॑स्रो॒ मद्ध्ये᳚ । 29) मद्ध्ये॒ धृत्यै॒ धृत्यै॒ मद्ध्ये॒ मद्ध्ये॒ धृत्यै᳚ । 30) धृत्या॑ अन्त॒स्श्लेष॑ण मन्त॒स्श्लेष॑ण॒-न्धृत्यै॒ धृत्या॑ अन्त॒स्श्लेष॑णम् । 31) अ॒न्त॒स्श्लेष॑णं॒-वैँ वा अ॑न्त॒स्श्लेष॑ण मन्त॒स्श्लेष॑णं॒-वैँ । 31) अ॒न्त॒स्श्लेष॑ण॒मित्य॑न्तः - श्लेष॑णम् । 32) वा ए॒ता ए॒ता वै वा ए॒ताः । 33) ए॒ता श्चिती॑ना॒-ञ्चिती॑ना मे॒ता ए॒ता श्चिती॑नाम् । 34) चिती॑नां॒-यँ-द्यच् चिती॑ना॒-ञ्चिती॑नां॒-यँत् । 35) यदृ॑त॒व्या॑ ऋत॒व्या॑ य-द्यदृ॑त॒व्याः᳚ । 36) ऋ॒त॒व्या॑ य-द्यदृ॑त॒व्या॑ ऋत॒व्या॑ यत् । 37) यदृ॑त॒व्या॑ ऋत॒व्या॑ य-द्यदृ॑त॒व्याः᳚ । 38) ऋ॒त॒व्या॑ उप॒दधा᳚ त्युप॒दधा᳚ त्यृत॒व्या॑ ऋत॒व्या॑ उप॒दधा॑ति । 39) उ॒प॒दधा॑ति॒ चिती॑ना॒-ञ्चिती॑ना मुप॒दधा᳚ त्युप॒दधा॑ति॒ चिती॑नाम् । 39) उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । 40) चिती॑नां॒-विँधृ॑त्यै॒ विधृ॑त्यै॒ चिती॑ना॒-ञ्चिती॑नां॒-विँधृ॑त्यै । 41) विधृ॑त्या॒ अव॑का॒ मव॑कां॒-विँधृ॑त्यै॒ विधृ॑त्या॒ अव॑काम् । 41) विधृ॑त्या॒ इति॒ वि - धृ॒त्यै॒ । 42) अव॑का॒ मन्वन् वव॑का॒ मव॑का॒ मनु॑ । 43) अनूपोपान् वनूप॑ । 44) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 45) द॒धा॒ त्ये॒षैषा द॑धाति दधा त्ये॒षा । 46) ए॒षा वै वा ए॒षैषा वै । 47) वा अ॒ग्ने र॒ग्ने-र्वै वा अ॒ग्नेः । 48) अ॒ग्ने-र्योनि॒-र्योनि॑ र॒ग्ने र॒ग्ने-र्योनिः॑ । 49) योनि॒-स्सयो॑नि॒ग्ं॒ सयो॑निं॒-योँनि॒-र्योनि॒-स्सयो॑निम् । 50) सयो॑नि मे॒वैव सयो॑नि॒ग्ं॒ सयो॑नि मे॒व । 50) सयो॑नि॒मिति॒ स - यो॒नि॒म् । ॥ 5 ॥ (50/57)
1) ए॒वाग्नि म॒ग्नि मे॒वै वाग्निम् । 2) अ॒ग्नि-ञ्चि॑नुते चिनुते॒ ऽग्नि म॒ग्नि-ञ्चि॑नुते । 3) चि॒नु॒त॒ उ॒वाचो॒ वाच॑ चिनुते चिनुत उ॒वाच॑ । 4) उ॒वाच॑ ह हो॒वाचो॒ वाच॑ ह । 5) ह॒ वि॒श्वामि॑त्रो वि॒श्वामि॑त्रो ह ह वि॒श्वामि॑त्रः । 6) वि॒श्वामि॒त्रो ऽद॒ दद॑-द्वि॒श्वामि॑त्रो वि॒श्वामि॒त्रो ऽद॑त् । 6) वि॒श्वामि॑त्र॒ इति॑ वि॒श्व - मि॒त्रः॒ । 7) अद॒ दिदि दद॒ दद॒ दित् । 8) इ-थ्स सेदि-थ्सः । 9) स ब्रह्म॑णा॒ ब्रह्म॑णा॒ स स ब्रह्म॑णा । 10) ब्रह्म॒णा ऽन्न॒ मन्न॒-म्ब्रह्म॑णा॒ ब्रह्म॒णा ऽन्न᳚म् । 11) अन्नं॒-यँस्य॒ यस्यान्न॒ मन्नं॒-यँस्य॑ । 12) यस्यै॒ता ए॒ता यस्य॒ यस्यै॒ताः । 13) ए॒ता उ॑प॒धीयान्ता॑ उप॒धीयान्ता॑ ए॒ता ए॒ता उ॑प॒धीयान्तै᳚ । 14) उ॒प॒धीयान्तै॒ यो य उ॑प॒धीयान्ता॑ उप॒धीयान्तै॒ यः । 14) उ॒प॒धी॒यान्ता॒ इत्यु॑प - धी॒यान्तै᳚ । 15) य उ॑ वु॒ यो य उ॑ । 16) उ॒ च॒ च॒ वु॒ च॒ । 17) चै॒ना॒ ए॒ना॒श्च॒ चै॒नाः॒ । 18) ए॒ना॒ ए॒व मे॒व मे॑ना एना ए॒वम् । 19) ए॒वं-वेँद॒-द्वेद॑ दे॒व मे॒वं-वेँद॑त् । 20) वेद॒ दितीति॒ वेद॒-द्वेद॒ दिति॑ । 21) इति॑ संवँथ्स॒र-स्सं॑वँथ्स॒र इतीति॑ संवँथ्स॒रः । 22) सं॒वँ॒थ्स॒रो वै वै सं॑वँथ्स॒र-स्सं॑वँथ्स॒रो वै । 22) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः । 23) वा ए॒त मे॒तं-वैँ वा ए॒तम् । 24) ए॒त-म्प्र॑ति॒ष्ठायै᳚ प्रति॒ष्ठाया॑ ए॒त मे॒त-म्प्र॑ति॒ष्ठायै᳚ । 25) प्र॒ति॒ष्ठायै॑ नुदते नुदते प्रति॒ष्ठायै᳚ प्रति॒ष्ठायै॑ नुदते । 25) प्र॒ति॒ष्ठाया॒ इति॑ प्रति - स्थायै᳚ । 26) नु॒द॒ते॒ यो यो नु॑दते नुदते॒ यः । 27) यो᳚ ऽग्नि म॒ग्निं-योँ यो᳚ ऽग्निम् । 28) अ॒ग्नि-ञ्चि॒त्वा चि॒त्वा ऽग्नि म॒ग्नि-ञ्चि॒त्वा । 29) चि॒त्वा न न चि॒त्वा चि॒त्वा न । 30) न प्र॑ति॒तिष्ठ॑ति प्रति॒तिष्ठ॑ति॒ न न प्र॑ति॒तिष्ठ॑ति । 31) प्र॒ति॒तिष्ठ॑ति॒ पञ्च॒ पञ्च॑ प्रति॒तिष्ठ॑ति प्रति॒तिष्ठ॑ति॒ पञ्च॑ । 31) प्र॒ति॒तिष्ठ॒तीति॑ प्रति - तिष्ठ॑ति । 32) पञ्च॒ पूर्वाः॒ पूर्वाः॒ पञ्च॒ पञ्च॒ पूर्वाः᳚ । 33) पूर्वा॒ श्चित॑य॒ श्चित॑यः॒ पूर्वाः॒ पूर्वा॒ श्चित॑यः । 34) चित॑यो भवन्ति भवन्ति॒ चित॑य॒ श्चित॑यो भवन्ति । 35) भ॒व॒-न्त्यथाथ॑ भवन्ति भव॒-न्त्यथ॑ । 36) अथ॑ ष॒ष्ठीग्ं ष॒ष्ठी मथाथ॑ ष॒ष्ठीम् । 37) ष॒ष्ठी-ञ्चिति॒-ञ्चितिग्ं॑ ष॒ष्ठीग्ं ष॒ष्ठी-ञ्चिति᳚म् । 38) चिति॑-ञ्चिनुते चिनुते॒ चिति॒-ञ्चिति॑-ञ्चिनुते । 39) चि॒नु॒ते॒ ष-ट्थ्षट् चि॑नुते चिनुते॒ षट् । 40) ष-ड्वै वै ष-ट्थ्ष-ड्वै । 41) वा ऋ॒तव॑ ऋ॒तवो॒ वै वा ऋ॒तवः॑ । 42) ऋ॒तव॑-स्संवँथ्स॒र-स्सं॑वँथ्स॒र ऋ॒तव॑ ऋ॒तव॑-स्संवँथ्स॒रः । 43) सं॒वँ॒थ्स॒र ऋ॒तुष् वृ॒तुषु॑ संवँथ्स॒र-स्सं॑वँथ्स॒र ऋ॒तुषु॑ । 43) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः । 44) ऋ॒तु ष्वे॒वैव र्तुष् वृ॒तु ष्वे॒व । 45) ए॒व सं॑वँथ्स॒रे सं॑वँथ्स॒र ए॒वैव सं॑वँथ्स॒रे । 46) सं॒वँ॒थ्स॒रे प्रति॒ प्रति॑ संवँथ्स॒रे सं॑वँथ्स॒रे प्रति॑ । 46) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रे । 47) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति । 48) ति॒ष्ठ॒ त्ये॒ता ए॒ता स्ति॑ष्ठति तिष्ठ त्ये॒ताः । 49) ए॒ता वै वा ए॒ता ए॒ता वै । 50) वा अधि॑पत्नी॒ रधि॑पत्नी॒-र्वै वा अधि॑पत्नीः । ॥ 6 ॥ (50/57)
1) अधि॑पत्नी॒-र्नाम॒ नामा धि॑पत्नी॒ रधि॑पत्नी॒-र्नाम॑ । 1) अधि॑पत्नी॒रित्यधि॑ - प॒त्नीः॒ । 2) नामेष्ट॑का॒ इष्ट॑का॒ नाम॒ नामेष्ट॑काः । 3) इष्ट॑का॒ यस्य॒ यस्येष्ट॑का॒ इष्ट॑का॒ यस्य॑ । 4) यस्यै॒ता ए॒ता यस्य॒ यस्यै॒ताः । 5) ए॒ता उ॑पधी॒यन्त॑ उपधी॒यन्त॑ ए॒ता ए॒ता उ॑पधी॒यन्ते᳚ । 6) उ॒प॒धी॒यन्ते ऽधि॑पति॒ रधि॑पति रुपधी॒यन्त॑ उपधी॒यन्ते ऽधि॑पतिः । 6) उ॒प॒धी॒यन्त॒ इत्यु॑प - धी॒यन्ते᳚ । 7) अधि॑पति रे॒वैवा धि॑पति॒ रधि॑पति रे॒व । 7) अधि॑पति॒रित्यधि॑ - प॒तिः॒ । 8) ए॒व स॑मा॒नानाग्ं॑ समा॒नाना॑ मे॒वैव स॑मा॒नाना᳚म् । 9) स॒मा॒नाना᳚-म्भवति भवति समा॒नानाग्ं॑ समा॒नाना᳚-म्भवति । 10) भ॒व॒ति॒ यं-यँ-म्भ॑वति भवति॒ यम् । 11) य-न्द्वि॒ष्या-द्द्वि॒ष्या-द्यं-यँ-न्द्वि॒ष्यात् । 12) द्वि॒ष्या-त्त-न्त-न्द्वि॒ष्या-द्द्वि॒ष्या-त्तम् । 13) त मु॑प॒दध॑ दुप॒दध॒-त्त-न्त मु॑प॒दध॑त् । 14) उ॒प॒दध॑-द्ध्याये-द्ध्याये दुप॒दध॑ दुप॒दध॑-द्ध्यायेत् । 14) उ॒प॒दध॒दित्यु॑प - दध॑त् । 15) ध्या॒ये॒ दे॒ताभ्य॑ ए॒ताभ्यो᳚ ध्याये-द्ध्याये दे॒ताभ्यः॑ । 16) ए॒ताभ्य॑ ए॒वैवैताभ्य॑ ए॒ताभ्य॑ ए॒व । 17) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 18) ए॒न॒-न्दे॒वता᳚भ्यो दे॒वता᳚भ्य एन मेन-न्दे॒वता᳚भ्यः । 19) दे॒वता᳚भ्य॒ आ दे॒वता᳚भ्यो दे॒वता᳚भ्य॒ आ । 20) आ वृ॑श्चति वृश्च॒ त्यावृ॑श्चति । 21) वृ॒श्च॒ति॒ ता॒ज-क्ता॒जग् वृ॑श्चति वृश्चति ता॒जक् । 22) ता॒जगार्ति॒ मार्ति॑-न्ता॒ज-क्ता॒जगार्ति᳚म् । 23) आर्ति॒ मा ऽऽर्ति॒ मार्ति॒ मा । 24) आर्च्छ॑ त्यृच्छ॒ त्यार्च्छ॑ति । 25) ऋ॒च्छ॒ त्यङ्गि॑र॒सो ऽङ्गि॑रस ऋच्छ त्यृच्छ॒ त्यङ्गि॑रसः । 26) अङ्गि॑रस-स्सुव॒र्गग्ं सु॑व॒र्ग मङ्गि॑र॒सो ऽङ्गि॑रस-स्सुव॒र्गम् । 27) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् । 27) सु॒व॒र्गमिति॑ सुवः - गम् । 28) लो॒कं-यँन्तो॒ यन्तो॑ लो॒कम् ँलो॒कं-यँन्तः॑ । 29) यन्तो॒ या या यन्तो॒ यन्तो॒ या । 30) या य॒ज्ञस्य॑ य॒ज्ञस्य॒ या या य॒ज्ञस्य॑ । 31) य॒ज्ञस्य॒ निष्कृ॑ति॒-र्निष्कृ॑ति-र्य॒ज्ञस्य॑ य॒ज्ञस्य॒ निष्कृ॑तिः । 32) निष्कृ॑ति॒ रासी॒ दासी॒-न्निष्कृ॑ति॒-र्निष्कृ॑ति॒ रासी᳚त् । 32) निष्कृ॑ति॒रिति॒ निः - कृ॒तिः॒ । 33) आसी॒-त्ता-न्ता मासी॒ दासी॒-त्ताम् । 34) ता मृषि॑भ्य॒ ऋषि॑भ्य॒ स्ता-न्ता मृषि॑भ्यः । 35) ऋषि॑भ्यः॒ प्रति॒ प्रत्यृषि॑भ्य॒ ऋषि॑भ्यः॒ प्रति॑ । 35) ऋषि॑भ्य॒ इत्यृषि॑ - भ्यः॒ । 36) प्रत्यौ॑ह-न्नौह॒-न्प्रति॒ प्रत्यौ॑हन्न् । 37) औ॒ह॒-न्त-त्तदौ॑ह-न्नौह॒-न्तत् । 38) तद्धिर॑ण्य॒ग्ं॒ हिर॑ण्य॒-न्त-त्तद्धिर॑ण्यम् । 39) हिर॑ण्य मभव दभव॒ द्धिर॑ण्य॒ग्ं॒ हिर॑ण्य मभवत् । 40) अ॒भ॒व॒-द्य-द्यद॑भव दभव॒-द्यत् । 41) यद्धि॑रण्यश॒ल्कैर्-हि॑रण्यश॒ल्कै-र्य-द्यद्धि॑रण्यश॒ल्कैः । 42) हि॒र॒ण्य॒श॒ल्कैः प्रो॒क्षति॑ प्रो॒क्षति॑ हिरण्यश॒ल्कैर्-हि॑रण्यश॒ल्कैः प्रो॒क्षति॑ । 42) हि॒र॒ण्य॒श॒ल्कैरिति॑ हिरण्य - श॒ल्कैः । 43) प्रो॒क्षति॑ य॒ज्ञस्य॑ य॒ज्ञस्य॑ प्रो॒क्षति॑ प्रो॒क्षति॑ य॒ज्ञस्य॑ । 43) प्रो॒क्षतीति॑ प्र - उ॒क्षति॑ । 44) य॒ज्ञस्य॒ निष्कृ॑त्यै॒ निष्कृ॑त्यै य॒ज्ञस्य॑ य॒ज्ञस्य॒ निष्कृ॑त्यै । 45) निष्कृ॑त्या॒ अथो॒ अथो॒ निष्कृ॑त्यै॒ निष्कृ॑त्या॒ अथो᳚ । 45) निष्कृ॑त्या॒ इति॒ निः - कृ॒त्यै॒ । 46) अथो॑ भेष॒ज-म्भे॑ष॒ज मथो॒ अथो॑ भेष॒जम् । 46) अथो॒ इत्यथो᳚ । 47) भे॒ष॒ज मे॒वैव भे॑ष॒ज-म्भे॑ष॒ज मे॒व । 48) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ । 49) अ॒स्मै॒ क॒रो॒ति॒ क॒रो॒ त्य॒स्मा॒ अ॒स्मै॒ क॒रो॒ति॒ । 50) क॒रो॒ त्यथो॒ अथो॑ करोति करो॒ त्यथो᳚ । ॥ 7 ॥ (50/61)
1) अथो॑ रू॒पेण॑ रू॒पेणाथो॒ अथो॑ रू॒पेण॑ । 1) अथो॒ इत्यथो᳚ । 2) रू॒पेणै॒वैव रू॒पेण॑ रू॒पेणै॒व । 3) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 4) ए॒न॒ग्ं॒ सग्ं स मे॑न मेन॒ग्ं॒ सम् । 5) स म॑र्धय त्यर्धयति॒ सग्ं स म॑र्धयति । 6) अ॒र्ध॒य॒ त्यथो॒ अथो॑ अर्धय त्यर्धय॒ त्यथो᳚ । 7) अथो॒ हिर॑ण्यज्योतिषा॒ हिर॑ण्यज्योति॒षा ऽथो॒ अथो॒ हिर॑ण्यज्योतिषा । 7) अथो॒ इत्यथो᳚ । 8) हिर॑ण्यज्योति षै॒वैव हिर॑ण्यज्योतिषा॒ हिर॑ण्यज्योतिषै॒व । 8) हिर॑ण्यज्योति॒षेति॒ हिर॑ण्य - ज्यो॒ति॒षा॒ । 9) ए॒व सु॑व॒र्गग्ं सु॑व॒र्ग मे॒वैव सु॑व॒र्गम् । 10) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् । 10) सु॒व॒र्गमिति॑ सुवः - गम् । 11) लो॒क मे᳚त्येति लो॒कम् ँलो॒क मे॑ति । 12) ए॒ति॒ सा॒ह॒स्रव॑ता साह॒स्रव॑ तैत्येति साह॒स्रव॑ता । 13) सा॒ह॒स्रव॑ता॒ प्र प्र सा॑ह॒स्रव॑ता साह॒स्रव॑ता॒ प्र । 13) सा॒ह॒स्रव॒तेति॑ साह॒स्र - व॒ता॒ । 14) प्रोक्ष॑ त्युक्षति॒ प्र प्रोक्ष॑ति । 15) उ॒क्ष॒ति॒ सा॒ह॒स्र-स्सा॑ह॒स्र उ॑क्ष त्युक्षति साह॒स्रः । 16) सा॒ह॒स्रः प्र॒जाप॑तिः प्र॒जाप॑ति-स्साह॒स्र-स्सा॑ह॒स्रः प्र॒जाप॑तिः । 17) प्र॒जाप॑तिः प्र॒जाप॑तेः प्र॒जाप॑तेः प्र॒जाप॑तिः प्र॒जाप॑तिः प्र॒जाप॑तेः । 17) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 18) प्र॒जाप॑ते॒ राप्त्या॒ आप्त्यै᳚ प्र॒जाप॑तेः प्र॒जाप॑ते॒ राप्त्यै᳚ । 18) प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ । 19) आप्त्या॑ इ॒मा इ॒मा आप्त्या॒ आप्त्या॑ इ॒माः । 20) इ॒मा मे॑ म इ॒मा इ॒मा मे᳚ । 21) मे॒ अ॒ग्ने॒ ऽग्ने॒ मे॒ मे॒ अ॒ग्ने॒ । 22) अ॒ग्न॒ इष्ट॑का॒ इष्ट॑का अग्ने ऽग्न॒ इष्ट॑काः । 23) इष्ट॑का धे॒नवो॑ धे॒नव॒ इष्ट॑का॒ इष्ट॑का धे॒नवः॑ । 24) धे॒नव॑-स्सन्तु सन्तु धे॒नवो॑ धे॒नव॑-स्सन्तु । 25) स॒न्त्वितीति॑ सन्तु स॒न्त्विति॑ । 26) इत्या॑हा॒ हेतीत्या॑ह । 27) आ॒ह॒ धे॒नू-र्धे॒नू रा॑हाह धे॒नूः । 28) धे॒नू रे॒वैव धे॒नू-र्धे॒नू रे॒व । 29) ए॒वैना॑ एना ए॒वै वैनाः᳚ । 30) ए॒नाः॒ कु॒रु॒ते॒ कु॒रु॒त॒ ए॒ना॒ ए॒नाः॒ कु॒रु॒ते॒ । 31) कु॒रु॒ते॒ ता स्ताः कु॑रुते कुरुते॒ ताः । 32) ता ए॑न मेन॒-न्ता स्ता ए॑नम् । 33) ए॒न॒-ङ्का॒म॒दुघाः᳚ काम॒दुघा॑ एन मेन-ङ्काम॒दुघाः᳚ । 34) का॒म॒दुघा॑ अ॒मुत्रा॒ मुत्र॑ काम॒दुघाः᳚ काम॒दुघा॑ अ॒मुत्र॑ । 34) का॒म॒दुघा॒ इति॑ काम - दुघाः᳚ । 35) अ॒मुत्रा॒ मुष्मि॑-न्न॒मुष्मि॑-न्न॒मुत्रा॒ मुत्रा॒ मुष्मिन्न्॑ । 36) अ॒मुष्मि॑न् ँलो॒के लो॒के॑ ऽमुष्मि॑-न्न॒मुष्मि॑न् ँलो॒के । 37) लो॒क उपोप॑ लो॒के लो॒क उप॑ । 38) उप॑ तिष्ठन्ते तिष्ठन्त॒ उपोप॑ तिष्ठन्ते । 39) ति॒ष्ठ॒न्त॒ इति॑ तिष्ठन्ते । ॥ 8 ॥ (39/47) ॥ अ. 2 ॥
1) रु॒द्रो वै वै रु॒द्रो रु॒द्रो वै । 2) वा ए॒ष ए॒ष वै वा ए॒षः । 3) ए॒ष य-द्यदे॒ष ए॒ष यत् । 4) यद॒ग्नि र॒ग्नि-र्य-द्यद॒ग्निः । 5) अ॒ग्नि-स्स सो᳚ ऽग्नि र॒ग्नि-स्सः । 6) स ए॒तर्-ह्ये॒तर्हि॒ स स ए॒तर्हि॑ । 7) ए॒तर्हि॑ जा॒तो जा॒त ए॒तर्-ह्ये॒तर्हि॑ जा॒तः । 8) जा॒तो यर्हि॒ यर्हि॑ जा॒तो जा॒तो यर्हि॑ । 9) यर्हि॒ सर्व॒-स्सर्वो॒ यर्हि॒ यर्हि॒ सर्वः॑ । 10) सर्व॑ श्चि॒त श्चि॒त-स्सर्व॒-स्सर्व॑ श्चि॒तः । 11) चि॒त-स्स स चि॒त श्चि॒त-स्सः । 12) स यथा॒ यथा॒ स स यथा᳚ । 13) यथा॑ व॒थ्सो व॒थ्सो यथा॒ यथा॑ व॒थ्सः । 14) व॒थ्सो जा॒तो जा॒तो व॒थ्सो व॒थ्सो जा॒तः । 15) जा॒त-स्स्तन॒ग्ग्॒ स्तन॑-ञ्जा॒तो जा॒त-स्स्तन᳚म् । 16) स्तन॑-म्प्रे॒फ्सति॑ प्रे॒फ्सति॒ स्तन॒ग्ग्॒ स्तन॑-म्प्रे॒फ्सति॑ । 17) प्रे॒फ्स त्ये॒व मे॒व-म्प्रे॒फ्सति॑ प्रे॒फ्स त्ये॒वम् । 17) प्रे॒फ्सतीति॑ प्र - ई॒फ्सति॑ । 18) ए॒वं-वैँ वा ए॒व मे॒वं-वैँ । 19) वा ए॒ष ए॒ष वै वा ए॒षः । 20) ए॒ष ए॒तर्-ह्ये॒तर्-ह्ये॒ष ए॒ष ए॒तर्हि॑ । 21) ए॒तर्हि॑ भाग॒धेय॑-म्भाग॒धेय॑ मे॒तर्-ह्ये॒तर्हि॑ भाग॒धेय᳚म् । 22) भा॒ग॒धेय॒-म्प्र प्र भा॑ग॒धेय॑-म्भाग॒धेय॒-म्प्र । 22) भा॒ग॒धेय॒मिति॑ भाग - धेय᳚म् । 23) प्रेफ्स॑तीफ्सति॒ प्र प्रेफ्स॑ति । 24) ई॒फ्स॒ति॒ तस्मै॒ तस्मा॑ ईफ्सतीफ्सति॒ तस्मै᳚ । 25) तस्मै॒ य-द्य-त्तस्मै॒ तस्मै॒ यत् । 26) यदाहु॑ति॒ माहु॑तिं॒-यँ-द्यदाहु॑तिम् । 27) आहु॑ति॒-न्न नाहु॑ति॒ माहु॑ति॒-न्न । 27) आहु॑ति॒मित्या - हु॒ति॒म् । 28) न जु॑हु॒याज् जु॑हु॒या-न्न न जु॑हु॒यात् । 29) जु॒हु॒या द॑द्ध्व॒र्यु म॑द्ध्व॒र्यु-ञ्जु॑हु॒याज् जु॑हु॒या द॑द्ध्व॒र्युम् । 30) अ॒द्ध्व॒र्यु-ञ्च॑ चाद्ध्व॒र्यु म॑द्ध्व॒र्यु-ञ्च॑ । 31) च॒ यज॑मानं॒-यँज॑मान-ञ्च च॒ यज॑मानम् । 32) यज॑मान-ञ्च च॒ यज॑मानं॒-यँज॑मान-ञ्च । 33) च॒ ध्या॒ये॒-द्ध्या॒ये॒च् च॒ च॒ ध्या॒ये॒त् । 34) ध्या॒ये॒ च्छ॒त॒रु॒द्रीयग्ं॑ शतरु॒द्रीय॑-न्ध्याये-द्ध्याये च्छतरु॒द्रीय᳚म् । 35) श॒त॒रु॒द्रीय॑-ञ्जुहोति जुहोति शतरु॒द्रीयग्ं॑ शतरु॒द्रीय॑-ञ्जुहोति । 35) श॒त॒रु॒द्रीय॒मिति॑ शत - रु॒द्रीय᳚म् । 36) जु॒हो॒ति॒ भा॒ग॒धेये॑न भाग॒धेये॑न जुहोति जुहोति भाग॒धेये॑न । 37) भा॒ग॒धेये॑ नै॒वैव भा॑ग॒धेये॑न भाग॒धेये॑नै॒व । 37) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । 38) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 39) ए॒न॒ग्ं॒ श॒म॒य॒ति॒ श॒म॒य॒ त्ये॒न॒ मे॒न॒ग्ं॒ श॒म॒य॒ति॒ । 40) श॒म॒य॒ति॒ न न श॑मयति शमयति॒ न । 41) नार्ति॒ मार्ति॒-न्न नार्ति᳚म् । 42) आर्ति॒ मा ऽऽर्ति॒ मार्ति॒ मा । 43) आर्च्छ॑ त्यृच्छ॒ त्यार्च्छ॑ति । 44) ऋ॒च्छ॒ त्य॒द्ध्व॒र्यु र॑द्ध्व॒र्युर्-ऋ॑च्छ त्यृच्छ त्यद्ध्व॒र्युः । 45) अ॒द्ध्व॒र्यु-र्न नाद्ध्व॒र्यु र॑द्ध्व॒र्यु-र्न । 46) न यज॑मानो॒ यज॑मानो॒ न न यज॑मानः । 47) यज॑मानो॒ य-द्य-द्यज॑मानो॒ यज॑मानो॒ यत् । 48) य-द्ग्रा॒म्याणा᳚-ङ्ग्रा॒म्याणां॒-यँ-द्य-द्ग्रा॒म्याणा᳚म् । 49) ग्रा॒म्याणा᳚-म्पशू॒ना-म्प॑शू॒ना-ङ्ग्रा॒म्याणा᳚-ङ्ग्रा॒म्याणा᳚-म्पशू॒नाम् । 50) प॒शू॒ना-म्पय॑सा॒ पय॑सा पशू॒ना-म्प॑शू॒ना-म्पय॑सा । ॥ 9 ॥ (50/55)
1) पय॑सा जुहु॒याज् जु॑हु॒या-त्पय॑सा॒ पय॑सा जुहु॒यात् । 2) जु॒हु॒या-द्ग्रा॒म्या-न्ग्रा॒म्यान् जु॑हु॒याज् जु॑हु॒या-द्ग्रा॒म्यान् । 3) ग्रा॒म्या-न्प॒शू-न्प॒शू-न्ग्रा॒म्या-न्ग्रा॒म्या-न्प॒शून् । 4) प॒शू-ञ्छु॒चा शु॒चा प॒शू-न्प॒शू-ञ्छु॒चा । 5) शु॒चा ऽर्प॑ये दर्पये च्छु॒चा शु॒चा ऽर्प॑येत् । 6) अ॒र्प॒ये॒-द्य-द्यद॑र्पये दर्पये॒-द्यत् । 7) यदा॑र॒ण्याना॑ मार॒ण्यानां॒-यँ-द्यदा॑र॒ण्याना᳚म् । 8) आ॒र॒ण्याना॑ मार॒ण्या ना॑र॒ण्या ना॑र॒ण्याना॑ मार॒ण्याना॑ मार॒ण्यान् । 9) आ॒र॒ण्यान् ज॑र्तिलयवा॒ग्वा॑ जर्तिलयवा॒ग्वा॑ ऽऽर॒ण्या ना॑र॒ण्यान् ज॑र्तिलयवा॒ग्वा᳚ । 10) ज॒र्ति॒ल॒य॒वा॒ग्वा॑ वा वा जर्तिलयवा॒ग्वा॑ जर्तिलयवा॒ग्वा॑ वा । 10) ज॒र्ति॒ल॒य॒वा॒ग्वेति॑ जर्तिल - य॒वा॒ग्वा᳚ । 11) वा॒ जु॒हु॒याज् जु॑हु॒या-द्वा॑ वा जुहु॒यात् । 12) जु॒हु॒या-द्ग॑वीधुकयवा॒ग्वा॑ गवीधुकयवा॒ग्वा॑ जुहु॒याज् जु॑हु॒या-द्ग॑वीधुकयवा॒ग्वा᳚ । 13) ग॒वी॒धु॒क॒य॒वा॒ग्वा॑ वा वा गवीधुकयवा॒ग्वा॑ गवीधुकयवा॒ग्वा॑ वा । 13) ग॒वी॒धु॒क॒य॒वा॒ग्वेति॑ गवीधुक - य॒वा॒ग्वा᳚ । 14) वा॒ न न वा॑ वा॒ न । 15) न ग्रा॒म्या-न्ग्रा॒म्या-न्न न ग्रा॒म्यान् । 16) ग्रा॒म्या-न्प॒शू-न्प॒शू-न्ग्रा॒म्या-न्ग्रा॒म्या-न्प॒शून् । 17) प॒शून्. हि॒नस्ति॑ हि॒नस्ति॑ प॒शू-न्प॒शून्. हि॒नस्ति॑ । 18) हि॒नस्ति॒ न न हि॒नस्ति॑ हि॒नस्ति॒ न । 19) नार॒ण्या ना॑र॒ण्या-न्न नार॒ण्यान् । 20) आ॒र॒ण्या नथो॒ अथो॑ आर॒ण्या ना॑र॒ण्या नथो᳚ । 21) अथो॒ खलु॒ खल्वथो॒ अथो॒ खलु॑ । 21) अथो॒ इत्यथो᳚ । 22) खल्वा॑हु राहुः॒ खलु॒ खल्वा॑हुः । 23) आ॒हु॒ रना॑हुति॒ रना॑हुति राहु राहु॒ रना॑हुतिः । 24) अना॑हुति॒-र्वै वा अना॑हुति॒ रना॑हुति॒-र्वै । 24) अना॑हुति॒रित्यना᳚ - हु॒तिः॒ । 25) वै ज॒र्तिला॑ ज॒र्तिला॒ वै वै ज॒र्तिलाः᳚ । 26) ज॒र्तिला᳚श्च च ज॒र्तिला॑ ज॒र्तिला᳚श्च । 27) च॒ ग॒वीधु॑का ग॒वीधु॑काश्च च ग॒वीधु॑काः । 28) ग॒वीधु॑काश्च च ग॒वीधु॑का ग॒वीधु॑काश्च । 29) चेतीति॑ च॒ चेति॑ । 30) इत्य॑जक्षी॒रेणा॑ जक्षी॒रे णेतीत्य॑जक्षी॒रेण॑ । 31) अ॒ज॒क्षी॒रेण॑ जुहोति जुहो त्यजक्षी॒रेणा॑ जक्षी॒रेण॑ जुहोति । 31) अ॒ज॒क्षी॒रेणेत्य॑ज - क्षी॒रेण॑ । 32) जु॒हो॒ त्या॒ग्ने॒य्या᳚ ग्ने॒यी जु॑होति जुहो त्याग्ने॒यी । 33) आ॒ग्ने॒यी वै वा आ᳚ग्ने॒ य्या᳚ग्ने॒यी वै । 34) वा ए॒षैषा वै वा ए॒षा । 35) ए॒षा य-द्यदे॒ षैषा यत् । 36) यद॒जा ऽजा य-द्यद॒जा । 37) अ॒जा ऽऽहु॒त्या ऽऽहु॑त्या॒ ऽजा ऽजा ऽऽहु॑त्या । 38) आहु॑ त्यै॒वैवा हु॒त्या ऽऽहु॑त्यै॒व । 38) आहु॒त्येत्या - हु॒त्या॒ । 39) ए॒व जु॑होति जुहो त्ये॒वैव जु॑होति । 40) जु॒हो॒ति॒ न न जु॑होति जुहोति॒ न । 41) न ग्रा॒म्या-न्ग्रा॒म्या-न्न न ग्रा॒म्यान् । 42) ग्रा॒म्या-न्प॒शू-न्प॒शू-न्ग्रा॒म्या-न्ग्रा॒म्या-न्प॒शून् । 43) प॒शून्. हि॒नस्ति॑ हि॒नस्ति॑ प॒शू-न्प॒शून्. हि॒नस्ति॑ । 44) हि॒नस्ति॒ न न हि॒नस्ति॑ हि॒नस्ति॒ न । 45) नार॒ण्या ना॑र॒ण्या-न्न नार॒ण्यान् । 46) आ॒र॒ण्या नङ्गि॑रसो ऽङ्गिरस आर॒ण्या ना॑र॒ण्या नङ्गि॑रसः । 47) अङ्गि॑रस-स्सुव॒र्गग्ं सु॑व॒र्ग मङ्गि॑रसो ऽङ्गिरस-स्सुव॒र्गम् । 48) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् । 48) सु॒व॒र्गमिति॑ सुवः - गम् । 49) लो॒कं-यँन्तो॒ यन्तो॑ लो॒कम् ँलो॒कं-यँन्तः॑ । 50) यन्तो॒ ऽजाया॑ म॒जायां॒-यँन्तो॒ यन्तो॒ ऽजाया᳚म् । ॥ 10 ॥ (50/57)
1) अ॒जाया᳚-ङ्घ॒र्म-ङ्घ॒र्म म॒जाया॑ म॒जाया᳚-ङ्घ॒र्मम् । 2) घ॒र्म-म्प्र प्र घ॒र्म-ङ्घ॒र्म-म्प्र । 3) प्रासि॑ञ्च-न्नसिञ्च॒-न्प्र प्रासि॑ञ्चन्न् । 4) अ॒सि॒ञ्च॒-न्थ्सा सा ऽसि॑ञ्च-न्नसिञ्च॒-न्थ्सा । 5) सा शोच॑न्ती॒ शोच॑न्ती॒ सा सा शोच॑न्ती । 6) शोच॑न्ती प॒र्ण-म्प॒र्णग्ं शोच॑न्ती॒ शोच॑न्ती प॒र्णम् । 7) प॒र्ण-म्परा॒ परा॑ प॒र्ण-म्प॒र्ण-म्परा᳚ । 8) परा॑ ऽजिहीता जिहीत॒ परा॒ परा॑ ऽजिहीत । 9) अ॒जि॒ही॒त॒ स सो॑ ऽजिहीता जिहीत॒ सः । 10) सो᳚(1॒) ऽर्को᳚ ऽर्क-स्स सो᳚ ऽर्कः । 11) अ॒र्को॑ ऽभव दभव द॒र्को᳚(1॒) ऽर्को॑ ऽभवत् । 12) अ॒भ॒व॒-त्त-त्तद॑भव दभव॒-त्तत् । 13) तद॒र्कस्या॒ र्कस्य॒ त-त्तद॒र्कस्य॑ । 14) अ॒र्कस्या᳚ र्क॒त्व म॑र्क॒त्व म॒र्कस्या॒ र्कस्या᳚ र्क॒त्वम् । 15) अ॒र्क॒त्व म॑र्कप॒र्णेना᳚ र्कप॒र्णेना᳚ र्क॒त्व म॑र्क॒त्व म॑र्कप॒र्णेन॑ । 15) अ॒र्क॒त्वमित्य॑र्क - त्वम् । 16) अ॒र्क॒प॒र्णेन॑ जुहोति जुहो त्यर्कप॒र्णेना᳚ र्कप॒र्णेन॑ जुहोति । 16) अ॒र्क॒प॒र्णेनेत्य॑र्क - प॒र्णेन॑ । 17) जु॒हो॒ति॒ स॒यो॒नि॒त्वाय॑ सयोनि॒त्वाय॑ जुहोति जुहोति सयोनि॒त्वाय॑ । 18) स॒यो॒नि॒त्वा योदं॒ ंउदं᳚ ख्सयोनि॒त्वाय॑ सयोनि॒त्वा योदं॑ । 18) स॒यो॒नि॒त्वायेति॑ सयोनि - त्वाय॑ । 19) उद॒-न्तिष्ठ॒ग्ग्॒ स्तिष्ठ॒-न्नुदं॒ ंउद॒-न्तिष्ठन्न्॑ । 20) तिष्ठ॑न् जुहोति जुहोति॒ तिष्ठ॒ग्ग्॒ स्तिष्ठ॑न् जुहोति । 21) जु॒हो॒ त्ये॒षैषा जु॑होति जुहो त्ये॒षा । 22) ए॒षा वै वा ए॒षैषा वै । 23) वै रु॒द्रस्य॑ रु॒द्रस्य॒ वै वै रु॒द्रस्य॑ । 24) रु॒द्रस्य॒ दिग् दिग् रु॒द्रस्य॑ रु॒द्रस्य॒ दिक् । 25) दि-ख्स्वाया॒ग्॒ स्वाया॒-न्दिग् दि-ख्स्वाया᳚म् । 26) स्वाया॑ मे॒वैव स्वाया॒ग्॒ स्वाया॑ मे॒व । 27) ए॒व दि॒शि दि॒श्ये॑ वैव दि॒शि । 28) दि॒शि रु॒द्रग्ं रु॒द्र-न्दि॒शि दि॒शि रु॒द्रम् । 29) रु॒द्र-न्नि॒रव॑दयते नि॒रव॑दयते रु॒द्रग्ं रु॒द्र-न्नि॒रव॑दयते । 30) नि॒रव॑दयते चर॒माया᳚-ञ्चर॒माया᳚-न्नि॒रव॑दयते नि॒रव॑दयते चर॒माया᳚म् । 30) नि॒रव॑दयत॒ इति॑ निः - अव॑दयते । 31) च॒र॒माया॒ मिष्ट॑काया॒ मिष्ट॑काया-ञ्चर॒माया᳚-ञ्चर॒माया॒ मिष्ट॑कायाम् । 32) इष्ट॑काया-ञ्जुहोति जुहो॒तीष्ट॑काया॒ मिष्ट॑काया-ञ्जुहोति । 33) जु॒हो॒ त्य॒न्त॒तो᳚ ऽन्त॒तो जु॑होति जुहो त्यन्त॒तः । 34) अ॒न्त॒त ए॒वैवा न्त॒तो᳚ ऽन्त॒त ए॒व । 35) ए॒व रु॒द्रग्ं रु॒द्र मे॒वैव रु॒द्रम् । 36) रु॒द्र-न्नि॒रव॑दयते नि॒रव॑दयते रु॒द्रग्ं रु॒द्र-न्नि॒रव॑दयते । 37) नि॒रव॑दयते त्रेधाविभ॒क्त-न्त्रे॑धाविभ॒क्त-न्नि॒रव॑दयते नि॒रव॑दयते त्रेधाविभ॒क्तम् । 37) नि॒रव॑दयत॒ इति॑ निः - अव॑दयते । 38) त्रे॒धा॒वि॒भ॒क्त-ञ्जु॑होति जुहोति त्रेधाविभ॒क्त-न्त्रे॑धाविभ॒क्त-ञ्जु॑होति । 38) त्रे॒धा॒वि॒भ॒क्तमिति॑ त्रेधा - वि॒भ॒क्तम् । 39) जु॒हो॒ति॒ त्रय॒ स्त्रयो॑ जुहोति जुहोति॒ त्रयः॑ । 40) त्रय॑ इ॒म इ॒मे त्रय॒ स्त्रय॑ इ॒मे । 41) इ॒मे लो॒का लो॒का इ॒म इ॒मे लो॒काः । 42) लो॒का इ॒मा नि॒मान् ँलो॒का लो॒का इ॒मान् । 43) इ॒मा ने॒वैवेमा नि॒मा ने॒व । 44) ए॒व लो॒कान् ँलो॒का ने॒वैव लो॒कान् । 45) लो॒का-न्थ्स॒माव॑द्वीर्या-न्थ्स॒माव॑द्वीर्यान् ँलो॒कान् ँलो॒का-न्थ्स॒माव॑द्वीर्यान् । 46) स॒माव॑द्वीर्यान् करोति करोति स॒माव॑द्वीर्या-न्थ्स॒माव॑द्वीर्यान् करोति । 46) स॒माव॑द्वीर्या॒निति॑ स॒माव॑त् - वी॒र्या॒न् । 47) क॒रो॒ती य॒ती य॑ति करोति करो॒ती य॑ति । 48) इय॒ त्यग्रे ऽग्र॒ इय॒ती य॒त्यग्रे᳚ । 49) अग्रे॑ जुहोति जुहो॒ त्यग्रे ऽग्रे॑ जुहोति । 50) जु॒हो॒ त्यथाथ॑ जुहोति जुहो॒ त्यथ॑ । ॥ 11 ॥ (50/57)
1) अथे य॒ती य॒त्यथाथे य॑ति । 2) इय॒त्यथाथे य॒ती य॒त्यथ॑ । 3) अथे य॒ती य॒त्यथाथे य॑ति । 4) इय॑ति॒ त्रय॒ स्त्रय॒ इय॒ती य॑ति॒ त्रयः॑ । 5) त्रय॑ इ॒म इ॒मे त्रय॒ स्त्रय॑ इ॒मे । 6) इ॒मे लो॒का लो॒का इ॒म इ॒मे लो॒काः । 7) लो॒का ए॒भ्य ए॒भ्यो लो॒का लो॒का ए॒भ्यः । 8) ए॒भ्य ए॒वै वैभ्य ए॒भ्य ए॒व । 9) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 10) ए॒न॒म् ँलो॒केभ्यो॑ लो॒केभ्य॑ एन मेनम् ँलो॒केभ्यः॑ । 11) लो॒केभ्य॑-श्शमयति शमयति लो॒केभ्यो॑ लो॒केभ्य॑-श्शमयति । 12) श॒म॒य॒ति॒ ति॒स्र स्ति॒स्र-श्श॑मयति शमयति ति॒स्रः । 13) ति॒स्र उत्त॑रा॒ उत्त॑रा स्ति॒स्र स्ति॒स्र उत्त॑राः । 14) उत्त॑रा॒ आहु॑ती॒ राहु॑ती॒ रुत्त॑रा॒ उत्त॑रा॒ आहु॑तीः । 14) उत्त॑रा॒ इत्युत् - त॒राः॒ । 15) आहु॑ती-र्जुहोति जुहो॒ त्याहु॑ती॒ राहु॑ती-र्जुहोति । 15) आहु॑ती॒रित्या - हु॒तीः॒ । 16) जु॒हो॒ति॒ ष-ट्थ्ष-ड्जु॑होति जुहोति॒ षट् । 17) ष-ट्थ्सग्ं सग्ं ष-ट्थ्ष-ट्थ्सम् । 18) स-म्प॑द्यन्ते पद्यन्ते॒ सग्ं स-म्प॑द्यन्ते । 19) प॒द्य॒न्ते॒ ष-ट्थ्षट् प॑द्यन्ते पद्यन्ते॒ षट् । 20) ष-ड्वै वै ष-ट्थ्ष-ड्वै । 21) वा ऋ॒तव॑ ऋ॒तवो॒ वै वा ऋ॒तवः॑ । 22) ऋ॒तव॑ ऋ॒तुभिर्॑. ऋ॒तुभिर्॑. ऋ॒तव॑ ऋ॒तव॑ ऋ॒तुभिः॑ । 23) ऋ॒तुभि॑ रे॒वैव र्तुभिर्॑. ऋ॒तुभि॑ रे॒व । 23) ऋ॒तुभि॒रित्यृ॒तु - भिः॒ । 24) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 25) ए॒न॒ग्ं॒ श॒म॒य॒ति॒ श॒म॒य॒ त्ये॒न॒ मे॒न॒ग्ं॒ श॒म॒य॒ति॒ । 26) श॒म॒य॒ति॒ य-द्यच्छ॑मयति शमयति॒ यत् । 27) यद॑नुपरि॒क्राम॑ मनुपरि॒क्रामं॒-यँ-द्यद॑नुपरि॒क्राम᳚म् । 28) अ॒नु॒प॒रि॒क्राम॑-ञ्जुहु॒याज् जु॑हु॒या द॑नुपरि॒क्राम॑ मनुपरि॒क्राम॑-ञ्जुहु॒यात् । 28) अ॒नु॒प॒रि॒क्राम॒मित्य॑नु - प॒रि॒क्राम᳚म् । 29) जु॒हु॒या द॑न्तरवचा॒रिण॑ मन्तरवचा॒रिण॑-ञ्जुहु॒याज् जु॑हु॒या द॑न्तरवचा॒रिण᳚म् । 30) अ॒न्त॒र॒व॒चा॒रिणग्ं॑ रु॒द्रग्ं रु॒द्र म॑न्तरवचा॒रिण॑ मन्तरवचा॒रिणग्ं॑ रु॒द्रम् । 30) अ॒न्त॒र॒व॒चा॒रिण॒मित्य॑न्तः - अ॒व॒चा॒रिण᳚म् । 31) रु॒द्र-ङ्कु॑र्या-त्कुर्या-द्रु॒द्रग्ं रु॒द्र-ङ्कु॑र्यात् । 32) कु॒र्या॒ दथो॒ अथो॑ कुर्या-त्कुर्या॒ दथो᳚ । 33) अथो॒ खलु॒ खल्वथो॒ अथो॒ खलु॑ । 33) अथो॒ इत्यथो᳚ । 34) खल्वा॑हु राहुः॒ खलु॒ खल्वा॑हुः । 35) आ॒हुः॒ कस्या॒-ङ्कस्या॑ माहु राहुः॒ कस्या᳚म् । 36) कस्यां᳚-वाँ वा॒ कस्या॒-ङ्कस्यां᳚-वाँ । 37) वा ऽहाह॑ वा॒ वा ऽह॑ । 38) अह॑ दि॒शि दि॒श्य हाह॑ दि॒शि । 39) दि॒शि रु॒द्रो रु॒द्रो दि॒शि दि॒शि रु॒द्रः । 40) रु॒द्रः कस्या॒-ङ्कस्याग्ं॑ रु॒द्रो रु॒द्रः कस्या᳚म् । 41) कस्यां᳚-वाँ वा॒ कस्या॒-ङ्कस्यां᳚-वाँ । 42) वेतीति॑ वा॒ वेति॑ । 43) इत्य॑नुपरि॒क्राम॑ मनुपरि॒क्राम॒ मिती त्य॑नुपरि॒क्राम᳚म् । 44) अ॒नु॒प॒रि॒क्राम॑ मे॒वै वानु॑ परि॒क्राम॑ मनुपरि॒क्राम॑ मे॒व । 44) अ॒नु॒प॒रि॒क्राम॒मित्य॑नु - प॒रि॒क्राम᳚म् । 45) ए॒व हो॑त॒व्यग्ं॑ होत॒व्य॑ मे॒वैव हो॑त॒व्य᳚म् । 46) हो॒त॒व्य॑ मप॑रिवर्ग॒ मप॑रिवर्गग्ं होत॒व्यग्ं॑ होत॒व्य॑ मप॑रिवर्गम् । 47) अप॑रिवर्ग मे॒वैवा प॑रिवर्ग॒ मप॑रिवर्ग मे॒व । 47) अप॑रिवर्ग॒मित्यप॑रि - व॒र्ग॒म् । 48) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 49) ए॒न॒ग्ं॒ श॒म॒य॒ति॒ श॒म॒य॒ त्ये॒न॒ मे॒न॒ग्ं॒ श॒म॒य॒ति॒ । 50) श॒म॒य॒ त्ये॒ता ए॒ता-श्श॑मयति शमय त्ये॒ताः । ॥ 12 ॥ (50/58)
1) ए॒ता वै वा ए॒ता ए॒ता वै । 2) वै दे॒वता॑ दे॒वता॒ वै वै दे॒वताः᳚ । 3) दे॒वता᳚-स्सुव॒र्ग्या᳚-स्सुव॒र्ग्या॑ दे॒वता॑ दे॒वता᳚-स्सुव॒र्ग्याः᳚ । 4) सु॒व॒र्ग्या॑ या या-स्सु॑व॒र्ग्या᳚-स्सुव॒र्ग्या॑ याः । 4) सु॒व॒र्ग्या॑ इति॑ सुवः - ग्याः᳚ । 5) या उ॑त्त॒मा उ॑त्त॒मा या या उ॑त्त॒माः । 6) उ॒त्त॒मा स्ता स्ता उ॑त्त॒मा उ॑त्त॒मा स्ताः । 6) उ॒त्त॒मा इत्यु॑त् - त॒माः । 7) ता यज॑मानं॒-यँज॑मान॒-न्ता स्ता यज॑मानम् । 8) यज॑मानं-वाँचयति वाचयति॒ यज॑मानं॒-यँज॑मानं-वाँचयति । 9) वा॒च॒य॒ति॒ ताभि॒ स्ताभि॑-र्वाचयति वाचयति॒ ताभिः॑ । 10) ताभि॑ रे॒वैव ताभि॒ स्ताभि॑ रे॒व । 11) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 12) ए॒न॒ग्ं॒ सु॒व॒र्गग्ं सु॑व॒र्ग मे॑न मेनग्ं सुव॒र्गम् । 13) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् । 13) सु॒व॒र्गमिति॑ सुवः - गम् । 14) लो॒क-ङ्ग॑मयति गमयति लो॒कम् ँलो॒क-ङ्ग॑मयति । 15) ग॒म॒य॒ति॒ यं-यँ-ङ्ग॑मयति गमयति॒ यम् । 16) य-न्द्वि॒ष्या-द्द्वि॒ष्या-द्यं-यँ-न्द्वि॒ष्यात् । 17) द्वि॒ष्या-त्तस्य॒ तस्य॑ द्वि॒ष्या-द्द्वि॒ष्या-त्तस्य॑ । 18) तस्य॑ सञ्च॒रे स॑ञ्च॒रे तस्य॒ तस्य॑ सञ्च॒रे । 19) स॒ञ्च॒रे प॑शू॒ना-म्प॑शू॒नाग्ं स॑ञ्च॒रे स॑ञ्च॒रे प॑शू॒नाम् । 19) स॒ञ्च॒र इति॑ सं - च॒रे । 20) प॒शू॒ना-न्नि नि प॑शू॒ना-म्प॑शू॒ना-न्नि । 21) न्य॑स्ये दस्ये॒-न्नि न्य॑स्येत् । 22) अ॒स्ये॒-द्यो यो᳚ ऽस्ये दस्ये॒-द्यः । 23) यः प्र॑थ॒मः प्र॑थ॒मो यो यः प्र॑थ॒मः । 24) प्र॒थ॒मः प॒शुः प॒शुः प्र॑थ॒मः प्र॑थ॒मः प॒शुः । 25) प॒शु र॑भि॒तिष्ठ॑ त्यभि॒तिष्ठ॑ति प॒शुः प॒शु र॑भि॒तिष्ठ॑ति । 26) अ॒भि॒तिष्ठ॑ति॒ स सो॑ ऽभि॒तिष्ठ॑ त्यभि॒तिष्ठ॑ति॒ सः । 26) अ॒भि॒तिष्ठ॒तीत्य॑भि - तिष्ठ॑ति । 27) स आर्ति॒ मार्ति॒ग्ं॒ स स आर्ति᳚म् । 28) आर्ति॒ मा ऽऽर्ति॒ मार्ति॒ मा । 29) आर्च्छ॑ त्यृच्छ॒ त्यार्च्छ॑ति । 30) ऋ॒च्छ॒तीत्यृ॑च्छति । ॥ 13 ॥ (30/35) ॥ अ. 3 ॥
1) अश्म॒-न्नूर्ज॒ मूर्ज॒ मश्म॒-न्नश्म॒-न्नूर्ज᳚म् । 2) ऊर्ज॒ मिती त्यूर्ज॒ मूर्ज॒ मिति॑ । 3) इति॒ परि॒ परी तीति॒ परि॑ । 4) परि॑ षिञ्चति सिञ्चति॒ परि॒ परि॑ षिञ्चति । 5) सि॒ञ्च॒ति॒ मा॒र्जय॑ति मा॒र्जय॑ति सिञ्चति सिञ्चति मा॒र्जय॑ति । 6) मा॒र्जय॑ त्ये॒वैव मा॒र्जय॑ति मा॒र्जय॑ त्ये॒व । 7) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 8) ए॒न॒ मथो॒ अथो॑ एन मेन॒ मथो᳚ । 9) अथो॑ त॒र्पय॑ति त॒र्पय॒ त्यथो॒ अथो॑ त॒र्पय॑ति । 9) अथो॒ इत्यथो᳚ । 10) त॒र्पय॑ त्ये॒वैव त॒र्पय॑ति त॒र्पय॑ त्ये॒व । 11) ए॒व स स ए॒वैव सः । 12) स ए॑न मेन॒ग्ं॒ स स ए॑नम् । 13) ए॒न॒-न्तृ॒प्त स्तृ॒प्त ए॑न मेन-न्तृ॒प्तः । 14) तृ॒प्तो ऽक्षु॑द्ध्य॒-न्नक्षु॑द्ध्य-न्तृ॒प्त स्तृ॒प्तो ऽक्षु॑द्ध्यन्न् । 15) अक्षु॑द्ध्य॒-न्नशो॑च॒-न्नशो॑च॒-न्नक्षु॑द्ध्य॒-न्नक्षु॑द्ध्य॒-न्नशो॑चन्न् । 16) अशो॑च-न्न॒मुष्मि॑-न्न॒मुष्मि॒-न्नशो॑च॒-न्नशो॑च-न्न॒मुष्मिन्न्॑ । 17) अ॒मुष्मि॑न् ँलो॒के लो॒के॑ ऽमुष्मि॑-न्न॒मुष्मि॑न् ँलो॒के । 18) लो॒क उपोप॑ लो॒के लो॒क उप॑ । 19) उप॑ तिष्ठते तिष्ठत॒ उपोप॑ तिष्ठते । 20) ति॒ष्ठ॒ते॒ तृप्य॑ति॒ तृप्य॑ति तिष्ठते तिष्ठते॒ तृप्य॑ति । 21) तृप्य॑ति प्र॒जया᳚ प्र॒जया॒ तृप्य॑ति॒ तृप्य॑ति प्र॒जया᳚ । 22) प्र॒जया॑ प॒शुभिः॑ प॒शुभिः॑ प्र॒जया᳚ प्र॒जया॑ प॒शुभिः॑ । 22) प्र॒जयेति॑ प्र - जया᳚ । 23) प॒शुभि॒-र्यो यः प॒शुभिः॑ प॒शुभि॒-र्यः । 23) प॒शुभि॒रिति॑ प॒शु - भिः॒ । 24) य ए॒व मे॒वं-योँ य ए॒वम् । 25) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ । 26) वेद॒ ता-न्तां-वेँद॒ वेद॒ ताम् । 27) ता-न्नो॑ न॒ स्ता-न्ता-न्नः॑ । 28) न॒ इष॒ मिष॑-न्नो न॒ इष᳚म् । 29) इष॒ मूर्ज॒ मूर्ज॒ मिष॒ मिष॒ मूर्ज᳚म् । 30) ऊर्ज॑-न्धत्त ध॒त्तोर्ज॒ मूर्ज॑-न्धत्त । 31) ध॒त्त॒ म॒रु॒तो॒ म॒रु॒तो॒ ध॒त्त॒ ध॒त्त॒ म॒रु॒तः॒ । 32) म॒रु॒त॒-स्स॒ग्ं॒र॒रा॒णा-स्सग्ं॑ररा॒णा म॑रुतो मरुत-स्सग्ंररा॒णाः । 33) स॒ग्ं॒र॒रा॒णा इतीति॑ सग्ंररा॒णा-स्सग्ं॑ररा॒णा इति॑ । 33) स॒ग्ं॒र॒रा॒णा इति॑ सं - र॒रा॒णाः । 34) इत्या॑हा॒हे तीत्या॑ह । 35) आ॒हान्न॒ मन्न॑ माहा॒ हान्न᳚म् । 36) अन्नं॒-वैँ वा अन्न॒ मन्नं॒-वैँ । 37) वा ऊ-र्गूर्ग् वै वा ऊर्क् । 38) ऊर्गन्न॒ मन्न॒ मू-र्गू-र्गन्न᳚म् । 39) अन्न॑-म्म॒रुतो॑ म॒रुतो ऽन्न॒ मन्न॑-म्म॒रुतः॑ । 40) म॒रुतो ऽन्न॒ मन्न॑-म्म॒रुतो॑ म॒रुतो ऽन्न᳚म् । 41) अन्न॑ मे॒वैवान्न॒ मन्न॑ मे॒व । 42) ए॒वावा वै॒वै वाव॑ । 43) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 44) रु॒न्धे ऽश्म॒-न्नश्म॑-न्रुन्धे रु॒न्धे ऽश्मन्न्॑ । 45) अश्मग्ग्॑ स्ते ते॒ अश्म॒-न्नश्मग्ग्॑ स्ते । 46) ते॒ क्षु-त्क्षु-त्ते॑ ते॒ क्षुत् । 47) क्षुद॒मु म॒मु-ङ्क्षु-त्क्षुद॒मुम् । 48) अ॒मु-न्ते॑ ते अ॒मु म॒मु-न्ते᳚ । 49) ते॒ शुक् छु-क्ते॑ ते॒ शुक् । 50) शुगृ॑च्छत् वृच्छतु॒ शुक् छुगृ॑च्छतु । ॥ 14 ॥ (50/54)
1) ऋ॒च्छ॒तु॒ यं-यँ मृ॑च्छ त्वृच्छतु॒ यम् । 2) य-न्द्वि॒ष्मो द्वि॒ष्मो यं-यँ-न्द्वि॒ष्मः । 3) द्वि॒ष्म इतीति॑ द्वि॒ष्मो द्वि॒ष्म इति॑ । 4) इत्या॑हा॒हे तीत्या॑ह । 5) आ॒ह॒ यं-यँ मा॑हाह॒ यम् । 6) य मे॒वैव यं-यँ मे॒व । 7) ए॒व द्वेष्टि॒ द्वेष्ट्ये॒ वैव द्वेष्टि॑ । 8) द्वेष्टि॒ त-न्त-न्द्वेष्टि॒ द्वेष्टि॒ तम् । 9) त म॑स्यास्य॒ त-न्त म॑स्य । 10) अ॒स्य॒ क्षु॒धा क्षु॒धा ऽस्या᳚स्य क्षु॒धा । 11) क्षु॒धा च॑ च क्षु॒धा क्षु॒धा च॑ । 12) च॒ शु॒चा शु॒चा च॑ च शु॒चा । 13) शु॒चा च॑ च शु॒चा शु॒चा च॑ । 14) चा॒र्प॒य॒ त्य॒र्प॒य॒ति॒ च॒ चा॒र्प॒य॒ति॒ । 15) अ॒र्प॒य॒ति॒ त्रि स्त्रि र॑र्पय त्यर्पयति॒ त्रिः । 16) त्रिः प॑रिषि॒ञ्च-न्प॑रिषि॒ञ्च-न्त्रि स्त्रिः प॑रिषि॒ञ्चन्न् । 17) प॒रि॒षि॒ञ्च-न्परि॒ परि॑ परिषि॒ञ्च-न्प॑रिषि॒ञ्च-न्परि॑ । 17) प॒रि॒षि॒ञ्चन्निति॑ परि - सि॒ञ्चन्न् । 18) पर्ये᳚ त्येति॒ परि॒ पर्ये॑ति । 19) ए॒ति॒ त्रि॒वृ-त्त्रि॒वृ दे᳚त्येति त्रि॒वृत् । 20) त्रि॒वृ-द्वै वै त्रि॒वृ-त्त्रि॒वृ-द्वै । 20) त्रि॒वृदिति॑ त्रि - वृत् । 21) वा अ॒ग्नि र॒ग्नि-र्वै वा अ॒ग्निः । 22) अ॒ग्नि-र्यावा॒न्॒. यावा॑ न॒ग्नि र॒ग्नि-र्यावान्॑ । 23) यावा॑ ने॒वैव यावा॒न्॒. यावा॑ ने॒व । 24) ए॒वाग्नि र॒ग्नि रे॒वै वाग्निः । 25) अ॒ग्नि स्तस्य॒ तस्या॒ ग्नि र॒ग्नि स्तस्य॑ । 26) तस्य॒ शुच॒ग्ं॒ शुच॒-न्तस्य॒ तस्य॒ शुच᳚म् । 27) शुचग्ं॑ शमयति शमयति॒ शुच॒ग्ं॒ शुचग्ं॑ शमयति । 28) श॒म॒य॒ति॒ त्रि स्त्रि-श्श॑मयति शमयति॒ त्रिः । 29) त्रिः पुनः॒ पुन॒ स्त्रि स्त्रिः पुनः॑ । 30) पुनः॒ परि॒ परि॒ पुनः॒ पुनः॒ परि॑ । 31) पर्ये᳚ त्येति॒ परि॒ पर्ये॑ति । 32) ए॒ति॒ ष-ट्थ्षडे᳚ त्येति॒ षट् । 33) ष-ट्थ्सग्ं सग्ं ष-ट्थ्ष-ट्थ्सम् । 34) स-म्प॑द्यन्ते पद्यन्ते॒ सग्ं स-म्प॑द्यन्ते । 35) प॒द्य॒न्ते॒ ष-ट्थ्षट् प॑द्यन्ते पद्यन्ते॒ षट् । 36) ष-ड्वै वै ष-ट्थ्ष-ड्वै । 37) वा ऋ॒तव॑ ऋ॒तवो॒ वै वा ऋ॒तवः॑ । 38) ऋ॒तव॑ ऋ॒तुभिर्॑. ऋ॒तुभिर्॑. ऋ॒तव॑ ऋ॒तव॑ ऋ॒तुभिः॑ । 39) ऋ॒तुभि॑ रे॒वैव र्तुभिर्॑. ऋ॒तुभि॑ रे॒व । 39) ऋ॒तुभि॒रित्यृ॒तु - भिः॒ । 40) ए॒वास्या᳚ स्यै॒वै वास्य॑ । 41) अ॒स्य॒ शुच॒ग्ं॒ शुच॑ मस्यास्य॒ शुच᳚म् । 42) शुचग्ं॑ शमयति शमयति॒ शुच॒ग्ं॒ शुचग्ं॑ शमयति । 43) श॒म॒य॒ त्य॒पा म॒पाग्ं श॑मयति शमय त्य॒पाम् । 44) अ॒पां-वैँ वा अ॒पा म॒पां-वैँ । 45) वा ए॒त दे॒त-द्वै वा ए॒तत् । 46) ए॒त-त्पुष्प॒-म्पुष्प॑ मे॒त दे॒त-त्पुष्प᳚म् । 47) पुष्पं॒-यँ-द्य-त्पुष्प॒-म्पुष्पं॒-यँत् । 48) य-द्वे॑त॒सो वे॑त॒सो य-द्य-द्वे॑त॒सः । 49) वे॒त॒सो॑ ऽपा म॒पां-वेँ॑त॒सो वे॑त॒सो॑ ऽपाम् । 50) अ॒पाग्ं शर॒-श्शरो॒ ऽपा म॒पाग्ं शरः॑ । ॥ 15 ॥ (50/53)
1) शरो ऽव॑का॒ अव॑का॒-श्शर॒-श्शरो ऽव॑काः । 2) अव॑का वेतसशा॒खया॑ वेतसशा॒खया ऽव॑का॒ अव॑का वेतसशा॒खया᳚ । 3) वे॒त॒स॒शा॒खया॑ च च वेतसशा॒खया॑ वेतसशा॒खया॑ च । 3) वे॒त॒स॒शा॒खयेति॑ वेतस - शा॒खया᳚ । 4) चाव॑काभि॒ रव॑काभिश्च॒ चाव॑काभिः । 5) अव॑काभिश्च॒ चाव॑काभि॒ रव॑काभिश्च । 6) च॒ वि वि च॑ च॒ वि । 7) वि क॑र्षति कर्षति॒ वि वि क॑र्षति । 8) क॒र्॒ष॒ त्याप॒ आपः॑ कर्षति कर्ष॒ त्यापः॑ । 9) आपो॒ वै वा आप॒ आपो॒ वै । 10) वै शा॒न्ता-श्शा॒न्ता वै वै शा॒न्ताः । 11) शा॒न्ता-श्शा॒न्ताभि॑-श्शा॒न्ताभि॑-श्शा॒न्ता-श्शा॒न्ता-श्शा॒न्ताभिः॑ । 12) शा॒न्ताभि॑ रे॒वैव शा॒न्ताभि॑-श्शा॒न्ताभि॑ रे॒व । 13) ए॒वास्या᳚ स्यै॒वै वास्य॑ । 14) अ॒स्य॒ शुच॒ग्ं॒ शुच॑ मस्यास्य॒ शुच᳚म् । 15) शुचग्ं॑ शमयति शमयति॒ शुच॒ग्ं॒ शुचग्ं॑ शमयति । 16) श॒म॒य॒ति॒ यो य-श्श॑मयति शमयति॒ यः । 17) यो वै वै यो यो वै । 18) वा अ॒ग्नि म॒ग्निं-वैँ वा अ॒ग्निम् । 19) अ॒ग्नि-ञ्चि॒त-ञ्चि॒त म॒ग्नि म॒ग्नि-ञ्चि॒तम् । 20) चि॒त-म्प्र॑थ॒मः प्र॑थ॒म श्चि॒त-ञ्चि॒त-म्प्र॑थ॒मः । 21) प्र॒थ॒मः प॒शुः प॒शुः प्र॑थ॒मः प्र॑थ॒मः प॒शुः । 22) प॒शु र॑धि॒क्राम॑ त्यधि॒क्राम॑ति प॒शुः प॒शु र॑धि॒क्राम॑ति । 23) अ॒धि॒क्राम॑ती श्व॒र ई᳚श्व॒रो॑ ऽधि॒क्राम॑ त्यधि॒क्राम॑ती श्व॒रः । 23) अ॒धि॒क्राम॒तीत्य॑धि - क्राम॑ति । 24) ई॒श्व॒रो वै वा ई᳚श्व॒र ई᳚श्व॒रो वै । 25) वै त-न्तं-वैँ वै तम् । 26) तग्ं शु॒चा शु॒चा त-न्तग्ं शु॒चा । 27) शु॒चा प्र॒दहः॑ प्र॒दह॑-श्शु॒चा शु॒चा प्र॒दहः॑ । 28) प्र॒दहो॑ म॒ण्डूके॑न म॒ण्डूके॑न प्र॒दहः॑ प्र॒दहो॑ म॒ण्डूके॑न । 28) प्र॒दह॒ इति॑ प्र - दहः॑ । 29) म॒ण्डूके॑न॒ वि वि म॒ण्डूके॑न म॒ण्डूके॑न॒ वि । 30) वि क॑र्षति कर्षति॒ वि वि क॑र्षति । 31) क॒र्॒ष॒ त्ये॒ष ए॒ष क॑र्षति कर्ष त्ये॒षः । 32) ए॒ष वै वा ए॒ष ए॒ष वै । 33) वै प॑शू॒ना-म्प॑शू॒नां-वैँ वै प॑शू॒नाम् । 34) प॒शू॒ना म॑नुपजीवनी॒यो॑ ऽनुपजीवनी॒यः प॑शू॒ना-म्प॑शू॒ना म॑नुपजीवनी॒यः । 35) अ॒नु॒प॒जी॒व॒नी॒यो न नानु॑पजीवनी॒यो॑ ऽनुपजीवनी॒यो न । 35) अ॒नु॒प॒जी॒व॒नी॒य इत्य॑नुप - जी॒व॒नी॒यः । 36) न वै वै न न वै । 37) वा ए॒ष ए॒ष वै वा ए॒षः । 38) ए॒ष ग्रा॒म्येषु॑ ग्रा॒म्ये ष्वे॒ष ए॒ष ग्रा॒म्येषु॑ । 39) ग्रा॒म्येषु॑ प॒शुषु॑ प॒शुषु॑ ग्रा॒म्येषु॑ ग्रा॒म्येषु॑ प॒शुषु॑ । 40) प॒शुषु॑ हि॒तो हि॒तः प॒शुषु॑ प॒शुषु॑ हि॒तः । 41) हि॒तो न न हि॒तो हि॒तो न । 42) नार॒ण्ये ष्वा॑र॒ण्येषु॒ न नार॒ण्येषु॑ । 43) आ॒र॒ण्येषु॒ त-न्त मा॑र॒ण्ये ष्वा॑र॒ण्येषु॒ तम् । 44) त मे॒वैव त-न्त मे॒व । 45) ए॒व शु॒चा शु॒चै वैव शु॒चा । 46) शु॒चा ऽर्प॑य त्यर्पयति शु॒चा शु॒चा ऽर्प॑यति । 47) अ॒र्प॒य॒ त्य॒ष्टा॒भि र॑ष्टा॒भि र॑र्पय त्यर्पय त्यष्टा॒भिः । 48) अ॒ष्टा॒भि-र्वि व्य॑ष्टा॒भि र॑ष्टा॒भि-र्वि । 49) वि क॑र्षति कर्षति॒ वि वि क॑र्षति । 50) क॒र्॒ष॒ त्य॒ष्टाक्ष॑रा॒ ऽष्टाक्ष॑रा कर्षति कर्ष त्य॒ष्टाक्ष॑रा । ॥ 16 ॥ (50/54)
1) अ॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒ त्र्य॑ष्टाक्ष॑रा॒ ऽष्टाक्ष॑रा गाय॒त्री । 1) अ॒ष्टाक्ष॒रेत्य॒ष्टा - अ॒क्ष॒रा॒ । 2) गा॒य॒त्री गा॑य॒त्रो गा॑य॒त्रो गा॑य॒त्री गा॑य॒त्री गा॑य॒त्रः । 3) गा॒य॒त्रो᳚ ऽग्नि र॒ग्नि-र्गा॑य॒त्रो गा॑य॒त्रो᳚ ऽग्निः । 4) अ॒ग्नि-र्यावा॒न्॒. यावा॑ न॒ग्नि र॒ग्नि-र्यावान्॑ । 5) यावा॑ ने॒वैव यावा॒न्॒. यावा॑ ने॒व । 6) ए॒वाग्नि र॒ग्नि रे॒वै वाग्निः । 7) अ॒ग्नि स्तस्य॒ तस्या॒ ग्नि र॒ग्नि स्तस्य॑ । 8) तस्य॒ शुच॒ग्ं॒ शुच॒-न्तस्य॒ तस्य॒ शुच᳚म् । 9) शुचग्ं॑ शमयति शमयति॒ शुच॒ग्ं॒ शुचग्ं॑ शमयति । 10) श॒म॒य॒ति॒ पा॒व॒कव॑तीभिः पाव॒कव॑तीभि-श्शमयति शमयति पाव॒कव॑तीभिः । 11) पा॒व॒कव॑तीभि॒ रन्न॒ मन्न॑-म्पाव॒कव॑तीभिः पाव॒कव॑तीभि॒ रन्न᳚म् । 11) पा॒व॒कव॑तीभि॒रिति॑ पाव॒क - व॒ती॒भिः॒ । 12) अन्नं॒-वैँ वा अन्न॒ मन्नं॒-वैँ । 13) वै पा॑व॒कः पा॑व॒को वै वै पा॑व॒कः । 14) पा॒व॒को ऽन्ने॒ना न्ने॑न पाव॒कः पा॑व॒को ऽन्ने॑न । 15) अन्ने॑ नै॒वैवा न्ने॒ना न्ने॑नै॒व । 16) ए॒वास्या᳚ स्यै॒वै वास्य॑ । 17) अ॒स्य॒ शुच॒ग्ं॒ शुच॑ मस्यास्य॒ शुच᳚म् । 18) शुचग्ं॑ शमयति शमयति॒ शुच॒ग्ं॒ शुचग्ं॑ शमयति । 19) श॒म॒य॒ति॒ मृ॒त्यु-र्मृ॒त्यु-श्श॑मयति शमयति मृ॒त्युः । 20) मृ॒त्यु-र्वै वै मृ॒त्यु-र्मृ॒त्यु-र्वै । 21) वा ए॒ष ए॒ष वै वा ए॒षः । 22) ए॒ष य-द्यदे॒ष ए॒ष यत् । 23) यद॒ग्नि र॒ग्नि-र्य-द्यद॒ग्निः । 24) अ॒ग्नि-र्ब्रह्म॑णो॒ ब्रह्म॑णो॒ ऽग्नि र॒ग्नि-र्ब्रह्म॑णः । 25) ब्रह्म॑ण ए॒त दे॒त-द्ब्रह्म॑णो॒ ब्रह्म॑ण ए॒तत् । 26) ए॒त-द्रू॒पग्ं रू॒प मे॒त दे॒त-द्रू॒पम् । 27) रू॒पं-यँ-द्य-द्रू॒पग्ं रू॒पं-यँत् । 28) य-त्कृ॑ष्णाजि॒न-ङ्कृ॑ष्णाजि॒नं-यँ-द्य-त्कृ॑ष्णाजि॒नम् । 29) कृ॒ष्णा॒जि॒न-ङ्कार्ष्णी॒ कार्ष्णी॑ कृष्णाजि॒न-ङ्कृ॑ष्णाजि॒न-ङ्कार्ष्णी᳚ । 29) कृ॒ष्णा॒जि॒नमिति॑ कृष्ण - अ॒जि॒नम् । 30) कार्ष्णी॑ उपा॒नहा॑ वुपा॒नहौ॒ कार्ष्णी॒ कार्ष्णी॑ उपा॒नहौ᳚ । 30) कार्ष्णी॒ इति॒ कार्ष्णी᳚ । 31) उ॒पा॒नहा॒ वुपोपो॑ पा॒नहा॑ वुपा॒नहा॒ वुप॑ । 32) उप॑ मुञ्चते मुञ्चत॒ उपोप॑ मुञ्चते । 33) मु॒ञ्च॒ते॒ ब्रह्म॑णा॒ ब्रह्म॑णा मुञ्चते मुञ्चते॒ ब्रह्म॑णा । 34) ब्रह्म॑ णै॒वैव ब्रह्म॑णा॒ ब्रह्म॑णै॒व । 35) ए॒व मृ॒त्यो-र्मृ॒त्यो रे॒वैव मृ॒त्योः । 36) मृ॒त्यो र॒न्त र॒न्त-र्मृ॒त्यो-र्मृ॒त्यो र॒न्तः । 37) अ॒न्त-र्ध॑त्ते धत्ते॒ ऽन्त र॒न्त-र्ध॑त्ते । 38) ध॒त्ते॒ ऽन्त र॒न्त-र्ध॑त्ते धत्ते॒ ऽन्तः । 39) अ॒न्त-र्मृ॒त्यो-र्मृ॒त्यो र॒न्त र॒न्त-र्मृ॒त्योः । 40) मृ॒त्यो-र्ध॑त्ते धत्ते मृ॒त्यो-र्मृ॒त्यो-र्ध॑त्ते । 41) ध॒त्ते॒ ऽन्त र॒न्त-र्ध॑त्ते धत्ते॒ ऽन्तः । 42) अ॒न्त र॒न्नाद्या॑ द॒न्नाद्या॑ द॒न्त र॒न्त र॒न्नाद्या᳚त् । 43) अ॒न्नाद्या॒ दिती त्य॒न्नाद्या॑ द॒न्नाद्या॒ दिति॑ । 43) अ॒न्नाद्या॒दित्य॑न्न - अद्या᳚त् । 44) इत्या॑हु राहु॒ रिती त्या॑हुः । 45) आ॒हु॒ र॒न्या म॒न्या मा॑हु राहु र॒न्याम् । 46) अ॒न्या मु॑पमु॒ञ्चत॑ उपमु॒ञ्चते॒ ऽन्या म॒न्या मु॑पमु॒ञ्चते᳚ । 47) उ॒प॒मु॒ञ्चते॒ ऽन्या म॒न्या मु॑पमु॒ञ्चत॑ उपमु॒ञ्चते॒ ऽन्याम् । 47) उ॒प॒मु॒ञ्चत॒ इत्यु॑प - मु॒ञ्चते᳚ । 48) अ॒न्या-न्न नान्या म॒न्या-न्न । 49) नान्त र॒न्त-र्न नान्तः । 50) अ॒न्त रे॒वै वान्त र॒न्त रे॒व । ॥ 17 ॥ (50/56)
1) ए॒व मृ॒त्यो-र्मृ॒त्यो रे॒वैव मृ॒त्योः । 2) मृ॒त्यो-र्ध॑त्ते धत्ते मृ॒त्यो-र्मृ॒त्यो-र्ध॑त्ते । 3) ध॒त्ते ऽवाव॑ धत्ते ध॒त्ते ऽव॑ । 4) अवा॒न्नाद्य॑ म॒न्नाद्य॒ मवावा॒ न्नाद्य᳚म् । 5) अ॒न्नाद्यग्ं॑ रुन्धे रुन्धे॒ ऽन्नाद्य॑ म॒न्नाद्यग्ं॑ रुन्धे । 5) अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । 6) रु॒न्धे॒ नमो॒ नमो॑ रुन्धे रुन्धे॒ नमः॑ । 7) नम॑ स्ते ते॒ नमो॒ नम॑ स्ते । 8) ते॒ हर॑से॒ हर॑से ते ते॒ हर॑से । 9) हर॑से शो॒चिषे॑ शो॒चिषे॒ हर॑से॒ हर॑से शो॒चिषे᳚ । 10) शो॒चिष॒ इतीति॑ शो॒चिषे॑ शो॒चिष॒ इति॑ । 11) इत्या॑हा॒हे तीत्या॑ह । 12) आ॒ह॒ न॒म॒स्कृत्य॑ नम॒स्कृ त्या॑हाह नम॒स्कृत्य॑ । 13) न॒म॒स्कृत्य॒ हि हि न॑म॒स्कृत्य॑ नम॒स्कृत्य॒ हि । 13) न॒म॒स्कृत्येति॑ नमः - कृत्य॑ । 14) हि वसी॑याग्ंसं॒-वँसी॑याग्ंस॒ग्ं॒ हि हि वसी॑याग्ंसम् । 15) वसी॑याग्ंस मुप॒चर॑न्त्यु प॒चर॑न्ति॒ वसी॑याग्ंसं॒-वँसी॑याग्ंस मुप॒चर॑न्ति । 16) उ॒प॒चर॑-न्त्य॒न्य म॒न्य मु॑प॒चर॑-न्त्युप॒चर॑-न्त्य॒न्यम् । 16) उ॒प॒चर॒न्तीत्यु॑प - चर॑न्ति । 17) अ॒न्य-न्ते॑ ते अ॒न्य म॒न्य-न्ते᳚ । 18) ते॒ अ॒स्म द॒स्म-त्ते॑ ते अ॒स्मत् । 19) अ॒स्म-त्त॑पन्तु तप-न्त्व॒स्म द॒स्म-त्त॑पन्तु । 20) त॒प॒न्तु॒ हे॒तयो॑ हे॒तय॑ स्तपन्तु तपन्तु हे॒तयः॑ । 21) हे॒तय॒ इतीति॑ हे॒तयो॑ हे॒तय॒ इति॑ । 22) इत्या॑हा॒हे तीत्या॑ह । 23) आ॒ह॒ यं-यँ मा॑हाह॒ यम् । 24) य मे॒वैव यं-यँ मे॒व । 25) ए॒व द्वेष्टि॒ द्वेष्ट्ये॒ वैव द्वेष्टि॑ । 26) द्वेष्टि॒ त-न्त-न्द्वेष्टि॒ द्वेष्टि॒ तम् । 27) त म॑स्यास्य॒ त-न्त म॑स्य । 28) अ॒स्य॒ शु॒चा शु॒चा ऽस्या᳚स्य शु॒चा । 29) शु॒चा ऽर्प॑य त्यर्पयति शु॒चा शु॒चा ऽर्प॑यति । 30) अ॒र्प॒य॒ति॒ पा॒व॒कः पा॑व॒को᳚ ऽर्पय त्यर्पयति पाव॒कः । 31) पा॒व॒को अ॒स्मभ्य॑ म॒स्मभ्य॑-म्पाव॒कः पा॑व॒को अ॒स्मभ्य᳚म् । 32) अ॒स्मभ्यग्ं॑ शि॒व-श्शि॒वो अ॒स्मभ्य॑ म॒स्मभ्यग्ं॑ शि॒वः । 32) अ॒स्मभ्य॒मित्य॒स्म - भ्य॒म् । 33) शि॒वो भ॑व भव शि॒व-श्शि॒वो भ॑व । 34) भ॒वे तीति॑ भव भ॒वेति॑ । 35) इत्या॑हा॒हे तीत्या॑ह । 36) आ॒हान्न॒ मन्न॑ माहा॒ हान्न᳚म् । 37) अन्नं॒-वैँ वा अन्न॒ मन्नं॒-वैँ । 38) वै पा॑व॒कः पा॑व॒को वै वै पा॑व॒कः । 39) पा॒व॒को ऽन्न॒ मन्न॑-म्पाव॒कः पा॑व॒को ऽन्न᳚म् । 40) अन्न॑ मे॒वै वान्न॒ मन्न॑ मे॒व । 41) ए॒वावा वै॒वै वाव॑ । 42) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 43) रु॒न्धे॒ द्वाभ्या॒-न्द्वाभ्याग्ं॑ रुन्धे रुन्धे॒ द्वाभ्या᳚म् । 44) द्वाभ्या॒ मध्यधि॒ द्वाभ्या॒-न्द्वाभ्या॒ मधि॑ । 45) अधि॑ क्रामति क्राम॒ त्यध्यधि॑ क्रामति । 46) क्रा॒म॒ति॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै क्रामति क्रामति॒ प्रति॑ष्ठित्यै । 47) प्रति॑ष्ठित्या अप॒स्य॑वतीभ्या मप॒स्य॑वतीभ्या॒-म्प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्या अप॒स्य॑वतीभ्याम् । 47) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । 48) अ॒प॒स्य॑वतीभ्या॒ग्ं॒ शान्त्यै॒ शान्त्या॑ अप॒स्य॑वतीभ्या मप॒स्य॑वतीभ्या॒ग्ं॒ शान्त्यै᳚ । 48) अ॒प॒स्य॑वतीभ्या॒मित्य॑प॒स्य॑ - व॒ती॒भ्या॒म् । 49) शान्त्या॒ इति॒ शान्त्यै᳚ । ॥ 18 ॥ (49/55) ॥ अ. 4 ॥
1) नृ॒षदे॒ व-ड्वण् णृ॒षदे॑ नृ॒षदे॒ वट् । 1) नृ॒षद॒ इति॑ नृ - सदे᳚ । 2) वडितीति॒ व-ड्वडिति॑ । 3) इति॒ व्याघा॑रयति॒ व्याघा॑रय॒ती तीति॒ व्याघा॑रयति । 4) व्याघा॑रयति प॒ङ्क्त्या प॒ङ्क्त्या व्याघा॑रयति॒ व्याघा॑रयति प॒ङ्क्त्या । 4) व्याघा॑रय॒तीति॑ वि - आघा॑रयति । 5) प॒ङ्क्त्या ऽऽहु॒त्या ऽऽहु॑त्या प॒ङ्क्त्या प॒ङ्क्त्या ऽऽहु॑त्या । 6) आहु॑त्या यज्ञमु॒खं-यँ॑ज्ञमु॒ख माहु॒त्या ऽऽहु॑त्या यज्ञमु॒खम् । 6) आहु॒त्येत्या - हु॒त्या॒ । 7) य॒ज्ञ॒मु॒ख मा य॑ज्ञमु॒खं-यँ॑ज्ञमु॒ख मा । 7) य॒ज्ञ॒मु॒खमिति॑ यज्ञ - मु॒खम् । 8) आ र॑भते रभत॒ आ र॑भते । 9) र॒भ॒ते॒ ऽक्ष्ण॒या ऽक्ष्ण॒या र॑भते रभते ऽक्ष्ण॒या । 10) अ॒क्ष्ण॒या व्याघा॑रयति॒ व्याघा॑रय त्यक्ष्ण॒या ऽक्ष्ण॒या व्याघा॑रयति । 11) व्याघा॑रयति॒ तस्मा॒-त्तस्मा॒-द्व्याघा॑रयति॒ व्याघा॑रयति॒ तस्मा᳚त् । 11) व्याघा॑रय॒तीति॑ वि - आघा॑रयति । 12) तस्मा॑ दक्ष्ण॒या ऽक्ष्ण॒या तस्मा॒-त्तस्मा॑ दक्ष्ण॒या । 13) अ॒क्ष्ण॒या प॒शवः॑ प॒शवो᳚ ऽक्ष्ण॒या ऽक्ष्ण॒या प॒शवः॑ । 14) प॒शवो ऽङ्गा॒ न्यङ्गा॑नि प॒शवः॑ प॒शवो ऽङ्गा॑नि । 15) अङ्गा॑नि॒ प्र प्राङ्गा॒ न्यङ्गा॑नि॒ प्र । 16) प्र ह॑रन्ति हरन्ति॒ प्र प्र ह॑रन्ति । 17) ह॒र॒न्ति॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै हरन्ति हरन्ति॒ प्रति॑ष्ठित्यै । 18) प्रति॑ष्ठित्यै॒ य-द्य-त्प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै॒ यत् । 18) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । 19) य-द्व॑षट्कु॒र्या-द्व॑षट्कु॒र्या-द्य-द्य-द्व॑षट्कु॒र्यात् । 20) व॒ष॒ट्कु॒र्या-द्या॒तया॑मा या॒तया॑मा वषट्कु॒र्या-द्व॑षट्कु॒र्या-द्या॒तया॑मा । 20) व॒ष॒ट्कु॒र्यादिति॑ वषट् - कु॒र्यात् । 21) या॒तया॑मा ऽस्यास्य या॒तया॑मा या॒तया॑मा ऽस्य । 21) या॒तया॒मेति॑ या॒त - या॒मा॒ । 22) अ॒स्य॒ व॒ष॒ट्का॒रो व॑षट्का॒रो᳚ ऽस्यास्य वषट्का॒रः । 23) व॒ष॒ट्का॒र-स्स्या᳚-थ्स्या-द्वषट्का॒रो व॑षट्का॒र-स्स्या᳚त् । 23) व॒ष॒ट्का॒र इति॑ वषट् - का॒रः । 24) स्या॒-द्य-द्य-थ्स्या᳚-थ्स्या॒-द्यत् । 25) य-न्न न य-द्य-न्न । 26) न व॑षट्कु॒र्या-द्व॑षट्कु॒र्या-न्न न व॑षट्कु॒र्यात् । 27) व॒ष॒ट्कु॒र्या-द्रक्षाग्ं॑सि॒ रक्षाग्ं॑सि वषट्कु॒र्या-द्व॑षट्कु॒र्या-द्रक्षाग्ं॑सि । 27) व॒ष॒ट्कु॒र्यादिति॑ वषट् - कु॒र्यात् । 28) रक्षाग्ं॑सि य॒ज्ञं-यँ॒ज्ञग्ं रक्षाग्ं॑सि॒ रक्षाग्ं॑सि य॒ज्ञम् । 29) य॒ज्ञग्ं ह॑न्युर्-हन्यु-र्य॒ज्ञं-यँ॒ज्ञग्ं ह॑न्युः । 30) ह॒न्यु॒-र्व-ड्वड्ढ॑न्युर्-हन्यु॒-र्वट् । 31) वडितीति॒ व-ड्वडिति॑ । 32) इत्या॑हा॒हे तीत्या॑ह । 33) आ॒ह॒ प॒रोक्ष॑-म्प॒रोक्ष॑ माहाह प॒रोक्ष᳚म् । 34) प॒रोक्ष॑ मे॒वैव प॒रोक्ष॑-म्प॒रोक्ष॑ मे॒व । 34) प॒रोक्ष॒मिति॑ परः - अक्ष᳚म् । 35) ए॒व वष॒-ड्वष॑डे॒ वैव वष॑ट् । 36) वष॑-ट्करोति करोति॒ वष॒-ड्वष॑-ट्करोति । 37) क॒रो॒ति॒ न न क॑रोति करोति॒ न । 38) नास्या᳚स्य॒ न नास्य॑ । 39) अ॒स्य॒ या॒तया॑मा या॒तया॑मा ऽस्यास्य या॒तया॑मा । 40) या॒तया॑मा वषट्का॒रो व॑षट्का॒रो या॒तया॑मा या॒तया॑मा वषट्का॒रः । 40) या॒तया॒मेति॑ या॒त - या॒मा॒ । 41) व॒ष॒ट्का॒रो भव॑ति॒ भव॑ति वषट्का॒रो व॑षट्का॒रो भव॑ति । 41) व॒ष॒ट्का॒र इति॑ वषट् - का॒रः । 42) भव॑ति॒ न न भव॑ति॒ भव॑ति॒ न । 43) न य॒ज्ञं-यँ॒ज्ञ-न्न न य॒ज्ञम् । 44) य॒ज्ञग्ं रक्षाग्ं॑सि॒ रक्षाग्ं॑सि य॒ज्ञं-यँ॒ज्ञग्ं रक्षाग्ं॑सि । 45) रक्षाग्ं॑सि घ्नन्ति घ्नन्ति॒ रक्षाग्ं॑सि॒ रक्षाग्ं॑सि घ्नन्ति । 46) घ्न॒न्ति॒ हु॒तादो॑ हु॒तादो᳚ घ्नन्ति घ्नन्ति हु॒तादः॑ । 47) हु॒तादो॒ वै वै हु॒तादो॑ हु॒तादो॒ वै । 47) हु॒ताद॒ इति॑ हुत - अदः॑ । 48) वा अ॒न्ये᳚ ऽन्ये वै वा अ॒न्ये । 49) अ॒न्ये दे॒वा दे॒वा अ॒न्ये᳚ ऽन्ये दे॒वाः । 50) दे॒वा अ॑हु॒तादो॑ ऽहु॒तादो॑ दे॒वा दे॒वा अ॑हु॒तादः॑ । ॥ 19 ॥ (50/64)
1) अ॒हु॒तादो॒ ऽन्ये᳚(1॒) ऽन्ये॑ ऽहु॒तादो॑ ऽहु॒तादो॒ ऽन्ये । 1) अ॒हु॒ताद॒ इत्य॑हुत - अदः॑ । 2) अ॒न्ये ताग् स्ता न॒न्ये᳚ ऽन्ये तान् । 3) ता न॑ग्नि॒चि द॑ग्नि॒चि-त्ताग् स्ता न॑ग्नि॒चित् । 4) अ॒ग्नि॒चि दे॒वै वाग्नि॒चि द॑ग्नि॒चि दे॒व । 4) अ॒ग्नि॒चिदित्य॑ग्नि - चित् । 5) ए॒वोभया॑ नु॒भया॑ ने॒वैवोभयान्॑ । 6) उ॒भया᳚-न्प्रीणाति प्रीणा त्यु॒भया॑ नु॒भया᳚-न्प्रीणाति । 7) प्री॒णा॒ति॒ ये ये प्री॑णाति प्रीणाति॒ ये । 8) ये दे॒वा दे॒वा ये ये दे॒वाः । 9) दे॒वा दे॒वाना᳚-न्दे॒वाना᳚-न्दे॒वा दे॒वा दे॒वाना᳚म् । 10) दे॒वाना॒ मितीति॑ दे॒वाना᳚-न्दे॒वाना॒ मिति॑ । 11) इति॑ द॒द्ध्ना द॒द्ध्ने तीति॑ द॒द्ध्ना । 12) द॒द्ध्ना म॑धुमि॒श्रेण॑ मधुमि॒श्रेण॑ द॒द्ध्ना द॒द्ध्ना म॑धुमि॒श्रेण॑ । 13) म॒धु॒मि॒श्रेणावाव॑ मधुमि॒श्रेण॑ मधुमि॒श्रेणाव॑ । 13) म॒धु॒मि॒श्रेणेति॑ मधु - मि॒श्रेण॑ । 14) अवो᳚क्ष त्युक्ष॒ त्यवावो᳚क्षति । 15) उ॒क्ष॒ति॒ हु॒तादो॑ हु॒ताद॑ उक्ष त्युक्षति हु॒तादः॑ । 16) हु॒ताद॑श्च च हु॒तादो॑ हु॒ताद॑श्च । 16) हु॒ताद॒ इति॑ हुत - अदः॑ । 17) चै॒वैव च॑ चै॒व । 18) ए॒व दे॒वा-न्दे॒वा ने॒वैव दे॒वान् । 19) दे॒वा न॑हु॒तादो॑ ऽहु॒तादो॑ दे॒वा-न्दे॒वा न॑हु॒तादः॑ । 20) अ॒हु॒ताद॑श्च चाहु॒तादो॑ ऽहु॒ताद॑श्च । 20) अ॒हु॒ताद॒ इत्य॑हुत - अदः॑ । 21) च॒ यज॑मानो॒ यज॑मानश्च च॒ यज॑मानः । 22) यज॑मानः प्रीणाति प्रीणाति॒ यज॑मानो॒ यज॑मानः प्रीणाति । 23) प्री॒णा॒ति॒ ते ते प्री॑णाति प्रीणाति॒ ते । 24) ते यज॑मानं॒-यँज॑मान॒-न्ते ते यज॑मानम् । 25) यज॑मान-म्प्रीणन्ति प्रीणन्ति॒ यज॑मानं॒-यँज॑मान-म्प्रीणन्ति । 26) प्री॒ण॒न्ति॒ द॒द्ध्ना द॒द्ध्ना प्री॑णन्ति प्रीणन्ति द॒द्ध्ना । 27) द॒द्ध्नै वैव द॒द्ध्ना द॒द्ध्नैव । 28) ए॒व हु॒तादो॑ हु॒ताद॑ ए॒वैव हु॒तादः॑ । 29) हु॒तादः॑ प्री॒णाति॑ प्री॒णाति॑ हु॒तादो॑ हु॒तादः॑ प्री॒णाति॑ । 29) हु॒ताद॒ इति॑ हुत - अदः॑ । 30) प्री॒णाति॒ मधु॑षा॒ मधु॑षा प्री॒णाति॑ प्री॒णाति॒ मधु॑षा । 31) मधु॑षा ऽहु॒तादो॑ ऽहु॒तादो॒ मधु॑षा॒ मधु॑षा ऽहु॒तादः॑ । 32) अ॒हु॒तादो᳚ ग्रा॒म्य-ङ्ग्रा॒म्य म॑हु॒तादो॑ ऽहु॒तादो᳚ ग्रा॒म्यम् । 32) अ॒हु॒ताद॒ इत्य॑हुत - अदः॑ । 33) ग्रा॒म्यं-वैँ वै ग्रा॒म्य-ङ्ग्रा॒म्यं-वैँ । 34) वा ए॒त दे॒त-द्वै वा ए॒तत् । 35) ए॒त दन्न॒ मन्न॑ मे॒त दे॒त दन्न᳚म् । 36) अन्नं॒-यँ-द्यदन्न॒ मन्नं॒-यँत् । 37) य-द्दधि॒ दधि॒ य-द्य-द्दधि॑ । 38) दध्या॑र॒ण्य मा॑र॒ण्य-न्दधि॒ दध्या॑र॒ण्यम् । 39) आ॒र॒ण्य-म्मधु॒ मध्वा॑र॒ण्य मा॑र॒ण्य-म्मधु॑ । 40) मधु॒ य-द्य-न्मधु॒ मधु॒ यत् । 41) य-द्द॒द्ध्ना द॒द्ध्ना य-द्य-द्द॒द्ध्ना । 42) द॒द्ध्ना म॑धुमि॒श्रेण॑ मधुमि॒श्रेण॑ द॒द्ध्ना द॒द्ध्ना म॑धुमि॒श्रेण॑ । 43) म॒धु॒मि॒श्रेणा॒ वोक्ष॑ त्य॒वोक्ष॑ति मधुमि॒श्रेण॑ मधुमि॒श्रेणा॒ वोक्ष॑ति । 43) म॒धु॒मि॒श्रेणेति॑ मधु - मि॒श्रेण॑ । 44) अ॒वोक्ष॑ त्यु॒भय॑ स्यो॒भय॑स्या॒ वोक्ष॑ त्य॒वोक्ष॑ त्यु॒भय॑स्य । 44) अ॒वोक्ष॒तीत्य॑व - उक्ष॑ति । 45) उ॒भय॒स्या व॑रुद्ध्या॒ अव॑रुद्ध्या उ॒भय॑ स्यो॒भय॒स्या व॑रुद्ध्यै । 46) अव॑रुद्ध्यै ग्रुमु॒ष्टिना᳚ ग्रुमु॒ष्टिना ऽव॑रुद्ध्या॒ अव॑रुद्ध्यै ग्रुमु॒ष्टिना᳚ । 46) अव॑रुद्ध्या॒ इत्यव॑ - रु॒ध्यै॒ । 47) ग्रु॒मु॒ष्टिना ऽवाव॑ ग्रुमु॒ष्टिना᳚ ग्रुमु॒ष्टिना ऽव॑ । 48) अवो᳚क्ष त्युक्ष॒ त्यवावो᳚ क्षति । 49) उ॒क्ष॒ति॒ प्रा॒जा॒प॒त्यः प्रा॑जाप॒त्य उ॑क्ष त्युक्षति प्राजाप॒त्यः । 50) प्रा॒जा॒प॒त्यो वै वै प्रा॑जाप॒त्यः प्रा॑जाप॒त्यो वै । 50) प्रा॒जा॒प॒त्य इति॑ प्राजा - प॒त्यः । ॥ 20 ॥ (50/61)
1) वै ग्रु॑मु॒ष्टि-र्ग्रु॑मु॒ष्टि-र्वै वै ग्रु॑मु॒ष्टिः । 2) ग्रु॒मु॒ष्टि-स्स॑योनि॒त्वाय॑ सयोनि॒त्वाय॑ ग्रुमु॒ष्टि-र्ग्रु॑मु॒ष्टि-स्स॑योनि॒त्वाय॑ । 3) स॒यो॒नि॒त्वाय॒ द्वाभ्या॒-न्द्वाभ्याग्ं॑ सयोनि॒त्वाय॑ सयोनि॒त्वाय॒ द्वाभ्या᳚म् । 3) स॒यो॒नि॒त्वायेति॑ सयोनि - त्वाय॑ । 4) द्वाभ्या॒-म्प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै॒ द्वाभ्या॒-न्द्वाभ्या॒-म्प्रति॑ष्ठित्यै । 5) प्रति॑ष्ठित्या अनुपरि॒चार॑ मनुपरि॒चार॒-म्प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्या अनुपरि॒चार᳚म् । 5) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । 6) अ॒नु॒प॒रि॒चार॒ मवावा॑ नुपरि॒चार॑ मनुपरि॒चार॒ मव॑ । 6) अ॒नु॒प॒रि॒चार॒मित्य॑नु - प॒रि॒चार᳚म् । 7) अवो᳚क्ष त्युक्ष॒ त्यवावो᳚ क्षति । 8) उ॒क्ष॒त्य प॑रिवर्ग॒ मप॑रिवर्ग मुक्ष त्युक्ष॒ त्यप॑रिवर्गम् । 9) अप॑रिवर्ग मे॒वैवा प॑रिवर्ग॒ मप॑रिवर्ग मे॒व । 9) अप॑रिवर्ग॒मित्यप॑रि - व॒र्ग॒म् । 10) ए॒वैना॑ नेना ने॒वै वैनान्॑ । 11) ए॒ना॒-न्प्री॒णा॒ति॒ प्री॒णा॒ त्ये॒ना॒ ने॒ना॒-न्प्री॒णा॒ति॒ । 12) प्री॒णा॒ति॒ वि वि प्री॑णाति प्रीणाति॒ वि । 13) वि वै वै वि वि वै । 14) वा ए॒ष ए॒ष वै वा ए॒षः । 15) ए॒ष प्रा॒णैः प्रा॒णै रे॒ष ए॒ष प्रा॒णैः । 16) प्रा॒णैः प्र॒जया᳚ प्र॒जया᳚ प्रा॒णैः प्रा॒णैः प्र॒जया᳚ । 16) प्रा॒णैरिति॑ प्र - अ॒नैः । 17) प्र॒जया॑ प॒शुभिः॑ प॒शुभिः॑ प्र॒जया᳚ प्र॒जया॑ प॒शुभिः॑ । 17) प्र॒जयेति॑ प्र - जया᳚ । 18) प॒शुभिर्॑. ऋद्ध्यत ऋद्ध्यते प॒शुभिः॑ प॒शुभिर्॑. ऋद्ध्यते । 18) प॒शुभि॒रिति॑ प॒शु - भिः॒ । 19) ऋ॒द्ध्य॒ते॒ यो य ऋ॑द्ध्यत ऋद्ध्यते॒ यः । 20) यो᳚ ऽग्नि म॒ग्निं-योँ यो᳚ ऽग्निम् । 21) अ॒ग्नि-ञ्चि॒न्वग्ग् श्चि॒न्व-न्न॒ग्नि म॒ग्नि-ञ्चि॒न्वन्न् । 22) चि॒न्व-न्न॑धि॒क्राम॑त्य धि॒क्राम॑ति चि॒न्वग्ग् श्चि॒न्व-न्न॑धि॒क्राम॑ति । 23) अ॒धि॒क्राम॑ति प्राण॒दाः प्रा॑ण॒दा अ॑धि॒क्राम॑ त्यधि॒क्राम॑ति प्राण॒दाः । 23) अ॒धि॒क्राम॒तीत्य॑धि - क्राम॑ति । 24) प्रा॒ण॒दा अ॑पान॒दा अ॑पान॒दाः प्रा॑ण॒दाः प्रा॑ण॒दा अ॑पान॒दाः । 24) प्रा॒ण॒दा इति॑ प्राण - दाः । 25) अ॒पा॒न॒दा इती त्य॑पान॒दा अ॑पान॒दा इति॑ । 25) अ॒पा॒न॒दा इत्य॑पान - दाः । 26) इत्या॑हा॒हे तीत्या॑ह । 27) आ॒ह॒ प्रा॒णा-न्प्रा॒णा ना॑हाह प्रा॒णान् । 28) प्रा॒णा ने॒वैव प्रा॒णा-न्प्रा॒णा ने॒व । 28) प्रा॒णानिति॑ प्र - अ॒नान् । 29) ए॒वात्म-न्ना॒त्म-न्ने॒वै वात्मन्न् । 30) आ॒त्म-न्ध॑त्ते धत्त आ॒त्म-न्ना॒त्म-न्ध॑त्ते । 31) ध॒त्ते॒ व॒र्चो॒दा व॑र्चो॒दा ध॑त्ते धत्ते वर्चो॒दाः । 32) व॒र्चो॒दा व॑रिवो॒दा व॑रिवो॒दा व॑र्चो॒दा व॑र्चो॒दा व॑रिवो॒दाः । 32) व॒र्चो॒दा इति॑ वर्चः - दाः । 33) व॒रि॒वो॒दा इतीति॑ वरिवो॒दा व॑रिवो॒दा इति॑ । 33) व॒रि॒वो॒दा इति॑ वरिवः - दाः । 34) इत्या॑हा॒हे तीत्या॑ह । 35) आ॒ह॒ प्र॒जा प्र॒जा ऽऽहा॑ह प्र॒जा । 36) प्र॒जा वै वै प्र॒जा प्र॒जा वै । 36) प्र॒जेति॑ प्र - जा । 37) वै वर्चो॒ वर्चो॒ वै वै वर्चः॑ । 38) वर्चः॑ प॒शवः॑ प॒शवो॒ वर्चो॒ वर्चः॑ प॒शवः॑ । 39) प॒शवो॒ वरि॑वो॒ वरि॑वः प॒शवः॑ प॒शवो॒ वरि॑वः । 40) वरि॑वः प्र॒जा-म्प्र॒जां-वँरि॑वो॒ वरि॑वः प्र॒जाम् । 41) प्र॒जा मे॒वैव प्र॒जा-म्प्र॒जा मे॒व । 41) प्र॒जामिति॑ प्र - जाम् । 42) ए॒व प॒शू-न्प॒शू ने॒वैव प॒शून् । 43) प॒शू ना॒त्म-न्ना॒त्म-न्प॒शू-न्प॒शू ना॒त्मन्न् । 44) आ॒त्म-न्ध॑त्ते धत्त आ॒त्म-न्ना॒त्म-न्ध॑त्ते । 45) ध॒त्त॒ इन्द्र॒ इन्द्रो॑ धत्ते धत्त॒ इन्द्रः॑ । 46) इन्द्रो॑ वृ॒त्रं-वृँ॒त्र मिन्द्र॒ इन्द्रो॑ वृ॒त्रम् । 47) वृ॒त्र म॑ह-न्नहन् वृ॒त्रं-वृँ॒त्र म॑हन्न् । 48) अ॒ह॒-न्त-न्त म॑ह-न्नह॒-न्तम् । 49) तं-वृँ॒त्रो वृ॒त्र स्त-न्तं-वृँ॒त्रः । 50) वृ॒त्रो ह॒तो ह॒तो वृ॒त्रो वृ॒त्रो ह॒तः । ॥ 21 ॥ (50/65)
1) ह॒त ष्षो॑ड॒शभि॑ ष्षोड॒शभि॑र्-ह॒तो ह॒त ष्षो॑ड॒शभिः॑ । 2) षो॒ड॒शभि॑-र्भो॒गै-र्भो॒गै ष्षो॑ड॒शभि॑ ष्षोड॒शभि॑-र्भो॒गैः । 2) षो॒ड॒शभि॒रिति॑ षोड॒श - भिः॒ । 3) भो॒गै र॑सिना दसिना-द्भो॒गै-र्भो॒गै र॑सिनात् । 4) अ॒सि॒ना॒-थ्स सो॑ ऽसिना दसिना॒-थ्सः । 5) स ए॒ता मे॒ताग्ं स स ए॒ताम् । 6) ए॒ता म॒ग्नये॒ ऽग्नय॑ ए॒ता मे॒ता म॒ग्नये᳚ । 7) अ॒ग्नये ऽनी॑कव॒ते ऽनी॑कवते॒ ऽग्नये॒ ऽग्नये ऽनी॑कवते । 8) अनी॑कवत॒ आहु॑ति॒ माहु॑ति॒ मनी॑कव॒ते ऽनी॑कवत॒ आहु॑तिम् । 8) अनी॑कवत॒ इत्यनी॑क - व॒ते॒ । 9) आहु॑ति मपश्य दपश्य॒ दाहु॑ति॒ माहु॑ति मपश्यत् । 9) आहु॑ति॒मित्या - हु॒ति॒म् । 10) अ॒प॒श्य॒-त्ता-न्ता म॑पश्य दपश्य॒-त्ताम् । 11) ता म॑जुहो दजुहो॒-त्ता-न्ता म॑जुहोत् । 12) अ॒जु॒हो॒-त्तस्य॒ तस्या॑ जुहो दजुहो॒-त्तस्य॑ । 13) तस्या॒ग्नि र॒ग्नि स्तस्य॒ तस्या॒ग्निः । 14) अ॒ग्नि रनी॑कवा॒ ननी॑कवा न॒ग्नि र॒ग्नि रनी॑कवान् । 15) अनी॑कवा॒-न्थ्स्वेन॒ स्वेना नी॑कवा॒ ननी॑कवा॒-न्थ्स्वेन॑ । 15) अनी॑कवा॒नित्यनी॑क - वा॒न् । 16) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न । 17) भा॒ग॒धेये॑न प्री॒तः प्री॒तो भा॑ग॒धेये॑न भाग॒धेये॑न प्री॒तः । 17) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । 18) प्री॒त ष्षो॑डश॒धा षो॑डश॒धा प्री॒तः प्री॒त ष्षो॑डश॒धा । 19) षो॒ड॒श॒धा वृ॒त्रस्य॑ वृ॒त्रस्य॑ षोडश॒धा षो॑डश॒धा वृ॒त्रस्य॑ । 19) षो॒ड॒श॒धेति॑ षोडश - धा । 20) वृ॒त्रस्य॑ भो॒गा-न्भो॒गान् वृ॒त्रस्य॑ वृ॒त्रस्य॑ भो॒गान् । 21) भो॒गा नप्यपि॑ भो॒गा-न्भो॒गा नपि॑ । 22) अप्य॑ दह ददह॒ दप्य प्य॑ दहत् । 23) अ॒द॒ह॒-द्वै॒श्व॒क॒र्म॒णेन॑ वैश्वकर्म॒णेना॑ दह ददह-द्वैश्वकर्म॒णेन॑ । 24) वै॒श्व॒क॒र्म॒णेन॑ पा॒प्मनः॑ पा॒प्मनो॑ वैश्वकर्म॒णेन॑ वैश्वकर्म॒णेन॑ पा॒प्मनः॑ । 24) वै॒श्व॒क॒र्म॒णेनेति॑ वैश्व - क॒र्म॒णेन॑ । 25) पा॒प्मनो॒ नि-र्णिष् पा॒प्मनः॑ पा॒प्मनो॒ निः । 26) निर॑मुच्यता मुच्यत॒ नि-र्णिर॑मुच्यत । 27) अ॒मु॒च्य॒त॒ य-द्यद॑मुच्यता मुच्यत॒ यत् । 28) यद॒ग्नये॒ ऽग्नये॒ य-द्यद॒ग्नये᳚ । 29) अ॒ग्नये ऽनी॑कव॒ते ऽनी॑कवते॒ ऽग्नये॒ ऽग्नये ऽनी॑कवते । 30) अनी॑कवत॒ आहु॑ति॒ माहु॑ति॒ मनी॑कव॒ते ऽनी॑कवत॒ आहु॑तिम् । 30) अनी॑कवत॒ इत्यनी॑क - व॒ते॒ । 31) आहु॑ति-ञ्जु॒होति॑ जु॒हो त्याहु॑ति॒ माहु॑ति-ञ्जु॒होति॑ । 31) आहु॑ति॒मित्या - हु॒ति॒म् । 32) जु॒हो त्य॒ग्नि र॒ग्नि-र्जु॒होति॑ जु॒हो त्य॒ग्निः । 33) अ॒ग्नि रे॒वै वाग्नि र॒ग्नि रे॒व । 34) ए॒वास्या᳚ स्यै॒वै वास्य॑ । 35) अ॒स्या नी॑कवा॒ नानी॑कवा नस्या॒स्या नी॑कवान् । 36) आनी॑कवा॒-न्थ्स्वेन॒ स्वेनानी॑कवा॒ नानी॑कवा॒-न्थ्स्वेन॑ । 36) आनी॑कवा॒नित्यनी॑क - वा॒न् । 37) स्वेन॑ भाग॒धेये॑न भाग॒धेये॑न॒ स्वेन॒ स्वेन॑ भाग॒धेये॑न । 38) भा॒ग॒धेये॑न प्री॒तः प्री॒तो भा॑ग॒धेये॑न भाग॒धेये॑न प्री॒तः । 38) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । 39) प्री॒तः पा॒प्मान॑-म्पा॒प्मान॑-म्प्री॒तः प्री॒तः पा॒प्मान᳚म् । 40) पा॒प्मान॒ मप्यपि॑ पा॒प्मान॑-म्पा॒प्मान॒ मपि॑ । 41) अपि॑ दहति दह॒ त्यप्यपि॑ दहति । 42) द॒ह॒ति॒ वै॒श्व॒क॒र्म॒णेन॑ वैश्वकर्म॒णेन॑ दहति दहति वैश्वकर्म॒णेन॑ । 43) वै॒श्व॒क॒र्म॒णेन॑ पा॒प्मनः॑ पा॒प्मनो॑ वैश्वकर्म॒णेन॑ वैश्वकर्म॒णेन॑ पा॒प्मनः॑ । 43) वै॒श्व॒क॒र्म॒णेनेति॑ वैश्व - क॒र्म॒णेन॑ । 44) पा॒प्मनो॒ नि-र्णिष् पा॒प्मनः॑ पा॒प्मनो॒ निः । 45) नि-र्मु॑च्यते मुच्यते॒ नि-र्णि-र्मु॑च्यते । 46) मु॒च्य॒ते॒ यं-यँ-म्मु॑च्यते मुच्यते॒ यम् । 47) य-ङ्का॒मये॑त का॒मये॑त॒ यं-यँ-ङ्का॒मये॑त । 48) का॒मये॑त चि॒र-ञ्चि॒र-ङ्का॒मये॑त का॒मये॑त चि॒रम् । 49) चि॒र-म्पा॒प्मनः॑ पा॒प्मन॑ श्चि॒र-ञ्चि॒र-म्पा॒प्मनः॑ । 50) पा॒प्मनो॒ नि-र्णिष् पा॒प्मनः॑ पा॒प्मनो॒ निः । ॥ 22 ॥ (50/62)
1) नि-र्मु॑च्येत मुच्येत॒ नि-र्णि-र्मु॑च्येत । 2) मु॒च्ये॒ते तीति॑ मुच्येत मुच्ये॒तेति॑ । 3) इत्येकै॑क॒ मेकै॑क॒ मिती त्येकै॑कम् । 4) एकै॑क॒-न्तस्य॒ तस्यैकै॑क॒ मेकै॑क॒-न्तस्य॑ । 4) एकै॑क॒मित्येकं᳚ - ए॒क॒म् । 5) तस्य॑ जुहुयाज् जुहुया॒-त्तस्य॒ तस्य॑ जुहुयात् । 6) जु॒हु॒या॒च् चि॒र-ञ्चि॒र-ञ्जु॑हुयाज् जुहुयाच् चि॒रम् । 7) चि॒र मे॒वैव चि॒र-ञ्चि॒र मे॒व । 8) ए॒व पा॒प्मनः॑ पा॒प्मन॑ ए॒वैव पा॒प्मनः॑ । 9) पा॒प्मनो॒ नि-र्णिष् पा॒प्मनः॑ पा॒प्मनो॒ निः । 10) नि-र्मु॑च्यते मुच्यते॒ नि-र्णि-र्मु॑च्यते । 11) मु॒च्य॒ते॒ यं-यँ-म्मु॑च्यते मुच्यते॒ यम् । 12) य-ङ्का॒मये॑त का॒मये॑त॒ यं-यँ-ङ्का॒मये॑त । 13) का॒मये॑त ता॒ज-क्ता॒जक् का॒मये॑त का॒मये॑त ता॒जक् । 14) ता॒ज-क्पा॒प्मनः॑ पा॒प्मन॑ स्ता॒ज-क्ता॒ज-क्पा॒प्मनः॑ । 15) पा॒प्मनो॒ नि-र्णिष् पा॒प्मनः॑ पा॒प्मनो॒ निः । 16) नि-र्मु॑च्येत मुच्येत॒ नि-र्णि-र्मु॑च्येत । 17) मु॒च्ये॒ते तीति॑ मुच्येत मुच्ये॒तेति॑ । 18) इति॒ सर्वा॑णि॒ सर्वा॒णी तीति॒ सर्वा॑णि । 19) सर्वा॑णि॒ तस्य॒ तस्य॒ सर्वा॑णि॒ सर्वा॑णि॒ तस्य॑ । 20) तस्या॑ नु॒द्रुत्या॑ नु॒द्रुत्य॒ तस्य॒ तस्या॑ नु॒द्रुत्य॑ । 21) अ॒नु॒द्रुत्य॑ जुहुयाज् जुहुया दनु॒द्रुत्या॑ नु॒द्रुत्य॑ जुहुयात् । 21) अ॒नु॒द्रुत्येत्य॑नु - द्रुत्य॑ । 22) जु॒हु॒या॒-त्ता॒ज-क्ता॒जग् जु॑हुयाज् जुहुया-त्ता॒जक् । 23) ता॒जगे॒ वैव ता॒ज-क्ता॒जगे॒व । 24) ए॒व पा॒प्मनः॑ पा॒प्मन॑ ए॒वैव पा॒प्मनः॑ । 25) पा॒प्मनो॒ नि-र्णिष् पा॒प्मनः॑ पा॒प्मनो॒ निः । 26) नि-र्मु॑च्यते मुच्यते॒ नि-र्णि-र्मु॑च्यते । 27) मु॒च्य॒ते ऽथो॒ अथो॑ मुच्यते मुच्य॒ते ऽथो᳚ । 28) अथो॒ खलु॒ खल्वथो॒ अथो॒ खलु॑ । 28) अथो॒ इत्यथो᳚ । 29) खलु॒ नाना॒ नाना॒ खलु॒ खलु॒ नाना᳚ । 30) नानै॒ वैव नाना॒ नानै॒व । 31) ए॒व सू॒क्ताभ्याग्ं॑ सू॒क्ताभ्या॑ मे॒वैव सू॒क्ताभ्या᳚म् । 32) सू॒क्ताभ्या᳚-ञ्जुहोति जुहोति सू॒क्ताभ्याग्ं॑ सू॒क्ताभ्या᳚-ञ्जुहोति । 32) सू॒क्ताभ्या॒मिति॑ सु - उ॒क्ताभ्या᳚म् । 33) जु॒हो॒ति॒ नाना॒ नाना॑ जुहोति जुहोति॒ नाना᳚ । 34) नानै॒ वैव नाना॒ नानै॒व । 35) ए॒व सू॒क्तयो᳚-स्सू॒क्तयो॑ रे॒वैव सू॒क्तयोः᳚ । 36) सू॒क्तयो᳚-र्वी॒र्यं॑-वीँ॒र्यग्ं॑ सू॒क्तयो᳚-स्सू॒क्तयो᳚-र्वी॒र्य᳚म् । 36) सू॒क्तयो॒रिति॑ सु - उ॒क्तयोः᳚ । 37) वी॒र्य॑-न्दधाति दधाति वी॒र्यं॑-वीँ॒र्य॑-न्दधाति । 38) द॒धा॒ त्यथो॒ अथो॑ दधाति दधा॒ त्यथो᳚ । 39) अथो॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्या॒ अथो॒ अथो॒ प्रति॑ष्ठित्यै । 39) अथो॒ इत्यथो᳚ । 40) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । ॥ 23 ॥ (40/46) ॥ अ. 5 ॥
1) उदे॑न मेन॒ मुदु दे॑नम् । 2) ए॒न॒ मु॒त्त॒रा मु॑त्त॒रा मे॑न मेन मुत्त॒राम् । 3) उ॒त्त॒रा-न्न॑य नयोत्त॒रा मु॑त्त॒रा-न्न॑य । 3) उ॒त्त॒रामित्यु॑त् - त॒राम् । 4) न॒येतीति॑ नय न॒येति॑ । 5) इति॑ स॒मिध॑-स्स॒मिध॒ इतीति॑ स॒मिधः॑ । 6) स॒मिध॒ आ स॒मिध॑-स्स॒मिध॒ आ । 6) स॒मिध॒ इति॑ सं - इधः॑ । 7) आ द॑धाति दधा॒त्या द॑धाति । 8) द॒धा॒ति॒ यथा॒ यथा॑ दधाति दधाति॒ यथा᳚ । 9) यथा॒ जन॒-ञ्जनं॒-यँथा॒ यथा॒ जन᳚म् । 10) जनं॑-यँ॒ते य॒ते जन॒-ञ्जनं॑-यँ॒ते । 11) य॒ते॑ ऽव॒स म॑व॒सं-यँ॒ते य॒ते॑ ऽव॒सम् । 12) अ॒व॒स-ङ्क॒रोति॑ क॒रो त्य॑व॒स म॑व॒स-ङ्क॒रोति॑ । 13) क॒रोति॑ ता॒दृ-क्ता॒दृक् क॒रोति॑ क॒रोति॑ ता॒दृक् । 14) ता॒दृ गे॒वैव ता॒दृ-क्ता॒दृ गे॒व । 15) ए॒व त-त्तदे॒ वैव तत् । 16) त-त्ति॒स्र स्ति॒स्र स्त-त्त-त्ति॒स्रः । 17) ति॒स्र आ ति॒स्र स्ति॒स्र आ । 18) आ द॑धाति दधा॒त्या द॑धाति । 19) द॒धा॒ति॒ त्रि॒वृ-त्त्रि॒वृ-द्द॑धाति दधाति त्रि॒वृत् । 20) त्रि॒वृ-द्वै वै त्रि॒वृ-त्त्रि॒वृ-द्वै । 20) त्रि॒वृदिति॑ त्रि - वृत् । 21) वा अ॒ग्नि र॒ग्नि-र्वै वा अ॒ग्निः । 22) अ॒ग्नि-र्यावा॒न्॒. यावा॑ न॒ग्नि र॒ग्नि-र्यावान्॑ । 23) यावा॑ ने॒वैव यावा॒न्॒. यावा॑ ने॒व । 24) ए॒वाग्नि र॒ग्नि रे॒वै वाग्निः । 25) अ॒ग्निस् तस्मै॒ तस्मा॑ अ॒ग्नि र॒ग्नि स्तस्मै᳚ । 26) तस्मै॑ भाग॒धेय॑-म्भाग॒धेय॒-न्तस्मै॒ तस्मै॑ भाग॒धेय᳚म् । 27) भा॒ग॒धेय॑-ङ्करोति करोति भाग॒धेय॑-म्भाग॒धेय॑-ङ्करोति । 27) भा॒ग॒धेय॒मिति॑ भाग - धेय᳚म् । 28) क॒रो॒ त्यौदु॑म्बरी॒ रौदु॑म्बरीः करोति करो॒ त्यौदु॑म्बरीः । 29) औदु॑म्बरी-र्भवन्ति भव॒-न्त्यौदु॑म्बरी॒ रौदु॑म्बरी-र्भवन्ति । 30) भ॒व॒-न्त्यू-र्गूर्ग् भ॑वन्ति भव॒-न्त्यूर्क् । 31) ऊर्ग् वै वा ऊ-र्गूर्ग् वै । 32) वा उ॑दु॒म्बर॑ उदु॒म्बरो॒ वै वा उ॑दु॒म्बरः॑ । 33) उ॒दु॒म्बर॒ ऊर्ज॒ मूर्ज॑ मुदु॒म्बर॑ उदु॒म्बर॒ ऊर्ज᳚म् । 34) ऊर्ज॑ मे॒वै वोर्ज॒ मूर्ज॑ मे॒व । 35) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ । 36) अ॒स्मा॒ अप्य प्य॑स्मा अस्मा॒ अपि॑ । 37) अपि॑ दधाति दधा॒ त्यप्यपि॑ दधाति । 38) द॒धा॒ त्युदु-द्द॑धाति दधा॒ त्युत् । 39) उदु॑ वु॒ वु दुदु॑ । 40) उ॒ त्वा॒ त्व॒ वु॒ त्वा॒ । 41) त्वा॒ विश्वे॒ विश्वे᳚ त्वा त्वा॒ विश्वे᳚ । 42) विश्वे॑ दे॒वा दे॒वा विश्वे॒ विश्वे॑ दे॒वाः । 43) दे॒वा इतीति॑ दे॒वा दे॒वा इति॑ । 44) इत्या॑हा॒हे तीत्या॑ह । 45) आ॒ह॒ प्रा॒णाः प्रा॒णा आ॑हाह प्रा॒णाः । 46) प्रा॒णा वै वै प्रा॒णाः प्रा॒णा वै । 46) प्रा॒णा इति॑ प्र - अ॒नाः । 47) वै विश्वे॒ विश्वे॒ वै वै विश्वे᳚ । 48) विश्वे॑ दे॒वा दे॒वा विश्वे॒ विश्वे॑ दे॒वाः । 49) दे॒वाः प्रा॒णैः प्रा॒णै-र्दे॒वा दे॒वाः प्रा॒णैः । 50) प्रा॒णै रे॒वैव प्रा॒णैः प्रा॒णैरे॒व । 50) प्रा॒णैरिति॑ प्र - अ॒नैः । ॥ 24 ॥ (50/56)
1) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 2) ए॒न॒ मुदु दे॑न मेन॒ मुत् । 3) उ-द्य॑च्छते यच्छत॒ उदु-द्य॑च्छते । 4) य॒च्छ॒ते ऽग्ने ऽग्ने॑ यच्छते यच्छ॒ते ऽग्ने᳚ । 5) अग्ने॒ भर॑न्तु॒ भर॒-न्त्वग्ने ऽग्ने॒ भर॑न्तु । 6) भर॑न्तु॒ चित्ति॑भि॒ श्चित्ति॑भि॒-र्भर॑न्तु॒ भर॑न्तु॒ चित्ति॑भिः । 7) चित्ति॑भि॒ रितीति॒ चित्ति॑भि॒ श्चित्ति॑भि॒ रिति॑ । 7) चित्ति॑भि॒रिति॒ चित्ति॑ - भिः॒ । 8) इत्या॑हा॒हे तीत्या॑ह । 9) आ॒ह॒ यस्मै॒ यस्मा॑ आहाह॒ यस्मै᳚ । 10) यस्मा॑ ए॒वैव यस्मै॒ यस्मा॑ ए॒व । 11) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 12) ए॒न॒-ञ्चि॒त्ताय॑ चि॒त्तायै॑न मेन-ञ्चि॒त्ताय॑ । 13) चि॒त्तायो॒ द्यच्छ॑त उ॒द्यच्छ॑ते चि॒त्ताय॑ चि॒त्तायो॒ द्यच्छ॑ते । 14) उ॒द्यच्छ॑ते॒ तेन॒ तेनो॒ द्यच्छ॑त उ॒द्यच्छ॑ते॒ तेन॑ । 14) उ॒द्यच्छ॑त॒ इत्यु॑त् - यच्छ॑ते । 15) तेनै॒ वैव तेन॒ तेनै॒व । 16) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 17) ए॒न॒ग्ं॒ सग्ं स मे॑न मेन॒ग्ं॒ सम् । 18) स म॑र्धय त्यर्धयति॒ सग्ं स म॑र्धयति । 19) अ॒र्ध॒य॒ति॒ पञ्च॒ पञ्चा᳚ र्धय त्यर्धयति॒ पञ्च॑ । 20) पञ्च॒ दिशो॒ दिशः॒ पञ्च॒ पञ्च॒ दिशः॑ । 21) दिशो॒ दैवी॒-र्दैवी॒-र्दिशो॒ दिशो॒ दैवीः᳚ । 22) दैवी᳚-र्य॒ज्ञं-यँ॒ज्ञ-न्दैवी॒-र्दैवी᳚-र्य॒ज्ञम् । 23) य॒ज्ञ म॑व-न्त्ववन्तु य॒ज्ञं-यँ॒ज्ञ म॑वन्तु । 24) अ॒व॒न्तु॒ दे॒वी-र्दे॒वी र॑व-न्त्ववन्तु दे॒वीः । 25) दे॒वी रितीति॑ दे॒वी-र्दे॒वी रिति॑ । 26) इत्या॑हा॒हे तीत्या॑ह । 27) आ॒ह॒ दिशो॒ दिश॑ आहाह॒ दिशः॑ । 28) दिशो॒ हि हि दिशो॒ दिशो॒ हि । 29) ह्ये॑ष ए॒ष हि ह्ये॑षः । 30) ए॒षो ऽन्वन् वे॒ष ए॒षो ऽनु॑ । 31) अनु॑ प्र॒च्यव॑ते प्र॒च्यव॑ते॒ ऽन्वनु॑ प्र॒च्यव॑ते । 32) प्र॒च्यव॒ते ऽपाप॑ प्र॒च्यव॑ते प्र॒च्यव॒ते ऽप॑ । 32) प्र॒च्यव॑त॒ इति॑ प्र - च्यव॑ते । 33) अपाम॑ति॒ मम॑ति॒ मपापा म॑तिम् । 34) अम॑ति-न्दुर्म॒ति-न्दु॑र्म॒ति मम॑ति॒ मम॑ति-न्दुर्म॒तिम् । 35) दु॒र्म॒ति-म्बाध॑माना॒ बाध॑माना दुर्म॒ति-न्दु॑र्म॒ति-म्बाध॑मानाः । 35) दु॒र्म॒तिमिति॑ दुः - म॒तिम् । 36) बाध॑माना॒ इतीति॒ बाध॑माना॒ बाध॑माना॒ इति॑ । 37) इत्या॑हा॒हे तीत्या॑ह । 38) आ॒ह॒ रक्ष॑सा॒ग्ं॒ रक्ष॑सा माहाह॒ रक्ष॑साम् । 39) रक्ष॑सा॒ मप॑हत्या॒ अप॑हत्यै॒ रक्ष॑सा॒ग्ं॒ रक्ष॑सा॒ मप॑हत्यै । 40) अप॑हत्यै रा॒यो रा॒यो ऽप॑हत्या॒ अप॑हत्यै रा॒यः । 40) अप॑हत्या॒ इत्यप॑ - ह॒त्यै॒ । 41) रा॒य स्पोषे॒ पोषे॑ रा॒यो रा॒य स्पोषे᳚ । 42) पोषे॑ य॒ज्ञप॑तिं-यँ॒ज्ञप॑ति॒-म्पोषे॒ पोषे॑ य॒ज्ञप॑तिम् । 43) य॒ज्ञप॑ति मा॒भज॑न्ती रा॒भज॑न्ती-र्य॒ज्ञप॑तिं-यँ॒ज्ञप॑ति मा॒भज॑न्तीः । 43) य॒ज्ञप॑ति॒मिति॑ य॒ज्ञ - प॒ति॒म् । 44) आ॒भज॑न्ती॒ रिती त्या॒भज॑न्ती रा॒भज॑न्ती॒ रिति॑ । 44) आ॒भज॑न्ती॒रित्या᳚ - भज॑न्तीः । 45) इत्या॑हा॒हे तीत्या॑ह । 46) आ॒ह॒ प॒शवः॑ प॒शव॑ आहाह प॒शवः॑ । 47) प॒शवो॒ वै वै प॒शवः॑ प॒शवो॒ वै । 48) वै रा॒यो रा॒यो वै वै रा॒यः । 49) रा॒य स्पोषः॒ पोषो॑ रा॒यो रा॒य स्पोषः॑ । 50) पोषः॑ प॒शू-न्प॒शू-न्पोषः॒ पोषः॑ प॒शून् । ॥ 25 ॥ (50/57)
1) प॒शू ने॒वैव प॒शू-न्प॒शू ने॒व । 2) ए॒वावा वै॒वै वाव॑ । 3) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 4) रु॒न्धे॒ ष॒ड्भि ष्ष॒ड्भी रु॑न्धे रुन्धे ष॒ड्भिः । 5) ष॒ड्भिर्-ह॑रति हरति ष॒ड्भि ष्ष॒ड्भिर्-ह॑रति । 5) ष॒ड्भिरिति॑ षट् - भिः । 6) ह॒र॒ति॒ ष-ट्थ्षड्ढ॑रति हरति॒ षट् । 7) ष-ड्वै वै ष-ट्थ्ष-ड्वै । 8) वा ऋ॒तव॑ ऋ॒तवो॒ वै वा ऋ॒तवः॑ । 9) ऋ॒तव॑ ऋ॒तुभिर्॑. ऋ॒तुभिर्॑. ऋ॒तव॑ ऋ॒तव॑ ऋ॒तुभिः॑ । 10) ऋ॒तुभि॑ रे॒वैव र्तुभिर्॑. ऋ॒तुभि॑ रे॒व । 10) ऋ॒तुभि॒रित्यृ॒तु - भिः॒ । 11) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 12) ए॒न॒ग्ं॒ ह॒र॒ति॒ ह॒र॒ त्ये॒न॒ मे॒न॒ग्ं॒ ह॒र॒ति॒ । 13) ह॒र॒ति॒ द्वे द्वे ह॑रति हरति॒ द्वे । 14) द्वे प॑रि॒गृह्य॑वती परि॒गृह्य॑वती॒ द्वे द्वे प॑रि॒गृह्य॑वती । 14) द्वे इति॒ द्वे । 15) प॒रि॒गृह्य॑वती भवतो भवतः परि॒गृह्य॑वती परि॒गृह्य॑वती भवतः । 15) प॒रि॒गृह्य॑वती॒ इति॑ परि॒गृह्य॑ - व॒ती॒ । 16) भ॒व॒तो॒ रक्ष॑सा॒ग्ं॒ रक्ष॑सा-म्भवतो भवतो॒ रक्ष॑साम् । 17) रक्ष॑सा॒ मप॑हत्या॒ अप॑हत्यै॒ रक्ष॑सा॒ग्ं॒ रक्ष॑सा॒ मप॑हत्यै । 18) अप॑हत्यै॒ सूर्य॑रश्मि॒-स्सूर्य॑रश्मि॒ रप॑हत्या॒ अप॑हत्यै॒ सूर्य॑रश्मिः । 18) अप॑हत्या॒ इत्यप॑ - ह॒त्यै॒ । 19) सूर्य॑रश्मि॒र्॒ हरि॑केशो॒ हरि॑केश॒-स्सूर्य॑रश्मि॒-स्सूर्य॑रश्मि॒र्॒ हरि॑केशः । 19) सूर्य॑रश्मि॒रिति॒ सूर्य॑ - र॒श्मिः॒ । 20) हरि॑केशः पु॒रस्ता᳚-त्पु॒रस्ता॒ द्धरि॑केशो॒ हरि॑केशः पु॒रस्ता᳚त् । 20) हरि॑केश॒ इति॒ हरि॑ - के॒शः॒ । 21) पु॒रस्ता॒ दितीति॑ पु॒रस्ता᳚-त्पु॒रस्ता॒ दिति॑ । 22) इत्या॑हा॒हे तीत्या॑ह । 23) आ॒ह॒ प्रसू᳚त्यै॒ प्रसू᳚त्या आहाह॒ प्रसू᳚त्यै । 24) प्रसू᳚त्यै॒ तत॒ स्ततः॒ प्रसू᳚त्यै॒ प्रसू᳚त्यै॒ ततः॑ । 24) प्रसू᳚त्या॒ इति॒ प्र - सू॒त्यै॒ । 25) ततः॑ पाव॒काः पा॑व॒का स्तत॒ स्ततः॑ पाव॒काः । 26) पा॒व॒का आ॒शिष॑ आ॒शिषः॑ पाव॒काः पा॑व॒का आ॒शिषः॑ । 27) आ॒शिषो॑ नो न आ॒शिष॑ आ॒शिषो॑ नः । 27) आ॒शिष॒ इत्या᳚ - शिषः॑ । 28) नो॒ जु॒ष॒न्ता॒-ञ्जु॒ष॒न्ता॒-न्नो॒ नो॒ जु॒ष॒न्ता॒म् । 29) जु॒ष॒न्ता॒ मितीति॑ जुषन्ता-ञ्जुषन्ता॒ मिति॑ । 30) इत्या॑हा॒हे तीत्या॑ह । 31) आ॒हान्न॒ मन्न॑ माहा॒ हान्न᳚म् । 32) अन्नं॒-वैँ वा अन्न॒ मन्नं॒-वैँ । 33) वै पा॑व॒कः पा॑व॒को वै वै पा॑व॒कः । 34) पा॒व॒को ऽन्न॒ मन्न॑-म्पाव॒कः पा॑व॒को ऽन्न᳚म् । 35) अन्न॑ मे॒वै वान्न॒ मन्न॑ मे॒व । 36) ए॒वावा वै॒वै वाव॑ । 37) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 38) रु॒न्धे॒ दे॒वा॒सु॒रा दे॑वासु॒रा रु॑न्धे रुन्धे देवासु॒राः । 39) दे॒वा॒सु॒रा-स्संयँ॑त्ता॒-स्संयँ॑त्ता देवासु॒रा दे॑वासु॒रा-स्संयँ॑त्ताः । 39) दे॒वा॒सु॒रा इति॑ देव - अ॒सु॒राः । 40) संयँ॑त्ता आस-न्नास॒-न्थ्संयँ॑त्ता॒-स्संयँ॑त्ता आसन्न् । 40) संयँ॑त्ता॒ इति॒ सं - य॒त्ताः॒ । 41) आ॒स॒-न्ते त आ॑स-न्नास॒-न्ते । 42) ते दे॒वा दे॒वा स्ते ते दे॒वाः । 43) दे॒वा ए॒त दे॒त-द्दे॒वा दे॒वा ए॒तत् । 44) ए॒त दप्र॑तिरथ॒ मप्र॑तिरथ मे॒त दे॒त दप्र॑तिरथम् । 45) अप्र॑तिरथ मपश्य-न्नपश्य॒-न्नप्र॑तिरथ॒ मप्र॑तिरथ मपश्यन्न् । 45) अप्र॑तिरथ॒मित्यप्र॑ति - र॒थ॒म् । 46) अ॒प॒श्य॒-न्तेन॒ तेना॑पश्य-न्नपश्य॒-न्तेन॑ । 47) तेन॒ वै वै तेन॒ तेन॒ वै । 48) वै ते ते वै वै ते । 49) ते᳚ ऽप्र॒ त्य॑प्र॒ति ते ते᳚ ऽप्र॒ति । 50) अ॒प्र॒ त्यसु॑रा॒ नसु॑रा नप्र॒ त्य॑प्र॒ त्यसु॑रान् । ॥ 26 ॥ (50/62)
1) असु॑रा नजय-न्नजय॒-न्नसु॑रा॒ नसु॑रा नजयन्न् । 2) अ॒ज॒य॒-न्त-त्तद॑जय-न्नजय॒-न्तत् । 3) तदप्र॑तिरथ॒स्या प्र॑तिरथस्य॒ त-त्तदप्र॑तिरथस्य । 4) अप्र॑तिरथस्या प्रतिरथ॒त्व म॑प्रतिरथ॒त्व मप्र॑तिरथ॒स्या प्र॑तिरथस्या प्रतिरथ॒त्वम् । 4) अप्र॑तिरथ॒स्येत्यप्र॑ति - र॒थ॒स्य॒ । 5) अ॒प्र॒ति॒र॒थ॒त्वं-यँ-द्यद॑प्रतिरथ॒त्व म॑प्रतिरथ॒त्वं-यँत् । 5) अ॒प्र॒ति॒र॒थ॒त्वमित्य॑प्रतिरथ - त्वम् । 6) यदप्र॑तिरथ॒ मप्र॑तिरथं॒-यँ-द्यदप्र॑तिरथम् । 7) अप्र॑तिरथ-न्द्वि॒तीयो᳚ द्वि॒तीयो ऽप्र॑तिरथ॒ मप्र॑तिरथ-न्द्वि॒तीयः॑ । 7) अप्र॑तिरथ॒मित्यप्र॑ति - र॒थ॒म् । 8) द्वि॒तीयो॒ होता॒ होता᳚ द्वि॒तीयो᳚ द्वि॒तीयो॒ होता᳚ । 9) होता॒ ऽन्वाहा॒ न्वाह॒ होता॒ होता॒ ऽन्वाह॑ । 10) अ॒न्वाहा᳚ प्र॒त्य॑ प्र॒त्य॑ न्वाहा॒ न्वाहा᳚ प्र॒ति । 10) अ॒न्वाहेत्य॑नु - आह॑ । 11) अ॒प्र॒ त्ये॑वैवा प्र॒त्य॑ प्र॒त्ये॑व । 12) ए॒व तेन॒ तेनै॒ वैव तेन॑ । 13) तेन॒ यज॑मानो॒ यज॑मान॒ स्तेन॒ तेन॒ यज॑मानः । 14) यज॑मानो॒ भ्रातृ॑व्या॒-न्भ्रातृ॑व्या॒न्॒. यज॑मानो॒ यज॑मानो॒ भ्रातृ॑व्यान् । 15) भ्रातृ॑व्यान् जयति जयति॒ भ्रातृ॑व्या॒-न्भ्रातृ॑व्यान् जयति । 16) ज॒य॒ त्यथो॒ अथो॑ जयति जय॒ त्यथो᳚ । 17) अथो॒ अन॑भिजित॒ मन॑भिजित॒ मथो॒ अथो॒ अन॑भिजितम् । 17) अथो॒ इत्यथो᳚ । 18) अन॑भिजित मे॒वैवा न॑भिजित॒ मन॑भिजित मे॒व । 18) अन॑भिजित॒मित्यन॑भि - जि॒त॒म् । 19) ए॒वाभ्या᳚(1॒) भ्ये॑वै वाभि । 20) अ॒भि ज॑यति जय त्य॒भ्य॑भि ज॑यति । 21) ज॒य॒ति॒ द॒श॒र्च-न्द॑श॒र्च-ञ्ज॑यति जयति दश॒र्चम् । 22) द॒श॒र्च-म्भ॑वति भवति दश॒र्च-न्द॑श॒र्च-म्भ॑वति । 22) द॒श॒र्चमिति॑ दश - ऋ॒चम् । 23) भ॒व॒ति॒ दशा᳚क्षरा॒ दशा᳚क्षरा भवति भवति॒ दशा᳚क्षरा । 24) दशा᳚क्षरा वि॒रा-ड्वि॒रा-ड्दशा᳚क्षरा॒ दशा᳚क्षरा वि॒राट् । 24) दशा᳚क्ष॒रेति॒ दश॑ - अ॒क्ष॒रा॒ । 25) वि॒रा-ड्वि॒राजा॑ वि॒राजा॑ वि॒रा-ड्वि॒रा-ड्वि॒राजा᳚ । 25) वि॒राडिति॑ वि - राट् । 26) वि॒राजे॒मा वि॒मौ वि॒राजा॑ वि॒राजे॒मौ । 26) वि॒राजेति॑ वि - राजा᳚ । 27) इ॒मौ लो॒कौ लो॒का वि॒मा वि॒मौ लो॒कौ । 28) लो॒कौ विधृ॑तौ॒ विधृ॑तौ लो॒कौ लो॒कौ विधृ॑तौ । 29) विधृ॑ता व॒नयो॑ र॒नयो॒-र्विधृ॑तौ॒ विधृ॑ता व॒नयोः᳚ । 29) विधृ॑ता॒विति॒ वि - धृ॒तौ॒ । 30) अ॒नयो᳚-र्लो॒कयो᳚-र्लो॒कयो॑ र॒नयो॑ र॒नयो᳚-र्लो॒कयोः᳚ । 31) लो॒कयो॒-र्विधृ॑त्यै॒ विधृ॑त्यै लो॒कयो᳚-र्लो॒कयो॒-र्विधृ॑त्यै । 32) विधृ॑त्या॒ अथो॒ अथो॒ विधृ॑त्यै॒ विधृ॑त्या॒ अथो᳚ । 32) विधृ॑त्या॒ इति॒ वि - धृ॒त्यै॒ । 33) अथो॒ दशा᳚क्षरा॒ दशा᳚क्ष॒रा ऽथो॒ अथो॒ दशा᳚क्षरा । 33) अथो॒ इत्यथो᳚ । 34) दशा᳚क्षरा वि॒रा-ड्वि॒रा-ड्दशा᳚क्षरा॒ दशा᳚क्षरा वि॒राट् । 34) दशा᳚क्ष॒रेति॒ दश॑ - अ॒क्ष॒रा॒ । 35) वि॒राडन्न॒ मन्नं॑-विँ॒रा-ड्वि॒राडन्न᳚म् । 35) वि॒राडिति॑ वि - राट् । 36) अन्नं॑-विँ॒रा-ड्वि॒राडन्न॒ मन्नं॑-विँ॒राट् । 37) वि॒रा-ड्वि॒राजि॑ वि॒राजि॑ वि॒रा-ड्वि॒रा-ड्वि॒राजि॑ । 37) वि॒राडिति॑ वि - राट् । 38) वि॒राज्ये॒वैव वि॒राजि॑ वि॒राज्ये॒व । 38) वि॒राजीति॑ वि - राजि॑ । 39) ए॒वा न्नाद्ये॒ ऽन्नाद्य॑ ए॒वैवा न्नाद्ये᳚ । 40) अ॒न्नाद्ये॒ प्रति॒ प्रत्य॒न्नाद्ये॒ ऽन्नाद्ये॒ प्रति॑ । 40) अ॒न्नाद्य॒ इत्य॑न्न - अद्ये᳚ । 41) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति । 42) ति॒ष्ठ॒ त्यस॒ दस॑-त्तिष्ठति तिष्ठ॒ त्यस॑त् । 43) अस॑दिवे॒वा स॒ दस॑ दिव । 44) इ॒व॒ वै वा इ॑वेव॒ वै । 45) वा अ॒न्तरि॑क्ष म॒न्तरि॑क्षं॒-वैँ वा अ॒न्तरि॑क्षम् । 46) अ॒न्तरि॑क्ष म॒न्तरि॑क्षम् । 47) अ॒न्तरि॑क्ष मिवे वा॒न्तरि॑क्ष म॒न्तरि॑क्ष मिव । 48) इ॒वाग्नी᳚ध्र॒ माग्नी᳚ध्र मिवे॒ वाग्नी᳚ध्रम् । 49) आग्नी᳚ध्र॒ माग्नी᳚द्ध्र॒ आग्नी᳚द्ध्र॒ आग्नी᳚ध्र॒ माग्नी᳚ध्र॒ माग्नी᳚द्ध्रे । 49) आग्नी᳚ध्र॒मित्याग्नि॑ - इ॒ध्र॒म् । 50) आग्नी॒द्ध्रे ऽश्मा॑न॒ मश्मा॑न॒ माग्नी᳚द्ध्र॒ आग्नी॒द्ध्रे ऽश्मा॑नम् । 50) आग्नी᳚द्ध्र॒ इत्याग्नि॑ - इ॒द्ध्रे॒ । ॥ 27 ॥ (50/70)
1) अश्मा॑न॒-न्नि न्यश्मा॑न॒ मश्मा॑न॒-न्नि । 2) नि द॑धाति दधाति॒ नि नि द॑धाति । 3) द॒धा॒ति॒ स॒त्त्वाय॑ स॒त्त्वाय॑ दधाति दधाति स॒त्त्वाय॑ । 4) स॒त्त्वाय॒ द्वाभ्या॒-न्द्वाभ्याग्ं॑ स॒त्त्वाय॑ स॒त्त्वाय॒ द्वाभ्या᳚म् । 4) स॒त्त्वायेति॑ सत् - त्वाय॑ । 5) द्वाभ्या॒-म्प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै॒ द्वाभ्या॒-न्द्वाभ्या॒-म्प्रति॑ष्ठित्यै । 6) प्रति॑ष्ठित्यै वि॒मानो॑ वि॒मानः॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै वि॒मानः॑ । 6) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । 7) वि॒मान॑ ए॒ष ए॒ष वि॒मानो॑ वि॒मान॑ ए॒षः । 7) वि॒मान॒ इति॑ वि - मानः॑ । 8) ए॒ष दि॒वो दि॒व ए॒ष ए॒ष दि॒वः । 9) दि॒वो मद्ध्ये॒ मद्ध्ये॑ दि॒वो दि॒वो मद्ध्ये᳚ । 10) मद्ध्य॑ आस्त आस्ते॒ मद्ध्ये॒ मद्ध्य॑ आस्ते । 11) आ॒स्त॒ इती त्या᳚स्त आस्त॒ इति॑ । 12) इत्या॑हा॒हे तीत्या॑ह । 13) आ॒ह॒ वि व्या॑हाह॒ वि । 14) व्ये॑वैव वि व्ये॑व । 15) ए॒वैत यै॒त यै॒वै वैतया᳚ । 16) ए॒तया॑ मिमीते मिमीत ए॒त यै॒तया॑ मिमीते । 17) मि॒मी॒ते॒ मद्ध्ये॒ मद्ध्ये॑ मिमीते मिमीते॒ मद्ध्ये᳚ । 18) मद्ध्ये॑ दि॒वो दि॒वो मद्ध्ये॒ मद्ध्ये॑ दि॒वः । 19) दि॒वो निहि॑तो॒ निहि॑तो दि॒वो दि॒वो निहि॑तः । 20) निहि॑तः॒ पृश्ञिः॒ पृश्ञि॒-र्निहि॑तो॒ निहि॑तः॒ पृश्ञिः॑ । 20) निहि॑त॒ इति॒ नि - हि॒तः॒ । 21) पृश्ञि॒ रश्मा ऽश्मा॒ पृश्ञिः॒ पृश्ञि॒ रश्मा᳚ । 22) अश्मेती त्यश्मा ऽश्मेति॑ । 23) इत्या॑हा॒हे तीत्या॑ह । 24) आ॒हान्न॒ मन्न॑ माहा॒ हान्न᳚म् । 25) अन्नं॒-वैँ वा अन्न॒ मन्नं॒-वैँ । 26) वै पृश्ञि॒ पृश्ञि॒ वै वै पृश्ञि॑ । 27) पृश्ञ्यन्न॒ मन्न॒-म्पृश्ञि॒ पृश्ञ्यन्न᳚म् । 28) अन्न॑ मे॒वै वान्न॒ मन्न॑ मे॒व । 29) ए॒वावा वै॒वै वाव॑ । 30) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 31) रु॒न्धे॒ च॒त॒सृभि॑ श्चत॒सृभी॑ रुन्धे रुन्धे चत॒सृभिः॑ । 32) च॒त॒सृभि॒रा च॑त॒सृभि॑ श्चत॒सृभि॒रा । 32) च॒त॒सृभि॒रिति॑ चत॒सृ - भिः॒ । 33) आ पुच्छा॒-त्पुच्छा॒दा पुच्छा᳚त् । 34) पुच्छा॑ देत्येति॒ पुच्छा॒-त्पुच्छा॑देति । 35) ए॒ति॒ च॒त्वारि॑ च॒त्वार्ये᳚ त्येति च॒त्वारि॑ । 36) च॒त्वारि॒ छन्दाग्ं॑सि॒ छन्दाग्ं॑सि च॒त्वारि॑ च॒त्वारि॒ छन्दाग्ं॑सि । 37) छन्दाग्ं॑सि॒ छन्दो॑भि॒ श्छन्दो॑भि॒ श्छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ छन्दो॑भिः । 38) छन्दो॑भि रे॒वैव छन्दो॑भि॒ श्छन्दो॑भि रे॒व । 38) छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ । 39) ए॒वेन्द्र॒ मिन्द्र॑ मे॒वैवेन्द्र᳚म् । 40) इन्द्रं॒-विँश्वा॒ विश्वा॒ इन्द्र॒ मिन्द्रं॒-विँश्वाः᳚ । 41) विश्वा॑ अवीवृध-न्नवीवृध॒न्॒. विश्वा॒ विश्वा॑ अवीवृधन्न् । 42) अ॒वी॒वृ॒ध॒-न्निती त्य॑वीवृध-न्नवीवृध॒-न्निति॑ । 43) इत्या॑हा॒हे तीत्या॑ह । 44) आ॒ह॒ वृद्धिं॒-वृँद्धि॑ माहाह॒ वृद्धि᳚म् । 45) वृद्धि॑ मे॒वैव वृद्धिं॒-वृँद्धि॑ मे॒व । 46) ए॒वो पाव॑र्तत उ॒पाव॑र्तत ए॒वैवो पाव॑र्तते । 47) उ॒पाव॑र्तते॒ वाजा॑नां॒-वाँजा॑ना मु॒पाव॑र्तत उ॒पाव॑र्तते॒ वाजा॑नाम् । 47) उ॒पाव॑र्तत॒ इत्यु॑प - आव॑र्तते । 48) वाजा॑ना॒ग्ं॒ सत्प॑ति॒ग्ं॒ सत्प॑तिं॒-वाँजा॑नां॒-वाँजा॑ना॒ग्ं॒ सत्प॑तिम् । 49) सत्प॑ति॒-म्पति॒-म्पति॒ग्ं॒ सत्प॑ति॒ग्ं॒ सत्प॑ति॒-म्पति᳚म् । 49) सत्प॑ति॒मिति॒ सत् - प॒ति॒म् । 50) पति॒ मितीति॒ पति॒-म्पति॒ मिति॑ । ॥ 28 ॥ (50/58)
1) इत्या॑हा॒हे तीत्या॑ह । 2) आ॒हान्न॒ मन्न॑ माहा॒ हान्न᳚म् । 3) अन्नं॒-वैँ वा अन्न॒ मन्नं॒-वैँ । 4) वै वाजो॒ वाजो॒ वै वै वाजः॑ । 5) वाजो ऽन्न॒ मन्नं॒-वाँजो॒ वाजो ऽन्न᳚म् । 6) अन्न॑ मे॒वै वान्न॒ मन्न॑ मे॒व । 7) ए॒वावा वै॒वै वाव॑ । 8) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 9) रु॒न्धे॒ सु॒म्न॒हू-स्सु॑म्न॒हू रु॑न्धे रुन्धे सुम्न॒हूः । 10) सु॒म्न॒हू-र्य॒ज्ञो य॒ज्ञ-स्सु॑म्न॒हू-स्सु॑म्न॒हू-र्य॒ज्ञः । 10) सु॒म्न॒हूरिति॑ सुम्न - हूः । 11) य॒ज्ञो दे॒वा-न्दे॒वान्. य॒ज्ञो य॒ज्ञो दे॒वान् । 12) दे॒वाग्ं आ दे॒वा-न्दे॒वाग्ं आ । 13) आ च॒ चा च॑ । 14) च॒ व॒क्ष॒-द्व॒क्ष॒च् च॒ च॒ व॒क्ष॒त् । 15) व॒क्ष॒ दितीति॑ वक्ष-द्वक्ष॒ दिति॑ । 16) इत्या॑हा॒हे तीत्या॑ह । 17) आ॒ह॒ प्र॒जा प्र॒जा ऽऽहा॑ह प्र॒जा । 18) प्र॒जा वै वै प्र॒जा प्र॒जा वै । 18) प्र॒जेति॑ प्र - जा । 19) वै प॒शवः॑ प॒शवो॒ वै वै प॒शवः॑ । 20) प॒शव॑-स्सु॒म्नग्ं सु॒म्न-म्प॒शवः॑ प॒शव॑-स्सु॒म्नम् । 21) सु॒म्न-म्प्र॒जा-म्प्र॒जाग्ं सु॒म्नग्ं सु॒म्न-म्प्र॒जाम् । 22) प्र॒जा मे॒वैव प्र॒जा-म्प्र॒जा मे॒व । 22) प्र॒जामिति॑ प्र - जाम् । 23) ए॒व प॒शू-न्प॒शू ने॒वैव प॒शून् । 24) प॒शू ना॒त्म-न्ना॒त्म-न्प॒शू-न्प॒शू ना॒त्मन्न् । 25) आ॒त्म-न्ध॑त्ते धत्त आ॒त्म-न्ना॒त्म-न्ध॑त्ते । 26) ध॒त्ते॒ यक्ष॒-द्यक्ष॑-द्धत्ते धत्ते॒ यक्ष॑त् । 27) यक्ष॑ द॒ग्नि र॒ग्नि-र्यक्ष॒-द्यक्ष॑ द॒ग्निः । 28) अ॒ग्नि-र्दे॒वो दे॒वो अ॒ग्नि र॒ग्नि-र्दे॒वः । 29) दे॒वो दे॒वा-न्दे॒वा-न्दे॒वो दे॒वो दे॒वान् । 30) दे॒वाग्ं आ दे॒वा-न्दे॒वाग्ं आ । 31) आ च॒ चा च॑ । 32) च॒ व॒क्ष॒-द्व॒क्ष॒च् च॒ च॒ व॒क्ष॒त् । 33) व॒क्ष॒ दितीति॑ वक्ष-द्वक्ष॒ दिति॑ । 34) इत्या॑हा॒हे तीत्या॑ह । 35) आ॒ह॒ स्व॒गाकृ॑त्यै स्व॒गाकृ॑त्या आहाह स्व॒गाकृ॑त्यै । 36) स्व॒गाकृ॑त्यै॒ वाज॑स्य॒ वाज॑स्य स्व॒गाकृ॑त्यै स्व॒गाकृ॑त्यै॒ वाज॑स्य । 36) स्व॒गाकृ॑त्या॒ इति॑ स्व॒गा - कृ॒त्यै॒ । 37) वाज॑स्य मा मा॒ वाज॑स्य॒ वाज॑स्य मा । 38) मा॒ प्र॒स॒वेन॑ प्रस॒वेन॑ मा मा प्रस॒वेन॑ । 39) प्र॒स॒वे नो᳚द्ग्रा॒भे णो᳚द्ग्रा॒भेण॑ प्रस॒वेन॑ प्रस॒वे नो᳚द्ग्रा॒भेण॑ । 39) प्र॒स॒वेनेति॑ प्र - स॒वेन॑ । 40) उ॒द्ग्रा॒भे णोदुदु॑ द्ग्रा॒भे णो᳚द्ग्रा॒भेणोत् । 40) उ॒द्ग्रा॒भेणेत्यू॑त् - ग्रा॒भेण॑ । 41) उद॑ग्रभी दग्रभी॒ दुदु द॑ग्रभीत् । 42) अ॒ग्र॒भी॒ दिती त्य॑ग्रभी दग्रभी॒ दिति॑ । 43) इत्या॑हा॒हे तीत्या॑ह । 44) आ॒हा॒सा व॒सा वा॑हाहा॒सौ । 45) अ॒सौ वै वा अ॒सा व॒सौ वै । 46) वा आ॑दि॒त्य आ॑दि॒त्यो वै वा आ॑दि॒त्यः । 47) आ॒दि॒त्य उ॒द्य-न्नु॒द्य-न्ना॑दि॒त्य आ॑दि॒त्य उ॒द्यन्न् । 48) उ॒द्य-न्नु॑द्ग्रा॒भ उ॑द्ग्रा॒भ उ॒द्य-न्नु॒द्य-न्नु॑द्ग्रा॒भः । 48) उ॒द्यन्नित्यु॑त् - यन्न् । 49) उ॒द्ग्रा॒भ ए॒ष ए॒ष उ॑द्ग्रा॒भ उ॑द्ग्रा॒भ ए॒षः । 49) उ॒द्ग्रा॒भ इत्यु॑त् - ग्रा॒भः । 50) ए॒ष नि॒म्रोच॑-न्नि॒म्रोच॑-न्ने॒ष ए॒ष नि॒म्रोचन्न्॑ । 51) नि॒म्रोच॑-न्निग्रा॒भो नि॑ग्रा॒भो नि॒म्रोच॑-न्नि॒म्रोच॑-न्निग्रा॒भः । 51) नि॒म्रोच॒न्निति॑ नि - म्रोचन्न्॑ । 52) नि॒ग्रा॒भो ब्रह्म॑णा॒ ब्रह्म॑णा निग्रा॒भो नि॑ग्रा॒भो ब्रह्म॑णा । 52) नि॒ग्रा॒भ इति॑ नि - ग्रा॒भः । 53) ब्रह्म॑ णै॒वैव ब्रह्म॑णा॒ ब्रह्म॑णै॒व । 54) ए॒वात्मान॑ मा॒त्मान॑ मे॒वै वात्मान᳚म् । 55) आ॒त्मान॑ मुद्गृ॒ह्णा त्यु॑द्गृ॒ह्णा त्या॒त्मान॑ मा॒त्मान॑ मुद्गृ॒ह्णाति॑ । 56) उ॒द्गृ॒ह्णाति॒ ब्रह्म॑णा॒ ब्रह्म॑ णोद्गृ॒ह्णा त्यु॑द्गृ॒ह्णाति॒ ब्रह्म॑णा । 56) उ॒द्गृ॒ह्णातीत्यु॑त् - गृ॒ह्णाति॑ । 57) ब्रह्म॑णा॒ भ्रातृ॑व्य॒-म्भ्रातृ॑व्य॒-म्ब्रह्म॑णा॒ ब्रह्म॑णा॒ भ्रातृ॑व्यम् । 58) भ्रातृ॑व्य॒-न्नि नि भ्रातृ॑व्य॒-म्भ्रातृ॑व्य॒-न्नि । 59) नि गृ॑ह्णाति गृह्णाति॒ नि नि गृ॑ह्णाति । 60) गृ॒ह्णा॒तीति॑ गृह्णाति । ॥ 29 ॥ (60/71) ॥ अ. 6 ॥
1) प्राची॒ मन्वनु॒ प्राची॒-म्प्राची॒ मनु॑ । 2) अनु॑ प्र॒दिश॑-म्प्र॒दिश॒ मन्वनु॑ प्र॒दिश᳚म् । 3) प्र॒दिश॒-म्प्र प्र प्र॒दिश॑-म्प्र॒दिश॒-म्प्र । 3) प्र॒दिश॒मिति॑ प्र - दिश᳚म् । 4) प्रेही॑हि॒ प्र प्रेहि॑ । 5) इ॒हि॒ वि॒द्वान्. वि॒द्वा नि॑हीहि वि॒द्वान् । 6) वि॒द्वा नितीति॑ वि॒द्वान्. वि॒द्वा निति॑ । 7) इत्या॑हा॒हे तीत्या॑ह । 8) आ॒ह॒ दे॒व॒लो॒क-न्दे॑वलो॒क मा॑हाह देवलो॒कम् । 9) दे॒व॒लो॒क मे॒वैव दे॑वलो॒क-न्दे॑वलो॒क मे॒व । 9) दे॒व॒लो॒कमिति॑ देव - लो॒कम् । 10) ए॒वैत यै॒त यै॒वै वैतया᳚ । 11) ए॒तयो॒ पाव॑र्तत उ॒पाव॑र्तत ए॒त यै॒तयो॒ पाव॑र्तते । 12) उ॒पाव॑र्तते॒ क्रम॑द्ध्व॒-ङ्क्रम॑द्ध्व मु॒पाव॑र्तत उ॒पाव॑र्तते॒ क्रम॑द्ध्वम् । 12) उ॒पाव॑र्तत॒ इत्यु॑प - आव॑र्तते । 13) क्रम॑द्ध्व म॒ग्निना॒ ऽग्निना॒ क्रम॑द्ध्व॒-ङ्क्रम॑द्ध्व म॒ग्निना᳚ । 14) अ॒ग्निना॒ नाक॒-न्नाक॑ म॒ग्निना॒ ऽग्निना॒ नाक᳚म् । 15) नाक॒ मितीति॒ नाक॒-न्नाक॒ मिति॑ । 16) इत्या॑हा॒हे तीत्या॑ह । 17) आ॒हे॒मा नि॒मा ना॑हाहे॒मान् । 18) इ॒मा ने॒वैवेमा नि॒मा ने॒व । 19) ए॒वैत यै॒त यै॒वै वैतया᳚ । 20) ए॒तया॑ लो॒कान् ँलो॒का ने॒त यै॒तया॑ लो॒कान् । 21) लो॒कान् क्र॑मते क्रमते लो॒कान् ँलो॒कान् क्र॑मते । 22) क्र॒म॒ते॒ पृ॒थि॒व्याः पृ॑थि॒व्याः क्र॑मते क्रमते पृथि॒व्याः । 23) पृ॒थि॒व्या अ॒ह म॒ह-म्पृ॑थि॒व्याः पृ॑थि॒व्या अ॒हम् । 24) अ॒ह मुदु द॒ह म॒ह मुत् । 25) उद॒न्तरि॑क्ष म॒न्तरि॑क्ष॒ मुदु द॒न्तरि॑क्षम् । 26) अ॒न्तरि॑क्ष॒ मा ऽन्तरि॑क्ष म॒न्तरि॑क्ष॒ मा । 27) आ ऽरु॑ह मरुह॒ मा ऽरु॑हम् । 28) अ॒रु॒ह॒ मिती त्य॑रुह मरुह॒ मिति॑ । 29) इत्या॑हा॒हे तीत्या॑ह । 30) आ॒हे॒मा नि॒मा ना॑हाहे॒मान् । 31) इ॒मा ने॒वैवेमा नि॒मा ने॒व । 32) ए॒वैत यै॒त यै॒वै वैतया᳚ । 33) ए॒तया॑ लो॒कान् ँलो॒का ने॒त यै॒तया॑ लो॒कान् । 34) लो॒का-न्थ्स॒मारो॑हति स॒मारो॑हति लो॒कान् ँलो॒का-न्थ्स॒मारो॑हति । 35) स॒मारो॑हति॒ सुव॒-स्सुव॑-स्स॒मारो॑हति स॒मारो॑हति॒ सुवः॑ । 35) स॒मारो॑ह॒तीति॑ सं - आरो॑हति । 36) सुव॒-र्यन्तो॒ यन्त॒-स्सुव॒-स्सुव॒-र्यन्तः॑ । 37) यन्तो॒ न न यन्तो॒ यन्तो॒ न । 38) नापाप॒ न नाप॑ । 39) अपे᳚क्षन्त ईक्षन्ते॒ अपापे᳚क्षन्ते । 40) ई॒क्ष॒न्त॒ इतीती᳚ क्षन्त ईक्षन्त॒ इति॑ । 41) इत्या॑हा॒हे तीत्या॑ह । 42) आ॒ह॒ सु॒व॒र्गग्ं सु॑व॒र्ग मा॑हाह सुव॒र्गम् । 43) सु॒व॒र्ग मे॒वैव सु॑व॒र्गग्ं सु॑व॒र्ग मे॒व । 43) सु॒व॒र्गमिति॑ सुवः - गम् । 44) ए॒वैत यै॒त यै॒वै वैतया᳚ । 45) ए॒तया॑ लो॒कम् ँलो॒क मे॒तयै॒ तया॑ लो॒कम् । 46) लो॒क मे᳚त्येति लो॒कम् ँलो॒क मे॑ति । 47) ए॒त्यग्ने ऽग्न॑ एत्ये॒ त्यग्ने᳚ । 48) अग्ने॒ प्र प्राग्ने ऽग्ने॒ प्र । 49) प्रेही॑हि॒ प्र प्रेहि॑ । 50) इ॒हि॒ प्र॒थ॒मः प्र॑थ॒म इ॑हीहि प्रथ॒मः । ॥ 30 ॥ (50/55)
1) प्र॒थ॒मो दे॑वय॒ता-न्दे॑वय॒ता-म्प्र॑थ॒मः प्र॑थ॒मो दे॑वय॒ताम् । 2) दे॒व॒य॒ता मितीति॑ देवय॒ता-न्दे॑वय॒ता मिति॑ । 2) दे॒व॒य॒तामिति॑ देव - य॒ताम् । 3) इत्या॑हा॒हे तीत्या॑ह । 4) आ॒हो॒भये॑षू॒ भये᳚ ष्वाहा हो॒भये॑षु । 5) उ॒भये᳚ ष्वे॒वै वोभये॑ षू॒भये᳚ ष्वे॒व । 6) ए॒वैत यै॒त यै॒वै वैतया᳚ । 7) ए॒तया॑ देवमनु॒ष्येषु॑ देवमनु॒ष्ये ष्वे॒त यै॒तया॑ देवमनु॒ष्येषु॑ । 8) दे॒व॒म॒नु॒ष्येषु॒ चक्षु॒ श्चक्षु॑-र्देवमनु॒ष्येषु॑ देवमनु॒ष्येषु॒ चक्षुः॑ । 8) दे॒व॒म॒नु॒ष्येष्विति॑ देव - म॒नु॒ष्येषु॑ । 9) चक्षु॑-र्दधाति दधाति॒ चक्षु॒ श्चक्षु॑-र्दधाति । 10) द॒धा॒ति॒ प॒ञ्चभिः॑ प॒ञ्चभि॑-र्दधाति दधाति प॒ञ्चभिः॑ । 11) प॒ञ्चभि॒ रध्यधि॑ प॒ञ्चभिः॑ प॒ञ्चभि॒ रधि॑ । 11) प॒ञ्चभि॒रिति॑ प॒ञ्च - भिः॒ । 12) अधि॑ क्रामति क्राम॒ त्यध्यधि॑ क्रामति । 13) क्रा॒म॒ति॒ पाङ्क्तः॒ पाङ्क्तः॑ क्रामति क्रामति॒ पाङ्क्तः॑ । 14) पाङ्क्तो॑ य॒ज्ञो य॒ज्ञः पाङ्क्तः॒ पाङ्क्तो॑ य॒ज्ञः । 15) य॒ज्ञो यावा॒न्॒. यावान्॑. य॒ज्ञो य॒ज्ञो यावान्॑ । 16) यावा॑ ने॒वैव यावा॒न्॒. यावा॑ ने॒व । 17) ए॒व य॒ज्ञो य॒ज्ञ ए॒वैव य॒ज्ञः । 18) य॒ज्ञ स्तेन॒ तेन॑ य॒ज्ञो य॒ज्ञ स्तेन॑ । 19) तेन॑ स॒ह स॒ह तेन॒ तेन॑ स॒ह । 20) स॒ह सु॑व॒र्गग्ं सु॑व॒र्गग्ं स॒ह स॒ह सु॑व॒र्गम् । 21) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् । 21) सु॒व॒र्गमिति॑ सुवः - गम् । 22) लो॒क मे᳚त्येति लो॒कम् ँलो॒क मे॑ति । 23) ए॒ति॒ नक्तो॒षासा॒ नक्तो॒षा सै᳚त्येति॒ नक्तो॒षासा᳚ । 24) नक्तो॒षा सेतीति॒ नक्तो॒षासा॒ नक्तो॒षा सेति॑ । 25) इति॑ पुरोनुवा॒क्या᳚-म्पुरोनुवा॒क्या॑ मितीति॑ पुरोनुवा॒क्या᳚म् । 26) पु॒रो॒नु॒वा॒क्या॑ मन्वनु॑ पुरोनुवा॒क्या᳚-म्पुरोनुवा॒क्या॑ मनु॑ । 26) पु॒रो॒नु॒वा॒क्या॑मिति॑ पुरः - अ॒नु॒वा॒क्या᳚म् । 27) अन्वा॑ हा॒हा न्वन् वा॑ह । 28) आ॒ह॒ प्रत्यै॒ प्रत्या॑ आहाह॒ प्रत्यै᳚ । 29) प्रत्या॒ अग्ने ऽग्ने॒ प्रत्यै॒ प्रत्या॒ अग्ने᳚ । 30) अग्ने॑ सहस्राक्ष सहस्रा॒क्षाग्ने ऽग्ने॑ सहस्राक्ष । 31) स॒ह॒स्रा॒क्षेतीति॑ सहस्राक्ष सहस्रा॒क्षेति॑ । 31) स॒ह॒स्रा॒क्षेति॑ सहस्र - अ॒क्ष॒ । 32) इत्या॑हा॒हे तीत्या॑ह । 33) आ॒ह॒ सा॒ह॒स्र-स्सा॑ह॒स्र आ॑हाह साह॒स्रः । 34) सा॒ह॒स्रः प्र॒जाप॑तिः प्र॒जाप॑ति-स्साह॒स्र-स्सा॑ह॒स्रः प्र॒जाप॑तिः । 35) प्र॒जाप॑तिः प्र॒जाप॑तेः प्र॒जाप॑तेः प्र॒जाप॑तिः प्र॒जाप॑तिः प्र॒जाप॑तेः । 35) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 36) प्र॒जाप॑ते॒ राप्त्या॒ आप्त्यै᳚ प्र॒जाप॑तेः प्र॒जाप॑ते॒ राप्त्यै᳚ । 36) प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ । 37) आप्त्यै॒ तस्मै॒ तस्मा॒ आप्त्या॒ आप्त्यै॒ तस्मै᳚ । 38) तस्मै॑ ते ते॒ तस्मै॒ तस्मै॑ ते । 39) ते॒ वि॒धे॒म॒ वि॒धे॒म॒ ते॒ ते॒ वि॒धे॒म॒ । 40) वि॒धे॒म॒ वाजा॑य॒ वाजा॑य विधेम विधेम॒ वाजा॑य । 41) वाजा॑य॒ स्वाहा॒ स्वाहा॒ वाजा॑य॒ वाजा॑य॒ स्वाहा᳚ । 42) स्वाहे तीति॒ स्वाहा॒ स्वाहेति॑ । 43) इत्या॑हा॒हे तीत्या॑ह । 44) आ॒हान्न॒ मन्न॑ माहा॒ हान्न᳚म् । 45) अन्नं॒-वैँ वा अन्न॒ मन्नं॒-वैँ । 46) वै वाजो॒ वाजो॒ वै वै वाजः॑ । 47) वाजो ऽन्न॒ मन्नं॒-वाँजो॒ वाजो ऽन्न᳚म् । 48) अन्न॑ मे॒वै वान्न॒ मन्न॑ मे॒व । 49) ए॒वावा वै॒वै वाव॑ । 50) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । ॥ 31 ॥ (50/58)
1) रु॒न्धे॒ द॒द्ध्नो द॒द्ध्नो रु॑न्धे रुन्धे द॒द्ध्नः । 2) द॒द्ध्नः पू॒र्णा-म्पू॒र्णा-न्द॒द्ध्नो द॒द्ध्नः पू॒र्णाम् । 3) पू॒र्णा मौदु॑म्बरी॒ मौदु॑म्बरी-म्पू॒र्णा-म्पू॒र्णा मौदु॑म्बरीम् । 4) औदु॑म्बरीग् स्वयमातृ॒ण्णायाग्॑ स्वयमातृ॒ण्णाया॒ मौदु॑म्बरी॒ मौदु॑म्बरीग् स्वयमातृ॒ण्णाया᳚म् । 5) स्व॒य॒मा॒तृ॒ण्णाया᳚-ञ्जुहोति जुहोति स्वयमातृ॒ण्णायाग्॑ स्वयमातृ॒ण्णाया᳚-ञ्जुहोति । 5) स्व॒य॒मा॒तृ॒ण्णाया॒मिति॑ स्वयं - आ॒तृ॒ण्णाया᳚म् । 6) जु॒हो॒ त्यू-र्गूर्ग् जु॑होति जुहो॒ त्यूर्क् । 7) ऊर्ग् वै वा ऊ-र्गूर्ग् वै । 8) वै दधि॒ दधि॒ वै वै दधि॑ । 9) दध्यू-र्गूर्ग् दधि॒ दध्यूर्क् । 10) ऊर्गु॑दु॒म्बर॑ उदु॒म्बर॒ ऊ-र्गू-र्गु॑दु॒म्बरः॑ । 11) उ॒दु॒म्बरो॒ ऽसा व॒सा वु॑दु॒म्बर॑ उदु॒म्बरो॒ ऽसौ । 12) अ॒सौ स्व॑यमातृ॒ण्णा स्व॑यमातृ॒ण्णा ऽसा व॒सौ स्व॑यमातृ॒ण्णा । 13) स्व॒य॒मा॒तृ॒ण्णा ऽमुष्या॑ म॒मुष्याग्॑ स्वयमातृ॒ण्णा स्व॑यमातृ॒ण्णा ऽमुष्या᳚म् । 13) स्व॒य॒मा॒तृ॒ण्णेति॑ स्वयं - आ॒तृ॒ण्णा । 14) अ॒मुष्या॑ मे॒वैवा मुष्या॑ म॒मुष्या॑ मे॒व । 15) ए॒वोर्ज॒ मूर्ज॑ मे॒वै वोर्ज᳚म् । 16) ऊर्ज॑-न्दधाति दधा॒ त्यूर्ज॒ मूर्ज॑-न्दधाति । 17) द॒धा॒ति॒ तस्मा॒-त्तस्मा᳚-द्दधाति दधाति॒ तस्मा᳚त् । 18) तस्मा॑द॒मुतो॒ ऽमुत॒ स्तस्मा॒-त्तस्मा॑ द॒मुतः॑ । 19) अ॒मुतो॒ ऽर्वाची॑ म॒र्वाची॑ म॒मुतो॒ ऽमुतो॒ ऽर्वाची᳚म् । 20) अ॒र्वाची॒ मूर्ज॒ मूर्ज॑ म॒र्वाची॑ म॒र्वाची॒ मूर्ज᳚म् । 21) ऊर्ज॒ मुपो पोर्ज॒ मूर्ज॒ मुप॑ । 22) उप॑ जीवामो जीवाम॒ उपोप॑ जीवामः । 23) जी॒वा॒म॒ स्ति॒सृभि॑ स्ति॒सृभि॑-र्जीवामो जीवाम स्ति॒सृभिः॑ । 24) ति॒सृभि॑-स्सादयति सादयति ति॒सृभि॑ स्ति॒सृभि॑-स्सादयति । 24) ति॒सृभि॒रिति॑ ति॒सृ - भिः॒ । 25) सा॒द॒य॒ति॒ त्रि॒वृ-त्त्रि॒वृ-थ्सा॑दयति सादयति त्रि॒वृत् । 26) त्रि॒वृ-द्वै वै त्रि॒वृ-त्त्रि॒वृ-द्वै । 26) त्रि॒वृदिति॑ त्रि - वृत् । 27) वा अ॒ग्नि र॒ग्नि-र्वै वा अ॒ग्निः । 28) अ॒ग्नि-र्यावा॒न्॒. यावा॑ न॒ग्नि र॒ग्नि-र्यावान्॑ । 29) यावा॑ ने॒वैव यावा॒न्॒. यावा॑ ने॒व । 30) ए॒वाग्नि र॒ग्नि रे॒वै वाग्निः । 31) अ॒ग्नि स्त-न्त म॒ग्नि र॒ग्नि स्तम् । 32) त-म्प्र॑ति॒ष्ठा-म्प्र॑ति॒ष्ठा-न्त-न्त-म्प्र॑ति॒ष्ठाम् । 33) प्र॒ति॒ष्ठा-ङ्ग॑मयति गमयति प्रति॒ष्ठा-म्प्र॑ति॒ष्ठा-ङ्ग॑मयति । 33) प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् । 34) ग॒म॒य॒ति॒ प्रेद्धः॒ प्रेद्धो॑ गमयति गमयति॒ प्रेद्धः॑ । 35) प्रेद्धो॑ अग्ने अग्ने॒ प्रेद्धः॒ प्रेद्धो॑ अग्ने । 35) प्रेद्ध॒ इति॒ प्र - इ॒द्धः॒ । 36) अ॒ग्ने॒ दी॒दि॒हि॒ दी॒दि॒ह्य॒ग्ने॒ अ॒ग्ने॒ दी॒दि॒हि॒ । 37) दी॒दि॒हि॒ पु॒रः पु॒रो दी॑दिहि दीदिहि पु॒रः । 38) पु॒रो नो॑ नः पु॒रः पु॒रो नः॑ । 39) न॒ इतीति॑ नो न॒ इति॑ । 40) इत्यौदु॑म्बरी॒ मौदु॑म्बरी॒ मिती त्यौदु॑म्बरीम् । 41) औदु॑म्बरी॒ मौदु॑म्बरी॒ मौदु॑म्बरी॒ मा । 42) आ द॑धाति दधा॒त्या द॑धाति । 43) द॒धा॒ त्ये॒षैषा द॑धाति दधा त्ये॒षा । 44) ए॒षा वै वा ए॒षैषा वै । 45) वै सू॒र्मी सू॒र्मी वै वै सू॒र्मी । 46) सू॒र्मी कर्ण॑कावती॒ कर्ण॑कावती सू॒र्मी सू॒र्मी कर्ण॑कावती । 47) कर्ण॑काव त्ये॒त यै॒तया॒ कर्ण॑कावती॒ कर्ण॑काव त्ये॒तया᳚ । 47) कर्ण॑काव॒तीति॒ कर्ण॑क - व॒ती॒ । 48) ए॒तया॑ ह है॒त यै॒तया॑ ह । 49) ह॒ स्म॒ स्म॒ ह॒ ह॒ स्म॒ । 50) स्म॒ वै वै स्म॑ स्म॒ वै । ॥ 32 ॥ (50/57)
1) वै दे॒वा दे॒वा वै वै दे॒वाः । 2) दे॒वा असु॑राणा॒ मसु॑राणा-न्दे॒वा दे॒वा असु॑राणाम् । 3) असु॑राणाग्ं शतत॒र्॒हा-ञ्छ॑तत॒र्॒हा नसु॑राणा॒ मसु॑राणाग्ं शतत॒र्॒हान् । 4) श॒त॒त॒र्॒हाग् स्तृग्ं॑हन्ति तृग्ंहन्ति शतत॒र्॒हा-ञ्छ॑तत॒र्॒हाग् स्तृग्ं॑हन्ति । 4) श॒त॒त॒र्॒हानिति॑ शत - त॒र्॒हान् । 5) तृ॒ग्ं॒ह॒न्ति॒ य-द्य-त्तृग्ं॑हन्ति तृग्ंहन्ति॒ यत् । 6) यदे॒त यै॒तया॒ य-द्यदे॒तया᳚ । 7) ए॒तया॑ स॒मिधग्ं॑ स॒मिध॑ मे॒त यै॒तया॑ स॒मिध᳚म् । 8) स॒मिध॑ मा॒दधा᳚ त्या॒दधा॑ति स॒मिधग्ं॑ स॒मिध॑ मा॒दधा॑ति । 8) स॒मिध॒मिति॑ सं - इध᳚म् । 9) आ॒दधा॑ति॒ वज्रं॒-वँज्र॑ मा॒दधा᳚ त्या॒दधा॑ति॒ वज्र᳚म् । 9) आ॒दधा॒तीत्या᳚ - दधा॑ति । 10) वज्र॑ मे॒वैव वज्रं॒-वँज्र॑ मे॒व । 11) ए॒वैत दे॒त दे॒वै वैतत् । 12) ए॒त च्छ॑त॒घ्नीग्ं श॑त॒घ्नी मे॒त दे॒त च्छ॑त॒घ्नीम् । 13) श॒त॒घ्नीं-यँज॑मानो॒ यज॑मान-श्शत॒घ्नीग्ं श॑त॒घ्नीं-यँज॑मानः । 13) श॒त॒घ्नीमिति॑ शत - घ्नीम् । 14) यज॑मानो॒ भ्रातृ॑व्याय॒ भ्रातृ॑व्याय॒ यज॑मानो॒ यज॑मानो॒ भ्रातृ॑व्याय । 15) भ्रातृ॑व्याय॒ प्र प्र भ्रातृ॑व्याय॒ भ्रातृ॑व्याय॒ प्र । 16) प्र ह॑रति हरति॒ प्र प्र ह॑रति । 17) ह॒र॒ति॒ स्तृत्यै॒ स्तृत्यै॑ हरति हरति॒ स्तृत्यै᳚ । 18) स्तृत्या॒ अछ॑म्बट्कार॒ मछ॑म्बट्कार॒ग्ग्॒ स्तृत्यै॒ स्तृत्या॒ अछ॑म्बट्कारम् । 19) अछ॑म्बट्कारं-विँ॒धेम॑ वि॒धेमा छ॑म्बट्कार॒ मछ॑म्बट्कारं-विँ॒धेम॑ । 19) अछ॑म्बट्कार॒मित्यछ॑म्बट् - का॒र॒म् । 20) वि॒धेम॑ ते ते वि॒धेम॑ वि॒धेम॑ ते । 21) ते॒ प॒र॒मे प॑र॒मे ते॑ ते पर॒मे । 22) प॒र॒मे जन्म॒न् जन्म॑-न्पर॒मे प॑र॒मे जन्मन्न्॑ । 23) जन्म॑-न्नग्ने अग्ने॒ जन्म॒न् जन्म॑-न्नग्ने । 24) अ॒ग्न॒ इतीत्य॑ग्ने ऽग्न॒ इति॑ । 25) इति॒ वैक॑ङ्कतीं॒-वैँक॑ङ्कती॒ मितीति॒ वैक॑ङ्कतीम् । 26) वैक॑ङ्कती॒ मा वैक॑ङ्कतीं॒-वैँक॑ङ्कती॒ मा । 27) आ द॑धाति दधा॒त्या द॑धाति । 28) द॒धा॒ति॒ भा भा द॑धाति दधाति॒ भाः । 29) भा ए॒वैव भा भा ए॒व । 30) ए॒वावा वै॒वै वाव॑ । 31) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 32) रु॒न्धे॒ ता-न्ताग्ं रु॑न्धे रुन्धे॒ ताम् । 33) ताग्ं स॑वि॒तु-स्स॑वि॒तु स्ता-न्ताग्ं स॑वि॒तुः । 34) स॒वि॒तु-र्वरे᳚ण्यस्य॒ वरे᳚ण्यस्य सवि॒तु-स्स॑वि॒तु-र्वरे᳚ण्यस्य । 35) वरे᳚ण्यस्य चि॒त्रा-ञ्चि॒त्रां-वँरे᳚ण्यस्य॒ वरे᳚ण्यस्य चि॒त्राम् । 36) चि॒त्रा मितीति॑ चि॒त्रा-ञ्चि॒त्रा मिति॑ । 37) इति॑ शमी॒मयीग्ं॑ शमी॒मयी॒ मितीति॑ शमी॒मयी᳚म् । 38) श॒मी॒मयी॒ग्ं॒ शान्त्यै॒ शान्त्यै॑ शमी॒मयीग्ं॑ शमी॒मयी॒ग्ं॒ शान्त्यै᳚ । 38) श॒मी॒मयी॒मिति॑ शमी - मयी᳚म् । 39) शान्त्या॑ अ॒ग्नि र॒ग्नि-श्शान्त्यै॒ शान्त्या॑ अ॒ग्निः । 40) अ॒ग्नि-र्वा॑ वा॒ ऽग्नि र॒ग्नि-र्वा᳚ । 41) वा॒ ह॒ ह॒ वा॒ वा॒ ह॒ । 42) ह॒ वै वै ह॑ ह॒ वै । 43) वा अ॑ग्नि॒चित॑ मग्नि॒चितं॒-वैँ वा अ॑ग्नि॒चित᳚म् । 44) अ॒ग्नि॒चित॑-न्दु॒हे दु॒हे᳚ ऽग्नि॒चित॑ मग्नि॒चित॑-न्दु॒हे । 44) अ॒ग्नि॒चित॒मित्य॑ग्नि - चित᳚म् । 45) दु॒हे᳚ ऽग्नि॒चि द॑ग्नि॒चि-द्दु॒हे दु॒हे᳚ ऽग्नि॒चित् । 46) अ॒ग्नि॒चि-द्वा॑ वा ऽग्नि॒चि द॑ग्नि॒चि-द्वा᳚ । 46) अ॒ग्नि॒चिदित्य॑ग्नि - चित् । 47) वा॒ ऽग्नि म॒ग्निं-वाँ॑ वा॒ ऽग्निम् । 48) अ॒ग्नि-न्दु॑हे दुहे॒ ऽग्नि म॒ग्नि-न्दु॑हे । 49) दु॒हे॒ ता-न्ता-न्दु॑हे दुहे॒ ताम् । 50) ताग्ं स॑वि॒तु-स्स॑वि॒तु स्ता-न्ताग्ं स॑वि॒तुः । ॥ 33 ॥ (50/58)
1) स॒वि॒तु-र्वरे᳚ण्यस्य॒ वरे᳚ण्यस्य सवि॒तु-स्स॑वि॒तु-र्वरे᳚ण्यस्य । 2) वरे᳚ण्यस्य चि॒त्रा-ञ्चि॒त्रां-वँरे᳚ण्यस्य॒ वरे᳚ण्यस्य चि॒त्राम् । 3) चि॒त्रा मितीति॑ चि॒त्रा-ञ्चि॒त्रा मिति॑ । 4) इत्या॑हा॒हे तीत्या॑ह । 5) आ॒है॒ष ए॒ष आ॑हा है॒षः । 6) ए॒ष वै वा ए॒ष ए॒ष वै । 7) वा अ॒ग्ने र॒ग्ने-र्वै वा अ॒ग्नेः । 8) अ॒ग्ने-र्दोहो॒ दोहो॒ ऽग्ने र॒ग्ने-र्दोहः॑ । 9) दोह॒ स्त-न्त-न्दोहो॒ दोह॒ स्तम् । 10) त म॑स्यास्य॒ त-न्त म॑स्य । 11) अ॒स्य॒ कण्वः॒ कण्वो᳚ ऽस्यास्य॒ कण्वः॑ । 12) कण्व॑ ए॒वैव कण्वः॒ कण्व॑ ए॒व । 13) ए॒व श्रा॑य॒स-श्श्रा॑य॒स ए॒वैव श्रा॑य॒सः । 14) श्रा॒य॒सो॑ ऽवे दवे च्छ्राय॒स-श्श्रा॑य॒सो॑ ऽवेत् । 15) अ॒वे॒-त्तेन॒ तेना॑ वे दवे॒-त्तेन॑ । 16) तेन॑ ह ह॒ तेन॒ तेन॑ ह । 17) ह॒ स्म॒ स्म॒ ह॒ ह॒ स्म॒ । 18) स्मै॒न॒ मे॒न॒ग्ग्॒ स्म॒ स्मै॒न॒म् । 19) ए॒न॒ग्ं॒ स स ए॑न मेन॒ग्ं॒ सः । 20) स दु॑हे दुहे॒ स स दु॑हे । 21) दु॒हे॒ य-द्य-द्दु॑हे दुहे॒ यत् । 22) यदे॒त यै॒तया॒ य-द्यदे॒तया᳚ । 23) ए॒तया॑ स॒मिधग्ं॑ स॒मिध॑ मे॒त यै॒तया॑ स॒मिध᳚म् । 24) स॒मिध॑ मा॒दधा᳚ त्या॒दधा॑ति स॒मिधग्ं॑ स॒मिध॑ मा॒दधा॑ति । 24) स॒मिध॒मिति॑ सं - इध᳚म् । 25) आ॒दधा᳚ त्यग्नि॒चि द॑ग्नि॒चि दा॒दधा᳚ त्या॒दधा᳚ त्यग्नि॒चित् । 25) आ॒दधा॒तीत्या᳚ - दधा॑ति । 26) अ॒ग्नि॒चि दे॒वैवा ग्नि॒चि द॑ग्नि॒चि दे॒व । 26) अ॒ग्नि॒चिदित्य॑ग्नि - चित् । 27) ए॒व त-त्तदे॒ वैव तत् । 28) तद॒ग्नि म॒ग्नि-न्त-त्तद॒ग्निम् । 29) अ॒ग्नि-न्दु॑हे दुहे॒ ऽग्नि म॒ग्नि-न्दु॑हे । 30) दु॒हे॒ स॒प्त स॒प्त दु॑हे दुहे स॒प्त । 31) स॒प्त ते॑ ते स॒प्त स॒प्त ते᳚ । 32) ते॒ अ॒ग्ने॒ ऽग्ने॒ ते॒ ते॒ अ॒ग्ने॒ । 33) अ॒ग्ने॒ स॒मिध॑-स्स॒मिधो᳚ ऽग्ने ऽग्ने स॒मिधः॑ । 34) स॒मिध॑-स्स॒प्त स॒प्त स॒मिध॑-स्स॒मिध॑-स्स॒प्त । 34) स॒मिध॒ इति॑ सं - इधः॑ । 35) स॒प्त जि॒ह्वा जि॒ह्वा-स्स॒प्त स॒प्त जि॒ह्वाः । 36) जि॒ह्वा इतीति॑ जि॒ह्वा जि॒ह्वा इति॑ । 37) इत्या॑हा॒हे तीत्या॑ह । 38) आ॒ह॒ स॒प्त स॒प्ताहा॑ह स॒प्त । 39) स॒प्तैवैव स॒प्त स॒प्तैव । 40) ए॒वास्या᳚ स्यै॒वै वास्य॑ । 41) अ॒स्य॒ साप्ता॑नि॒ साप्ता᳚ न्यस्यास्य॒ साप्ता॑नि । 42) साप्ता॑नि प्रीणाति प्रीणाति॒ साप्ता॑नि॒ साप्ता॑नि प्रीणाति । 43) प्री॒णा॒ति॒ पू॒र्णया॑ पू॒र्णया᳚ प्रीणाति प्रीणाति पू॒र्णया᳚ । 44) पू॒र्णया॑ जुहोति जुहोति पू॒र्णया॑ पू॒र्णया॑ जुहोति । 45) जु॒हो॒ति॒ पू॒र्णः पू॒र्णो जु॑होति जुहोति पू॒र्णः । 46) पू॒र्ण इ॑वेव पू॒र्णः पू॒र्ण इ॑व । 47) इ॒व॒ हि हीवे॑ व॒ हि । 48) हि प्र॒जाप॑तिः प्र॒जाप॑ति॒र्॒ हि हि प्र॒जाप॑तिः । 49) प्र॒जाप॑तिः प्र॒जाप॑तेः प्र॒जाप॑तेः प्र॒जाप॑तिः प्र॒जाप॑तिः प्र॒जाप॑तेः । 49) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 50) प्र॒जाप॑ते॒ राप्त्या॒ आप्त्यै᳚ प्र॒जाप॑तेः प्र॒जाप॑ते॒ राप्त्यै᳚ । 50) प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ । ॥ 34 ॥ (50/56)
1) आप्त्यै॒ न्यू॑नया॒ न्यू॑न॒या ऽऽप्त्या॒ आप्त्यै॒ न्यू॑नया । 2) न्यू॑नया जुहोति जुहोति॒ न्यू॑नया॒ न्यू॑नया जुहोति । 2) न्यू॑न॒येति॒ नि - ऊ॒न॒या॒ । 3) जु॒हो॒ति॒ न्यू॑ना॒-न्न्यू॑नाज् जुहोति जुहोति॒ न्यू॑नात् । 4) न्यू॑ना॒द्धि हि न्यू॑ना॒-न्न्यू॑ना॒द्धि । 4) न्यू॑ना॒दिति॒ नि - ऊ॒ना॒त् । 5) हि प्र॒जाप॑तिः प्र॒जाप॑ति॒र्॒ हि हि प्र॒जाप॑तिः । 6) प्र॒जाप॑तिः प्र॒जाः प्र॒जाः प्र॒जाप॑तिः प्र॒जाप॑तिः प्र॒जाः । 6) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 7) प्र॒जा असृ॑ज॒ता सृ॑जत प्र॒जाः प्र॒जा असृ॑जत । 7) प्र॒जा इति॑ प्र - जाः । 8) असृ॑जत प्र॒जाना᳚-म्प्र॒जाना॒ मसृ॑ज॒ता सृ॑जत प्र॒जाना᳚म् । 9) प्र॒जाना॒ग्ं॒ सृष्ट्यै॒ सृष्ट्यै᳚ प्र॒जाना᳚-म्प्र॒जाना॒ग्ं॒ सृष्ट्यै᳚ । 9) प्र॒जाना॒मिति॑ प्र - जाना᳚म् । 10) सृष्ट्या॑ अ॒ग्नि र॒ग्नि-स्सृष्ट्यै॒ सृष्ट्या॑ अ॒ग्निः । 11) अ॒ग्नि-र्दे॒वेभ्यो॑ दे॒वेभ्यो॒ ऽग्नि र॒ग्नि-र्दे॒वेभ्यः॑ । 12) दे॒वेभ्यो॒ निला॑यत॒ निला॑यत दे॒वेभ्यो॑ दे॒वेभ्यो॒ निला॑यत । 13) निला॑यत॒ स स निला॑यत॒ निला॑यत॒ सः । 14) स दिशो॒ दिश॒-स्स स दिशः॑ । 15) दिशो ऽन्वनु॒ दिशो॒ दिशो ऽनु॑ । 16) अनु॒ प्र प्राण्वनु॒ प्र । 17) प्रावि॑श दविश॒-त्प्र प्रावि॑शत् । 18) अ॒वि॒श॒ज् जुह्व॒ज् जुह्व॑ दविश दविश॒ज् जुह्व॑त् । 19) जुह्व॒-न्मन॑सा॒ मन॑सा॒ जुह्व॒ज् जुह्व॒-न्मन॑सा । 20) मन॑सा॒ दिशो॒ दिशो॒ मन॑सा॒ मन॑सा॒ दिशः॑ । 21) दिशो᳚ ध्याये-द्ध्याये॒-द्दिशो॒ दिशो᳚ ध्यायेत् । 22) ध्या॒ये॒-द्दि॒ग्भ्यो दि॒ग्भ्यो ध्या॑ये-द्ध्याये-द्दि॒ग्भ्यः । 23) दि॒ग्भ्य ए॒वैव दि॒ग्भ्यो दि॒ग्भ्य ए॒व । 23) दि॒ग्भ्य इति॑ दिक् - भ्यः । 24) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 25) ए॒न॒ मवा वै॑न मेन॒ मव॑ । 26) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 27) रु॒न्धे॒ द॒द्ध्ना द॒द्ध्ना रु॑न्धे रुन्धे द॒द्ध्ना । 28) द॒द्ध्ना पु॒रस्ता᳚-त्पु॒रस्ता᳚-द्द॒द्ध्ना द॒द्ध्ना पु॒रस्ता᳚त् । 29) पु॒रस्ता᳚ज् जुहोति जुहोति पु॒रस्ता᳚-त्पु॒रस्ता᳚ज् जुहोति । 30) जु॒हो॒ त्याज्ये॒ना ज्ये॑न जुहोति जुहो॒ त्याज्ये॑न । 31) आज्ये॑नो॒ परि॑ष्टा दु॒परि॑ष्टा॒ दाज्ये॒ना ज्ये॑नो॒ परि॑ष्टात् । 32) उ॒परि॑ष्टा॒-त्तेज॒ स्तेज॑ उ॒परि॑ष्टा दु॒परि॑ष्टा॒-त्तेजः॑ । 33) तेज॑श्च च॒ तेज॒ स्तेज॑ श्च । 34) चै॒वैव च॑ चै॒व । 35) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ । 36) अ॒स्मा॒ इ॒न्द्रि॒य मि॑न्द्रि॒य म॑स्मा अस्मा इन्द्रि॒यम् । 37) इ॒न्द्रि॒य-ञ्च॑ चेन्द्रि॒य मि॑न्द्रि॒य-ञ्च॑ । 38) च॒ स॒मीची॑ स॒मीची॑ च च स॒मीची᳚ । 39) स॒मीची॑ दधाति दधाति स॒मीची॑ स॒मीची॑ दधाति । 39) स॒मीची॒ इति॑ स॒मीची᳚ । 40) द॒धा॒ति॒ द्वाद॑शकपालो॒ द्वाद॑शकपालो दधाति दधाति॒ द्वाद॑शकपालः । 41) द्वाद॑शकपालो वैश्वान॒रो वै᳚श्वान॒रो द्वाद॑शकपालो॒ द्वाद॑शकपालो वैश्वान॒रः । 41) द्वाद॑शकपाल॒ इति॒ द्वाद॑श - क॒पा॒लः॒ । 42) वै॒श्वा॒न॒रो भ॑वति भवति वैश्वान॒रो वै᳚श्वान॒रो भ॑वति । 43) भ॒व॒ति॒ द्वाद॑श॒ द्वाद॑श भवति भवति॒ द्वाद॑श । 44) द्वाद॑श॒ मासा॒ मासा॒ द्वाद॑श॒ द्वाद॑श॒ मासाः᳚ । 45) मासा᳚-स्संवँथ्स॒र-स्सं॑वँथ्स॒रो मासा॒ मासा᳚-स्संवँथ्स॒रः । 46) सं॒वँ॒थ्स॒र-स्सं॑वँथ्स॒रः । 46) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः । 47) सं॒वँ॒थ्स॒रो᳚ ऽग्नि र॒ग्नि-स्सं॑वँथ्स॒र-स्सं॑वँथ्स॒रो᳚ ऽग्निः । 47) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः । 48) अ॒ग्नि-र्वै᳚श्वान॒रो वै᳚श्वान॒रो᳚ ऽग्नि र॒ग्नि-र्वै᳚श्वान॒रः । 49) वै॒श्वा॒न॒र-स्सा॒क्षा-थ्सा॒क्षा-द्वै᳚श्वान॒रो वै᳚श्वान॒र-स्सा॒क्षात् । 50) सा॒क्षा दे॒वैव सा॒क्षा-थ्सा॒क्षा दे॒व । 50) सा॒क्षादिति॑ स - अ॒क्षात् । ॥ 35 ॥ (50/61)
1) ए॒व वै᳚श्वान॒रं-वैँ᳚श्वान॒र मे॒वैव वै᳚श्वान॒रम् । 2) वै॒श्वा॒न॒र मवाव॑ वैश्वान॒रं-वैँ᳚श्वान॒र मव॑ । 3) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 4) रु॒न्धे॒ य-द्य-द्रु॑न्धे रुन्धे॒ यत् । 5) य-त्प्र॑याजानूया॒जा-न्प्र॑याजानूया॒जान्. य-द्य-त्प्र॑याजानूया॒जान्न् । 6) प्र॒या॒जा॒नू॒या॒जान् कु॒र्या-त्कु॒र्या-त्प्र॑याजानूया॒जा-न्प्र॑याजानूया॒जान् कु॒र्यात् । 6) प्र॒या॒जा॒नू॒या॒जानिति॑ प्रयाज - अ॒नू॒या॒जान् । 7) कु॒र्या-द्विक॑स्ति॒-र्विक॑स्तिः कु॒र्या-त्कु॒र्या-द्विक॑स्तिः । 8) विक॑स्ति॒-स्सा सा विक॑स्ति॒-र्विक॑स्ति॒-स्सा । 8) विक॑स्ति॒रिति॒ वि - क॒स्तिः॒ । 9) सा य॒ज्ञस्य॑ य॒ज्ञस्य॒ सा सा य॒ज्ञस्य॑ । 10) य॒ज्ञस्य॑ दर्विहो॒म-न्द॑र्विहो॒मं-यँ॒ज्ञस्य॑ य॒ज्ञस्य॑ दर्विहो॒मम् । 11) द॒र्वि॒हो॒म-ङ्क॑रोति करोति दर्विहो॒म-न्द॑र्विहो॒म-ङ्क॑रोति । 11) द॒र्वि॒हो॒ममिति॑ दर्वि - हो॒मम् । 12) क॒रो॒ति॒ य॒ज्ञस्य॑ य॒ज्ञस्य॑ करोति करोति य॒ज्ञस्य॑ । 13) य॒ज्ञस्य॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै य॒ज्ञस्य॑ य॒ज्ञस्य॒ प्रति॑ष्ठित्यै । 14) प्रति॑ष्ठित्यै रा॒ष्ट्रग्ं रा॒ष्ट्र-म्प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै रा॒ष्ट्रम् । 14) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । 15) रा॒ष्ट्रं-वैँ वै रा॒ष्ट्रग्ं रा॒ष्ट्रं-वैँ । 16) वै वै᳚श्वान॒रो वै᳚श्वान॒रो वै वै वै᳚श्वान॒रः । 17) वै॒श्वा॒न॒रो वि-ड्वि-ड्वै᳚श्वान॒रो वै᳚श्वान॒रो विट् । 18) विण् म॒रुतो॑ म॒रुतो॒ वि-ड्विण् म॒रुतः॑ । 19) म॒रुतो॑ वैश्वान॒रं-वैँ᳚श्वान॒र-म्म॒रुतो॑ म॒रुतो॑ वैश्वान॒रम् । 20) वै॒श्वा॒न॒रग्ं हु॒त्वा हु॒त्वा वै᳚श्वान॒रं-वैँ᳚श्वान॒रग्ं हु॒त्वा । 21) हु॒त्वा मा॑रु॒ता-न्मा॑रु॒तान्. हु॒त्वा हु॒त्वा मा॑रु॒तान् । 22) मा॒रु॒तान् जु॑होति जुहोति मारु॒ता-न्मा॑रु॒तान् जु॑होति । 23) जु॒हो॒ति॒ रा॒ष्ट्रे रा॒ष्ट्रे जु॑होति जुहोति रा॒ष्ट्रे । 24) रा॒ष्ट्र ए॒वैव रा॒ष्ट्रे रा॒ष्ट्र ए॒व । 25) ए॒व विशं॒-विँश॑ मे॒वैव विश᳚म् । 26) विश॒ मन्वनु॒ विशं॒-विँश॒ मनु॑ । 27) अनु॑ बद्ध्नाति बद्ध्ना॒ त्यन्वनु॑ बद्ध्नाति । 28) ब॒द्ध्ना॒ त्यु॒च्चै रु॒च्चै-र्ब॑द्ध्नाति बद्ध्ना त्यु॒च्चैः । 29) उ॒च्चै-र्वै᳚श्वान॒रस्य॑ वैश्वान॒र स्यो॒च्चै रु॒च्चै-र्वै᳚श्वान॒रस्य॑ । 30) वै॒श्वा॒न॒रस्या वै᳚श्वान॒रस्य॑ वैश्वान॒रस्या । 31) आ श्रा॑वयति श्रावय॒त्या श्रा॑वयति । 32) श्रा॒व॒य॒ त्यु॒पा॒ग्ं॒शू॑ पा॒ग्ं॒शु श्रा॑वयति श्रावय त्युपा॒ग्ं॒शु । 33) उ॒पा॒ग्ं॒शु मा॑रु॒ता-न्मा॑रु॒ता नु॑पा॒ग्ं॒शू॑ पा॒ग्ं॒शु मा॑रु॒तान् । 33) उ॒पा॒ग्॒श्वित्यु॑प - अ॒ग्ं॒शु । 34) मा॒रु॒तान् जु॑होति जुहोति मारु॒ता-न्मा॑रु॒तान् जु॑होति । 35) जु॒हो॒ति॒ तस्मा॒-त्तस्मा᳚ज् जुहोति जुहोति॒ तस्मा᳚त् । 36) तस्मा᳚-द्रा॒ष्ट्रग्ं रा॒ष्ट्र-न्तस्मा॒-त्तस्मा᳚-द्रा॒ष्ट्रम् । 37) रा॒ष्ट्रं-विँशं॒-विँशग्ं॑ रा॒ष्ट्रग्ं रा॒ष्ट्रं-विँश᳚म् । 38) विश॒ मत्यति॒ विशं॒-विँश॒ मति॑ । 39) अति॑ वदति वद॒ त्य त्यति॑ वदति । 40) व॒द॒ति॒ मा॒रु॒ता मा॑रु॒ता व॑दति वदति मारु॒ताः । 41) मा॒रु॒ता भ॑वन्ति भवन्ति मारु॒ता मा॑रु॒ता भ॑वन्ति । 42) भ॒व॒न्ति॒ म॒रुतो॑ म॒रुतो॑ भवन्ति भवन्ति म॒रुतः॑ । 43) म॒रुतो॒ वै वै म॒रुतो॑ म॒रुतो॒ वै । 44) वै दे॒वाना᳚-न्दे॒वानां॒-वैँ वै दे॒वाना᳚म् । 45) दे॒वानां॒-विँशो॒ विशो॑ दे॒वाना᳚-न्दे॒वानां॒-विँशः॑ । 46) विशो॑ देववि॒शेन॑ देववि॒शेन॒ विशो॒ विशो॑ देववि॒शेन॑ । 47) दे॒व॒वि॒शे नै॒वैव दे॑ववि॒शेन॑ देववि॒शेनै॒व । 47) दे॒व॒वि॒शेनेति॑ देव - वि॒शेन॑ । 48) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ । 49) अ॒स्मै॒ म॒नु॒ष्य॒वि॒श-म्म॑नुष्यवि॒श म॑स्मा अस्मै मनुष्यवि॒शम् । 50) म॒नु॒ष्य॒वि॒श मवाव॑ मनुष्यवि॒श-म्म॑नुष्यवि॒श मव॑ । 50) म॒नु॒ष्य॒वि॒शमिति॑ मनुष्य - वि॒शम् । 51) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 52) रु॒न्धे॒ स॒प्त स॒प्त रु॑न्धे रुन्धे स॒प्त । 53) स॒प्त भ॑वन्ति भवन्ति स॒प्त स॒प्त भ॑वन्ति । 54) भ॒व॒न्ति॒ स॒प्तग॑णा-स्स॒प्तग॑णा भवन्ति भवन्ति स॒प्तग॑णाः । 55) स॒प्तग॑णा॒ वै वै स॒प्तग॑णा-स्स॒प्तग॑णा॒ वै । 55) स॒प्तग॑णा॒ इति॑ स॒प्त - ग॒णाः॒ । 56) वै म॒रुतो॑ म॒रुतो॒ वै वै म॒रुतः॑ । 57) म॒रुतो॑ गण॒शो ग॑ण॒शो म॒रुतो॑ म॒रुतो॑ गण॒शः । 58) ग॒ण॒श ए॒वैव ग॑ण॒शो ग॑ण॒श ए॒व । 58) ग॒ण॒श इति॑ गण - शः । 59) ए॒व विशं॒-विँश॑ मे॒वैव विश᳚म् । 60) विश॒ मवाव॒ विशं॒-विँश॒ मव॑ । 61) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 62) रु॒न्धे॒ ग॒णेन॑ ग॒णेन॑ रुन्धे रुन्धे ग॒णेन॑ । 63) ग॒णेन॑ ग॒ण-ङ्ग॒ण-ङ्ग॒णेन॑ ग॒णेन॑ ग॒णम् । 64) ग॒ण म॑नु॒द्रुत्या॑ नु॒द्रुत्य॑ ग॒ण-ङ्ग॒ण म॑नु॒द्रुत्य॑ । 65) अ॒नु॒द्रुत्य॑ जुहोति जुहो त्यनु॒द्रुत्या॑ नु॒द्रुत्य॑ जुहोति । 65) अ॒नु॒द्रुत्येत्य॑नु - द्रुत्य॑ । 66) जु॒हो॒ति॒ विशं॒-विँश॑-ञ्जुहोति जुहोति॒ विश᳚म् । 67) विश॑ मे॒वैव विशं॒-विँश॑ मे॒व । 68) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ । 69) अ॒स्मा॒ अनु॑वर्त्मान॒ मनु॑वर्त्मान मस्मा अस्मा॒ अनु॑वर्त्मानम् । 70) अनु॑वर्त्मान-ङ्करोति करो॒ त्यनु॑वर्त्मान॒ मनु॑वर्त्मान-ङ्करोति । 70) अनु॑वर्त्मान॒मित्यनु॑ - व॒र्त्मा॒न॒म् । 71) क॒रो॒तीति॑ करोति । ॥ 36 ॥ (71/82) ॥ अ. 7 ॥
1) वसो॒-र्धारा॒-न्धारां॒-वँसो॒-र्वसो॒-र्धारा᳚म् । 2) धारा᳚-ञ्जुहोति जुहोति॒ धारा॒-न्धारा᳚-ञ्जुहोति । 3) जु॒हो॒ति॒ वसो॒-र्वसो᳚-र्जुहोति जुहोति॒ वसोः᳚ । 4) वसो᳚-र्मे मे॒ वसो॒-र्वसो᳚-र्मे । 5) मे॒ धारा॒ धारा॑ मे मे॒ धारा᳚ । 6) धारा॑ ऽस दस॒-द्धारा॒ धारा॑ ऽसत् । 7) अ॒स॒ दिती त्य॑स दस॒ दिति॑ । 8) इति॒ वै वा इतीति॒ वै । 9) वा ए॒षैषा वै वा ए॒षा । 10) ए॒षा हू॑यते हूयत ए॒षैषा हू॑यते । 11) हू॒य॒ते॒ घृ॒तस्य॑ घृ॒तस्य॑ हूयते हूयते घृ॒तस्य॑ । 12) घृ॒तस्य॒ वै वै घृ॒तस्य॑ घृ॒तस्य॒ वै । 13) वा ए॑न मेनं॒-वैँ वा ए॑नम् । 14) ए॒न॒ मे॒षै षैन॑ मेन मे॒षा । 15) ए॒षा धारा॒ धारै॒ षैषा धारा᳚ । 16) धारा॒ ऽमुष्मि॑-न्न॒मुष्मि॒-न्धारा॒ धारा॒ ऽमुष्मिन्न्॑ । 17) अ॒मुष्मि॑न् ँलो॒के लो॒के॑ ऽमुष्मि॑-न्न॒मुष्मि॑न् ँलो॒के । 18) लो॒के पिन्व॑माना॒ पिन्व॑माना लो॒के लो॒के पिन्व॑माना । 19) पिन्व॑मा॒नो पोप॒ पिन्व॑माना॒ पिन्व॑मा॒नोप॑ । 20) उप॑ तिष्ठते तिष्ठत॒ उपोप॑ तिष्ठते । 21) ति॒ष्ठ॒त॒ आज्ये॒ना ज्ये॑न तिष्ठते तिष्ठत॒ आज्ये॑न । 22) आज्ये॑न जुहोति जुहो॒ त्याज्ये॒ना ज्ये॑न जुहोति । 23) जु॒हो॒ति॒ तेज॒ स्तेजो॑ जुहोति जुहोति॒ तेजः॑ । 24) तेजो॒ वै वै तेज॒ स्तेजो॒ वै । 25) वा आज्य॒ माज्यं॒-वैँ वा आज्य᳚म् । 26) आज्य॒-न्तेज॒ स्तेज॒ आज्य॒ माज्य॒-न्तेजः॑ । 27) तेजो॒ वसो॒-र्वसो॒ स्तेज॒ स्तेजो॒ वसोः᳚ । 28) वसो॒-र्धारा॒ धारा॒ वसो॒-र्वसो॒-र्धारा᳚ । 29) धारा॒ तेज॑सा॒ तेज॑सा॒ धारा॒ धारा॒ तेज॑सा । 30) तेज॑सै॒वैव तेज॑सा॒ तेज॑सै॒व । 31) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ । 32) अ॒स्मै॒ तेज॒ स्तेजो᳚ ऽस्मा अस्मै॒ तेजः॑ । 33) तेजो ऽवाव॒ तेज॒ स्तेजो ऽव॑ । 34) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 35) रु॒न्धे ऽथो॒ अथो॑ रुन्धे रु॒न्धे ऽथो᳚ । 36) अथो॒ कामाः॒ कामा॒ अथो॒ अथो॒ कामाः᳚ । 36) अथो॒ इत्यथो᳚ । 37) कामा॒ वै वै कामाः॒ कामा॒ वै । 38) वै वसो॒-र्वसो॒-र्वै वै वसोः᳚ । 39) वसो॒-र्धारा॒ धारा॒ वसो॒-र्वसो॒-र्धारा᳚ । 40) धारा॒ कामा॒न् कामा॒-न्धारा॒ धारा॒ कामान्॑ । 41) कामा॑ ने॒वैव कामा॒न् कामा॑ ने॒व । 42) ए॒वावा वै॒वै वाव॑ । 43) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 44) रु॒न्धे॒ यं-यँग्ं रु॑न्धे रुन्धे॒ यम् । 45) य-ङ्का॒मये॑त का॒मये॑त॒ यं-यँ-ङ्का॒मये॑त । 46) का॒मये॑त प्रा॒णा-न्प्रा॒णान् का॒मये॑त का॒मये॑त प्रा॒णान् । 47) प्रा॒णा न॑स्यास्य प्रा॒णा-न्प्रा॒णा न॑स्य । 47) प्रा॒णानिति॑ प्र - अ॒नान् । 48) अ॒स्या॒न्नाद्य॑ म॒न्नाद्य॑ मस्या स्या॒न्नाद्य᳚म् । 49) अ॒न्नाद्यं॒-विँ व्य॑न्नाद्य॑ म॒न्नाद्यं॒-विँ । 49) अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । 50) वि च्छि॑न्द्या-ञ्छिन्द्यां॒-विँ वि च्छि॑न्द्याम् । ॥ 37 ॥ (50/53)
1) छि॒न्द्या॒ मितीति॑ छिन्द्या-ञ्छिन्द्या॒ मिति॑ । 2) इति॑ वि॒ग्राहं॑-विँ॒ग्राह॒ मितीति॑ वि॒ग्राह᳚म् । 3) वि॒ग्राह॒-न्तस्य॒ तस्य॑ वि॒ग्राहं॑-विँ॒ग्राह॒-न्तस्य॑ । 3) वि॒ग्राह॒मिति॑ वि - ग्राह᳚म् । 4) तस्य॑ जुहुयाज् जुहुया॒-त्तस्य॒ तस्य॑ जुहुयात् । 5) जु॒हु॒या॒-त्प्रा॒णा-न्प्रा॒णान् जु॑हुयाज् जुहुया-त्प्रा॒णान् । 6) प्रा॒णा ने॒वैव प्रा॒णा-न्प्रा॒णा ने॒व । 6) प्रा॒णानिति॑ प्र - अ॒नान् । 7) ए॒वास्या᳚ स्यै॒वै वास्य॑ । 8) अ॒स्या॒ न्नाद्य॑ म॒न्नाद्य॑ मस्यास्या॒ न्नाद्य᳚म् । 9) अ॒न्नाद्यं॒-विँ व्य॑न्नाद्य॑ म॒न्नाद्यं॒-विँ । 9) अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । 10) वि च्छि॑नत्ति छिनत्ति॒-द्वि वि च्छि॑नत्ति । 11) छि॒न॒त्ति॒ यं-यँ-ञ्छि॑नत्ति छिनत्ति॒ यम् । 12) य-ङ्का॒मये॑त का॒मये॑त॒ यं-यँ-ङ्का॒मये॑त । 13) का॒मये॑त प्रा॒णा-न्प्रा॒णान् का॒मये॑त का॒मये॑त प्रा॒णान् । 14) प्रा॒णा न॑स्यास्य प्रा॒णा-न्प्रा॒णा न॑स्य । 14) प्रा॒णानिति॑ प्र - अ॒नान् । 15) अ॒स्या॒ न्नाद्य॑ म॒न्नाद्य॑ मस्यास्या॒ न्नाद्य᳚म् । 16) अ॒न्नाद्य॒ग्ं॒ सग्ं स म॒न्नाद्य॑ म॒न्नाद्य॒ग्ं॒ सम् । 16) अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । 17) स-न्त॑नुया-न्तनुया॒ग्ं॒ सग्ं स-न्त॑नुयाम् । 18) त॒नु॒या॒ मितीति॑ तनुया-न्तनुया॒ मिति॑ । 19) इति॒ सन्त॑ता॒ग्ं॒ सन्त॑ता॒ मितीति॒ सन्त॑ताम् । 20) सन्त॑ता॒-न्तस्य॒ तस्य॒ सन्त॑ता॒ग्ं॒ सन्त॑ता॒-न्तस्य॑ । 20) सन्त॑ता॒मिति॒ सं - त॒ता॒म् । 21) तस्य॑ जुहुयाज् जुहुया॒-त्तस्य॒ तस्य॑ जुहुयात् । 22) जु॒हु॒या॒-त्प्रा॒णा-न्प्रा॒णान् जु॑हुयाज् जुहुया-त्प्रा॒णान् । 23) प्रा॒णा ने॒वैव प्रा॒णा-न्प्रा॒णा ने॒व । 23) प्रा॒णानिति॑ प्र - अ॒नान् । 24) ए॒वास्या᳚ स्यै॒वै वास्य॑ । 25) अ॒स्या॒ न्नाद्य॑ म॒न्नाद्य॑ मस्यास्या॒ न्नाद्य᳚म् । 26) अ॒न्नाद्य॒ग्ं॒ सग्ं स म॒न्नाद्य॑ म॒न्नाद्य॒ग्ं॒ सम् । 26) अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । 27) स-न्त॑नोति तनोति॒ सग्ं स-न्त॑नोति । 28) त॒नो॒ति॒ द्वाद॑श॒ द्वाद॑श तनोति तनोति॒ द्वाद॑श । 29) द्वाद॑श द्वाद॒शानि॑ द्वाद॒शानि॒ द्वाद॑श॒ द्वाद॑श द्वाद॒शानि॑ । 30) द्वा॒द॒शानि॑ जुहोति जुहोति द्वाद॒शानि॑ द्वाद॒शानि॑ जुहोति । 31) जु॒हो॒ति॒ द्वाद॑श॒ द्वाद॑श जुहोति जुहोति॒ द्वाद॑श । 32) द्वाद॑श॒ मासा॒ मासा॒ द्वाद॑श॒ द्वाद॑श॒ मासाः᳚ । 33) मासा᳚-स्संवँथ्स॒र-स्सं॑वँथ्स॒रो मासा॒ मासा᳚-स्संवँथ्स॒रः । 34) सं॒वँ॒थ्स॒र-स्सं॑वँथ्स॒रेण॑ संवँथ्स॒रेण॑ संवँथ्स॒र-स्सं॑वँथ्स॒र-स्सं॑वँथ्स॒रेण॑ । 34) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः । 35) सं॒वँ॒थ्स॒रे णै॒वैव सं॑वँथ्स॒रेण॑ संवँथ्स॒रेणै॒व । 35) सं॒वँ॒थ्स॒रेणेति॑ सं - व॒थ्स॒रेण॑ । 36) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ । 37) अ॒स्मा॒ अन्न॒ मन्न॑ मस्मा अस्मा॒ अन्न᳚म् । 38) अन्न॒ मवा वान्न॒ मन्न॒ मव॑ । 39) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 40) रु॒न्धे ऽन्न॒ मन्नग्ं॑ रुन्धे रु॒न्धे ऽन्न᳚म् । 41) अन्न॑-ञ्च॒ चान्न॒ मन्न॑-ञ्च । 42) च॒ मे॒ मे॒ च॒ च॒ मे॒ । 43) मे ऽक्षु॒ दक्षु॑-न्मे॒ मे ऽक्षु॑त् । 44) अक्षु॑च् च॒ चाक्षु॒ दक्षु॑च् च । 45) च॒ मे॒ मे॒ च॒ च॒ मे॒ । 46) म॒ इतीति॑ मे म॒ इति॑ । 47) इत्या॑हा॒हे तीत्या॑ह । 48) आ॒है॒त दे॒त दा॑हा है॒तत् । 49) ए॒त-द्वै वा ए॒त दे॒त-द्वै । 50) वा अन्न॒स्या न्न॑स्य॒ वै वा अन्न॑स्य । ॥ 38 ॥ (50/60)
1) अन्न॑स्य रू॒पग्ं रू॒प मन्न॒स्या न्न॑स्य रू॒पम् । 2) रू॒पग्ं रू॒पेण॑ रू॒पेण॑ रू॒पग्ं रू॒पग्ं रू॒पेण॑ । 3) रू॒पे णै॒वैव रू॒पेण॑ रू॒पेणै॒व । 4) ए॒वान्न॒ मन्न॑ मे॒वै वान्न᳚म् । 5) अन्न॒ मवा वान्न॒ मन्न॒ मव॑ । 6) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 7) रु॒न्धे॒ ऽग्नि र॒ग्नी रु॑न्धे रुन्धे॒ ऽग्निः । 8) अ॒ग्निश्च॑ चा॒ग्नि र॒ग्नि श्च॑ । 9) च॒ मे॒ मे॒ च॒ च॒ मे॒ । 10) म॒ आप॒ आपो॑ मे म॒ आपः॑ । 11) आप॑श्च॒ चाप॒ आप॑श्च । 12) च॒ मे॒ मे॒ च॒ च॒ मे॒ । 13) म॒ इतीति॑ मे म॒ इति॑ । 14) इत्या॑हा॒हे तीत्या॑ह । 15) आ॒है॒ षैषा ऽऽहा॑ है॒षा । 16) ए॒षा वै वा ए॒षैषा वै । 17) वा अन्न॒स्या न्न॑स्य॒ वै वा अन्न॑स्य । 18) अन्न॑स्य॒ योनि॒-र्योनि॒ रन्न॒स्या न्न॑स्य॒ योनिः॑ । 19) योनि॒-स्सयो॑नि॒ सयो॑नि॒ योनि॒-र्योनि॒-स्सयो॑नि । 20) सयो᳚ न्ये॒वैव सयो॑नि॒ सयो᳚न्ये॒व । 20) सयो॒नीति॒ स - यो॒नि॒ । 21) ए॒वान्न॒ मन्न॑ मे॒वै वान्न᳚म् । 22) अन्न॒ मवा वान्न॒ मन्न॒ मव॑ । 23) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 24) रु॒न्धे॒ ऽर्धे॒न्द्राण्य॑ र्धे॒न्द्राणि॑ रुन्धे रुन्धे ऽर्धे॒न्द्राणि॑ । 25) अ॒र्धे॒न्द्राणि॑ जुहोति जुहो त्यर्धे॒न्द्राण्य॑ र्धे॒न्द्राणि॑ जुहोति । 25) अ॒र्धे॒न्द्राणीत्य॑र्ध - इ॒न्द्राणि॑ । 26) जु॒हो॒ति॒ दे॒वता॑ दे॒वता॑ जुहोति जुहोति दे॒वताः᳚ । 27) दे॒वता॑ ए॒वैव दे॒वता॑ दे॒वता॑ ए॒व । 28) ए॒वावा वै॒वै वाव॑ । 29) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 30) रु॒न्धे॒ य-द्य-द्रु॑न्धे रुन्धे॒ यत् । 31) य-थ्सर्वे॑षा॒ग्ं॒ सर्वे॑षां॒-यँ-द्य-थ्सर्वे॑षाम् । 32) सर्वे॑षा म॒र्ध म॒र्धग्ं सर्वे॑षा॒ग्ं॒ सर्वे॑षा म॒र्धम् । 33) अ॒र्ध मिन्द्र॒ इन्द्रो॒ ऽर्ध म॒र्ध मिन्द्रः॑ । 34) इन्द्रः॒ प्रति॒ प्रतीन्द्र॒ इन्द्रः॒ प्रति॑ । 35) प्रति॒ तस्मा॒-त्तस्मा॒-त्प्रति॒ प्रति॒ तस्मा᳚त् । 36) तस्मा॒ दिन्द्र॒ इन्द्र॒ स्तस्मा॒-त्तस्मा॒ दिन्द्रः॑ । 37) इन्द्रो॑ दे॒वता॑ना-न्दे॒वता॑ना॒ मिन्द्र॒ इन्द्रो॑ दे॒वता॑नाम् । 38) दे॒वता॑ना-म्भूयिष्ठ॒भाक्त॑मो भूयिष्ठ॒भाक्त॑मो दे॒वता॑ना-न्दे॒वता॑ना-म्भूयिष्ठ॒भाक्त॑मः । 39) भू॒यि॒ष्ठ॒भाक्त॑म॒ इन्द्र॒ मिन्द्र॑-म्भूयिष्ठ॒भाक्त॑मो भूयिष्ठ॒भाक्त॑म॒ इन्द्र᳚म् । 39) भू॒यि॒ष्ठ॒भाक्त॑म॒ इति॑ भूयिष्ठ॒भाक् - त॒मः॒ । 40) इन्द्र॒ मुत्त॑र॒ मुत्त॑र॒ मिन्द्र॒ मिन्द्र॒ मुत्त॑रम् । 41) उत्त॑र माहा॒हो त्त॑र॒ मुत्त॑र माह । 41) उत्त॑र॒मित्युत् - त॒र॒म् । 42) आ॒हे॒न्द्रि॒य मि॑न्द्रि॒य मा॑हाहेन्द्रि॒यम् । 43) इ॒न्द्रि॒य मे॒वै वेन्द्रि॒य मि॑न्द्रि॒य मे॒व । 44) ए॒वास्मि॑-न्नस्मि-न्ने॒वै वास्मिन्न्॑ । 45) अ॒स्मि॒-न्नु॒परि॑ष्टा दु॒परि॑ष्टा दस्मि-न्नस्मि-न्नु॒परि॑ष्टात् । 46) उ॒परि॑ष्टा-द्दधाति दधा त्यु॒परि॑ष्टा दु॒परि॑ष्टा-द्दधाति । 47) द॒धा॒ति॒ य॒ज्ञा॒यु॒धानि॑ यज्ञायु॒धानि॑ दधाति दधाति यज्ञायु॒धानि॑ । 48) य॒ज्ञा॒यु॒धानि॑ जुहोति जुहोति यज्ञायु॒धानि॑ यज्ञायु॒धानि॑ जुहोति । 48) य॒ज्ञा॒यु॒धानीति॑ यज्ञ - आ॒यु॒धानि॑ । 49) जु॒हो॒ति॒ य॒ज्ञो य॒ज्ञो जु॑होति जुहोति य॒ज्ञः । 50) य॒ज्ञो वै वै य॒ज्ञो य॒ज्ञो वै । ॥ 39 ॥ (50/55)
1) वै य॑ज्ञायु॒धानि॑ यज्ञायु॒धानि॒ वै वै य॑ज्ञायु॒धानि॑ । 2) य॒ज्ञा॒यु॒धानि॑ य॒ज्ञं-यँ॒ज्ञं-यँ॑ज्ञायु॒धानि॑ यज्ञायु॒धानि॑ य॒ज्ञम् । 2) य॒ज्ञा॒यु॒धानीति॑ यज्ञ - आ॒यु॒धानि॑ । 3) य॒ज्ञ मे॒वैव य॒ज्ञं-यँ॒ज्ञ मे॒व । 4) ए॒वावा वै॒वै वाव॑ । 5) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 6) रु॒न्धे ऽथो॒ अथो॑ रुन्धे रु॒न्धे ऽथो᳚ । 7) अथो॑ ए॒त दे॒त दथो॒ अथो॑ ए॒तत् । 7) अथो॒ इत्यथो᳚ । 8) ए॒त-द्वै वा ए॒त दे॒त-द्वै । 9) वै य॒ज्ञस्य॑ य॒ज्ञस्य॒ वै वै य॒ज्ञस्य॑ । 10) य॒ज्ञस्य॑ रू॒पग्ं रू॒पं-यँ॒ज्ञस्य॑ य॒ज्ञस्य॑ रू॒पम् । 11) रू॒पग्ं रू॒पेण॑ रू॒पेण॑ रू॒पग्ं रू॒पग्ं रू॒पेण॑ । 12) रू॒पेणै॒ वैव रू॒पेण॑ रू॒पेणै॒व । 13) ए॒व य॒ज्ञं-यँ॒ज्ञ मे॒वैव य॒ज्ञम् । 14) य॒ज्ञ मवाव॑ य॒ज्ञं-यँ॒ज्ञ मव॑ । 15) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 16) रु॒न्धे॒ ऽव॒भृ॒थो॑ ऽवभृ॒थो रु॑न्धे रुन्धे ऽवभृ॒थः । 17) अ॒व॒भृ॒थ श्च॑ चावभृ॒थो॑ ऽवभृ॒थ श्च॑ । 17) अ॒व॒भृ॒थ इत्य॑व - भृ॒थः । 18) च॒ मे॒ मे॒ च॒ च॒ मे॒ । 19) मे॒ स्व॒गा॒का॒र-स्स्व॑गाका॒रो मे॑ मे स्वगाका॒रः । 20) स्व॒गा॒का॒रश्च॑ च स्वगाका॒र-स्स्व॑गाका॒रश्च॑ । 20) स्व॒गा॒का॒र इति॑ स्वगा - का॒रः । 21) च॒ मे॒ मे॒ च॒ च॒ मे॒ । 22) म॒ इतीति॑ मे म॒ इति॑ । 23) इत्या॑हा॒हे तीत्या॑ह । 24) आ॒ह॒ स्व॒गाकृ॑त्यै स्व॒गाकृ॑त्या आहाह स्व॒गाकृ॑त्यै । 25) स्व॒गाकृ॑त्या अ॒ग्नि र॒ग्नि-स्स्व॒गाकृ॑त्यै स्व॒गाकृ॑त्या अ॒ग्निः । 25) स्व॒गाकृ॑त्या॒ इति॑ स्व॒गा - कृ॒त्यै॒ । 26) अ॒ग्निश्च॑ चा॒ग्नि र॒ग्निश्च॑ । 27) च॒ मे॒ मे॒ च॒ च॒ मे॒ । 28) मे॒ घ॒र्मो घ॒र्मो मे॑ मे घ॒र्मः । 29) घ॒र्मश्च॑ च घ॒र्मो घ॒र्मश्च॑ । 30) च॒ मे॒ मे॒ च॒ च॒ मे॒ । 31) म॒ इतीति॑ मे म॒ इति॑ । 32) इत्या॑हा॒हे तीत्या॑ह । 33) आ॒है॒त दे॒त दा॑हा है॒तत् । 34) ए॒त-द्वै वा ए॒त दे॒त-द्वै । 35) वै ब्र॑ह्मवर्च॒सस्य॑ ब्रह्मवर्च॒सस्य॒ वै वै ब्र॑ह्मवर्च॒सस्य॑ । 36) ब्र॒ह्म॒व॒र्च॒सस्य॑ रू॒पग्ं रू॒प-म्ब्र॑ह्मवर्च॒सस्य॑ ब्रह्मवर्च॒सस्य॑ रू॒पम् । 36) ब्र॒ह्म॒व॒र्च॒सस्येति॑ ब्रह्म - व॒र्च॒सस्य॑ । 37) रू॒पग्ं रू॒पेण॑ रू॒पेण॑ रू॒पग्ं रू॒पग्ं रू॒पेण॑ । 38) रू॒पे णै॒वैव रू॒पेण॑ रू॒पेणै॒व । 39) ए॒व ब्र॑ह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स मे॒वैव ब्र॑ह्मवर्च॒सम् । 40) ब्र॒ह्म॒व॒र्च॒स मवाव॑ ब्रह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स मव॑ । 40) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । 41) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 42) रु॒न्ध॒ ऋगृग् रु॑न्धे रुन्ध॒ ऋक् । 43) ऋक्च॒ च र्गृक्च॑ । 44) च॒ मे॒ मे॒ च॒ च॒ मे॒ । 45) मे॒ साम॒ साम॑ मे मे॒ साम॑ । 46) साम॑ च च॒ साम॒ साम॑ च । 47) च॒ मे॒ मे॒ च॒ च॒ मे॒ । 48) म॒ इतीति॑ मे म॒ इति॑ । 49) इत्या॑हा॒हे तीत्या॑ह । 50) आ॒है॒त दे॒त दा॑हा है॒तत् । ॥ 40 ॥ (50/57)
1) ए॒त-द्वै वा ए॒त दे॒त-द्वै । 2) वै छन्द॑सा॒-ञ्छन्द॑सां॒-वैँ वै छन्द॑साम् । 3) छन्द॑साग्ं रू॒पग्ं रू॒प-ञ्छन्द॑सा॒-ञ्छन्द॑साग्ं रू॒पम् । 4) रू॒पग्ं रू॒पेण॑ रू॒पेण॑ रू॒पग्ं रू॒पग्ं रू॒पेण॑ । 5) रू॒पे णै॒वैव रू॒पेण॑ रू॒पेणै॒व । 6) ए॒व छन्दाग्ं॑सि॒ छन्दाग्॑ स्ये॒वैव छन्दाग्ं॑सि । 7) छन्दाग्॒ स्यवाव॒ च्छन्दाग्ं॑सि॒ छन्दाग्॒स्यव॑ । 8) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 9) रु॒न्धे॒ गर्भा॒ गर्भा॑ रुन्धे रुन्धे॒ गर्भाः᳚ । 10) गर्भा᳚श्च च॒ गर्भा॒ गर्भा᳚श्च । 11) च॒ मे॒ मे॒ च॒ च॒ मे॒ । 12) मे॒ व॒थ्सा व॒थ्सा मे॑ मे व॒थ्साः । 13) व॒थ्साश्च॑ च व॒थ्सा व॒थ्साश्च॑ । 14) च॒ मे॒ मे॒ च॒ च॒ मे॒ । 15) म॒ इतीति॑ मे म॒ इति॑ । 16) इत्या॑हा॒हे तीत्या॑ह । 17) आ॒है॒त दे॒त दा॑हा है॒तत् । 18) ए॒त-द्वै वा ए॒त दे॒त-द्वै । 19) वै प॑शू॒ना-म्प॑शू॒नां-वैँ वै प॑शू॒नाम् । 20) प॒शू॒नाग्ं रू॒पग्ं रू॒प-म्प॑शू॒ना-म्प॑शू॒नाग्ं रू॒पम् । 21) रू॒पग्ं रू॒पेण॑ रू॒पेण॑ रू॒पग्ं रू॒पग्ं रू॒पेण॑ । 22) रू॒पे णै॒वैव रू॒पेण॑ रू॒पेणै॒व । 23) ए॒व प॒शू-न्प॒शू ने॒वैव प॒शून् । 24) प॒शू नवाव॑ प॒शू-न्प॒शू नव॑ । 25) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 26) रु॒न्धे॒ कल्पा॒न् कल्पा᳚-न्रुन्धे रुन्धे॒ कल्पान्॑ । 27) कल्पा᳚न् जुहोति जुहोति॒ कल्पा॒न् कल्पा᳚न् जुहोति । 28) जु॒हो॒ त्यक्लृ॑प्त॒स्या क्लृ॑प्तस्य जुहोति जुहो॒ त्यक्लृ॑प्तस्य । 29) अक्लृ॑प्तस्य॒ क्लृप्त्यै॒ क्लृप्त्या॒ अक्लृ॑प्त॒स्या क्लृ॑प्तस्य॒ क्लृप्त्यै᳚ । 30) क्लृप्त्यै॑ युग्मदयु॒जे यु॑ग्मदयु॒जे क्लृप्त्यै॒ क्लृप्त्यै॑ युग्मदयु॒जे । 31) यु॒ग्म॒द॒यु॒जे जु॑होति जुहोति युग्मदयु॒जे यु॑ग्मदयु॒जे जु॑होति । 31) यु॒ग्म॒द॒यु॒जे इति॑ युग्मत् - अ॒यु॒जे । 32) जु॒हो॒ति॒ मि॒थु॒न॒त्वाय॑ मिथुन॒त्वाय॑ जुहोति जुहोति मिथुन॒त्वाय॑ । 33) मि॒थु॒न॒त्वा यो᳚त्त॒राव॑ती उत्त॒राव॑ती मिथुन॒त्वाय॑ मिथुन॒त्वा यो᳚त्त॒राव॑ती । 33) मि॒थु॒न॒त्वायेति॑ मिथुन - त्वाय॑ । 34) उ॒त्त॒राव॑ती भवतो भवत उत्त॒राव॑ती उत्त॒राव॑ती भवतः । 34) उ॒त्त॒राव॑ती॒ इत्यु॑त्त॒रा - व॒ती॒ । 35) भ॒व॒तो॒ ऽभिक्रा᳚न्त्या अ॒भिक्रा᳚न्त्यै भवतो भवतो॒ ऽभिक्रा᳚न्त्यै । 36) अ॒भिक्रा᳚न्त्या॒ एकैका॒ ऽभिक्रा᳚न्त्या अ॒भिक्रा᳚न्त्या॒ एका᳚ । 36) अ॒भिक्रा᳚न्त्या॒ इत्य॒भि - क्रा॒न्त्यै॒ । 37) एका॑ च॒ चैकैका॑ च । 38) च॒ मे॒ मे॒ च॒ च॒ मे॒ । 39) मे॒ ति॒स्र स्ति॒स्रो मे॑ मे ति॒स्रः । 40) ति॒स्र श्च॑ च ति॒स्र स्ति॒स्र श्च॑ । 41) च॒ मे॒ मे॒ च॒ च॒ मे॒ । 42) म॒ इतीति॑ मे म॒ इति॑ । 43) इत्या॑हा॒हे तीत्या॑ह । 44) आ॒ह॒ दे॒व॒छ॒न्द॒स-न्दे॑वछन्द॒स मा॑हाह देवछन्द॒सम् । 45) दे॒व॒छ॒न्द॒सं-वैँ वै दे॑वछन्द॒स-न्दे॑वछन्द॒सं-वैँ । 45) दे॒व॒छ॒न्द॒समिति॑ देव - छ॒न्द॒सम् । 46) वा एकैका॒ वै वा एका᳚ । 47) एका॑ च॒ चैकैका॑ च । 48) च॒ ति॒स्र स्ति॒स्र श्च॑ च ति॒स्रः । 49) ति॒स्र श्च॑ च ति॒स्र स्ति॒स्र श्च॑ । 50) च॒ म॒नु॒ष्य॒छ॒न्द॒स-म्म॑नुष्यछन्द॒स-ञ्च॑ च मनुष्यछन्द॒सम् । ॥ 41 ॥ (50/55)
1) म॒नु॒ष्य॒छ॒न्द॒स-ञ्चत॑स्र॒ श्चत॑स्रो मनुष्यछन्द॒स-म्म॑नुष्यछन्द॒स-ञ्चत॑स्रः । 1) म॒नु॒ष्य॒छ॒न्द॒समिति॑ मनुष्य - छ॒न्द॒सम् । 2) चत॑स्र श्च च॒ चत॑स्र॒ श्चत॑स्र श्च । 3) चा॒ष्टा व॒ष्टौ च॑ चा॒ष्टौ । 4) अ॒ष्टौ च॑ चा॒ष्टा व॒ष्टौ च॑ । 5) च॒ दे॒व॒छ॒न्द॒स-न्दे॑वछन्द॒स-ञ्च॑ च देवछन्द॒सम् । 6) दे॒व॒छ॒न्द॒स-ञ्च॑ च देवछन्द॒स-न्दे॑वछन्द॒स-ञ्च॑ । 6) दे॒व॒छ॒न्द॒समिति॑ देव - छ॒न्द॒सम् । 7) चै॒वैव च॑ चै॒व । 8) ए॒व म॑नुष्यछन्द॒स-म्म॑नुष्यछन्द॒स मे॒वैव म॑नुष्यछन्द॒सम् । 9) म॒नु॒ष्य॒छ॒न्द॒स-ञ्च॑ च मनुष्यछन्द॒स-म्म॑नुष्यछन्द॒स-ञ्च॑ । 9) म॒नु॒ष्य॒छ॒न्द॒समिति॑ मनुष्य - छ॒न्द॒सम् । 10) चावाव॑ च॒ चाव॑ । 11) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 12) रु॒न्ध॒ आ रु॑न्धे रुन्ध॒ आ । 13) आ त्रय॑स्त्रिग्ंशत॒ स्त्रय॑स्त्रिग्ंशत॒ आ त्रय॑स्त्रिग्ंशतः । 14) त्रय॑स्त्रिग्ंशतो जुहोति जुहोति॒ त्रय॑स्त्रिग्ंशत॒ स्त्रय॑स्त्रिग्ंशतो जुहोति । 14) त्रय॑स्त्रिग्ंशत॒ इति॒ त्रयः॑ - त्रि॒ग्ं॒श॒तः॒ । 15) जु॒हो॒ति॒ त्रय॑स्त्रिग्ंश॒-त्त्रय॑स्त्रिग्ंशज् जुहोति जुहोति॒ त्रय॑स्त्रिग्ंशत् । 16) त्रय॑स्त्रिग्ंश॒-द्वै वै त्रय॑स्त्रिग्ंश॒-त्त्रय॑स्त्रिग्ंश॒-द्वै । 16) त्रय॑स्त्रिग्ंश॒दिति॒ त्रयः॑ - त्रि॒ग्ं॒श॒त् । 17) वै दे॒वता॑ दे॒वता॒ वै वै दे॒वताः᳚ । 18) दे॒वता॑ दे॒वताः᳚ । 19) दे॒वता॑ ए॒वैव दे॒वता॑ दे॒वता॑ ए॒व । 20) ए॒वावा वै॒वै वाव॑ । 21) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 22) रु॒न्ध॒ आ रु॑न्धे रुन्ध॒ आ । 23) आ ऽष्टाच॑त्वारिग्ंशतो॒ ऽष्टाच॑त्वारिग्ंशत॒ आ ऽष्टाच॑त्वारिग्ंशतः । 24) अ॒ष्टाच॑त्वारिग्ंशतो जुहोति जुहो त्य॒ष्टाच॑त्वारिग्ंशतो॒ ऽष्टाच॑त्वारिग्ंशतो जुहोति । 24) अ॒ष्टाच॑त्वारिग्ंशत॒ इत्य॒ष्टा - च॒त्वा॒रि॒ग्ं॒श॒तः॒ । 25) जु॒हो॒ त्य॒ष्टाच॑त्वारिग्ंशदक्षरा॒ ऽष्टाच॑त्वारिग्ंशदक्षरा जुहोति जुहो त्य॒ष्टाच॑त्वारिग्ंशदक्षरा । 26) अ॒ष्टाच॑त्वारिग्ंशदक्षरा॒ जग॑ती॒ जग॑त्य॒ ष्टाच॑त्वारिग्ंशदक्षरा॒ ऽष्टाच॑त्वारिग्ंशदक्षरा॒ जग॑ती । 26) अ॒ष्टाच॑त्वारिग्ंशदक्ष॒रेत्य॒ष्टाच॑त्वारिग्ंशत् - अ॒क्ष॒रा॒ । 27) जग॑ती॒ जाग॑ता॒ जाग॑ता॒ जग॑ती॒ जग॑ती॒ जाग॑ताः । 28) जाग॑ताः प॒शवः॑ प॒शवो॒ जाग॑ता॒ जाग॑ताः प॒शवः॑ । 29) प॒शवो॒ जग॑त्या॒ जग॑त्या प॒शवः॑ प॒शवो॒ जग॑त्या । 30) जग॑त्यै॒वैव जग॑त्या॒ जग॑त्यै॒व । 31) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ । 32) अ॒स्मै॒ प॒शू-न्प॒शू न॑स्मा अस्मै प॒शून् । 33) प॒शू नवाव॑ प॒शू-न्प॒शू नव॑ । 34) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 35) रु॒न्धे॒ वाजो॒ वाजो॑ रुन्धे रुन्धे॒ वाजः॑ । 36) वाज॑श्च च॒ वाजो॒ वाज॑श्च । 37) च॒ प्र॒स॒वः प्र॑स॒वश्च॑ च प्रस॒वः । 38) प्र॒स॒वश्च॑ च प्रस॒वः प्र॑स॒वश्च॑ । 38) प्र॒स॒व इति॑ प्र - स॒वः । 39) चेतीति॑ च॒ चेति॑ । 40) इति॑ द्वाद॒श-न्द्वा॑द॒श मितीति॑ द्वाद॒शम् । 41) द्वा॒द॒श-ञ्जु॑होति जुहोति द्वाद॒श-न्द्वा॑द॒श-ञ्जु॑होति । 42) जु॒हो॒ति॒ द्वाद॑श॒ द्वाद॑श जुहोति जुहोति॒ द्वाद॑श । 43) द्वाद॑श॒ मासा॒ मासा॒ द्वाद॑श॒ द्वाद॑श॒ मासाः᳚ । 44) मासा᳚-स्संवँथ्स॒र-स्सं॑वँथ्स॒रो मासा॒ मासा᳚-स्संवँथ्स॒रः । 45) सं॒वँ॒थ्स॒र-स्सं॑वँथ्स॒रे सं॑वँथ्स॒रे सं॑वँथ्स॒र-स्सं॑वँथ्स॒र-स्सं॑वँथ्स॒रे । 45) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः । 46) सं॒वँ॒थ्स॒र ए॒वैव सं॑वँथ्स॒रे सं॑वँथ्स॒र ए॒व । 46) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रे । 47) ए॒व प्रति॒ प्रत्ये॒वैव प्रति॑ । 48) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति । 49) ति॒ष्ठ॒तीति॑ तिष्ठति । ॥ 42 ॥ (49/59) ॥ अ. 8 ॥
1) अ॒ग्नि-र्दे॒वेभ्यो॑ दे॒वेभ्यो॒ ऽग्नि र॒ग्नि-र्दे॒वेभ्यः॑ । 2) दे॒वेभ्यो ऽपाप॑ दे॒वेभ्यो॑ दे॒वेभ्यो ऽप॑ । 3) अपा᳚क्राम दक्राम॒ दपापा᳚ क्रामत् । 4) अ॒क्रा॒म॒-द्भा॒ग॒धेय॑-म्भाग॒धेय॑ मक्राम दक्राम-द्भाग॒धेय᳚म् । 5) भा॒ग॒धेय॑ मि॒च्छमा॑न इ॒च्छमा॑नो भाग॒धेय॑-म्भाग॒धेय॑ मि॒च्छमा॑नः । 5) भा॒ग॒धेय॒मिति॑ भाग - धेय᳚म् । 6) इ॒च्छमा॑न॒ स्त-न्त मि॒च्छमा॑न इ॒च्छमा॑न॒ स्तम् । 7) त-न्दे॒वा दे॒वा स्त-न्त-न्दे॒वाः । 8) दे॒वा अ॑ब्रुव-न्नब्रुव-न्दे॒वा दे॒वा अ॑ब्रुवन्न् । 9) अ॒ब्रु॒व॒-न्नुपोपा᳚ ब्रुव-न्नब्रुव॒-न्नुप॑ । 10) उप॑ नो न॒ उपोप॑ नः । 11) न॒ आ नो॑ न॒ आ । 12) आ व॑र्तस्व वर्त॒स्वा व॑र्तस्व । 13) व॒र्त॒स्व॒ ह॒व्यग्ं ह॒व्यं-वँ॑र्तस्व वर्तस्व ह॒व्यम् । 14) ह॒व्य-न्नो॑ नो ह॒व्यग्ं ह॒व्य-न्नः॑ । 15) नो॒ व॒ह॒ व॒ह॒ नो॒ नो॒ व॒ह॒ । 16) व॒हे तीति॑ वह व॒हेति॑ । 17) इति॒ स स इतीति॒ सः । 18) सो᳚ ऽब्रवी दब्रवी॒-थ्स सो᳚ ऽब्रवीत् । 19) अ॒ब्र॒वी॒-द्वरं॒-वँर॑ मब्रवी दब्रवी॒-द्वर᳚म् । 20) वरं॑-वृँणै वृणै॒ वरं॒-वँरं॑-वृँणै । 21) वृ॒णै॒ मह्य॒-म्मह्यं॑-वृँणै वृणै॒ मह्य᳚म् । 22) मह्य॑ मे॒वैव मह्य॒-म्मह्य॑ मे॒व । 23) ए॒व वा॑जप्रस॒वीयं॑-वाँजप्रस॒वीय॑ मे॒वैव वा॑जप्रस॒वीय᳚म् । 24) वा॒ज॒प्र॒स॒वीय॑-ञ्जुहवन् जुहवन्. वाजप्रस॒वीयं॑-वाँजप्रस॒वीय॑-ञ्जुहवन्न् । 24) वा॒ज॒प्र॒स॒वीय॒मिति॑ वाज - प्र॒स॒वीय᳚म् । 25) जु॒ह॒व॒-न्नितीति॑ जुहवन् जुहव॒-न्निति॑ । 26) इति॒ तस्मा॒-त्तस्मा॒ दितीति॒ तस्मा᳚त् । 27) तस्मा॑ द॒ग्नये॒ ऽग्नये॒ तस्मा॒-त्तस्मा॑ द॒ग्नये᳚ । 28) अ॒ग्नये॑ वाजप्रस॒वीयं॑-वाँजप्रस॒वीय॑ म॒ग्नये॒ ऽग्नये॑ वाजप्रस॒वीय᳚म् । 29) वा॒ज॒प्र॒स॒वीय॑-ञ्जुह्वति जुह्वति वाजप्रस॒वीयं॑-वाँजप्रस॒वीय॑-ञ्जुह्वति । 29) वा॒ज॒प्र॒स॒वीय॒मिति॑ वाज - प्र॒स॒वीय᳚म् । 30) जु॒ह्व॒ति॒ य-द्यज् जु॑ह्वति जुह्वति॒ यत् । 31) य-द्वा॑जप्रस॒वीयं॑-वाँजप्रस॒वीयं॒-यँ-द्य-द्वा॑जप्रस॒वीय᳚म् । 32) वा॒ज॒प्र॒स॒वीय॑-ञ्जु॒होति॑ जु॒होति॑ वाजप्रस॒वीयं॑-वाँजप्रस॒वीय॑-ञ्जु॒होति॑ । 32) वा॒ज॒प्र॒स॒वीय॒मिति॑ वाज - प्र॒स॒वीय᳚म् । 33) जु॒हो त्य॒ग्नि म॒ग्नि-ञ्जु॒होति॑ जु॒हो त्य॒ग्निम् । 34) अ॒ग्नि मे॒वै वाग्नि म॒ग्नि मे॒व । 35) ए॒व त-त्तदे॒ वैव तत् । 36) त-द्भा॑ग॒धेये॑न भाग॒धेये॑न॒ त-त्त-द्भा॑ग॒धेये॑न । 37) भा॒ग॒धेये॑न॒ सग्ं स-म्भा॑ग॒धेये॑न भाग॒धेये॑न॒ सम् । 37) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । 38) स म॑र्धय त्यर्धयति॒ सग्ं स म॑र्धयति । 39) अ॒र्ध॒य॒ त्यथो॒ अथो॑ अर्धय त्यर्धय॒ त्यथो᳚ । 40) अथो॑ अभिषे॒को॑ ऽभिषे॒को ऽथो॒ अथो॑ अभिषे॒कः । 40) अथो॒ इत्यथो᳚ । 41) अ॒भि॒षे॒क ए॒वैवा भि॑षे॒को॑ ऽभिषे॒क ए॒व । 41) अ॒भि॒षे॒क इत्य॑भि - से॒कः । 42) ए॒वास्या᳚ स्यै॒वै वास्य॑ । 43) अ॒स्य॒ स सो᳚ ऽस्यास्य॒ सः । 44) स च॑तुर्द॒शभि॑ श्चतुर्द॒शभि॒-स्स स च॑तुर्द॒शभिः॑ । 45) च॒तु॒र्द॒शभि॑-र्जुहोति जुहोति चतुर्द॒शभि॑ श्चतुर्द॒शभि॑-र्जुहोति । 45) च॒तु॒र्द॒शभि॒रिति॑ चतुर्द॒श - भिः॒ । 46) जु॒हो॒ति॒ स॒प्त स॒प्त जु॑होति जुहोति स॒प्त । 47) स॒प्त ग्रा॒म्या ग्रा॒म्या-स्स॒प्त स॒प्त ग्रा॒म्याः । 48) ग्रा॒म्या ओष॑धय॒ ओष॑धयो ग्रा॒म्या ग्रा॒म्या ओष॑धयः । 49) ओष॑धय-स्स॒प्त स॒प्तौ ष॑धय॒ ओष॑धय-स्स॒प्त । 50) स॒प्ता र॒ण्या आ॑र॒ण्या-स्स॒प्त स॒प्ता र॒ण्याः । ॥ 43 ॥ (50/58)
1) आ॒र॒ण्या उ॒भयी॑षा मु॒भयी॑षा मार॒ण्या आ॑र॒ण्या उ॒भयी॑षाम् । 2) उ॒भयी॑षा॒ मव॑रुद्ध्या॒ अव॑रुद्ध्या उ॒भयी॑षा मु॒भयी॑षा॒ मव॑रुद्ध्यै । 3) अव॑रुद्ध्या॒ अन्न॑स्यान्न॒स्या न्न॑स्यान्न॒स्या व॑रुद्ध्या॒ अव॑रुद्ध्या॒ अन्न॑स्यान्नस्य । 3) अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ । 4) अन्न॑स्यान्नस्य जुहोति जुहो॒ त्यन्न॑स्यान्न॒स्या न्न॑स्यान्नस्य जुहोति । 4) अन्न॑स्यान्न॒स्येत्यन्न॑स्य - अ॒न्न॒स्य॒ । 5) जु॒हो॒ त्यन्न॑स्यान्न॒स्या न्न॑स्यान्नस्य जुहोति जुहो॒ त्यन्न॑स्यान्नस्य । 6) अन्न॑स्यान्न॒स्या व॑रुद्ध्या॒ अव॑रुद्ध्या॒ अन्न॑स्यान्न॒स्या न्न॑स्यान्न॒स्या व॑रुद्ध्यै । 6) अन्न॑स्यान्न॒स्येत्यन्न॑स्य - अ॒न्न॒स्य॒ । 7) अव॑रुद्ध्या॒ औदु॑म्बरे॒ णौदु॑म्बरे॒णा व॑रुद्ध्या॒ अव॑रुद्ध्या॒ औदु॑म्बरेण । 7) अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ । 8) औदु॑म्बरेण स्रु॒वेण॑ स्रु॒वे णौदु॑म्बरे॒ णौदु॑म्बरेण स्रु॒वेण॑ । 9) स्रु॒वेण॑ जुहोति जुहोति स्रु॒वेण॑ स्रु॒वेण॑ जुहोति । 10) जु॒हो॒ त्यूर्गूर्ग् जु॑होति जुहो॒ त्यूर्क् । 11) ऊर्ग् वै वा ऊर्गूर्ग् वै । 12) वा उ॑दु॒म्बर॑ उदु॒म्बरो॒ वै वा उ॑दु॒म्बरः॑ । 13) उ॒दु॒म्बर॒ ऊर्गूर्गु॑ दु॒म्बर॑ उदु॒म्बर॒ ऊर्क् । 14) ऊर्गन्न॒ मन्न॒ मूर्गू-र्गन्न᳚म् । 15) अन्न॑ मू॒र्जोर्जा ऽन्न॒ मन्न॑ मू॒र्जा । 16) ऊ॒र्जैवै वोर्जो-र्जैव । 17) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ । 18) अ॒स्मा॒ ऊर्ज॒ मूर्ज॑ मस्मा अस्मा॒ ऊर्ज᳚म् । 19) ऊर्ज॒ मन्न॒ मन्न॒ मूर्ज॒ मूर्ज॒ मन्न᳚म् । 20) अन्न॒ मवा वान्न॒ मन्न॒ मव॑ । 21) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 22) रु॒न्धे॒ ऽग्नि र॒ग्नी रु॑न्धे रुन्धे॒ ऽग्निः । 23) अ॒ग्नि-र्वै वा अ॒ग्नि र॒ग्नि-र्वै । 24) वै दे॒वाना᳚-न्दे॒वानां॒-वैँ वै दे॒वाना᳚म् । 25) दे॒वाना॑ म॒भिषि॑क्तो॒ ऽभिषि॑क्तो दे॒वाना᳚-न्दे॒वाना॑ म॒भिषि॑क्तः । 26) अ॒भिषि॑क्तो ऽग्नि॒चि द॑ग्नि॒चि द॒भिषि॑क्तो॒ ऽभिषि॑क्तो ऽग्नि॒चित् । 26) अ॒भिषि॑क्त॒ इत्य॒भि - सि॒क्तः॒ । 27) अ॒ग्नि॒चि-न्म॑नु॒ष्या॑णा-म्मनु॒ष्या॑णा मग्नि॒चि द॑ग्नि॒चि-न्म॑नु॒ष्या॑णाम् । 27) अ॒ग्नि॒चिदित्य॑ग्नि - चित् । 28) म॒नु॒ष्या॑णा॒-न्तस्मा॒-त्तस्मा᳚-न्मनु॒ष्या॑णा-म्मनु॒ष्या॑णा॒-न्तस्मा᳚त् । 29) तस्मा॑ दग्नि॒चि द॑ग्नि॒चि-त्तस्मा॒-त्तस्मा॑ दग्नि॒चित् । 30) अ॒ग्नि॒चि-द्वर्ष॑ति॒ वर्ष॑ त्यग्नि॒चि द॑ग्नि॒चि-द्वर्ष॑ति । 30) अ॒ग्नि॒चिदित्य॑ग्नि - चित् । 31) वर्ष॑ति॒ न न वर्ष॑ति॒ वर्ष॑ति॒ न । 32) न धा॑वे-द्धावे॒-न्न न धा॑वेत् । 33) धा॒वे॒ दव॑रुद्ध॒ मव॑रुद्ध-न्धावे-द्धावे॒ दव॑रुद्धम् । 34) अव॑रुद्ध॒ग्ं॒ हि ह्यव॑रुद्ध॒ मव॑रुद्ध॒ग्ं॒ हि । 34) अव॑रुद्ध॒मित्यव॑ - रु॒द्ध॒म् । 35) ह्य॑स्यास्य॒ हि ह्य॑स्य । 36) अ॒स्यान्न॒ मन्न॑ मस्या॒ स्यान्न᳚म् । 37) अन्न॒ मन्न᳚म् । 38) अन्न॑ मिवे॒वान्न॒ मन्न॑ मिव । 39) इ॒व॒ खलु॒ खल्वि॑वेव॒ खलु॑ । 40) खलु॒ वै वै खलु॒ खलु॒ वै । 41) वै व॒र्॒षं-वँ॒र्॒षं-वैँ वै व॒र्॒षम् । 42) व॒र्॒षं-यँ-द्य-द्व॒र्॒षं-वँ॒र्॒षं-यँत् । 43) य-द्धावे॒-द्धावे॒-द्य-द्य-द्धावे᳚त् । 44) धावे॑ द॒न्नाद्या॑ द॒न्नाद्या॒-द्धावे॒-द्धावे॑ द॒न्नाद्या᳚त् । 45) अ॒न्नाद्या᳚-द्धावे-द्धावे द॒न्नाद्या॑ द॒न्नाद्या᳚-द्धावेत् । 45) अ॒न्नाद्या॒दित्य॑न्न - अद्या᳚त् । 46) धा॒वे॒ दु॒पाव॑र्तेतो॒ पाव॑र्तेत धावे-द्धावे दु॒पाव॑र्तेत । 47) उ॒पाव॑र्तेता॒ न्नाद्य॑ म॒न्नाद्य॑ मु॒पाव॑र्तेतो॒ पाव॑र्ते ता॒न्नाद्य᳚म् । 47) उ॒पाव॑र्ते॒तेत्य॑प - आव॑र्तेत । 48) अ॒न्नाद्य॑ मे॒वै वान्नाद्य॑ म॒न्नाद्य॑ मे॒व । 48) अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । 49) ए॒वाभ्या᳚(1॒) भ्ये॑वै वाभि । 50) अ॒भ्यु॑पाव॑र्तत उ॒पाव॑र्तते॒ ऽभ्या᳚(1॒)भ्यु॑ पाव॑र्तते । ॥ 44 ॥ (50/61)
1) उ॒पाव॑र्तते॒ नक्तो॒षासा॒ नक्तो॒षा सो॒पाव॑र्तत उ॒पाव॑र्तते॒ नक्तो॒षासा᳚ । 1) उ॒पाव॑र्तत॒ इत्यु॑प - आव॑र्तते । 2) नक्तो॒षासेतीति॒ नक्तो॒षासा॒ नक्तो॒षासेति॑ । 3) इति॑ कृ॒ष्णायै॑ कृ॒ष्णाया॒ इतीति॑ कृ॒ष्णायै᳚ । 4) कृ॒ष्णायै᳚ श्वे॒तव॑थ्सायै श्वे॒तव॑थ्सायै कृ॒ष्णायै॑ कृ॒ष्णायै᳚ श्वे॒तव॑थ्सायै । 5) श्वे॒तव॑थ्सायै॒ पय॑सा॒ पय॑सा श्वे॒तव॑थ्सायै श्वे॒तव॑थ्सायै॒ पय॑सा । 5) श्वे॒तव॑थ्साया॒ इति॑ श्वे॒त - व॒थ्सा॒यै॒ । 6) पय॑सा जुहोति जुहोति॒ पय॑सा॒ पय॑सा जुहोति । 7) जु॒हो॒ त्यह्ना ऽह्ना॑ जुहोति जुहो॒ त्यह्ना᳚ । 8) अह्नै॒ वैवाह्ना ऽह्नै॒व । 9) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ । 10) अ॒स्मै॒ रात्रि॒ग्ं॒ रात्रि॑ मस्मा अस्मै॒ रात्रि᳚म् । 11) रात्रि॒-म्प्र प्र रात्रि॒ग्ं॒ रात्रि॒-म्प्र । 12) प्र दा॑पयति दापयति॒ प्र प्र दा॑पयति । 13) दा॒प॒य॒ति॒ रात्रि॑या॒ रात्रि॑या दापयति दापयति॒ रात्रि॑या । 14) रात्रि॒या ऽह॒ रहा॒ रात्रि॑या॒ रात्रि॒या ऽहः॑ । 15) अह॑ रहोरा॒त्रे अ॑होरा॒त्रे अह॒ रह॑ रहोरा॒त्रे । 16) अ॒हो॒रा॒त्रे ए॒वैवा हो॑रा॒त्रे अ॑होरा॒त्रे ए॒व । 16) अ॒हो॒रा॒त्रे इत्य॑हः - रा॒त्रे । 17) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ । 18) अ॒स्मै॒ प्रत्ते॒ प्रत्ते॑ अस्मा अस्मै॒ प्रत्ते᳚ । 19) प्रत्ते॒ काम॒-ङ्काम॒-म्प्रत्ते॒ प्रत्ते॒ काम᳚म् । 19) प्रत्ते॒ इति॒ प्रत्ते᳚ । 20) काम॑ म॒न्नाद्य॑ म॒न्नाद्य॒-ङ्काम॒-ङ्काम॑ म॒न्नाद्य᳚म् । 21) अ॒न्नाद्य॑-न्दुहाते दुहाते अ॒न्नाद्य॑ म॒न्नाद्य॑-न्दुहाते । 21) अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । 22) दु॒हा॒ते॒ रा॒ष्ट्र॒भृतो॑ राष्ट्र॒भृतो॑ दुहाते दुहाते राष्ट्र॒भृतः॑ । 22) दु॒हा॒ते॒ इति॑ दुहाते । 23) रा॒ष्ट्र॒भृतो॑ जुहोति जुहोति राष्ट्र॒भृतो॑ राष्ट्र॒भृतो॑ जुहोति । 23) रा॒ष्ट्र॒भृत॒ इति॑ राष्ट्र - भृतः॑ । 24) जु॒हो॒ति॒ रा॒ष्ट्रग्ं रा॒ष्ट्र-ञ्जु॑होति जुहोति रा॒ष्ट्रम् । 25) रा॒ष्ट्र मे॒वैव रा॒ष्ट्रग्ं रा॒ष्ट्र मे॒व । 26) ए॒वावा वै॒वै वाव॑ । 27) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 28) रु॒न्धे॒ ष॒ड्भि ष्ष॒ड्भी रु॑न्धे रुन्धे ष॒ड्भिः । 29) ष॒ड्भि-र्जु॑होति जुहोति ष॒ड्भि ष्ष॒ड्भि-र्जु॑होति । 29) ष॒ड्भिरिति॑ षट् - भिः । 30) जु॒हो॒ति॒ ष-ट्थ्ष-ड्जु॑होति जुहोति॒ षट् । 31) ष-ड्वै वै ष-ट्थ्ष-ड्वै । 32) वा ऋ॒तव॑ ऋ॒तवो॒ वै वा ऋ॒तवः॑ । 33) ऋ॒तव॑ ऋ॒तुष् वृ॒तुष् वृ॒तव॑ ऋ॒तव॑ ऋ॒तुषु॑ । 34) ऋ॒तु ष्वे॒वैव र्तुष् वृ॒तु ष्वे॒व । 35) ए॒व प्रति॒ प्रत्ये॒ वैव प्रति॑ । 36) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति । 37) ति॒ष्ठ॒ति॒ भुव॑नस्य॒ भुव॑नस्य तिष्ठति तिष्ठति॒ भुव॑नस्य । 38) भुव॑नस्य पते पते॒ भुव॑नस्य॒ भुव॑नस्य पते । 39) प॒त॒ इतीति॑ पते पत॒ इति॑ । 40) इति॑ रथमु॒खे र॑थमु॒ख इतीति॑ रथमु॒खे । 41) र॒थ॒मु॒खे पञ्च॒ पञ्च॑ रथमु॒खे र॑थमु॒खे पञ्च॑ । 41) र॒थ॒मु॒ख इति॑ रथ - मु॒खे । 42) पञ्चाहु॑ती॒ राहु॑तीः॒ पञ्च॒ पञ्चाहु॑तीः । 43) आहु॑ती-र्जुहोति जुहो॒ त्याहु॑ती॒ राहु॑ती-र्जुहोति । 43) आहु॑ती॒रित्या - हु॒तीः॒ । 44) जु॒हो॒ति॒ वज्रो॒ वज्रो॑ जुहोति जुहोति॒ वज्रः॑ । 45) वज्रो॒ वै वै वज्रो॒ वज्रो॒ वै । 46) वै रथो॒ रथो॒ वै वै रथः॑ । 47) रथो॒ वज्रे॑ण॒ वज्रे॑ण॒ रथो॒ रथो॒ वज्रे॑ण । 48) वज्रे॑ णै॒वैव वज्रे॑ण॒ वज्रे॑णै॒व । 49) ए॒व दिशो॒ दिश॑ ए॒वैव दिशः॑ । 50) दिशो॒ ऽभ्य॑भि दिशो॒ दिशो॒ ऽभि । ॥ 45 ॥ (50/60)
1) अ॒भि ज॑यति जय त्य॒भ्य॑भि ज॑यति । 2) ज॒य॒ त्य॒ग्नि॒चित॑ मग्नि॒चित॑-ञ्जयति जय त्यग्नि॒चित᳚म् । 3) अ॒ग्नि॒चितग्ं॑ ह हाग्नि॒चित॑ मग्नि॒चितग्ं॑ ह । 3) अ॒ग्नि॒चित॒मित्य॑ग्नि - चित᳚म् । 4) ह॒ वै वै ह॑ ह॒ वै । 5) वा अ॒मुष्मि॑-न्न॒मुष्मि॒न्॒. वै वा अ॒मुष्मिन्न्॑ । 6) अ॒मुष्मि॑न् ँलो॒के लो॒के॑ ऽमुष्मि॑-न्न॒मुष्मि॑न् ँलो॒के । 7) लो॒के वातो॒ वातो॑ लो॒के लो॒के वातः॑ । 8) वातो॒ ऽभ्य॑भि वातो॒ वातो॒ ऽभि । 9) अ॒भि प॑वते पवते॒ ऽभ्य॑भि प॑वते । 10) प॒व॒ते॒ वा॒त॒ना॒मानि॑ वातना॒मानि॑ पवते पवते वातना॒मानि॑ । 11) वा॒त॒ना॒मानि॑ जुहोति जुहोति वातना॒मानि॑ वातना॒मानि॑ जुहोति । 11) वा॒त॒ना॒मानीति॑ वात - ना॒मानि॑ । 12) जु॒हो॒त्य॒ भ्य॑भि जु॑होति जुहोत्य॒भि । 13) अ॒भ्ये॑वै वाभ्या᳚(1॒) भ्ये॑व । 14) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 15) ए॒न॒ म॒मुष्मि॑-न्न॒मुष्मि॑-न्नेन मेन म॒मुष्मिन्न्॑ । 16) अ॒मुष्मि॑न् ँलो॒के लो॒के॑ ऽमुष्मि॑-न्न॒मुष्मि॑न् ँलो॒के । 17) लो॒के वातो॒ वातो॑ लो॒के लो॒के वातः॑ । 18) वातः॑ पवते पवते॒ वातो॒ वातः॑ पवते । 19) प॒व॒ते॒ त्रीणि॒ त्रीणि॑ पवते पवते॒ त्रीणि॑ । 20) त्रीणि॑ जुहोति जुहोति॒ त्रीणि॒ त्रीणि॑ जुहोति । 21) जु॒हो॒ति॒ त्रय॒ स्त्रयो॑ जुहोति जुहोति॒ त्रयः॑ । 22) त्रय॑ इ॒म इ॒मे त्रय॒ स्त्रय॑ इ॒मे । 23) इ॒मे लो॒का लो॒का इ॒म इ॒मे लो॒काः । 24) लो॒का ए॒भ्य ए॒भ्यो लो॒का लो॒का ए॒भ्यः । 25) ए॒भ्य ए॒वै वैभ्य ए॒भ्य ए॒व । 26) ए॒व लो॒केभ्यो॑ लो॒केभ्य॑ ए॒वैव लो॒केभ्यः॑ । 27) लो॒केभ्यो॒ वातं॒-वाँत॑म् ँलो॒केभ्यो॑ लो॒केभ्यो॒ वात᳚म् । 28) वात॒ मवाव॒ वातं॒-वाँत॒ मव॑ । 29) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 30) रु॒न्धे॒ स॒मु॒द्र-स्स॑मु॒द्रो रु॑न्धे रुन्धे समु॒द्रः । 31) स॒मु॒द्रो᳚ ऽस्यसि समु॒द्र-स्स॑मु॒द्रो॑ ऽसि । 32) अ॒सि॒ नभ॑स्वा॒-न्नभ॑स्वा नस्यसि॒ नभ॑स्वान् । 33) नभ॑स्वा॒ नितीति॒ नभ॑स्वा॒-न्नभ॑स्वा॒ निति॑ । 34) इत्या॑हा॒हे तीत्या॑ह । 35) आ॒है॒त दे॒त दा॑हा है॒तत् । 36) ए॒त-द्वै वा ए॒त दे॒त-द्वै । 37) वै वात॑स्य॒ वात॑स्य॒ वै वै वात॑स्य । 38) वात॑स्य रू॒पग्ं रू॒पं-वाँत॑स्य॒ वात॑स्य रू॒पम् । 39) रू॒पग्ं रू॒पेण॑ रू॒पेण॑ रू॒पग्ं रू॒पग्ं रू॒पेण॑ । 40) रू॒पे णै॒वैव रू॒पेण॑ रू॒पेणै॒व । 41) ए॒व वातं॒-वाँत॑ मे॒वैव वात᳚म् । 42) वात॒ मवाव॒ वातं॒-वाँत॒ मव॑ । 43) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 44) रु॒न्धे॒ ऽञ्ज॒लिना᳚ ऽञ्ज॒लिना॑ रुन्धे रुन्धे ऽञ्ज॒लिना᳚ । 45) अ॒ञ्ज॒लिना॑ जुहोति जुहो त्यञ्ज॒लिना᳚ ऽञ्ज॒लिना॑ जुहोति । 46) जु॒हो॒ति॒ न न जु॑होति जुहोति॒ न । 47) न हि हि न न हि । 48) ह्ये॑तेषा॑ मे॒तेषा॒ग्ं॒ हि ह्ये॑तेषा᳚म् । 49) ए॒तेषा॑ म॒न्यथा॒ ऽन्यथै॒तेषा॑ मे॒तेषा॑ म॒न्यथा᳚ । 50) अ॒न्यथा ऽऽहु॑ती॒ राहु॑ती र॒न्यथा॒ ऽन्यथा ऽऽहु॑तीः । 51) आहु॑ती रव॒कल्प॑ते ऽव॒कल्प॑त॒ आहु॑ती॒ राहु॑ती रव॒कल्प॑ते । 51) आहु॑ति॒रित्या - हु॒तिः॒ । 52) अ॒व॒कल्प॑त॒ इत्य॑व - कल्प॑ते । ॥ 46 ॥ (52/55) ॥ अ. 9 ॥
1) सु॒व॒र्गाय॒ वै वै सु॑व॒र्गाय॑ सुव॒र्गाय॒ वै । 1) सु॒व॒र्गायेति॑ सुवः - गाय॑ । 2) वै लो॒काय॑ लो॒काय॒ वै वै लो॒काय॑ । 3) लो॒काय॑ देवर॒थो दे॑वर॒थो लो॒काय॑ लो॒काय॑ देवर॒थः । 4) दे॒व॒र॒थो यु॑ज्यते युज्यते देवर॒थो दे॑वर॒थो यु॑ज्यते । 4) दे॒व॒र॒थ इति॑ देव - र॒थः । 5) यु॒ज्य॒ते॒ य॒त्रा॒कू॒ताय॑ यत्राकू॒ताय॑ युज्यते युज्यते यत्राकू॒ताय॑ । 6) य॒त्रा॒कू॒ताय॑ मनुष्यर॒थो म॑नुष्यर॒थो य॑त्राकू॒ताय॑ यत्राकू॒ताय॑ मनुष्यर॒थः । 6) य॒त्रा॒कू॒तायेति॑ यत्र - आ॒कू॒ताय॑ । 7) म॒नु॒ष्य॒र॒थ ए॒ष ए॒ष म॑नुष्यर॒थो म॑नुष्यर॒थ ए॒षः । 7) म॒नु॒ष्य॒र॒थ इति॑ मनुष्य - र॒थः । 8) ए॒ष खलु॒ खल्वे॒ष ए॒ष खलु॑ । 9) खलु॒ वै वै खलु॒ खलु॒ वै । 10) वै दे॑वर॒थो दे॑वर॒थो वै वै दे॑वर॒थः । 11) दे॒व॒र॒थो य-द्य-द्दे॑वर॒थो दे॑वर॒थो यत् । 11) दे॒व॒र॒थ इति॑ देव - र॒थः । 12) यद॒ग्नि र॒ग्नि-र्य-द्यद॒ग्निः । 13) अ॒ग्नि र॒ग्नि म॒ग्नि म॒ग्नि र॒ग्नि र॒ग्निम् । 14) अ॒ग्निं-युँ॑नज्मि युनज्म्य॒ग्नि म॒ग्निं-युँ॑नज्मि । 15) यु॒न॒ज्मि॒ शव॑सा॒ शव॑सा युनज्मि युनज्मि॒ शव॑सा । 16) शव॑सा घृ॒तेन॑ घृ॒तेन॒ शव॑सा॒ शव॑सा घृ॒तेन॑ । 17) घृ॒तेने तीति॑ घृ॒तेन॑ घृ॒तेनेति॑ । 18) इत्या॑हा॒हे तीत्या॑ह । 19) आ॒ह॒ यु॒नक्ति॑ यु॒न-क्त्या॑हाह यु॒नक्ति॑ । 20) यु॒नक्त्ये॒ वैव यु॒नक्ति॑ यु॒न-क्त्ये॒व । 21) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 22) ए॒न॒ग्ं॒ स स ए॑न मेन॒ग्ं॒ सः । 23) स ए॑न मेन॒ग्ं॒ स स ए॑नम् । 24) ए॒नं॒-युँ॒क्तो यु॒क्त ए॑न मेनं-युँ॒क्तः । 25) यु॒क्त-स्सु॑व॒र्गग्ं सु॑व॒र्गं-युँ॒क्तो यु॒क्त-स्सु॑व॒र्गम् । 26) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् । 26) सु॒व॒र्गमिति॑ सुवः - गम् । 27) लो॒क म॒भ्य॑भि लो॒कम् ँलो॒क म॒भि । 28) अ॒भि व॑हति वह त्य॒भ्य॑भि व॑हति । 29) व॒ह॒ति॒ य-द्य-द्व॑हति वहति॒ यत् । 30) य-थ्सर्वा॑भि॒-स्सर्वा॑भि॒-र्य-द्य-थ्सर्वा॑भिः । 31) सर्वा॑भिः प॒ञ्चभिः॑ प॒ञ्चभि॒-स्सर्वा॑भि॒-स्सर्वा॑भिः प॒ञ्चभिः॑ । 32) प॒ञ्चभि॑-र्यु॒ञ्ज्या-द्यु॒ञ्ज्या-त्प॒ञ्चभिः॑ प॒ञ्चभि॑-र्यु॒ञ्ज्यात् । 32) प॒ञ्चभि॒रिति॑ प॒ञ्च - भिः॒ । 33) यु॒ञ्ज्या-द्यु॒क्तो यु॒क्तो यु॒ञ्ज्या-द्यु॒ञ्ज्या-द्यु॒क्तः । 34) यु॒क्तो᳚ ऽस्यास्य यु॒क्तो यु॒क्तो᳚ ऽस्य । 35) अ॒स्या॒ग्नि र॒ग्नि र॑स्या स्या॒ग्निः । 36) अ॒ग्निः प्रच्यु॑तः॒ प्रच्यु॑तो॒ ऽग्नि र॒ग्निः प्रच्यु॑तः । 37) प्रच्यु॑त-स्स्या-थ्स्या॒-त्प्रच्यु॑तः॒ प्रच्यु॑त-स्स्यात् । 37) प्रच्यु॑त॒ इति॒ प्र - च्यु॒तः॒ । 38) स्या॒ दप्र॑तिष्ठिता॒ अप्र॑तिष्ठिता-स्स्या-थ्स्या॒ दप्र॑तिष्ठिताः । 39) अप्र॑तिष्ठिता॒ आहु॑तय॒ आहु॑त॒यो ऽप्र॑तिष्ठिता॒ अप्र॑तिष्ठिता॒ आहु॑तयः । 39) अप्र॑तिष्ठिता॒ इत्यप्र॑ति - स्थि॒ताः॒ । 40) आहु॑तय॒-स्स्यु-स्स्यु राहु॑तय॒ आहु॑तय॒-स्स्युः । 40) आहु॑तय॒ इत्या - हु॒त॒यः॒ । 41) स्यु रप्र॑तिष्ठिता॒ अप्र॑तिष्ठिता॒-स्स्यु-स्स्यु रप्र॑तिष्ठिताः । 42) अप्र॑तिष्ठिता॒-स्स्तोमा॒-स्स्तोमा॒ अप्र॑तिष्ठिता॒ अप्र॑तिष्ठिता॒-स्स्तोमाः᳚ । 42) अप्र॑तिष्ठिता॒ इत्यप्र॑ति - स्थि॒ताः॒ । 43) स्तोमा॒ अप्र॑तिष्ठिता॒न्य प्र॑तिष्ठितानि॒ स्तोमा॒-स्स्तोमा॒ अप्र॑तिष्ठितानि । 44) अप्र॑तिष्ठिता न्यु॒क्था न्यु॒क्था न्यप्र॑तिष्ठिता॒ न्यप्र॑तिष्ठिता न्यु॒क्थानि॑ । 44) अप्र॑तिष्ठिता॒नीत्यप्र॑ति - स्थि॒ता॒नि॒ । 45) उ॒क्थानि॑ ति॒सृभि॑ स्ति॒सृभि॑ रु॒क्था न्यु॒क्थानि॑ ति॒सृभिः॑ । 46) ति॒सृभिः॑ प्रातस्सव॒ने प्रा॑तस्सव॒ने ति॒सृभि॑ स्ति॒सृभिः॑ प्रातस्सव॒ने । 46) ति॒सृभि॒रिति॑ ति॒सृ - भिः॒ । 47) प्रा॒त॒स्स॒व॒ने᳚(1॒) ऽभ्य॑भि प्रा॑तस्सव॒ने प्रा॑तस्सव॒ने॑ ऽभि । 47) प्रा॒त॒स्स॒व॒न इति॑ प्रातः - स॒व॒ने । 48) अ॒भि मृ॑शति मृश त्य॒भ्य॑भि मृ॑शति । 49) मृ॒श॒ति॒ त्रि॒वृ-त्त्रि॒वृ-न्मृ॑शति मृशति त्रि॒वृत् । 50) त्रि॒वृ-द्वै वै त्रि॒वृ-त्त्रि॒वृ-द्वै । 50) त्रि॒वृदिति॑ त्रि - वृत् । ॥ 47 ॥ (50/65)
1) वा अ॒ग्नि र॒ग्नि-र्वै वा अ॒ग्निः । 2) अ॒ग्नि-र्यावा॒न्॒. यावा॑ न॒ग्नि र॒ग्नि-र्यावान्॑ । 3) यावा॑ ने॒वैव यावा॒न्॒. यावा॑ ने॒व । 4) ए॒वाग्नि र॒ग्नि रे॒वै वाग्निः । 5) अ॒ग्नि स्त-न्त म॒ग्नि र॒ग्नि स्तम् । 6) तं-युँ॑नक्ति युनक्ति॒ त-न्तं-युँ॑नक्ति । 7) यु॒न॒क्ति॒ यथा॒ यथा॑ युनक्ति युनक्ति॒ यथा᳚ । 8) यथा ऽन॒ स्यन॑सि॒ यथा॒ यथा ऽन॑सि । 9) अन॑सि यु॒क्ते यु॒क्ते ऽन॒ स्यन॑सि यु॒क्ते । 10) यु॒क्त आ॑धी॒यत॑ आधी॒यते॑ यु॒क्ते यु॒क्त आ॑धी॒यते᳚ । 11) आ॒धी॒यत॑ ए॒व मे॒व मा॑धी॒यत॑ आधी॒यत॑ ए॒वम् । 11) आ॒धी॒यत॒ इत्या᳚ - धी॒यते᳚ । 12) ए॒व मे॒वै वैव मे॒व मे॒व । 13) ए॒व त-त्तदे॒ वैव तत् । 14) त-त्प्रति॒ प्रति॒ त-त्त-त्प्रति॑ । 15) प्रत्याहु॑तय॒ आहु॑तयः॒ प्रति॒ प्रत्याहु॑तयः । 16) आहु॑तय॒ स्तिष्ठ॑न्ति॒ तिष्ठ॒-न्त्याहु॑तय॒ आहु॑तय॒ स्तिष्ठ॑न्ति । 16) आहु॑तय॒ इत्या - हु॒त॒यः॒ । 17) तिष्ठ॑न्ति॒ प्रति॒ प्रति॒ तिष्ठ॑न्ति॒ तिष्ठ॑न्ति॒ प्रति॑ । 18) प्रति॒ स्तोमा॒-स्स्तोमाः॒ प्रति॒ प्रति॒ स्तोमाः᳚ । 19) स्तोमाः॒ प्रति॒ प्रति॒ स्तोमा॒-स्स्तोमाः॒ प्रति॑ । 20) प्रत्यु॒क्था न्यु॒क्थानि॒ प्रति॒ प्रत्यु॒क्थानि॑ । 21) उ॒क्थानि॑ यज्ञाय॒ज्ञिय॑स्य यज्ञाय॒ज्ञिय॑ स्यो॒क्था न्यु॒क्थानि॑ यज्ञाय॒ज्ञिय॑स्य । 22) य॒ज्ञा॒य॒ज्ञिय॑स्य स्तो॒त्रे स्तो॒त्रे य॑ज्ञाय॒ज्ञिय॑स्य यज्ञाय॒ज्ञिय॑स्य स्तो॒त्रे । 23) स्तो॒त्रे द्वाभ्या॒-न्द्वाभ्याग्॑ स्तो॒त्रे स्तो॒त्रे द्वाभ्या᳚म् । 24) द्वाभ्या॑ म॒भ्य॑भि द्वाभ्या॒-न्द्वाभ्या॑ म॒भि । 25) अ॒भि मृ॑शति मृश त्य॒भ्य॑भि मृ॑शति । 26) मृ॒श॒ त्ये॒तावा॑ ने॒तावा᳚-न्मृशति मृश त्ये॒तावान्॑ । 27) ए॒तावा॒न्॒. वै वा ए॒तावा॑ ने॒तावा॒न्॒. वै । 28) वै य॒ज्ञो य॒ज्ञो वै वै य॒ज्ञः । 29) य॒ज्ञो यावा॒न्॒. यावान्॑. य॒ज्ञो य॒ज्ञो यावान्॑ । 30) यावा॑ नग्निष्टो॒मो᳚ ऽग्निष्टो॒मो यावा॒न्॒. यावा॑ नग्निष्टो॒मः । 31) अ॒ग्नि॒ष्टो॒मो भू॒मा भू॒मा ऽग्नि॑ष्टो॒मो᳚ ऽग्निष्टो॒मो भू॒मा । 31) अ॒ग्नि॒ष्टो॒म इत्य॑ग्नि - स्तो॒मः । 32) भू॒मा तु तु भू॒मा भू॒मा तु । 33) त्वै वै तु त्वै । 34) वा अ॑स्यास्य॒ वै वा अ॑स्य । 35) अ॒स्यातो ऽतो᳚ ऽस्या॒ स्यातः॑ । 36) अत॑ ऊ॒र्ध्व ऊ॒र्ध्वो ऽतो ऽत॑ ऊ॒र्ध्वः । 37) ऊ॒र्ध्वः क्रि॑यते क्रियत ऊ॒र्ध्व ऊ॒र्ध्वः क्रि॑यते । 38) क्रि॒य॒ते॒ यावा॒न्॒. यावा᳚न् क्रियते क्रियते॒ यावान्॑ । 39) यावा॑ ने॒वैव यावा॒न्॒. यावा॑ ने॒व । 40) ए॒व य॒ज्ञो य॒ज्ञ ए॒वैव य॒ज्ञः । 41) य॒ज्ञ स्त-न्तं-यँ॒ज्ञो य॒ज्ञ स्तम् । 42) त म॑न्त॒तो᳚ ऽन्त॒त स्त-न्त म॑न्त॒तः । 43) अ॒न्त॒तो᳚ ऽन्वारो॑ह त्य॒न्वारो॑ह त्यन्त॒तो᳚ ऽन्त॒तो᳚ ऽन्वारो॑हति । 44) अ॒न्वारो॑हति॒ द्वाभ्या॒-न्द्वाभ्या॑ म॒न्वारो॑ह त्य॒न्वारो॑हति॒ द्वाभ्या᳚म् । 44) अ॒न्वारो॑ह॒तीत्य॑नु - आरो॑हति । 45) द्वाभ्या॒-म्प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै॒ द्वाभ्या॒-न्द्वाभ्या॒-म्प्रति॑ष्ठित्यै । 46) प्रति॑ष्ठित्या॒ एक॒यैक॑या॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्या॒ एक॑या । 46) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । 47) एक॒या ऽप्र॑स्तुत॒ मप्र॑स्तुत॒ मेक॒ यैक॒या ऽप्र॑स्तुतम् । 48) अप्र॑स्तुत॒-म्भव॑ति॒ भव॒त्य प्र॑स्तुत॒ मप्र॑स्तुत॒-म्भव॑ति । 48) अप्र॑स्तुत॒मित्यप्र॑ - स्तु॒त॒म् । 49) भव॒त्य थाथ॒ भव॑ति॒ भव॒ त्यथ॑ । 50) अथा॒ भ्य॑भ्य थाथा॒भि । ॥ 48 ॥ (50/56)
1) अ॒भि मृ॑शति मृश त्य॒भ्य॑भि मृ॑शति । 2) मृ॒श॒ त्युपोप॑ मृशति मृश॒ त्युप॑ । 3) उपै॑न मेन॒ मुपो पै॑नम् । 4) ए॒न॒ मुत्त॑र॒ उत्त॑र एन मेन॒ मुत्त॑रः । 5) उत्त॑रो य॒ज्ञो य॒ज्ञ उत्त॑र॒ उत्त॑रो य॒ज्ञः । 5) उत्त॑र॒ इत्युत् - त॒रः॒ । 6) य॒ज्ञो न॑मति नमति य॒ज्ञो य॒ज्ञो न॑मति । 7) न॒म॒ त्यथो॒ अथो॑ नमति नम॒ त्यथो᳚ । 8) अथो॒ सन्त॑त्यै॒ सन्त॑त्या॒ अथो॒ अथो॒ सन्त॑त्यै । 8) अथो॒ इत्यथो᳚ । 9) सन्त॑त्यै॒ प्र प्र सन्त॑त्यै॒ सन्त॑त्यै॒ प्र । 9) सन्त॑त्या॒ इति॒ सं - त॒त्यै॒ । 10) प्र वै वै प्र प्र वै । 11) वा ए॒ष ए॒ष वै वा ए॒षः । 12) ए॒षो᳚ ऽस्मा द॒स्मा दे॒ष ए॒षो᳚ ऽस्मात् । 13) अ॒स्मा-ल्लो॒का-ल्लो॒का द॒स्मा द॒स्मा-ल्लो॒कात् । 14) लो॒काच् च्य॑वते च्यवते लो॒का-ल्लो॒काच् च्य॑वते । 15) च्य॒व॒ते॒ यो यश्च्य॑वते च्यवते॒ यः । 16) यो᳚ ऽग्नि म॒ग्निं-योँ यो᳚ ऽग्निम् । 17) अ॒ग्नि-ञ्चि॑नु॒ते चि॑नु॒ते᳚ ऽग्नि म॒ग्नि-ञ्चि॑नु॒ते । 18) चि॒नु॒ते न न चि॑नु॒ते चि॑नु॒ते न । 19) न वै वै न न वै । 20) वा ए॒त स्यै॒तस्य॒ वै वा ए॒तस्य॑ । 21) ए॒तस्या॑ निष्ट॒के॑ ऽनिष्ट॒क ए॒त स्यै॒तस्या॑ निष्ट॒के । 22) अ॒नि॒ष्ट॒क आहु॑ति॒ राहु॑ति रनिष्ट॒के॑ ऽनिष्ट॒क आहु॑तिः । 23) आहु॑ति॒ रवावा हु॑ति॒ राहु॑ति॒ रव॑ । 23) आहु॑ति॒रित्या - हु॒तिः॒ । 24) अव॑ कल्पते कल्प॒ते ऽवाव॑ कल्पते । 25) क॒ल्प॒ते॒ यां-याँ-ङ्क॑ल्पते कल्पते॒ याम् । 26) यां-वैँ वै यां-यांँ वै । 27) वा ए॒ष ए॒ष वै वा ए॒षः । 28) ए॒षो॑ ऽनिष्ट॒के॑ ऽनिष्ट॒क ए॒ष ए॒षो॑ ऽनिष्ट॒के । 29) अ॒नि॒ष्ट॒क आहु॑ति॒ माहु॑ति मनिष्ट॒के॑ ऽनिष्ट॒क आहु॑तिम् । 30) आहु॑ति-ञ्जु॒होति॑ जु॒हो त्याहु॑ति॒ माहु॑ति-ञ्जु॒होति॑ । 30) आहु॑ति॒मित्या - हु॒ति॒म् । 31) जु॒होति॒ स्रव॑ति॒ स्रव॑ति जु॒होति॑ जु॒होति॒ स्रव॑ति । 32) स्रव॑ति॒ वै वै स्रव॑ति॒ स्रव॑ति॒ वै । 33) वै सा सा वै वै सा । 34) सा ता-न्ताग्ं सा सा ताम् । 35) ताग् स्रव॑न्ती॒ग्॒ स्रव॑न्ती॒-न्ता-न्ताग् स्रव॑न्तीम् । 36) स्रव॑न्तीं-यँ॒ज्ञो य॒ज्ञ-स्स्रव॑न्ती॒ग्॒ स्रव॑न्तीं-यँ॒ज्ञः । 37) य॒ज्ञो ऽन्वनु॑ य॒ज्ञो य॒ज्ञो ऽनु॑ । 38) अनु॒ परा॒ परा ऽन्वनु॒ परा᳚ । 39) परा॑ भवति भवति॒ परा॒ परा॑ भवति । 40) भ॒व॒ति॒ य॒ज्ञं-यँ॒ज्ञ-म्भ॑वति भवति य॒ज्ञम् । 41) य॒ज्ञं-यँज॑मानो॒ यज॑मानो य॒ज्ञं-यँ॒ज्ञं-यँज॑मानः । 42) यज॑मानो॒ य-द्य-द्यज॑मानो॒ यज॑मानो॒ यत् । 43) य-त्पु॑नश्चि॒ति-म्पु॑नश्चि॒तिं-यँ-द्य-त्पु॑नश्चि॒तिम् । 44) पु॒न॒श्चि॒ति-ञ्चि॑नु॒ते चि॑नु॒ते पु॑नश्चि॒ति-म्पु॑नश्चि॒ति-ञ्चि॑नु॒ते । 44) पु॒न॒श्चि॒तिमिति॑ पुनः - चि॒तिम् । 45) चि॒नु॒त आहु॑तीना॒ माहु॑तीना-ञ्चिनु॒ते चि॑नु॒त आहु॑तीनाम् । 46) आहु॑तीना॒-म्प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्या॒ आहु॑तीना॒ माहु॑तीना॒-म्प्रति॑ष्ठित्यै । 46) आहु॑तीना॒मित्या - हु॒ती॒ना॒म् । 47) प्रति॑ष्ठित्यै॒ प्रति॒ प्रति॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै॒ प्रति॑ । 47) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । 48) प्रत्याहु॑तय॒ आहु॑तयः॒ प्रति॒ प्रत्याहु॑तयः । 49) आहु॑तय॒ स्तिष्ठ॑न्ति॒ तिष्ठ॒-न्त्याहु॑तय॒ आहु॑तय॒ स्तिष्ठ॑न्ति । 49) आहु॑तय॒ इत्या - हु॒त॒यः॒ । 50) तिष्ठ॑न्ति॒ न न तिष्ठ॑न्ति॒ तिष्ठ॑न्ति॒ न । ॥ 49 ॥ (50/59)
1) न य॒ज्ञो य॒ज्ञो न न य॒ज्ञः । 2) य॒ज्ञः प॑रा॒भव॑ति परा॒भव॑ति य॒ज्ञो य॒ज्ञः प॑रा॒भव॑ति । 3) प॒रा॒भव॑ति॒ न न प॑रा॒भव॑ति परा॒भव॑ति॒ न । 3) प॒रा॒भव॒तीति॑ परा - भव॑ति । 4) न यज॑मानो॒ यज॑मानो॒ न न यज॑मानः । 5) यज॑मानो॒ ऽष्टा व॒ष्टौ यज॑मानो॒ यज॑मानो॒ ऽष्टौ । 6) अ॒ष्टा वुपोपा॒ष्टा व॒ष्टा वुप॑ । 7) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 8) द॒धा॒ त्य॒ष्टाक्ष॑रा॒ ऽष्टाक्ष॑रा दधाति दधा त्य॒ष्टाक्ष॑रा । 9) अ॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒ त्र्य॑ष्टाक्ष॑रा॒ ऽष्टाक्ष॑रा गाय॒त्री । 9) अ॒ष्टाक्ष॒रेत्य॒ष्टा - अ॒क्ष॒रा॒ । 10) गा॒य॒त्री गा॑य॒त्रेण॑ गाय॒त्रेण॑ गाय॒त्री गा॑य॒त्री गा॑य॒त्रेण॑ । 11) गा॒य॒त्रेणै॒वैव गा॑य॒त्रेण॑ गाय॒त्रेणै॒व । 12) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 13) ए॒न॒-ञ्छन्द॑सा॒ छन्द॑सैन मेन॒-ञ्छन्द॑सा । 14) छन्द॑सा चिनुते चिनुते॒ छन्द॑सा॒ छन्द॑सा चिनुते । 15) चि॒नु॒ते॒ य-द्यच् चि॑नुते चिनुते॒ यत् । 16) यदेका॑द॒ शैका॑दश॒ य-द्यदेका॑दश । 17) एका॑दश॒ त्रैष्टु॑भेन॒ त्रैष्टु॑भे॒ नैका॑द॒ शैका॑दश॒ त्रैष्टु॑भेन । 18) त्रैष्टु॑भेन॒ य-द्य-त्त्रैष्टु॑भेन॒ त्रैष्टु॑भेन॒ यत् । 19) य-द्द्वाद॑श॒ द्वाद॑श॒ य-द्य-द्द्वाद॑श । 20) द्वाद॑श॒ जाग॑तेन॒ जाग॑तेन॒ द्वाद॑श॒ द्वाद॑श॒ जाग॑तेन । 21) जाग॑तेन॒ छन्दो॑भि॒ श्छन्दो॑भि॒-र्जाग॑तेन॒ जाग॑तेन॒ छन्दो॑भिः । 22) छन्दो॑भि रे॒वैव छन्दो॑भि॒ श्छन्दो॑भ् रे॒व । 22) छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ । 23) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 24) ए॒न॒-ञ्चि॒नु॒ते॒ चि॒नु॒त॒ ए॒न॒ मे॒न॒-ञ्चि॒नु॒ते॒ । 25) चि॒नु॒ते॒ न॒पा॒त्को न॑पा॒त्क श्चि॑नुते चिनुते नपा॒त्कः । 26) न॒पा॒त्को वै वै न॑पा॒त्को न॑पा॒त्को वै । 27) वै नाम॒ नाम॒ वै वै नाम॑ । 28) नामै॒ष ए॒ष नाम॒ नामै॒षः । 29) ए॒षो᳚ ऽग्नि र॒ग्नि रे॒ष ए॒षो᳚ ऽग्निः । 30) अ॒ग्नि-र्य-द्यद॒ग्नि र॒ग्नि-र्यत् । 31) य-त्पु॑नश्चि॒तिः पु॑नश्चि॒ति-र्य-द्य-त्पु॑नश्चि॒तिः । 32) पु॒न॒श्चि॒ति-र्यो यः पु॑नश्चि॒तिः पु॑नश्चि॒ति-र्यः । 32) पु॒न॒श्चि॒तिरिति॑ पुनः - चि॒तिः । 33) य ए॒व मे॒वं-योँ य ए॒वम् । 34) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् । 35) वि॒द्वा-न्पु॑नश्चि॒ति-म्पु॑नश्चि॒तिं-विँ॒द्वान्. वि॒द्वा-न्पु॑नश्चि॒तिम् । 36) पु॒न॒श्चि॒ति-ञ्चि॑नु॒ते चि॑नु॒ते पु॑नश्चि॒ति-म्पु॑नश्चि॒ति-ञ्चि॑नु॒ते । 36) पु॒न॒श्चि॒तिमिति॑ पुनः - चि॒तिम् । 37) चि॒नु॒त आ चि॑नु॒ते चि॑नु॒त आ । 38) आ तृ॒तीया᳚-त्तृ॒तीया॒दा तृ॒तीया᳚त् । 39) तृ॒तीया॒-त्पुरु॑षा॒-त्पुरु॑षा-त्तृ॒तीया᳚-त्तृ॒तीया॒-त्पुरु॑षात् । 40) पुरु॑षा॒ दन्न॒ मन्न॒-म्पुरु॑षा॒-त्पुरु॑षा॒ दन्न᳚म् । 41) अन्न॑ मत्त्य॒ त्त्यन्न॒ मन्न॑ मत्ति । 42) अ॒त्ति॒ यथा॒ यथा᳚ ऽत्त्यत्ति॒ यथा᳚ । 43) यथा॒ वै वै यथा॒ यथा॒ वै । 44) वै पु॑नरा॒धेयः॑ पुनरा॒धेयो॒ वै वै पु॑नरा॒धेयः॑ । 45) पु॒न॒रा॒धेय॑ ए॒व मे॒व-म्पु॑नरा॒धेयः॑ पुनरा॒धेय॑ ए॒वम् । 45) पु॒न॒रा॒धेय॒ इति॑ पुनः - आ॒धेयः॑ । 46) ए॒व-म्पु॑नश्चि॒तिः पु॑नश्चि॒ति रे॒व मे॒व-म्पु॑नश्चि॒तिः । 47) पु॒न॒श्चि॒ति-र्यो यः पु॑नश्चि॒तिः पु॑नश्चि॒ति-र्यः । 47) पु॒न॒श्चि॒तिरिति॑ पुनः - चि॒तिः । 48) यो᳚ ऽग्न्या॒धेये॑ना ग्न्या॒धेये॑न॒ यो यो᳚ ऽग्न्या॒धेये॑न । 49) अ॒ग्न्या॒धेये॑न॒ न नाग्न्या॒धेये॑ नाग्न्या॒धेये॑न॒ न । 49) अ॒ग्न्या॒धेये॒नेत्य॑ग्नि - आ॒धेये॑न । 50) न र्ध्नो त्यृ॒द्ध्नोति॒ न न र्ध्नोति॑ । ॥ 50 ॥ (50/58)
1) ऋ॒द्ध्नोति॒ स स ऋ॒द्ध्नो त्यृ॒द्ध्नोति॒ सः । 2) स पु॑नरा॒धेय॑-म्पुनरा॒धेय॒ग्ं॒ स स पु॑नरा॒धेय᳚म् । 3) पु॒न॒रा॒धेय॒ मा पु॑नरा॒धेय॑-म्पुनरा॒धेय॒ मा । 3) पु॒न॒रा॒धेय॒मिति॑ पुनः - आ॒धेय᳚म् । 4) आ ध॑त्ते धत्त॒ आ ध॑त्ते । 5) ध॒त्ते॒ यो यो ध॑त्ते धत्ते॒ यः । 6) यो᳚ ऽग्नि म॒ग्निं-योँ यो᳚ ऽग्निम् । 7) अ॒ग्नि-ञ्चि॒त्वा चि॒त्वा ऽग्नि म॒ग्नि-ञ्चि॒त्वा । 8) चि॒त्वा न न चि॒त्वा चि॒त्वा न । 9) न र्ध्नो त्यृ॒द्ध्नोति॒ न न र्ध्नोति॑ । 10) ऋ॒द्ध्नोति॒ स स ऋ॒द्ध्नो त्यृ॒द्ध्नोति॒ सः । 11) स पु॑नश्चि॒ति-म्पु॑नश्चि॒तिग्ं स स पु॑नश्चि॒तिम् । 12) पु॒न॒श्चि॒ति-ञ्चि॑नुते चिनुते पुनश्चि॒ति-म्पु॑नश्चि॒ति-ञ्चि॑नुते । 12) पु॒न॒श्चि॒तिमिति॑ पुनः - चि॒तिम् । 13) चि॒नु॒ते॒ य-द्यच् चि॑नुते चिनुते॒ यत् । 14) य-त्पु॑नश्चि॒ति-म्पु॑नश्चि॒तिं-यँ-द्य-त्पु॑नश्चि॒तिम् । 15) पु॒न॒श्चि॒ति-ञ्चि॑नु॒ते चि॑नु॒ते पु॑नश्चि॒ति-म्पु॑नश्चि॒ति-ञ्चि॑नु॒ते । 15) पु॒न॒श्चि॒तिमिति॑ पुनः - चि॒तिम् । 16) चि॒नु॒त ऋद्ध्या॒ ऋद्ध्यै॑ चिनु॒ते चि॑नु॒त ऋद्ध्यै᳚ । 17) ऋद्ध्या॒ अथो॒ अथो॒ ऋद्ध्या॒ ऋद्ध्या॒ अथो᳚ । 18) अथो॒ खलु॒ खल्वथो॒ अथो॒ खलु॑ । 18) अथो॒ इत्यथो᳚ । 19) खल्वा॑हु राहुः॒ खलु॒ खल्वा॑हुः । 20) आ॒हु॒-र्न नाहु॑ राहु॒-र्न । 21) न चे॑त॒व्या॑ चेत॒व्या॑ न न चे॑त॒व्या᳚ । 22) चे॒त॒व्येतीति॑ चेत॒व्या॑ चेत॒व्येति॑ । 23) इति॑ रु॒द्रो रु॒द्र इतीति॑ रु॒द्रः । 24) रु॒द्रो वै वै रु॒द्रो रु॒द्रो वै । 25) वा ए॒ष ए॒ष वै वा ए॒षः । 26) ए॒ष य-द्यदे॒ष ए॒ष यत् । 27) यद॒ग्नि र॒ग्नि-र्य-द्यद॒ग्निः । 28) अ॒ग्नि-र्यथा॒ यथा॒ ऽग्नि र॒ग्नि-र्यथा᳚ । 29) यथा᳚ व्या॒घ्रं-व्याँ॒घ्रं-यँथा॒ यथा᳚ व्या॒घ्रम् । 30) व्या॒घ्रग्ं सु॒प्तग्ं सु॒प्तं-व्याँ॒घ्रं-व्याँ॒घ्रग्ं सु॒प्तम् । 31) सु॒प्त-म्बो॒धय॑ति बो॒धय॑ति सु॒प्तग्ं सु॒प्त-म्बो॒धय॑ति । 32) बो॒धय॑ति ता॒दृ-क्ता॒दृग् बो॒धय॑ति बो॒धय॑ति ता॒दृक् । 33) ता॒दृ गे॒वैव ता॒दृ-क्ता॒दृ गे॒व । 34) ए॒व त-त्तदे॒ वैव तत् । 35) तदथो॒ अथो॒ त-त्तदथो᳚ । 36) अथो॒ खलु॒ खल्वथो॒ अथो॒ खलु॑ । 36) अथो॒ इत्यथो᳚ । 37) खल्वा॑हु राहुः॒ खलु॒ खल्वा॑हुः । 38) आ॒हु॒ श्चे॒त॒व्या॑ चेत॒व्या॑ ऽऽहु राहु श्चेत॒व्या᳚ । 39) चे॒त॒व्येतीति॑ चेत॒व्या॑ चेत॒व्येति॑ । 40) इति॒ यथा॒ यथेतीति॒ यथा᳚ । 41) यथा॒ वसी॑याग्ंसं॒-वँसी॑याग्ंसं॒-यँथा॒ यथा॒ वसी॑याग्ंसम् । 42) वसी॑याग्ंस-म्भाग॒धेये॑न भाग॒धेये॑न॒ वसी॑याग्ंसं॒-वँसी॑याग्ंस-म्भाग॒धेये॑न । 43) भा॒ग॒धेये॑न बो॒धय॑ति बो॒धय॑ति भाग॒धेये॑न भाग॒धेये॑न बो॒धय॑ति । 43) भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । 44) बो॒धय॑ति ता॒दृ-क्ता॒दृग् बो॒धय॑ति बो॒धय॑ति ता॒दृक् । 45) ता॒दृ गे॒वैव ता॒दृ-क्ता॒दृ गे॒व । 46) ए॒व त-त्तदे॒ वैव तत् । 47) त-न्मनु॒-र्मनु॒ स्त-त्त-न्मनुः॑ । 48) मनु॑ र॒ग्नि म॒ग्नि-म्मनु॒-र्मनु॑ र॒ग्निम् । 49) अ॒ग्नि म॑चिनुता चिनुता॒ग्नि म॒ग्नि म॑चिनुत । 50) अ॒चि॒नु॒त॒ तेन॒ तेना॑ चिनुता चिनुत॒ तेन॑ । 51) तेन॒ न न तेन॒ तेन॒ न । 52) नार्ध्नो॑ दार्ध्नो॒-न्न नार्ध्नो᳚त् । 53) आ॒र्ध्नो॒-थ्स स आ᳚र्ध्नो दार्ध्नो॒-थ्सः । 54) स ए॒ता मे॒ताग्ं स स ए॒ताम् । 55) ए॒ता-म्पु॑नश्चि॒ति-म्पु॑नश्चि॒ति मे॒ता मे॒ता-म्पु॑नश्चि॒तिम् । 56) पु॒न॒श्चि॒ति म॑पश्य दपश्य-त्पुनश्चि॒ति-म्पु॑नश्चि॒ति म॑पश्यत् । 56) पु॒न॒श्चि॒तिमिति॑ पुनः - चि॒तिम् । 57) अ॒प॒श्य॒-त्ता-न्ता म॑पश्य दपश्य॒-त्ताम् । 58) ता म॑चिनुता चिनुत॒ ता-न्ता म॑चिनुत । 59) अ॒चि॒नु॒त॒ तया॒ तया॑ ऽचिनुता चिनुत॒ तया᳚ । 60) तया॒ वै वै तया॒ तया॒ वै । 61) वै स स वै वै सः । 62) स आ᳚र्ध्नो दार्ध्नो॒-थ्स स आ᳚र्ध्नोत् । 63) आ॒र्ध्नो॒-द्य-द्यदा᳚र्ध्नो दार्ध्नो॒-द्यत् । 64) य-त्पु॑नश्चि॒ति-म्पु॑नश्चि॒तिं-यँ-द्य-त्पु॑नश्चि॒तिम् । 65) पु॒न॒श्चि॒ति-ञ्चि॑नु॒ते चि॑नु॒ते पु॑नश्चि॒ति-म्पु॑नश्चि॒ति-ञ्चि॑नु॒ते । 65) पु॒न॒श्चि॒तिमिति॑ पुनः - चि॒तिम् । 66) चि॒नु॒त ऋद्ध्या॒ ऋद्ध्यै॑ चिनु॒ते चि॑नु॒त ऋद्ध्यै᳚ । 67) ऋद्ध्या॒ इत्यृद्ध्यै᳚ । ॥ 51 ॥ (67/75) ॥ अ. 10 ॥
1) छ॒न्द॒श्चित॑-ञ्चिन्वीत चिन्वीत छन्द॒श्चित॑-ञ्छन्द॒श्चित॑-ञ्चिन्वीत । 1) छ॒न्द॒श्चित॒मिति॑ छन्दः - चित᳚म् । 2) चि॒न्वी॒त॒ प॒शुका॑मः प॒शुका॑म श्चिन्वीत चिन्वीत प॒शुका॑मः । 3) प॒शुका॑मः प॒शवः॑ प॒शवः॑ प॒शुका॑मः प॒शुका॑मः प॒शवः॑ । 3) प॒शुका॑म॒ इति॑ प॒शु - का॒मः॒ । 4) प॒शवो॒ वै वै प॒शवः॑ प॒शवो॒ वै । 5) वै छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ वै वै छन्दाग्ं॑सि । 6) छन्दाग्ं॑सि पशु॒मा-न्प॑शु॒मान् छन्दाग्ं॑सि॒ छन्दाग्ं॑सि पशु॒मान् । 7) प॒शु॒मा ने॒वैव प॑शु॒मा-न्प॑शु॒मा ने॒व । 7) प॒शु॒मानिति॑ पशु - मान् । 8) ए॒व भ॑वति भव त्ये॒वैव भ॑वति । 9) भ॒व॒ति॒ श्ये॒न॒चितग्ग्॑ श्येन॒चित॑-म्भवति भवति श्येन॒चित᳚म् । 10) श्ये॒न॒चित॑-ञ्चिन्वीत चिन्वीत श्येन॒चितग्ग्॑ श्येन॒चित॑-ञ्चिन्वीत । 10) श्ये॒न॒चित॒मिति॑ श्येन - चित᳚म् । 11) चि॒न्वी॒त॒ सु॒व॒र्गका॑म-स्सुव॒र्गका॑ मश्चिन्वीत चिन्वीत सुव॒र्गका॑मः । 12) सु॒व॒र्गका॑म-श्श्ये॒न-श्श्ये॒न-स्सु॑व॒र्गका॑म-स्सुव॒र्गका॑म-श्श्ये॒नः । 12) सु॒व॒र्गका॑म॒ इति॑ सुव॒र्ग - का॒मः॒ । 13) श्ये॒नो वै वै श्ये॒न-श्श्ये॒नो वै । 14) वै वय॑सां॒-वँय॑सां॒-वैँ वै वय॑साम् । 15) वय॑सा॒-म्पति॑ष्ठः॒ पति॑ष्ठो॒ वय॑सां॒-वँय॑सा॒-म्पति॑ष्ठः । 16) पति॑ष्ठ-श्श्ये॒न-श्श्ये॒नः पति॑ष्ठः॒ पति॑ष्ठ-श्श्ये॒नः । 17) श्ये॒न ए॒वैव श्ये॒न-श्श्ये॒न ए॒व । 18) ए॒व भू॒त्वा भू॒त्वै वैव भू॒त्वा । 19) भू॒त्वा सु॑व॒र्गग्ं सु॑व॒र्ग-म्भू॒त्वा भू॒त्वा सु॑व॒र्गम् । 20) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् । 20) सु॒व॒र्गमिति॑ सुवः - गम् । 21) लो॒क-म्प॑तति पतति लो॒कम् ँलो॒क-म्प॑तति । 22) प॒त॒ति॒ क॒ङ्क॒चित॑-ङ्कङ्क॒चित॑-म्पतति पतति कङ्क॒चित᳚म् । 23) क॒ङ्क॒चित॑-ञ्चिन्वीत चिन्वीत कङ्क॒चित॑-ङ्कङ्क॒चित॑-ञ्चिन्वीत । 23) क॒ङ्क॒चित॒मिति॑ कङ्क - चित᳚म् । 24) चि॒न्वी॒त॒ यो य श्चि॑न्वीत चिन्वीत॒ यः । 25) यः का॒मये॑त का॒मये॑त॒ यो यः का॒मये॑त । 26) का॒मये॑त शीर्ष॒ण्वा-ञ्छी॑र्ष॒ण्वान् का॒मये॑त का॒मये॑त शीर्ष॒ण्वान् । 27) शी॒र्॒ष॒ण्वा न॒मुष्मि॑-न्न॒मुष्मि॑-ञ्छीर्ष॒ण्वा-ञ्छी॑र्ष॒ण्वा न॒मुष्मिन्न्॑ । 27) शी॒र्॒ष॒ण्वानिति॑ शीर्षण् - वान् । 28) अ॒मुष्मि॑न् ँलो॒के लो॒के॑ ऽमुष्मि॑-न्न॒मुष्मि॑न् ँलो॒के । 29) लो॒के स्याग्॑ स्याम् ँलो॒के लो॒के स्या᳚म् । 30) स्या॒ मितीति॑ स्याग् स्या॒ मिति॑ । 31) इति॑ शीर्ष॒ण्वा-ञ्छी॑र्ष॒ण्वा नितीति॑ शीर्ष॒ण्वान् । 32) शी॒र्॒ष॒ण्वा ने॒वैव शी॑र्ष॒ण्वा-ञ्छी॑र्ष॒ण्वा ने॒व । 32) शी॒र्॒ष॒ण्वानिति॑ शीर्षण् - वान् । 33) ए॒वामुष्मि॑-न्न॒मुष्मि॑-न्ने॒वै वामुष्मिन्न्॑ । 34) अ॒मुष्मि॑न् ँलो॒के लो॒के॑ ऽमुष्मि॑-न्न॒मुष्मि॑न् ँलो॒के । 35) लो॒के भ॑वति भवति लो॒के लो॒के भ॑वति । 36) भ॒व॒ त्य॒ल॒ज॒चित॑ मलज॒चित॑-म्भवति भव त्यलज॒चित᳚म् । 37) अ॒ल॒ज॒चित॑-ञ्चिन्वीत चिन्वीता लज॒चित॑ मलज॒चित॑-ञ्चिन्वीत । 37) अ॒ल॒ज॒चित॒मित्य॑लज - चित᳚म् । 38) चि॒न्वी॒त॒ चतु॑स्सीत॒-ञ्चतु॑स्सीत-ञ्चिन्वीत चिन्वीत॒ चतु॑स्सीतम् । 39) चतु॑स्सीत-म्प्रति॒ष्ठाका॑मः प्रति॒ष्ठाका॑म॒ श्चतु॑स्सीत॒-ञ्चतु॑स्सीत-म्प्रति॒ष्ठाका॑मः । 39) चतु॑स्सीत॒मिति॒ चतुः॑ - सी॒त॒म् । 40) प्र॒ति॒ष्ठाका॑म॒ श्चत॑स्र॒ श्चत॑स्रः प्रति॒ष्ठाका॑मः प्रति॒ष्ठाका॑म॒ श्चत॑स्रः । 40) प्र॒ति॒ष्ठाका॑म॒ इति॑ प्रति॒ष्ठा - का॒मः॒ । 41) चत॑स्रो॒ दिशो॒ दिश॒ श्चत॑स्र॒ श्चत॑स्रो॒ दिशः॑ । 42) दिशो॑ दि॒क्षु दि॒क्षु दिशो॒ दिशो॑ दि॒क्षु । 43) दि॒क्ष्वे॑ वैव दि॒क्षु दि॒क्ष्वे॑व । 44) ए॒व प्रति॒ प्रत्ये॒ वैव प्रति॑ । 45) प्रति॑ तिष्ठति तिष्ठति॒ प्रति॒ प्रति॑ तिष्ठति । 46) ति॒ष्ठ॒ति॒ प्र॒उ॒ग॒चित॑-म्प्रौग॒चित॑-न्तिष्ठति तिष्ठति प्रउग॒चित᳚म् । 47) प्र॒उ॒ग॒चित॑-ञ्चिन्वीत चिन्वीत प्रउग॒चित॑-म्प्रउग॒चित॑-ञ्चिन्वीत । 47) प्र॒उ॒ग॒चित॒मिति॑ प्रउग - चित᳚म् । 48) चि॒न्वी॒त॒ भ्रातृ॑व्यवा॒-न्भ्रातृ॑व्यवाग् श्चिन्वीत चिन्वीत॒ भ्रातृ॑व्यवान् । 49) भ्रातृ॑व्यवा॒-न्प्र प्र भ्रातृ॑व्यवा॒-न्भ्रातृ॑व्यवा॒-न्प्र । 49) भ्रातृ॑व्यवा॒निति॒ भ्रातृ॑व्य - वा॒न् । 50) प्रैवैव प्र प्रैव । ॥ 52 ॥ (50/64)
1) ए॒व भ्रातृ॑व्या॒-न्भ्रातृ॑व्या ने॒वैव भ्रातृ॑व्यान् । 2) भ्रातृ॑व्या-न्नुदते नुदते॒ भ्रातृ॑व्या॒-न्भ्रातृ॑व्या-न्नुदते । 3) नु॒द॒त॒ उ॒भ॒यतः॑प्रउग मुभ॒यतः॑प्रउग-न्नुदते नुदत उभ॒यतः॑प्रउगम् । 4) उ॒भ॒यतः॑प्रउग-ञ्चिन्वीत चिन्वी तोभ॒यतः॑प्रउग मुभ॒यतः॑प्रउग-ञ्चिन्वीत । 4) उ॒भ॒यतः॑प्रउग॒मित्यु॑भ॒यतः॑ - प्र॒उ॒ग॒म् । 5) चि॒न्वी॒त॒ यो य श्चि॑न्वीत चिन्वीत॒ यः । 6) यः का॒मये॑त का॒मये॑त॒ यो यः का॒मये॑त । 7) का॒मये॑त॒ प्र प्र का॒मये॑त का॒मये॑त॒ प्र । 8) प्र जा॒तान् जा॒ता-न्प्र प्र जा॒तान् । 9) जा॒ता-न्भ्रातृ॑व्या॒-न्भ्रातृ॑व्यान् जा॒तान् जा॒ता-न्भ्रातृ॑व्यान् । 10) भ्रातृ॑व्या-न्नु॒देय॑ नु॒देय॒ भ्रातृ॑व्या॒-न्भ्रातृ॑व्या-न्नु॒देय॑ । 11) नु॒देय॒ प्रति॒ प्रति॑ नु॒देय॑ नु॒देय॒ प्रति॑ । 12) प्रति॑ जनि॒ष्यमा॑णान् जनि॒ष्यमा॑णा॒-न्प्रति॒ प्रति॑ जनि॒ष्यमा॑णान् । 13) ज॒नि॒ष्यमा॑णा॒ नितीति॑ जनि॒ष्यमा॑णान् जनि॒ष्यमा॑णा॒ निति॑ । 14) इति॒ प्र प्रे तीति॒ प्र । 15) प्रैवैव प्र प्रैव । 16) ए॒व जा॒तान् जा॒ता ने॒वैव जा॒तान् । 17) जा॒ता-न्भ्रातृ॑व्या॒-न्भ्रातृ॑व्यान् जा॒तान् जा॒ता-न्भ्रातृ॑व्यान् । 18) भ्रातृ॑व्या-न्नु॒दते॑ नु॒दते॒ भ्रातृ॑व्या॒-न्भ्रातृ॑व्या-न्नु॒दते᳚ । 19) नु॒दते॒ प्रति॒ प्रति॑ नु॒दते॑ नु॒दते॒ प्रति॑ । 20) प्रति॑ जनि॒ष्यमा॑णान् जनि॒ष्यमा॑णा॒-न्प्रति॒ प्रति॑ जनि॒ष्यमा॑णान् । 21) ज॒नि॒ष्यमा॑णा-न्रथचक्र॒चितग्ं॑ रथचक्र॒चित॑-ञ्जनि॒ष्यमा॑णान् जनि॒ष्यमा॑णा-न्रथचक्र॒चित᳚म् । 22) र॒थ॒च॒क्र॒चित॑-ञ्चिन्वीत चिन्वीत रथचक्र॒चितग्ं॑ रथचक्र॒चित॑-ञ्चिन्वीत । 22) र॒थ॒च॒क्र॒चित॒मिति॑ रथचक्र - चित᳚म् । 23) चि॒न्वी॒त॒ भ्रातृ॑व्यवा॒-न्भ्रातृ॑व्यवाग्श् चिन्वीत चिन्वीत॒ भ्रातृ॑व्यवान् । 24) भ्रातृ॑व्यवा॒न्॒. वज्रो॒ वज्रो॒ भ्रातृ॑व्यवा॒-न्भ्रातृ॑व्यवा॒न्॒. वज्रः॑ । 24) भ्रातृ॑व्यवा॒निति॒ भ्रातृ॑व्य - वा॒न् । 25) वज्रो॒ वै वै वज्रो॒ वज्रो॒ वै । 26) वै रथो॒ रथो॒ वै वै रथः॑ । 27) रथो॒ वज्रं॒-वँज्र॒ग्ं॒ रथो॒ रथो॒ वज्र᳚म् । 28) वज्र॑ मे॒वैव वज्रं॒-वँज्र॑ मे॒व । 29) ए॒व भ्रातृ॑व्येभ्यो॒ भ्रातृ॑व्येभ्य ए॒वैव भ्रातृ॑व्येभ्यः । 30) भ्रातृ॑व्येभ्यः॒ प्र प्र भ्रातृ॑व्येभ्यो॒ भ्रातृ॑व्येभ्यः॒ प्र । 31) प्र ह॑रति हरति॒ प्र प्र ह॑रति । 32) ह॒र॒ति॒ द्रो॒ण॒चित॑-न्द्रोण॒चितग्ं॑ हरति हरति द्रोण॒चित᳚म् । 33) द्रो॒ण॒चित॑-ञ्चिन्वीत चिन्वीत द्रोण॒चित॑-न्द्रोण॒चित॑-ञ्चिन्वीत । 33) द्रो॒ण॒चित॒मिति॑ द्रोण - चित᳚म् । 34) चि॒न्वी॒ता न्न॑का॒मो ऽन्न॑काम श्चिन्वीत चिन्वी॒ता न्न॑कामः । 35) अन्न॑कामो॒ द्रोणे॒ द्रोणे ऽन्न॑का॒मो ऽन्न॑कामो॒ द्रोणे᳚ । 35) अन्न॑काम॒ इत्यन्न॑ - का॒मः॒ । 36) द्रोणे॒ वै वै द्रोणे॒ द्रोणे॒ वै । 37) वा अन्न॒ मन्नं॒-वैँ वा अन्न᳚म् । 38) अन्न॑-म्भ्रियते भ्रिय॒ते ऽन्न॒ मन्न॑-म्भ्रियते । 39) भ्रि॒य॒ते॒ सयो॑नि॒ सयो॑नि भ्रियते भ्रियते॒ सयो॑नि । 40) सयो᳚ न्ये॒वैव सयो॑नि॒ सयो᳚ न्ये॒व । 40) सयो॒नीति॒ स - यो॒नि॒ । 41) ए॒वान्न॒ मन्न॑ मे॒वै वान्न᳚म् । 42) अन्न॒ मवा वान्न॒ मन्न॒ मव॑ । 43) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 44) रु॒न्धे॒ स॒मू॒ह्यग्ं॑ समू॒ह्यग्ं॑ रुन्धे रुन्धे समू॒ह्य᳚म् । 45) स॒मू॒ह्य॑-ञ्चिन्वीत चिन्वीत समू॒ह्यग्ं॑ समू॒ह्य॑-ञ्चिन्वीत । 45) स॒मू॒ह्य॑मिति॑ सं - ऊ॒ह्य᳚म् । 46) चि॒न्वी॒त॒ प॒शुका॑मः प॒शुका॑म श्चिन्वीत चिन्वीत प॒शुका॑मः । 47) प॒शुका॑मः पशु॒मा-न्प॑शु॒मा-न्प॒शुका॑मः प॒शुका॑मः पशु॒मान् । 47) प॒शुका॑म॒ इति॑ प॒शु - का॒मः॒ । 48) प॒शु॒मा ने॒वैव प॑शु॒मा-न्प॑शु॒मा ने॒व । 48) प॒शु॒मानिति॑ पशु - मान् । 49) ए॒व भ॑वति भव त्ये॒वैव भ॑वति । 50) भ॒व॒ति॒ प॒रि॒चा॒य्य॑-म्परिचा॒य्य॑-म्भवति भवति परिचा॒य्य᳚म् । ॥ 53 ॥ (50/59)
1) प॒रि॒चा॒य्य॑-ञ्चिन्वीत चिन्वीत परिचा॒य्य॑-म्परिचा॒य्य॑-ञ्चिन्वीत । 1) प॒रि॒चा॒य्य॑मिति॑ परि - चा॒य्य᳚म् । 2) चि॒न्वी॒त॒ ग्राम॑कामो॒ ग्राम॑काम श्चिन्वीत चिन्वीत॒ ग्राम॑कामः । 3) ग्राम॑कामो ग्रा॒मी ग्रा॒मी ग्राम॑कामो॒ ग्राम॑कामो ग्रा॒मी । 3) ग्राम॑काम॒ इति॒ ग्राम॑ - का॒मः॒ । 4) ग्रा॒म्ये॑ वैव ग्रा॒मी ग्रा॒म्ये॑व । 5) ए॒व भ॑वति भव त्ये॒वैव भ॑वति । 6) भ॒व॒ति॒ श्म॒शा॒न॒चितग्ग्॑ श्मशान॒चित॑-म्भवति भवति श्मशान॒चित᳚म् । 7) श्म॒शा॒न॒चित॑-ञ्चिन्वीत चिन्वीत श्मशान॒चितग्ग्॑ श्मशान॒चित॑-ञ्चिन्वीत । 7) श्म॒शा॒न॒चित॒मिति॑ श्मशान - चित᳚म् । 8) चि॒न्वी॒त॒ यो य श्चि॑न्वीत चिन्वीत॒ यः । 9) यः का॒मये॑त का॒मये॑त॒ यो यः का॒मये॑त । 10) का॒मये॑त पितृलो॒के पि॑तृलो॒के का॒मये॑त का॒मये॑त पितृलो॒के । 11) पि॒तृ॒लो॒क ऋ॑द्ध्नुया मृद्ध्नुया-म्पितृलो॒के पि॑तृलो॒क ऋ॑द्ध्नुयाम् । 11) पि॒तृ॒लो॒क इति॑ पितृ - लो॒के । 12) ऋ॒द्ध्नु॒या॒ मिती त्यृ॑द्ध्नुया मृद्ध्नुया॒ मिति॑ । 13) इति॑ पितृलो॒के पि॑तृलो॒क इतीति॑ पितृलो॒के । 14) पि॒तृ॒लो॒क ए॒वैव पि॑तृलो॒के पि॑तृलो॒क ए॒व । 14) पि॒तृ॒लो॒क इति॑ पितृ - लो॒के । 15) ए॒व र्ध्नो᳚ त्यृद्ध्नो त्ये॒वैव र्ध्नो॑ति । 16) ऋ॒द्ध्नो॒ति॒ वि॒श्वा॒मि॒त्र॒ज॒म॒द॒ग्नी वि॑श्वामित्रजमद॒ग्नी ऋ॑द्ध्नो त्यृद्ध्नोति विश्वामित्रजमद॒ग्नी । 17) वि॒श्वा॒मि॒त्र॒ज॒म॒द॒ग्नी वसि॑ष्ठेन॒ वसि॑ष्ठेन विश्वामित्रजमद॒ग्नी वि॑श्वामित्रजमद॒ग्नी वसि॑ष्ठेन । 17) वि॒श्वा॒मि॒त्र॒ज॒म॒द॒ग्नी इति॑ विश्वामित्र - ज॒म॒द॒ग्नी । 18) वसि॑ष्ठेना ऽस्पर्धेता मस्पर्धेतां॒-वँसि॑ष्ठेन॒ वसि॑ष्ठेना ऽस्पर्धेताम् । 19) अ॒स्प॒र्धे॒ता॒ग्ं॒ स सो᳚ ऽस्पर्धेता मस्पर्धेता॒ग्ं॒ सः । 20) स ए॒ता ए॒ता-स्स स ए॒ताः । 21) ए॒ता ज॒मद॑ग्नि-र्ज॒मद॑ग्नि रे॒ता ए॒ता ज॒मद॑ग्निः । 22) ज॒मद॑ग्नि-र्विह॒व्या॑ विह॒व्या॑ ज॒मद॑ग्नि-र्ज॒मद॑ग्नि-र्विह॒व्याः᳚ । 23) वि॒ह॒व्या॑ अपश्य दपश्य-द्विह॒व्या॑ विह॒व्या॑ अपश्यत् । 23) वि॒ह॒व्या॑ इति॑ वि - ह॒व्याः᳚ । 24) अ॒प॒श्य॒-त्ता स्ता अ॑पश्य दपश्य॒-त्ताः । 25) ता उपोप॒ ता स्ता उप॑ । 26) उपा॑धत्ता ध॒त्तो पोपा॑ धत्त । 27) अ॒ध॒त्त॒ ताभि॒ स्ताभि॑ रधत्ता धत्त॒ ताभिः॑ । 28) ताभि॒-र्वै वै ताभि॒ स्ताभि॒-र्वै । 29) वै स स वै वै सः । 30) स वसि॑ष्ठस्य॒ वसि॑ष्ठस्य॒ स स वसि॑ष्ठस्य । 31) वसि॑ष्ठ स्येन्द्रि॒य मि॑न्द्रि॒यं-वँसि॑ष्ठस्य॒ वसि॑ष्ठ स्येन्द्रि॒यम् । 32) इ॒न्द्रि॒यं-वीँ॒र्यं॑-वीँ॒र्य॑ मिन्द्रि॒य मि॑न्द्रि॒यं-वीँ॒र्य᳚म् । 33) वी॒र्य॑ मवृङ्क्ता वृङ्क्त वी॒र्यं॑-वीँ॒र्य॑ मवृङ्क्त । 34) अ॒वृ॒ङ्क्त॒ य-द्यद॑वृङ्क्ता वृङ्क्त॒ यत् । 35) य-द्वि॑ह॒व्या॑ विह॒व्या॑ य-द्य-द्वि॑ह॒व्याः᳚ । 36) वि॒ह॒व्या॑ उप॒दधा᳚ त्युप॒दधा॑ति विह॒व्या॑ विह॒व्या॑ उप॒दधा॑ति । 36) वि॒ह॒व्या॑ इति॑ वि - ह॒व्याः᳚ । 37) उ॒प॒दधा॑ तीन्द्रि॒य मि॑न्द्रि॒य मु॑प॒दधा᳚ त्युप॒दधा॑ तीन्द्रि॒यम् । 37) उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । 38) इ॒न्द्रि॒य मे॒वैवेन्द्रि॒य मि॑न्द्रि॒य मे॒व । 39) ए॒व ताभि॒ स्ताभि॑ रे॒वैव ताभिः॑ । 40) ताभि॑-र्वी॒र्यं॑-वीँ॒र्य॑-न्ताभि॒ स्ताभि॑-र्वी॒र्य᳚म् । 41) वी॒र्यं॑-यँज॑मानो॒ यज॑मानो वी॒र्यं॑-वीँ॒र्यं॑-यँज॑मानः । 42) यज॑मानो॒ भ्रातृ॑व्यस्य॒ भ्रातृ॑व्यस्य॒ यज॑मानो॒ यज॑मानो॒ भ्रातृ॑व्यस्य । 43) भ्रातृ॑व्यस्य वृङ्क्ते वृङ्क्ते॒ भ्रातृ॑व्यस्य॒ भ्रातृ॑व्यस्य वृङ्क्ते । 44) वृ॒ङ्क्ते॒ होतु॒र्॒ होतु॑-र्वृङ्क्ते वृङ्क्ते॒ होतुः॑ । 45) होतु॒-र्धिष्णि॑ये॒ धिष्णि॑ये॒ होतु॒र्॒ होतु॒-र्धिष्णि॑ये । 46) धिष्णि॑य॒ उपोप॒ धिष्णि॑ये॒ धिष्णि॑य॒ उप॑ । 47) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 48) द॒धा॒ति॒ य॒ज॒मा॒ना॒य॒त॒नं-यँ॑जमानायत॒न-न्द॑धाति दधाति यजमानायत॒नम् । 49) य॒ज॒मा॒ना॒य॒त॒नं-वैँ वै य॑जमानायत॒नं-यँ॑जमानायत॒नं-वैँ । 49) य॒ज॒मा॒ना॒य॒त॒नमिति॑ यजमान - आ॒य॒त॒नम् । 50) वै होता॒ होता॒ वै वै होता᳚ । ॥ 54 ॥ (50/60)
1) होता॒ स्वे स्वे होता॒ होता॒ स्वे । 2) स्व ए॒वैव स्वे स्व ए॒व । 3) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ । 4) अ॒स्मा॒ आ॒यत॑न आ॒यत॑ने ऽस्मा अस्मा आ॒यत॑ने । 5) आ॒यत॑न इन्द्रि॒य मि॑न्द्रि॒य मा॒यत॑न आ॒यत॑न इन्द्रि॒यम् । 5) आ॒यत॑न॒ इत्या᳚ - यत॑ने । 6) इ॒न्द्रि॒यं-वीँ॒र्यं॑-वीँ॒र्य॑ मिन्द्रि॒य मि॑न्द्रि॒यं-वीँ॒र्य᳚म् । 7) वी॒र्य॑ मवाव॑ वी॒र्यं॑-वीँ॒र्य॑ मव॑ । 8) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 9) रु॒न्धे॒ द्वाद॑श॒ द्वाद॑श रुन्धे रुन्धे॒ द्वाद॑श । 10) द्वाद॒शोपोप॒ द्वाद॑श॒ द्वाद॒शोप॑ । 11) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 12) द॒धा॒ति॒ द्वाद॑शाक्षरा॒ द्वाद॑शाक्षरा दधाति दधाति॒ द्वाद॑शाक्षरा । 13) द्वाद॑शाक्षरा॒ जग॑ती॒ जग॑ती॒ द्वाद॑शाक्षरा॒ द्वाद॑शाक्षरा॒ जग॑ती । 13) द्वाद॑शाक्ष॒रेति॒ द्वाद॑श - अ॒क्ष॒रा॒ । 14) जग॑ती॒ जाग॑ता॒ जाग॑ता॒ जग॑ती॒ जग॑ती॒ जाग॑ताः । 15) जाग॑ताः प॒शवः॑ प॒शवो॒ जाग॑ता॒ जाग॑ताः प॒शवः॑ । 16) प॒शवो॒ जग॑त्या॒ जग॑त्या प॒शवः॑ प॒शवो॒ जग॑त्या । 17) जग॑ त्यै॒वैव जग॑त्या॒ जग॑ त्यै॒व । 18) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ । 19) अ॒स्मै॒ प॒शू-न्प॒शू न॑स्मा अस्मै प॒शून् । 20) प॒शू नवाव॑ प॒शू-न्प॒शू नव॑ । 21) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 22) रु॒न्धे॒ ऽष्टाव॑ष्टा व॒ष्टाव॑ष्टौ रुन्धे रुन्धे॒ ऽष्टाव॑ष्टौ । 23) अ॒ष्टाव॑ष्टा व॒न्ये ष्व॒न्ये ष्व॒ष्टाव॑ष्टा व॒ष्टाव॑ष्टा व॒न्येषु॑ । 23) अ॒ष्टाव॑ष्टा॒वित्य॒ष्टौ - अ॒ष्टौ॒ । 24) अ॒न्येषु॒ धिष्णि॑येषु॒ धिष्णि॑ये ष्व॒न्ये ष्व॒न्येषु॒ धिष्णि॑येषु । 25) धिष्णि॑ये॒ षूपोप॒ धिष्णि॑येषु॒ धिष्णि॑ये॒षूप॑ । 26) उप॑ दधाति दधा॒ त्युपोप॑ दधाति । 27) द॒धा॒ त्य॒ष्टाश॑फा अ॒ष्टाश॑फा दधाति दधा त्य॒ष्टाश॑फाः । 28) अ॒ष्टाश॑फाः प॒शवः॑ प॒शवो॒ ऽष्टाश॑फा अ॒ष्टाश॑फाः प॒शवः॑ । 28) अ॒ष्टाश॑फा॒ इत्य॒ष्टा - श॒फाः॒ । 29) प॒शवः॑ प॒शू-न्प॒शू-न्प॒शवः॑ प॒शवः॑ प॒शून् । 30) प॒शू ने॒वैव प॒शू-न्प॒शू ने॒व । 31) ए॒वावा वै॒वै वाव॑ । 32) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 33) रु॒न्धे॒ ष-ट्थ्षड् रु॑न्धे रुन्धे॒ षट् । 34) षण् मा᳚र्जा॒लीये॑ मार्जा॒लीये॒ ष-ट्थ्षण् मा᳚र्जा॒लीये᳚ । 35) मा॒र्जा॒लीये॒ ष-ट्थ्षण् मा᳚र्जा॒लीये॑ मार्जा॒लीये॒ षट् । 36) ष-ड्वै वै ष-ट्थ्ष-ड्वै । 37) वा ऋ॒तव॑ ऋ॒तवो॒ वै वा ऋ॒तवः॑ । 38) ऋ॒तव॑ ऋ॒तवः॑ । 39) ऋ॒तवः॒ खलु॒ खल्वृ॒तव॑ ऋ॒तवः॒ खलु॑ । 40) खलु॒ वै वै खलु॒ खलु॒ वै । 41) वै दे॒वा दे॒वा वै वै दे॒वाः । 42) दे॒वाः पि॒तरः॑ पि॒तरो॑ दे॒वा दे॒वाः पि॒तरः॑ । 43) पि॒तर॑ ऋ॒तू नृ॒तू-न्पि॒तरः॑ पि॒तर॑ ऋ॒तून् । 44) ऋ॒तू ने॒वैव र्तू नृ॒तू ने॒व । 45) ए॒व दे॒वा-न्दे॒वा ने॒वैव दे॒वान् । 46) दे॒वा-न्पि॒तॄ-न्पि॒तॄ-न्दे॒वा-न्दे॒वा-न्पि॒तॄन् । 47) पि॒तॄ-न्प्री॑णाति प्रीणाति पि॒तॄ-न्पि॒तॄ-न्प्री॑णाति । 48) प्री॒णा॒तीति॑ प्रीणाति । ॥ 55 ॥ (48/52) ॥ अ. 11 ॥
1) पव॑स्व॒ वाज॑सातये॒ वाज॑सातये॒ पव॑स्व॒ पव॑स्व॒ वाज॑सातये । 2) वाज॑सातय॒ इतीति॒ वाज॑सातये॒ वाज॑सातय॒ इति॑ । 2) वाज॑सातय॒ इति॒ वाज॑ - सा॒त॒ये॒ । 3) इत्य॑नु॒ष्टु ग॑नु॒ष्टु गिती त्य॑नु॒ष्टुक् । 4) अ॒नु॒ष्टु-क्प्र॑ति॒प-त्प्र॑ति॒प द॑नु॒ष्टु ग॑नु॒ष्टु-क्प्र॑ति॒पत् । 4) अ॒नु॒ष्टुगित्य॑नु - स्तुक् । 5) प्र॒ति॒प-द्भ॑वति भवति प्रति॒प-त्प्र॑ति॒प-द्भ॑वति । 5) प्र॒ति॒पदिति॑ प्रति - पत् । 6) भ॒व॒ति॒ ति॒स्र स्ति॒स्रो भ॑वति भवति ति॒स्रः । 7) ति॒स्रो॑ ऽनु॒ष्टुभो॑ ऽनु॒ष्टुभ॑ स्ति॒स्र स्ति॒स्रो॑ ऽनु॒ष्टुभः॑ । 8) अ॒नु॒ष्टुभ॒ श्चत॑स्र॒ श्चत॑स्रो ऽनु॒ष्टुभो॑ ऽनु॒ष्टुभ॒ श्चत॑स्रः । 8) अ॒नु॒ष्टुभ॒ इत्य॑नु - स्तुभः॑ । 9) चत॑स्रो गाय॒त्रियो॑ गाय॒त्रिय॒ श्चत॑स्र॒ श्चत॑स्रो गाय॒त्रियः॑ । 10) गा॒य॒त्रियो॒ य-द्य-द्गा॑य॒त्रियो॑ गाय॒त्रियो॒ यत् । 11) य-त्ति॒स्र स्ति॒स्रो य-द्य-त्ति॒स्रः । 12) ति॒स्रो॑ ऽनु॒ष्टुभो॑ ऽनु॒ष्टुभ॑ स्ति॒स्र स्ति॒स्रो॑ ऽनु॒ष्टुभः॑ । 13) अ॒नु॒ष्टुभ॒ स्तस्मा॒-त्तस्मा॑ दनु॒ष्टुभो॑ ऽनु॒ष्टुभ॒ स्तस्मा᳚त् । 13) अ॒नु॒ष्टुभ॒ इत्य॑नु - स्तुभः॑ । 14) तस्मा॒ दश्वो ऽश्व॒ स्तस्मा॒-त्तस्मा॒ दश्वः॑ । 15) अश्व॑ स्त्रि॒भि स्त्रि॒भि रश्वो ऽश्व॑ स्त्रि॒भिः । 16) त्रि॒भि स्तिष्ठ॒ग्ग्॒ स्तिष्ठग्ग्॑ स्त्रि॒भि स्त्रि॒भि स्तिष्ठन्न्॑ । 16) त्रि॒भिरिति॑ त्रि - भिः । 17) तिष्ठग्ग्॑ स्तिष्ठति तिष्ठति॒ तिष्ठ॒ग्ग्॒ स्तिष्ठग्ग्॑ स्तिष्ठति । 18) ति॒ष्ठ॒ति॒ य-द्य-त्ति॑ष्ठति तिष्ठति॒ यत् । 19) यच् चत॑स्र॒ श्चत॑स्रो॒ य-द्यच् चत॑स्रः । 20) चत॑स्रो गाय॒त्रियो॑ गाय॒त्रिय॒ श्चत॑स्र॒ श्चत॑स्रो गाय॒त्रियः॑ । 21) गा॒य॒त्रिय॒ स्तस्मा॒-त्तस्मा᳚-द्गाय॒त्रियो॑ गाय॒त्रिय॒ स्तस्मा᳚त् । 22) तस्मा॒-थ्सर्वा॒-न्थ्सर्वा॒-न्तस्मा॒-त्तस्मा॒-थ्सर्वान्॑ । 23) सर्वाग्॑ श्च॒तुर॑ श्च॒तुर॒-स्सर्वा॒-न्थ्सर्वाग्॑ श्च॒तुरः॑ । 24) च॒तुरः॑ प॒दः प॒द श्च॒तुर॑ श्च॒तुरः॑ प॒दः । 25) प॒दः प्र॑ति॒दध॑-त्प्रति॒दध॑-त्प॒दः प॒दः प्र॑ति॒दध॑त् । 26) प्र॒ति॒दध॒-त्पला॑यते॒ पला॑यते प्रति॒दध॑-त्प्रति॒दध॒-त्पला॑यते । 26) प्र॒ति॒दध॒दिति॑ प्रति - दध॑त् । 27) पला॑यते पर॒मा प॑र॒मा पला॑यते॒ पला॑यते पर॒मा । 28) प॒र॒मा वै वै प॑र॒मा प॑र॒मा वै । 29) वा ए॒षैषा वै वा ए॒षा । 30) ए॒षा छन्द॑सा॒-ञ्छन्द॑सा मे॒षैषा छन्द॑साम् । 31) छन्द॑सां॒-यँ-द्यच् छन्द॑सा॒-ञ्छन्द॑सां॒-यँत् । 32) यद॑नु॒ष्टु ग॑नु॒ष्टुग् य-द्यद॑नु॒ष्टुक् । 33) अ॒नु॒ष्टु-क्प॑र॒मः प॑र॒मो॑ ऽनु॒ष्टु ग॑नु॒ष्टु-क्प॑र॒मः । 33) अ॒नु॒ष्टुगित्य॑नु - स्तुक् । 34) प॒र॒म श्च॑तुष्टो॒म श्च॑तुष्टो॒मः प॑र॒मः प॑र॒म श्च॑तुष्टो॒मः । 35) च॒तु॒ष्टो॒म-स्स्तोमा॑ना॒ग्॒ स्तोमा॑ना-ञ्चतुष्टो॒म श्च॑तुष्टो॒म-स्स्तोमा॑नाम् । 35) च॒तु॒ष्टो॒म इति॑ चतुः - स्तो॒मः । 36) स्तोमा॑ना-म्पर॒मः प॑र॒म-स्स्तोमा॑ना॒ग्॒ स्तोमा॑ना-म्पर॒मः । 37) प॒र॒म स्त्रि॑रा॒त्र स्त्रि॑रा॒त्रः प॑र॒मः प॑र॒म स्त्रि॑रा॒त्रः । 38) त्रि॒रा॒त्रो य॒ज्ञानां᳚-यँ॒ज्ञाना᳚-न्त्रिरा॒त्र स्त्रि॑रा॒त्रो य॒ज्ञाना᳚म् । 38) त्रि॒रा॒त्र इति॑ त्रि - रा॒त्रः । 39) य॒ज्ञाना᳚-म्पर॒मः प॑र॒मो य॒ज्ञानां᳚-यँ॒ज्ञाना᳚-म्पर॒मः । 40) प॒र॒मो ऽश्वो ऽश्वः॑ पर॒मः प॑र॒मो ऽश्वः॑ । 41) अश्वः॑ पशू॒ना-म्प॑शू॒ना मश्वो ऽश्वः॑ पशू॒नाम् । 42) प॒शू॒ना-म्प॑र॒मेण॑ पर॒मेण॑ पशू॒ना-म्प॑शू॒ना-म्प॑र॒मेण॑ । 43) प॒र॒मे णै॒वैव प॑र॒मेण॑ पर॒मेणै॒व । 44) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 45) ए॒न॒-म्प॒र॒मता᳚-म्पर॒मता॑ मेन मेन-म्पर॒मता᳚म् । 46) प॒र॒मता᳚-ङ्गमयति गमयति पर॒मता᳚-म्पर॒मता᳚-ङ्गमयति । 47) ग॒म॒य॒ त्ये॒क॒वि॒ग्ं॒श मे॑कवि॒ग्ं॒श-ङ्ग॑मयति गमय त्येकवि॒ग्ं॒शम् । 48) ए॒क॒वि॒ग्ं॒श मह॒ रह॑ रेकवि॒ग्ं॒श मे॑कवि॒ग्ं॒श महः॑ । 48) ए॒क॒वि॒ग्ं॒शमित्ये॑क - वि॒ग्ं॒शम् । 49) अह॑-र्भवति भव॒ त्यह॒ रह॑-र्भवति । 50) भ॒व॒ति॒ यस्मि॒न्॒. यस्मि॑-न्भवति भवति॒ यस्मिन्न्॑ । ॥ 56 ॥ (50/61)
1) यस्मि॒-न्नश्वो ऽश्वो॒ यस्मि॒न्॒. यस्मि॒-न्नश्वः॑ । 2) अश्व॑ आल॒भ्यत॑ आल॒भ्यते ऽश्वो ऽश्व॑ आल॒भ्यते᳚ । 3) आ॒ल॒भ्यते॒ द्वाद॑श॒ द्वाद॑शा ल॒भ्यत॑ आल॒भ्यते॒ द्वाद॑श । 3) आ॒ल॒भ्यत॒ इत्या᳚ - ल॒भ्यते᳚ । 4) द्वाद॑श॒ मासा॒ मासा॒ द्वाद॑श॒ द्वाद॑श॒ मासाः᳚ । 5) मासाः॒ पञ्च॒ पञ्च॒ मासा॒ मासाः॒ पञ्च॑ । 6) पञ्च॒ र्तव॑ ऋ॒तवः॒ पञ्च॒ पञ्च॒ र्तवः॑ । 7) ऋ॒तव॒ स्त्रय॒ स्त्रय॑ ऋ॒तव॑ ऋ॒तव॒ स्त्रयः॑ । 8) त्रय॑ इ॒म इ॒मे त्रय॒ स्त्रय॑ इ॒मे । 9) इ॒मे लो॒का लो॒का इ॒म इ॒मे लो॒काः । 10) लो॒का अ॒सा व॒सौ लो॒का लो॒का अ॒सौ । 11) अ॒सा वा॑दि॒त्य आ॑दि॒त्यो॑ ऽसा व॒सा वा॑दि॒त्यः । 12) आ॒दि॒त्य ए॑कवि॒ग्ं॒श ए॑कवि॒ग्ं॒श आ॑दि॒त्य आ॑दि॒त्य ए॑कवि॒ग्ं॒शः । 13) ए॒क॒वि॒ग्ं॒श ए॒ष ए॒ष ए॑कवि॒ग्ं॒श ए॑कवि॒ग्ं॒श ए॒षः । 13) ए॒क॒वि॒ग्ं॒श इत्ये॑क - वि॒ग्ं॒शः । 14) ए॒ष प्र॒जाप॑तिः प्र॒जाप॑ति रे॒ष ए॒ष प्र॒जाप॑तिः । 15) प्र॒जाप॑तिः प्राजाप॒त्यः प्रा॑जाप॒त्यः प्र॒जाप॑तिः प्र॒जाप॑तिः प्राजाप॒त्यः । 15) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 16) प्रा॒जा॒प॒त्यो ऽश्वो ऽश्वः॑ प्राजाप॒त्यः प्रा॑जाप॒त्यो ऽश्वः॑ । 16) प्रा॒जा॒प॒त्य इति॑ प्राजा - प॒त्यः । 17) अश्व॒ स्त-न्त मश्वो ऽश्व॒ स्तम् । 18) त मे॒वैव त-न्त मे॒व । 19) ए॒व सा॒क्षा-थ्सा॒क्षा दे॒वैव सा॒क्षात् । 20) सा॒क्षा दृ॑द्ध्नो त्यृद्ध्नोति सा॒क्षा-थ्सा॒क्षा दृ॑द्ध्नोति । 20) सा॒क्षादिति॑ स - अ॒क्षात् । 21) ऋ॒द्ध्नो॒ति॒ शक्व॑रय॒-श्शक्व॑रय ऋद्ध्नो त्यृद्ध्नोति॒ शक्व॑रयः । 22) शक्व॑रयः पृ॒ष्ठ-म्पृ॒ष्ठग्ं शक्व॑रय॒-श्शक्व॑रयः पृ॒ष्ठम् । 23) पृ॒ष्ठ-म्भ॑वन्ति भवन्ति पृ॒ष्ठ-म्पृ॒ष्ठ-म्भ॑वन्ति । 24) भ॒व॒न्त्य॒ न्यद॑न्य द॒न्यद॑न्य-द्भवन्ति भवन्त्य॒ न्यद॑न्यत् । 25) अ॒न्यद॑न्य॒च् छन्द॒ श्छन्दो॒ ऽन्यद॑न्य द॒न्यद॑न्य॒च् छन्दः॑ । 25) अ॒न्यद॑न्य॒दित्य॒न्यत् - अ॒न्य॒त् । 26) छन्दो॒ ऽन्ये᳚न्ये॒ ऽन्ये᳚न्ये॒ छन्द॒ श्छन्दो॒ ऽन्ये᳚न्ये । 27) अ॒न्ये᳚न्ये॒ वै वा अ॒न्ये᳚न्ये॒ ऽन्ये᳚न्ये॒ वै । 27) अ॒न्ये᳚न्य॒ इत्य॒न्ये - अ॒न्ये॒ । 28) वा ए॒त ए॒ते वै वा ए॒ते । 29) ए॒ते प॒शवः॑ प॒शव॑ ए॒त ए॒ते प॒शवः॑ । 30) प॒शव॒ आ प॒शवः॑ प॒शव॒ आ । 31) आ ल॑भ्यन्ते लभ्यन्त॒ आ ल॑भ्यन्ते । 32) ल॒भ्य॒न्त॒ उ॒तोत ल॑भ्यन्ते लभ्यन्त उ॒त । 33) उ॒तेवे॑ वो॒तो तेव॑ । 34) इ॒व॒ ग्रा॒म्या ग्रा॒म्या इ॑वेव ग्रा॒म्याः । 35) ग्रा॒म्या उ॒तोत ग्रा॒म्या ग्रा॒म्या उ॒त । 36) उ॒तेवे॑ वो॒तो तेव॑ । 37) इ॒वा॒र॒ण्या आ॑र॒ण्या इ॑वे वार॒ण्याः । 38) आ॒र॒ण्या य-द्यदा॑र॒ण्या आ॑र॒ण्या यत् । 39) यच्छक्व॑रय॒-श्शक्व॑रयो॒ य-द्यच्छक्व॑रयः । 40) शक्व॑रयः पृ॒ष्ठ-म्पृ॒ष्ठग्ं शक्व॑रय॒-श्शक्व॑रयः पृ॒ष्ठम् । 41) पृ॒ष्ठ-म्भव॑न्ति॒ भव॑न्ति पृ॒ष्ठ-म्पृ॒ष्ठ-म्भव॑न्ति । 42) भव॒-न्त्यश्व॒स्या श्व॑स्य॒ भव॑न्ति॒ भव॒-न्त्यश्व॑स्य । 43) अश्व॑स्य सर्व॒त्वाय॑ सर्व॒त्वाया श्व॒स्या श्व॑स्य सर्व॒त्वाय॑ । 44) स॒र्व॒त्वाय॑ पार्थुर॒श्म-म्पा᳚र्थुर॒श्मग्ं स॑र्व॒त्वाय॑ सर्व॒त्वाय॑ पार्थुर॒श्मम् । 44) स॒र्व॒त्वायेति॑ सर्व - त्वाय॑ । 45) पा॒र्थु॒र॒श्म-म्ब्र॑ह्मसा॒म-म्ब्र॑ह्मसा॒म-म्पा᳚र्थुर॒श्म-म्पा᳚र्थुर॒श्म-म्ब्र॑ह्मसा॒मम् । 45) पा॒र्थु॒र॒श्ममिति॑ पार्थु - र॒श्मम् । 46) ब्र॒ह्म॒सा॒म-म्भ॑वति भवति ब्रह्मसा॒म-म्ब्र॑ह्मसा॒म-म्भ॑वति । 46) ब्र॒ह्म॒सा॒ममिति॑ ब्रह्म - सा॒मम् । 47) भ॒व॒ति॒ र॒श्मिना॑ र॒श्मिना॑ भवति भवति र॒श्मिना᳚ । 48) र॒श्मिना॒ वै वै र॒श्मिना॑ र॒श्मिना॒ वै । 49) वा अश्वो ऽश्वो॒ वै वा अश्वः॑ । 50) अश्वो॑ य॒तो य॒तो ऽश्वो ऽश्वो॑ य॒तः । ॥ 57 ॥ (50/60)
1) य॒त ई᳚श्व॒र ई᳚श्व॒रो य॒तो य॒त ई᳚श्व॒रः । 2) ई॒श्व॒रो वै वा ई᳚श्व॒र ई᳚श्व॒रो वै । 3) वा अश्वो ऽश्वो॒ वै वा अश्वः॑ । 4) अश्वो ऽय॒तो ऽय॒तो ऽश्वो ऽश्वो ऽय॑तः । 5) अय॒तो ऽप्र॑तिष्ठि॒तो ऽप्र॑तिष्ठि॒तो ऽय॒तो ऽय॒तो ऽप्र॑तिष्ठितः । 6) अप्र॑तिष्ठितः॒ परा॒-म्परा॒ मप्र॑तिष्ठि॒तो ऽप्र॑तिष्ठितः॒ परा᳚म् । 6) अप्र॑तिष्ठित॒ इत्यप्र॑ति - स्थि॒तः॒ । 7) परा᳚-म्परा॒वत॑-म्परा॒वत॒-म्परा॒-म्परा᳚-म्परा॒वत᳚म् । 8) प॒रा॒वत॒-ङ्गन्तो॒-र्गन्तोः᳚ परा॒वत॑-म्परा॒वत॒-ङ्गन्तोः᳚ । 8) प॒रा॒वत॒मिति॑ परा - वत᳚म् । 9) गन्तो॒-र्य-द्य-द्गन्तो॒-र्गन्तो॒-र्यत् । 10) य-त्पा᳚र्थुर॒श्म-म्पा᳚र्थुर॒श्मं-यँ-द्य-त्पा᳚र्थुर॒श्मम् । 11) पा॒र्थु॒र॒श्म-म्ब्र॑ह्मसा॒म-म्ब्र॑ह्मसा॒म-म्पा᳚र्थुर॒श्म-म्पा᳚र्थुर॒श्म-म्ब्र॑ह्मसा॒मम् । 11) पा॒र्थु॒र॒श्ममिति॑ पार्थु - र॒श्मम् । 12) ब्र॒ह्म॒सा॒म-म्भव॑ति॒ भव॑ति ब्रह्मसा॒म-म्ब्र॑ह्मसा॒म-म्भव॑ति । 12) ब्र॒ह्म॒सा॒ममिति॑ ब्रह्म - सा॒मम् । 13) भव॒ त्यश्व॒स्या श्व॑स्य॒ भव॑ति॒ भव॒ त्यश्व॑स्य । 14) अश्व॑स्य॒ यत्यै॒ यत्या॒ अश्व॒स्या श्व॑स्य॒ यत्यै᳚ । 15) यत्यै॒ धृत्यै॒ धृत्यै॒ यत्यै॒ यत्यै॒ धृत्यै᳚ । 16) धृत्यै॒ सङ्कृ॑ति॒ सङ्कृ॑ति॒ धृत्यै॒ धृत्यै॒ सङ्कृ॑ति । 17) सङ्कृ॑ त्यच्छावाकसा॒म म॑च्छावाकसा॒मग्ं सङ्कृ॑ति॒ सङ्कृ॑ त्यच्छावाकसा॒मम् । 17) सङ्कृ॒तीति॒ सं - कृ॒ति॒ । 18) अ॒च्छा॒वा॒क॒सा॒म-म्भ॑वति भव त्यच्छावाकसा॒म म॑च्छावाकसा॒म-म्भ॑वति । 18) अ॒च्छा॒वा॒क॒सा॒ममित्य॑च्छावाक - सा॒मम् । 19) भ॒व॒ त्यु॒थ्स॒न्न॒य॒ज्ञ उ॑थ्सन्नय॒ज्ञो भ॑वति भव त्युथ्सन्नय॒ज्ञः । 20) उ॒थ्स॒न्न॒य॒ज्ञो वै वा उ॑थ्सन्नय॒ज्ञ उ॑थ्सन्नय॒ज्ञो वै । 20) उ॒थ्स॒न्न॒य॒ज्ञ इत्यु॑थ्सन्न - य॒ज्ञः । 21) वा ए॒ष ए॒ष वै वा ए॒षः । 22) ए॒ष य-द्यदे॒ष ए॒ष यत् । 23) यद॑श्वमे॒धो᳚ ऽश्वमे॒धो य-द्यद॑श्वमे॒धः । 24) अ॒श्व॒मे॒धः कः को᳚ ऽश्वमे॒धो᳚ ऽश्वमे॒धः कः । 24) अ॒श्व॒मे॒ध इत्य॑श्व - मे॒धः । 25) क स्त-त्त-त्कः क स्तत् । 26) त-द्वे॑द वेद॒ त-त्त-द्वे॑द । 27) वे॒दे तीति॑ वेद वे॒देति॑ । 28) इत्या॑हु राहु॒ रिती त्या॑हुः । 29) आ॒हु॒-र्यदि॒ यद्या॑हु राहु॒-र्यदि॑ । 30) यदि॒ सर्व॒-स्सर्वो॒ यदि॒ यदि॒ सर्वः॑ । 31) सर्वो॑ वा वा॒ सर्व॒-स्सर्वो॑ वा । 32) वा॒ क्रि॒यते᳚ क्रि॒यते॑ वा वा क्रि॒यते᳚ । 33) क्रि॒यते॒ न न क्रि॒यते᳚ क्रि॒यते॒ न । 34) न वा॑ वा॒ न न वा᳚ । 35) वा॒ सर्व॒-स्सर्वो॑ वा वा॒ सर्वः॑ । 36) सर्व॒ इतीति॒ सर्व॒-स्सर्व॒ इति॑ । 37) इति॒ य-द्यदितीति॒ यत् । 38) य-थ्सङ्कृ॑ति॒ सङ्कृ॑ति॒ य-द्य-थ्सङ्कृ॑ति । 39) सङ्कृ॑ त्यच्छावाकसा॒म म॑च्छावाकसा॒मग्ं सङ्कृ॑ति॒ सङ्कृ॑ त्यच्छावाकसा॒मम् । 39) सङ्कृ॒तीति॒ सं - कृ॒ति॒ । 40) अ॒च्छा॒वा॒क॒सा॒म-म्भव॑ति॒ भव॑ त्यच्छावाकसा॒म म॑च्छावाकसा॒म-म्भव॑ति । 40) अ॒च्छा॒वा॒क॒सा॒ममित्य॑च्छावाक - सा॒मम् । 41) भव॒ त्यश्व॒स्या श्व॑स्य॒ भव॑ति॒ भव॒ त्यश्व॑स्य । 42) अश्व॑स्य सर्व॒त्वाय॑ सर्व॒त्वाया श्व॒स्या श्व॑स्य सर्व॒त्वाय॑ । 43) स॒र्व॒त्वाय॒ पर्या᳚प्त्यै॒ पर्या᳚प्त्यै सर्व॒त्वाय॑ सर्व॒त्वाय॒ पर्या᳚प्त्यै । 43) स॒र्व॒त्वायेति॑ सर्व - त्वाय॑ । 44) पर्या᳚प्त्या॒ अन॑न्तराया॒या न॑न्तरायाय॒ पर्या᳚प्त्यै॒ पर्या᳚प्त्या॒ अन॑न्तरायाय । 44) पर्या᳚प्त्या॒ इति॒ परि॑ - आ॒प्त्यै॒ । 45) अन॑न्तरायाय॒ सर्व॑स्तोम॒-स्सर्व॑स्तो॒मो ऽन॑न्तराया॒या न॑न्तरायाय॒ सर्व॑स्तोमः । 45) अन॑न्तराया॒येत्यन॑न्तः - आ॒या॒य॒ । 46) सर्व॑स्तोमो ऽतिरा॒त्रो॑ ऽतिरा॒त्र-स्सर्व॑स्तोम॒-स्सर्व॑स्तोमो ऽतिरा॒त्रः । 46) सर्व॑स्तोम॒ इति॒ सर्व॑ - स्तो॒मः॒ । 47) अ॒ति॒रा॒त्र उ॑त्त॒म मु॑त्त॒म म॑तिरा॒त्रो॑ ऽतिरा॒त्र उ॑त्त॒मम् । 47) अ॒ति॒रा॒त्र इत्य॑ति - रा॒त्रः । 48) उ॒त्त॒म मह॒ रह॑ रुत्त॒म मु॑त्त॒म महः॑ । 48) उ॒त्त॒ममित्यु॑त् - त॒मम् । 49) अह॑-र्भवति भव॒ त्यह॒ रह॑-र्भवति । 50) भ॒व॒ति॒ सर्व॑स्य॒ सर्व॑स्य भवति भवति॒ सर्व॑स्य । 51) सर्व॒स्याप्त्या॒ आप्त्यै॒ सर्व॑स्य॒ सर्व॒ स्याप्त्यै᳚ । 52) आप्त्यै॒ सर्व॑स्य॒ सर्व॒ स्याप्त्या॒ आप्त्यै॒ सर्व॑स्य । 53) सर्व॑स्य॒ जित्यै॒ जित्यै॒ सर्व॑स्य॒ सर्व॑स्य॒ जित्यै᳚ । 54) जित्यै॒ सर्व॒ग्ं॒ सर्व॒-ञ्जित्यै॒ जित्यै॒ सर्व᳚म् । 55) सर्व॑ मे॒वैव सर्व॒ग्ं॒ सर्व॑ मे॒व । 56) ए॒व तेन॒ तेनै॒ वैव तेन॑ । 57) तेना᳚प्नो त्याप्नोति॒ तेन॒ तेना᳚प्नोति । 58) आ॒प्नो॒ति॒ सर्व॒ग्ं॒ सर्व॑ माप्नो त्याप्नोति॒ सर्व᳚म् । 59) सर्व॑-ञ्जयति जयति॒ सर्व॒ग्ं॒ सर्व॑-ञ्जयति । 60) ज॒य॒तीति॑ जयति । ॥ 58 ॥ (60, 76)
॥ अ. 12 ॥
Browse Related Categories: