Kanda 7 - Krishna Yajurveda Taittiriya Samhita · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
1) सा॒द्ध्या वै वै सा॒द्ध्या-स्सा॒द्ध्या वै । 2) वै दे॒वा दे॒वा वै वै दे॒वाः । 3) दे॒वा-स्सु॑व॒र्गका॑मा-स्सुव॒र्गका॑मा दे॒वा दे॒वा-स्सु॑व॒र्गका॑माः । 4) सु॒व॒र्गका॑मा ए॒त मे॒तग्ं सु॑व॒र्गका॑मा-स्सुव॒र्गका॑मा ए॒तम् । 4) सु॒व॒र्गका॑मा॒ इति॑ सुव॒र्ग - का॒माः॒ । 5) ए॒तग्ं ष॑ड्रा॒त्रग्ं ष॑ड्रा॒त्र मे॒त मे॒तग्ं ष॑ड्रा॒त्रम् । 6) ष॒ड्रा॒त्र म॑पश्य-न्नपश्य-न्थ्षड्रा॒त्रग्ं ष॑ड्रा॒त्र म॑पश्यन्न् । 6) ष॒ड्रा॒त्रमिति॑ षट् - रा॒त्रम् । 7) अ॒प॒श्य॒-न्त-न्त म॑पश्य-न्नपश्य॒-न्तम् । 8) त मा त-न्त मा । 9) आ ऽह॑र-न्नहर॒-न्ना ऽह॑रन्न् । 10) अ॒ह॒र॒-न्तेन॒ तेना॑ हर-न्नहर॒-न्तेन॑ । 11) तेना॑ यजन्ता यजन्त॒ तेन॒ तेना॑ यजन्त । 12) अ॒य॒ज॒न्त॒ तत॒ स्ततो॑ ऽयजन्ता यजन्त॒ ततः॑ । 13) ततो॒ वै वै तत॒ स्ततो॒ वै । 14) वै ते ते वै वै ते । 15) ते सु॑व॒र्गग्ं सु॑व॒र्ग-न्ते ते सु॑व॒र्गम् । 16) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् । 16) सु॒व॒र्गमिति॑ सुवः - गम् । 17) लो॒क मा॑य-न्नायन् ँलो॒कम् ँलो॒क मा॑यन्न् । 18) आ॒य॒न्॒. ये य आ॑य-न्नाय॒न्॒. ये । 19) य ए॒व मे॒वं-येँ य ए॒वम् । 20) ए॒वं-विँ॒द्वाग्ंसो॑ वि॒द्वाग्ंस॑ ए॒व मे॒वं-विँ॒द्वाग्ंसः॑ । 21) वि॒द्वाग्ंस॑ ष्षड्रा॒त्रग्ं ष॑ड्रा॒त्रं-विँ॒द्वाग्ंसो॑ वि॒द्वाग्ंस॑ ष्षड्रा॒त्रम् । 22) ष॒ड्रा॒त्र मास॑त॒ आस॑ते षड्रा॒त्रग्ं ष॑ड्रा॒त्र मास॑ते । 22) ष॒ड्रा॒त्रमिति॑ षट् - रा॒त्रम् । 23) आस॑ते सुव॒र्गग्ं सु॑व॒र्ग मास॑त॒ आस॑ते सुव॒र्गम् । 24) सु॒व॒र्ग मे॒वैव सु॑व॒र्गग्ं सु॑व॒र्ग मे॒व । 24) सु॒व॒र्गमिति॑ सुवः - गम् । 25) ए॒व लो॒कम् ँलो॒क मे॒वैव लो॒कम् । 26) लो॒कं-यँ॑न्ति यन्ति लो॒कम् ँलो॒कं-यँ॑न्ति । 27) य॒न्ति॒ दे॒व॒स॒त्र-न्दे॑वस॒त्रं-यँ॑न्ति यन्ति देवस॒त्रम् । 28) दे॒व॒स॒त्रं-वैँ वै दे॑वस॒त्र-न्दे॑वस॒त्रं-वैँ । 28) दे॒व॒स॒त्रमिति॑ देव - स॒त्रम् । 29) वै ष॑ड्रा॒त्र ष्ष॑ड्रा॒त्रो वै वै ष॑ड्रा॒त्रः । 30) ष॒ड्रा॒त्रः प्र॒त्यक्ष॑-म्प्र॒त्यक्षग्ं॑ षड्रा॒त्र ष्ष॑ड्रा॒त्रः प्र॒त्यक्ष᳚म् । 30) ष॒ड्रा॒त्र इति॑ षट् - रा॒त्रः । 31) प्र॒त्यक्ष॒ग्ं॒ हि हि प्र॒त्यक्ष॑-म्प्र॒त्यक्ष॒ग्ं॒ हि । 31) प्र॒त्यक्ष॒मिति॑ प्रति - अक्ष᳚म् । 32) ह्ये॑ता न्ये॒तानि॒ हि ह्ये॑तानि॑ । 33) ए॒तानि॑ पृ॒ष्ठानि॑ पृ॒ष्ठा न्ये॒ता न्ये॒तानि॑ पृ॒ष्ठानि॑ । 34) पृ॒ष्ठानि॒ ये ये पृ॒ष्ठानि॑ पृ॒ष्ठानि॒ ये । 35) य ए॒व मे॒वं-येँ य ए॒वम् । 36) ए॒वं-विँ॒द्वाग्ंसो॑ वि॒द्वाग्ंस॑ ए॒व मे॒वं-विँ॒द्वाग्ंसः॑ । 37) वि॒द्वाग्ंस॑ ष्षड्रा॒त्रग्ं ष॑ड्रा॒त्रं-विँ॒द्वाग्ंसो॑ वि॒द्वाग्ंस॑ ष्षड्रा॒त्रम् । 38) ष॒ड्रा॒त्र मास॑त॒ आस॑ते षड्रा॒त्रग्ं ष॑ड्रा॒त्र मास॑ते । 38) ष॒ड्रा॒त्रमिति॑ षट् - रा॒त्रम् । 39) आस॑ते सा॒क्षा-थ्सा॒क्षा दास॑त॒ आस॑ते सा॒क्षात् । 40) सा॒क्षा दे॒वैव सा॒क्षा-थ्सा॒क्षा दे॒व । 40) सा॒क्षादिति॑ स - अ॒क्षात् । 41) ए॒व दे॒वता॑ दे॒वता॑ ए॒वैव दे॒वताः᳚ । 42) दे॒वता॑ अ॒भ्यारो॑ह न्त्य॒भ्यारो॑हन्ति दे॒वता॑ दे॒वता॑ अ॒भ्यारो॑हन्ति । 43) अ॒भ्यारो॑हन्ति षड्रा॒त्र ष्ष॑ड्रा॒त्रो᳚ ऽभ्यारो॑ह न्त्य॒भ्यारो॑हन्ति षड्रा॒त्रः । 43) अ॒भ्यारो॑ह॒न्तीत्य॑भि - आरो॑हन्ति । 44) ष॒ड्रा॒त्रो भ॑वति भवति षड्रा॒त्र ष्ष॑ड्रा॒त्रो भ॑वति । 44) ष॒ड्रा॒त्र इति॑ षट् - रा॒त्रः । 45) भ॒व॒ति॒ ष-ट्थ्ष-ड्भ॑वति भवति॒ षट् । 46) ष-ड्वै वै ष-ट्थ्ष-ड्वै । 47) वा ऋ॒तव॑ ऋ॒तवो॒ वै वा ऋ॒तवः॑ । 48) ऋ॒तव॒ ष्ष-ट्थ्षडृ॒तव॑ ऋ॒तव॒ ष्षट् । 49) षट् पृ॒ष्ठानि॑ पृ॒ष्ठानि॒ ष-ट्थ्षट् पृ॒ष्ठानि॑ । 50) पृ॒ष्ठानि॑ पृ॒ष्ठैः पृ॒ष्ठैः पृ॒ष्ठानि॑ पृ॒ष्ठानि॑ पृ॒ष्ठैः । ॥ 1 ॥ (50/62)
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
1) पृ॒ष्ठै रे॒वैव पृ॒ष्ठैः पृ॒ष्ठै रे॒व । 2) ए॒व र्तू नृ॒तूने॒ वैव र्तून् । 3) ऋ॒तून॒ न्वारो॑ह न्त्य॒न्वारो॑ह न्त्यृ॒तू नृ॒तून॒ न्वारो॑हन्ति । 4) अ॒न्वारो॑ह न्त्यृ॒तुभिर्॑. ऋ॒तुभि॑ र॒न्वारो॑ह न्त्य॒न्वारो॑ह न्त्यृ॒तुभिः॑ । 4) अ॒न्वारो॑ह॒न्तीत्य॑नु - आरो॑हन्ति । 5) ऋ॒तुभि॑-स्संवँथ्स॒रग्ं सं॑वँथ्स॒र मृ॒तुभिर्॑. ऋ॒तुभि॑-स्संवँथ्स॒रम् । 5) ऋ॒तुभि॒रित्यृ॒तु - भिः॒ । 6) सं॒वँ॒थ्स॒र-न्ते ते सं॑वँथ्स॒रग्ं सं॑वँथ्स॒र-न्ते । 6) सं॒वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । 7) ते सं॑वँथ्स॒रे सं॑वँथ्स॒रे ते ते सं॑वँथ्स॒रे । 8) सं॒वँ॒थ्स॒र ए॒वैव सं॑वँथ्स॒रे सं॑वँथ्स॒र ए॒व । 8) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रे । 9) ए॒व प्रति॒ प्रत्ये॒वैव प्रति॑ । 10) प्रति॑ तिष्ठन्ति तिष्ठन्ति॒ प्रति॒ प्रति॑ तिष्ठन्ति । 11) ति॒ष्ठ॒न्ति॒ बृ॒ह॒द्र॒थ॒न्त॒राभ्या᳚-म्बृहद्रथन्त॒राभ्या᳚-न्तिष्ठन्ति तिष्ठन्ति बृहद्रथन्त॒राभ्या᳚म् । 12) बृ॒ह॒द्र॒थ॒न्त॒राभ्यां᳚-यँन्ति यन्ति बृहद्रथन्त॒राभ्या᳚-म्बृहद्रथन्त॒राभ्यां᳚-यँन्ति । 12) बृ॒ह॒द्र॒थ॒न्त॒राभ्या॒मिति॑ बृहत् - र॒थ॒न्त॒राभ्या᳚म् । 13) य॒न्ती॒य मि॒यं-यँ॑न्ति यन्ती॒यम् । 14) इ॒यं-वाँव वावे य मि॒यं-वाँव । 15) वाव र॑थन्त॒रग्ं र॑थन्त॒रं-वाँव वाव र॑थन्त॒रम् । 16) र॒थ॒न्त॒र म॒सा व॒सौ र॑थन्त॒रग्ं र॑थन्त॒र म॒सौ । 16) र॒थ॒न्त॒रमिति॑ रथं - त॒रम् । 17) अ॒सौ बृ॒ह-द्बृ॒ह द॒सा व॒सौ बृ॒हत् । 18) बृ॒ह दा॒भ्या मा॒भ्या-म्बृ॒ह-द्बृ॒ह दा॒भ्याम् । 19) आ॒भ्या मे॒वै वाभ्या मा॒भ्या मे॒व । 20) ए॒व य॑न्ति यन्त्ये॒वैव य॑न्ति । 21) य॒न्त्यथो॒ अथो॑ यन्ति य॒न्त्यथो᳚ । 22) अथो॑ अ॒नयो॑ र॒नयो॒ रथो॒ अथो॑ अ॒नयोः᳚ । 22) अथो॒ इत्यथो᳚ । 23) अ॒नयो॑ रे॒वै वानयो॑ र॒नयो॑ रे॒व । 24) ए॒व प्रति॒ प्रत्ये॒वैव प्रति॑ । 25) प्रति॑ तिष्ठन्ति तिष्ठन्ति॒ प्रति॒ प्रति॑ तिष्ठन्ति । 26) ति॒ष्ठ॒ न्त्ये॒ते ए॒ते ति॑ष्ठन्ति तिष्ठ न्त्ये॒ते । 27) ए॒ते वै वा ए॒ते ए॒ते वै । 27) ए॒ते इत्ये॒ते । 28) वै य॒ज्ञस्य॑ य॒ज्ञस्य॒ वै वै य॒ज्ञस्य॑ । 29) य॒ज्ञस्या᳚ञ्ज॒साय॑नी अञ्ज॒साय॑नी य॒ज्ञस्य॑ य॒ज्ञस्या᳚ञ्ज॒साय॑नी । 30) अ॒ञ्ज॒साय॑नी स्रु॒ती स्रु॒ती अ॑ञ्ज॒साय॑नी अञ्ज॒साय॑नी स्रु॒ती । 30) अ॒ञ्ज॒साय॑नी॒ इत्य॑ञ्जसा - अय॑नी । 31) स्रु॒ती ताभ्या॒-न्ताभ्याग्॑ स्रु॒ती स्रु॒ती ताभ्या᳚म् । 31) स्रु॒ती इति॑ स्रु॒ती । 32) ताभ्या॑ मे॒वैव ताभ्या॒-न्ताभ्या॑ मे॒व । 33) ए॒व सु॑व॒र्गग्ं सु॑व॒र्ग मे॒वैव सु॑व॒र्गम् । 34) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् । 34) सु॒व॒र्गमिति॑ सुवः - गम् । 35) लो॒कं-यँ॑न्ति यन्ति लो॒कम् ँलो॒कं-यँ॑न्ति । 36) य॒न्ति॒ त्रि॒वृ-त्त्रि॒वृ-द्य॑न्ति यन्ति त्रि॒वृत् । 37) त्रि॒वृ द॑ग्निष्टो॒मो᳚ ऽग्निष्टो॒म स्त्रि॒वृ-त्त्रि॒वृ द॑ग्निष्टो॒मः । 37) त्रि॒वृदिति॑ त्रि - वृत् । 38) अ॒ग्नि॒ष्टो॒मो भ॑वति भव त्यग्निष्टो॒मो᳚ ऽग्निष्टो॒मो भ॑वति । 38) अ॒ग्नि॒ष्टो॒म इत्य॑ग्नि - स्तो॒मः । 39) भ॒व॒ति॒ तेज॒ स्तेजो॑ भवति भवति॒ तेजः॑ । 40) तेज॑ ए॒वैव तेज॒ स्तेज॑ ए॒व । 41) ए॒वावा वै॒वै वाव॑ । 42) अव॑ रुन्धते रुन्ध॒ते ऽवाव॑ रुन्धते । 43) रु॒न्ध॒ते॒ प॒ञ्च॒द॒शः प॑ञ्चद॒शो रु॑न्धते रुन्धते पञ्चद॒शः । 44) प॒ञ्च॒द॒शो भ॑वति भवति पञ्चद॒शः प॑ञ्चद॒शो भ॑वति । 44) प॒ञ्च॒द॒श इति॑ पञ्च - द॒शः । 45) भ॒व॒ती॒न्द्रि॒य मि॑न्द्रि॒य-म्भ॑वति भवतीन्द्रि॒यम् । 46) इ॒न्द्रि॒य मे॒वैवेन्द्रि॒य मि॑न्द्रि॒य मे॒व । 47) ए॒वावा वै॒वै वाव॑ । 48) अव॑ रुन्धते रुन्ध॒ते ऽवाव॑ रुन्धते । 49) रु॒न्ध॒ते॒ स॒प्त॒द॒श-स्स॑प्तद॒शो रु॑न्धते रुन्धते सप्तद॒शः । 50) स॒प्त॒द॒शो भ॑वति भवति सप्तद॒श-स्स॑प्तद॒शो भ॑वति । 50) स॒प्त॒द॒श इति॑ सप्त - द॒शः । ॥ 2 ॥ (50/65)
1) भ॒व॒ त्य॒न्नाद्य॑स्या॒ न्नाद्य॑स्य भवति भव त्य॒न्नाद्य॑स्य । 2) अ॒न्नाद्य॒स्या व॑रुद्ध्या॒ अव॑रुद्ध्या अ॒न्नाद्य॑स्या॒ न्नाद्य॒स्या व॑रुद्ध्यै । 2) अ॒न्नाद्य॒स्येत्य॑न्न - अद्य॑स्य । 3) अव॑रुद्ध्या॒ अथो॒ अथो॒ अव॑रुद्ध्या॒ अव॑रुद्ध्या॒ अथो᳚ । 3) अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ । 4) अथो॒ प्र प्राथो॒ अथो॒ प्र । 4) अथो॒ इत्यथो᳚ । 5) प्रैवैव प्र प्रैव । 6) ए॒व तेन॒ तेनै॒वैव तेन॑ । 7) तेन॑ जायन्ते जायन्ते॒ तेन॒ तेन॑ जायन्ते । 8) जा॒य॒न्त॒ ए॒क॒वि॒ग्ं॒श ए॑कवि॒ग्ं॒शो जा॑यन्ते जायन्त एकवि॒ग्ं॒शः । 9) ए॒क॒वि॒ग्ं॒शो भ॑वति भव त्येकवि॒ग्ं॒श ए॑कवि॒ग्ं॒शो भ॑वति । 9) ए॒क॒वि॒ग्ं॒श इत्ये॑क - वि॒ग्ं॒शः । 10) भ॒व॒ति॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै भवति भवति॒ प्रति॑ष्ठित्यै । 11) प्रति॑ष्ठित्या॒ अथो॒ अथो॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्या॒ अथो᳚ । 11) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । 12) अथो॒ रुच॒ग्ं॒ रुच॒ मथो॒ अथो॒ रुच᳚म् । 12) अथो॒ इत्यथो᳚ । 13) रुच॑ मे॒वैव रुच॒ग्ं॒ रुच॑ मे॒व । 14) ए॒वात्म-न्ना॒त्म-न्ने॒वै वात्मन्न् । 15) आ॒त्म-न्द॑धते दधत आ॒त्म-न्ना॒त्म-न्द॑धते । 16) द॒ध॒ते॒ त्रि॒ण॒व स्त्रि॑ण॒वो द॑धते दधते त्रिण॒वः । 17) त्रि॒ण॒वो भ॑वति भवति त्रिण॒व स्त्रि॑ण॒वो भ॑वति । 17) त्रि॒ण॒व इति॑ त्रि - न॒वः । 18) भ॒व॒ति॒ विजि॑त्यै॒ विजि॑त्यै भवति भवति॒ विजि॑त्यै । 19) विजि॑त्यै त्रयस्त्रि॒ग्ं॒श स्त्र॑यस्त्रि॒ग्ं॒शो विजि॑त्यै॒ विजि॑त्यै त्रयस्त्रि॒ग्ं॒शः । 19) विजि॑त्या॒ इति॒ वि - जि॒त्यै॒ । 20) त्र॒य॒स्त्रि॒ग्ं॒शो भ॑वति भवति त्रयस्त्रि॒ग्ं॒श स्त्र॑यस्त्रि॒ग्ं॒शो भ॑वति । 20) त्र॒य॒स्त्रि॒ग्ं॒श इति॑ त्रयः - त्रि॒ग्ं॒शः । 21) भ॒व॒ति॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै भवति भवति॒ प्रति॑ष्ठित्यै । 22) प्रति॑ष्ठित्यै सदोहविर्धा॒निन॑-स्सदोहविर्धा॒निनः॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै सदोहविर्धा॒निनः॑ । 22) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । 23) स॒दो॒ह॒वि॒र्धा॒निन॑ ए॒ते नै॒तेन॑ सदोहविर्धा॒निन॑-स्सदोहविर्धा॒निन॑ ए॒तेन॑ । 23) स॒दो॒ह॒वि॒र्धा॒निन॒ इति॑ सदः - ह॒वि॒र्धा॒निनः॑ । 24) ए॒तेन॑ षड्रा॒त्रेण॑ षड्रा॒त्रे णै॒ते नै॒तेन॑ षड्रा॒त्रेण॑ । 25) ष॒ड्रा॒त्रेण॑ यजेरन्. यजेर-न्थ्षड्रा॒त्रेण॑ षड्रा॒त्रेण॑ यजेरन्न् । 25) ष॒ड्रा॒त्रेणेति॑ षट् - रा॒त्रेण॑ । 26) य॒जे॒र॒-न्नाश्व॑त्थी॒ आश्व॑त्थी यजेरन्. यजेर॒-न्नाश्व॑त्थी । 27) आश्व॑त्थी हवि॒र्धानग्ं॑ हवि॒र्धान॒ माश्व॑त्थी॒ आश्व॑त्थी हवि॒र्धान᳚म् । 27) आश्व॑त्थी॒ इत्याश्व॑त्थी । 28) ह॒वि॒र्धान॑-ञ्च च हवि॒र्धानग्ं॑ हवि॒र्धान॑-ञ्च । 28) ह॒वि॒र्धान॒मिति॑ हविः - धान᳚म् । 29) चाग्नी᳚द्ध्र॒ माग्नी᳚द्ध्र-ञ्च॒ चाग्नी᳚द्ध्रम् । 30) आग्नी᳚द्ध्र-ञ्च॒ चाग्नी᳚द्ध्र॒ माग्नी᳚द्ध्र-ञ्च । 30) आग्नी᳚द्ध्र॒मित्याग्नि॑ - इ॒द्ध्र॒म् । 31) च॒ भ॒व॒तो॒ भ॒व॒त॒ श्च॒ च॒ भ॒व॒तः॒ । 32) भ॒व॒त॒ स्त-त्त-द्भ॑वतो भवत॒ स्तत् । 33) तद्धि हि त-त्तद्धि । 34) हि सु॑व॒र्ग्यग्ं॑ सुव॒र्ग्यग्ं॑ हि हि सु॑व॒र्ग्य᳚म् । 35) सु॒व॒र्ग्य॑-ञ्च॒क्रीव॑ती च॒क्रीव॑ती सुव॒र्ग्यग्ं॑ सुव॒र्ग्य॑-ञ्च॒क्रीव॑ती । 35) सु॒व॒र्ग्य॑मिति॑ सुवः - ग्य᳚म् । 36) च॒क्रीव॑ती भवतो भवत श्च॒क्रीव॑ती च॒क्रीव॑ती भवतः । 36) च॒क्रीव॑ती॒ इति॑ च॒क्रीव॑ती । 37) भ॒व॒त॒-स्सु॒व॒र्गस्य॑ सुव॒र्गस्य॑ भवतो भवत-स्सुव॒र्गस्य॑ । 38) सु॒व॒र्गस्य॑ लो॒कस्य॑ लो॒कस्य॑ सुव॒र्गस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ । 38) सु॒व॒र्गस्येति॑ सुवः - गस्य॑ । 39) लो॒कस्य॒ सम॑ष्ट्यै॒ सम॑ष्ट्यै लो॒कस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । 40) सम॑ष्ट्या उ॒लूख॑लबुद्ध्न उ॒लूख॑लबुद्ध्न॒-स्सम॑ष्ट्यै॒ सम॑ष्ट्या उ॒लूख॑लबुद्ध्नः । 40) सम॑ष्ट्या॒ इति॒ सं - अ॒ष्ट्यै॒ । 41) उ॒लूख॑लबुद्ध्नो॒ यूपो॒ यूप॑ उ॒लूख॑लबुद्ध्न उ॒लूख॑लबुद्ध्नो॒ यूपः॑ । 41) उ॒लूख॑लबुद्ध्न॒ इत्यु॒लूख॑ल - बु॒द्ध्नः॒ । 42) यूपो॑ भवति भवति॒ यूपो॒ यूपो॑ भवति । 43) भ॒व॒ति॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै भवति भवति॒ प्रति॑ष्ठित्यै । 44) प्रति॑ष्ठित्यै॒ प्राञ्चः॒ प्राञ्चः॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै॒ प्राञ्चः॑ । 44) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । 45) प्राञ्चो॑ यान्ति यान्ति॒ प्राञ्चः॒ प्राञ्चो॑ यान्ति । 46) या॒न्ति॒ प्रा-म्प्रां-याँ᳚न्ति यान्ति॒ प्राम् । 47) प्रां ंइ॑वेव॒ प्रा-म्प्रां ंइ॑व । 48) इ॒व॒ हि हीवे॑व॒ हि । 49) हि सु॑व॒र्ग-स्सु॑व॒र्गो हि हि सु॑व॒र्गः । 50) सु॒व॒र्गो लो॒को लो॒क-स्सु॑व॒र्ग-स्सु॑व॒र्गो लो॒कः । 50) सु॒व॒र्ग इति॑ सुवः - गः । ॥ 3 ॥ (50/72)
1) लो॒क-स्सर॑स्वत्या॒ सर॑स्वत्या लो॒को लो॒क-स्सर॑स्वत्या । 2) सर॑स्वत्या यान्ति यान्ति॒ सर॑स्वत्या॒ सर॑स्वत्या यान्ति । 3) या॒न्त्ये॒ष ए॒ष या᳚न्ति यान्त्ये॒षः । 4) ए॒ष वै वा ए॒ष ए॒ष वै । 5) वै दे॑व॒यानो॑ देव॒यानो॒ वै वै दे॑व॒यानः॑ । 6) दे॒व॒यानः॒ पन्थाः॒ पन्था॑ देव॒यानो॑ देव॒यानः॒ पन्थाः᳚ । 6) दे॒व॒यान॒ इति॑ देव - यानः॑ । 7) पन्था॒ स्त-न्त-म्पन्थाः॒ पन्था॒ स्तम् । 8) त मे॒वैव त-न्त मे॒व । 9) ए॒वा न्वारो॑ह न्त्य॒न्वारो॑ह न्त्ये॒वैवा न्वारो॑हन्ति । 10) अ॒न्वारो॑ह न्त्या॒क्रोश॑न्त आ॒क्रोश॑न्तो॒ ऽन्वारो॑ह न्त्य॒न्वारो॑ह न्त्या॒क्रोश॑न्तः । 10) अ॒न्वारो॑ह॒न्तीत्य॑नु - आरो॑हन्ति । 11) आ॒क्रोश॑न्तो यान्ति यान्त्या॒क्रोश॑न्त आ॒क्रोश॑न्तो यान्ति । 11) आ॒क्रोश॑न्त॒ इत्या᳚ - क्रोश॑न्तः । 12) या॒न्त्यव॑र्ति॒ मव॑र्तिं-याँन्ति या॒न्त्यव॑र्तिम् । 13) अव॑र्ति मे॒वैवाव॑र्ति॒ मव॑र्ति मे॒व । 14) ए॒वा न्यस्मि॑-न्न॒न्यस्मि॑-न्ने॒वैवा न्यस्मिन्न्॑ । 15) अ॒न्यस्मि॑-न्प्रति॒षज्य॑ प्रति॒षज्या॒ न्यस्मि॑-न्न॒न्यस्मि॑-न्प्रति॒षज्य॑ । 16) प्र॒ति॒षज्य॑ प्रति॒ष्ठा-म्प्र॑ति॒ष्ठा-म्प्र॑ति॒षज्य॑ प्रति॒षज्य॑ प्रति॒ष्ठाम् । 16) प्र॒ति॒षज्येति॑ प्रति - सज्य॑ । 17) प्र॒ति॒ष्ठा-ङ्ग॑च्छन्ति गच्छन्ति प्रति॒ष्ठा-म्प्र॑ति॒ष्ठा-ङ्ग॑च्छन्ति । 17) प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् । 18) ग॒च्छ॒न्ति॒ य॒दा य॒दा ग॑च्छन्ति गच्छन्ति य॒दा । 19) य॒दा दश॒ दश॑ य॒दा य॒दा दश॑ । 20) दश॑ श॒तग्ं श॒त-न्दश॒ दश॑ श॒तम् । 21) श॒त-ङ्कु॒र्वन्ति॑ कु॒र्वन्ति॑ श॒तग्ं श॒त-ङ्कु॒र्वन्ति॑ । 22) कु॒र्व न्त्यथाथ॑ कु॒र्वन्ति॑ कु॒र्व न्त्यथ॑ । 23) अथैक॒ मेक॒ मथाथैक᳚म् । 24) एक॑ मु॒त्थान॑ मु॒त्थान॒ मेक॒ मेक॑ मु॒त्थान᳚म् । 25) उ॒त्थानग्ं॑ श॒तायु॑-श्श॒तायु॑ रु॒त्थान॑ मु॒त्थानग्ं॑ श॒तायुः॑ । 25) उ॒त्थान॒मित्यु॑त् - स्थान᳚म् । 26) श॒तायुः॒ पुरु॑षः॒ पुरु॑ष-श्श॒तायु॑-श्श॒तायुः॒ पुरु॑षः । 26) श॒तायु॒रिति॑ श॒त - आ॒युः॒ । 27) पुरु॑ष-श्श॒तेन्द्रि॑य-श्श॒तेन्द्रि॑यः॒ पुरु॑षः॒ पुरु॑ष-श्श॒तेन्द्रि॑यः । 28) श॒तेन्द्रि॑य॒ आयु॒ ष्यायु॑षि श॒तेन्द्रि॑य-श्श॒तेन्द्रि॑य॒ आयु॑षि । 28) श॒तेन्द्रि॑य॒ इति॑ श॒त - इ॒न्द्रि॒यः॒ । 29) आयु॑ ष्ये॒वैवायु॒ ष्यायु॑ ष्ये॒व । 30) ए॒वेन्द्रि॒य इ॑न्द्रि॒य ए॒वैवेन्द्रि॒ये । 31) इ॒न्द्रि॒ये प्रति॒ प्रती᳚न्द्रि॒य इ॑न्द्रि॒ये प्रति॑ । 32) प्रति॑ तिष्ठन्ति तिष्ठन्ति॒ प्रति॒ प्रति॑ तिष्ठन्ति । 33) ति॒ष्ठ॒न्ति॒ य॒दा य॒दा ति॑ष्ठन्ति तिष्ठन्ति य॒दा । 34) य॒दा श॒तग्ं श॒तं-यँ॒दा य॒दा श॒तम् । 35) श॒तग्ं स॒हस्रग्ं॑ स॒हस्रग्ं॑ श॒तग्ं श॒तग्ं स॒हस्र᳚म् । 36) स॒हस्र॑-ङ्कु॒र्वन्ति॑ कु॒र्वन्ति॑ स॒हस्रग्ं॑ स॒हस्र॑-ङ्कु॒र्वन्ति॑ । 37) कु॒र्व न्त्यथाथ॑ कु॒र्वन्ति॑ कु॒र्व न्त्यथ॑ । 38) अथैक॒ मेक॒ मथाथैक᳚म् । 39) एक॑ मु॒त्थान॑ मु॒त्थान॒ मेक॒ मेक॑ मु॒त्थान᳚म् । 40) उ॒त्थानग्ं॑ स॒हस्र॑सम्मित-स्स॒हस्र॑सम्मित उ॒त्थान॑ मु॒त्थानग्ं॑ स॒हस्र॑सम्मितः । 40) उ॒त्थान॒मित्यु॑त् - स्थान᳚म् । 41) स॒हस्र॑सम्मितो॒ वै वै स॒हस्र॑सम्मित-स्स॒हस्र॑सम्मितो॒ वै । 41) स॒हस्र॑सम्मित॒ इति॑ स॒हस्र॑ - स॒म्मि॒तः॒ । 42) वा अ॒सा व॒सौ वै वा अ॒सौ । 43) अ॒सौ लो॒को लो॒को॑ ऽसा व॒सौ लो॒कः । 44) लो॒को॑ ऽमु म॒मुम् ँलो॒को लो॒को॑ ऽमुम् । 45) अ॒मु मे॒वै वामु म॒मु मे॒व । 46) ए॒व लो॒कम् ँलो॒क मे॒वैव लो॒कम् । 47) लो॒क म॒भ्य॑भि लो॒कम् ँलो॒क म॒भि । 48) अ॒भि ज॑यन्ति जय न्त्य॒भ्य॑भि ज॑यन्ति । 49) ज॒य॒न्ति॒ य॒दा य॒दा ज॑यन्ति जयन्ति य॒दा । 50) य॒दैषा॑ मेषां-यँ॒दा य॒दैषा᳚म् । 51) ए॒षा॒-म्प्र॒मीये॑त प्र॒मीये॑ तैषा मेषा-म्प्र॒मीये॑त । 52) प्र॒मीये॑त य॒दा य॒दा प्र॒मीये॑त प्र॒मीये॑त य॒दा । 52) प्र॒मीये॒तेति॑ प्र - मीये॑त । 53) य॒दा वा॑ वा य॒दा य॒दा वा᳚ । 54) वा॒ जीये॑र॒न् जीये॑रन्. वा वा॒ जीये॑रन्न् । 55) जीये॑र॒-न्नथाथ॒ जीये॑र॒न् जीये॑र॒-न्नथ॑ । 56) अथैक॒ मेक॒ मथा थैक᳚म् । 57) एक॑ मु॒त्थान॑ मु॒त्थान॒ मेक॒ मेक॑ मु॒त्थान᳚म् । 58) उ॒त्थान॒-न्त-त्तदु॒त्थान॑ मु॒त्थान॒-न्तत् । 58) उ॒त्थान॒मित्यु॑त् - स्थान᳚म् । 59) तद्धि हि त-त्तद्धि । 60) हि ती॒र्थ-न्ती॒र्थग्ं हि हि ती॒र्थम् । 61) ती॒र्थमिति॑ ती॒र्थम् । ॥ 4 ॥ (61/73) ॥ अ. 1 ॥
1) कु॒सु॒रु॒बिन्द॒ औद्दा॑लकि॒ रौद्दा॑लकिः कुसुरु॒बिन्दः॑ कुसुरु॒बिन्द॒ औद्दा॑लकिः । 2) औद्दा॑लकि रकामयता कामय॒ तौद्दा॑लकि॒ रौद्दा॑लकि रकामयत । 2) औद्दा॑लकि॒रित्यौत् - दा॒ल॒किः॒ । 3) अ॒का॒म॒य॒त॒ प॒शु॒मा-न्प॑शु॒मा न॑कामयता कामयत पशु॒मान् । 4) प॒शु॒मा-न्थ्स्याग्॑ स्या-म्पशु॒मा-न्प॑शु॒मा-न्थ्स्या᳚म् । 4) प॒शु॒मानिति॑ पशु - मान् । 5) स्या॒ मितीति॑ स्याग् स्या॒ मिति॑ । 6) इति॒ स स इतीति॒ सः । 7) स ए॒त मे॒तग्ं स स ए॒तम् । 8) ए॒तग्ं स॑प्तरा॒त्रग्ं स॑प्तरा॒त्र मे॒त मे॒तग्ं स॑प्तरा॒त्रम् । 9) स॒प्त॒रा॒त्र मा स॑प्तरा॒त्रग्ं स॑प्तरा॒त्र मा । 9) स॒प्त॒रा॒त्रमिति॑ सप्त - रा॒त्रम् । 10) आ ऽह॑र दहर॒दा ऽह॑रत् । 11) अ॒ह॒र॒-त्तेन॒ तेना॑ हर दहर॒-त्तेन॑ । 12) तेना॑ यजता यजत॒ तेन॒ तेना॑ यजत । 13) अ॒य॒ज॒त॒ तेन॒ तेना॑ यजता यजत॒ तेन॑ । 14) तेन॒ वै वै तेन॒ तेन॒ वै । 15) वै स स वै वै सः । 16) स याव॑न्तो॒ याव॑न्त॒-स्स स याव॑न्तः । 17) याव॑न्तो ग्रा॒म्या ग्रा॒म्या याव॑न्तो॒ याव॑न्तो ग्रा॒म्याः । 18) ग्रा॒म्याः प॒शवः॑ प॒शवो᳚ ग्रा॒म्या ग्रा॒म्याः प॒शवः॑ । 19) प॒शव॒ स्ताग् स्ता-न्प॒शवः॑ प॒शव॒ स्तान् । 20) तान वाव॒ ताग् स्तानव॑ । 21) अवा॑ रुन्धा रु॒न्धा वावा॑ रुन्ध । 22) अ॒रु॒न्ध॒ यो यो॑ ऽरुन्धा रुन्ध॒ यः । 23) य ए॒व मे॒वं-योँ य ए॒वम् । 24) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् । 25) वि॒द्वा-न्थ्स॑प्तरा॒त्रेण॑ सप्तरा॒त्रेण॑ वि॒द्वान्. वि॒द्वा-न्थ्स॑प्तरा॒त्रेण॑ । 26) स॒प्त॒रा॒त्रेण॒ यज॑ते॒ यज॑ते सप्तरा॒त्रेण॑ सप्तरा॒त्रेण॒ यज॑ते । 26) स॒प्त॒रा॒त्रेणेति॑ सप्त - रा॒त्रेण॑ । 27) यज॑ते॒ याव॑न्तो॒ याव॑न्तो॒ यज॑ते॒ यज॑ते॒ याव॑न्तः । 28) याव॑न्त ए॒वैव याव॑न्तो॒ याव॑न्त ए॒व । 29) ए॒व ग्रा॒म्या ग्रा॒म्या ए॒वैव ग्रा॒म्याः । 30) ग्रा॒म्याः प॒शवः॑ प॒शवो᳚ ग्रा॒म्या ग्रा॒म्याः प॒शवः॑ । 31) प॒शव॒स्ताग् स्ता-न्प॒शवः॑ प॒शव॒ स्तान् । 32) ताने॒वैव ताग् स्ताने॒व । 33) ए॒वावा वै॒वै वाव॑ । 34) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 35) रु॒न्धे॒ स॒प्त॒रा॒त्र-स्स॑प्तरा॒त्रो रु॑न्धे रुन्धे सप्तरा॒त्रः । 36) स॒प्त॒रा॒त्रो भ॑वति भवति सप्तरा॒त्र-स्स॑प्तरा॒त्रो भ॑वति । 36) स॒प्त॒रा॒त्र इति॑ सप्त - रा॒त्रः । 37) भ॒व॒ति॒ स॒प्त स॒प्त भ॑वति भवति स॒प्त । 38) स॒प्त ग्रा॒म्या ग्रा॒म्या-स्स॒प्त स॒प्त ग्रा॒म्याः । 39) ग्रा॒म्याः प॒शवः॑ प॒शवो᳚ ग्रा॒म्या ग्रा॒म्याः प॒शवः॑ । 40) प॒शव॑-स्स॒प्त स॒प्त प॒शवः॑ प॒शव॑-स्स॒प्त । 41) स॒प्ता र॒ण्या आ॑र॒ण्या-स्स॒प्त स॒प्ता र॒ण्याः । 42) आ॒र॒ण्या-स्स॒प्त स॒प्ता र॒ण्या आ॑र॒ण्या-स्स॒प्त । 43) स॒प्त छन्दाग्ं॑सि॒ छन्दाग्ं॑सि स॒प्त स॒प्त छन्दाग्ं॑सि । 44) छन्दाग्॑ स्यु॒भय॑ स्यो॒भय॑स्य॒ छन्दाग्ं॑सि॒ छन्दाग्॑ स्यु॒भय॑स्य । 45) उ॒भय॒स्या व॑रुद्ध्या॒ अव॑रुद्ध्या उ॒भय॑ स्यो॒भय॒स्या व॑रुद्ध्यै । 46) अव॑रुद्ध्यै त्रि॒वृ-त्त्रि॒वृ दव॑रुद्ध्या॒ अव॑रुद्ध्यै त्रि॒वृत् । 46) अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ । 47) त्रि॒वृ द॑ग्निष्टो॒मो᳚ ऽग्निष्टो॒म स्त्रि॒वृ-त्त्रि॒वृ द॑ग्निष्टो॒मः । 47) त्रि॒वृदिति॑ त्रि - वृत् । 48) अ॒ग्नि॒ष्टो॒मो भ॑वति भव त्यग्निष्टो॒मो᳚ ऽग्निष्टो॒मो भ॑वति । 48) अ॒ग्नि॒ष्टो॒म इत्य॑ग्नि - स्तो॒मः । 49) भ॒व॒ति॒ तेज॒ स्तेजो॑ भवति भवति॒ तेजः॑ । 50) तेज॑ ए॒वैव तेज॒ स्तेज॑ ए॒व । ॥ 5 ॥ (50/58)
1) ए॒वावा वै॒वै वाव॑ । 2) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 3) रु॒न्धे॒ प॒ञ्च॒द॒शः प॑ञ्चद॒शो रु॑न्धे रुन्धे पञ्चद॒शः । 4) प॒ञ्च॒द॒शो भ॑वति भवति पञ्चद॒शः प॑ञ्चद॒शो भ॑वति । 4) प॒ञ्च॒द॒श इति॑ पञ्च - द॒शः । 5) भ॒व॒ ती॒न्द्रि॒य मि॑न्द्रि॒य-म्भ॑वति भव तीन्द्रि॒यम् । 6) इ॒न्द्रि॒य मे॒वैवेन्द्रि॒य मि॑न्द्रि॒य मे॒व । 7) ए॒वावा वै॒वै वाव॑ । 8) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 9) रु॒न्धे॒ स॒प्त॒द॒श-स्स॑प्तद॒शो रु॑न्धे रुन्धे सप्तद॒शः । 10) स॒प्त॒द॒शो भ॑वति भवति सप्तद॒श-स्स॑प्तद॒शो भ॑वति । 10) स॒प्त॒द॒श इति॑ सप्त - द॒शः । 11) भ॒व॒ त्य॒न्नाद्य॑स्या॒ न्नाद्य॑स्य भवति भव त्य॒न्नाद्य॑स्य । 12) अ॒न्नाद्य॒ स्याव॑रुद्ध्या॒ अव॑रुद्ध्या अ॒न्नाद्य॑स्या॒ न्नाद्य॒ स्याव॑रुद्ध्यै । 12) अ॒न्नाद्य॒स्येत्य॑न्न - अद्य॑स्य । 13) अव॑रुद्ध्या॒ अथो॒ अथो॒ अव॑रुद्ध्या॒ अव॑रुद्ध्या॒ अथो᳚ । 13) अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ । 14) अथो॒ प्र प्राथो॒ अथो॒ प्र । 14) अथो॒ इत्यथो᳚ । 15) प्रैवैव प्र प्रैव । 16) ए॒व तेन॒ तेनै॒वैव तेन॑ । 17) तेन॑ जायते जायते॒ तेन॒ तेन॑ जायते । 18) जा॒य॒त॒ ए॒क॒वि॒ग्ं॒श ए॑कवि॒ग्ं॒शो जा॑यते जायत एकवि॒ग्ं॒शः । 19) ए॒क॒वि॒ग्ं॒शो भ॑वति भव त्येकवि॒ग्ं॒श ए॑कवि॒ग्ं॒शो भ॑वति । 19) ए॒क॒वि॒ग्ं॒श इत्ये॑क - वि॒ग्ं॒शः । 20) भ॒व॒ति॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै भवति भवति॒ प्रति॑ष्ठित्यै । 21) प्रति॑ष्ठित्या॒ अथो॒ अथो॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्या॒ अथो᳚ । 21) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । 22) अथो॒ रुच॒ग्ं॒ रुच॒ मथो॒ अथो॒ रुच᳚म् । 22) अथो॒ इत्यथो᳚ । 23) रुच॑ मे॒वैव रुच॒ग्ं॒ रुच॑ मे॒व । 24) ए॒वात्म-न्ना॒त्म-न्ने॒वै वात्मन्न् । 25) आ॒त्म-न्ध॑त्ते धत्त आ॒त्म-न्ना॒त्म-न्ध॑त्ते । 26) ध॒त्ते॒ त्रि॒ण॒व स्त्रि॑ण॒वो ध॑त्ते धत्ते त्रिण॒वः । 27) त्रि॒ण॒वो भ॑वति भवति त्रिण॒व स्त्रि॑ण॒वो भ॑वति । 27) त्रि॒ण॒व इति॑ त्रि - न॒वः । 28) भ॒व॒ति॒ विजि॑त्यै॒ विजि॑त्यै भवति भवति॒ विजि॑त्यै । 29) विजि॑त्यै पञ्चवि॒ग्ं॒शः प॑ञ्चवि॒ग्ं॒शो विजि॑त्यै॒ विजि॑त्यै पञ्चवि॒ग्ं॒शः । 29) विजि॑त्या॒ इति॒ वि - जि॒त्यै॒ । 30) प॒ञ्च॒वि॒ग्ं॒शो᳚ ऽग्निष्टो॒मो᳚ ऽग्निष्टो॒मः प॑ञ्चवि॒ग्ं॒शः प॑ञ्चवि॒ग्ं॒शो᳚ ऽग्निष्टो॒मः । 30) प॒ञ्च॒वि॒ग्ं॒श इति॑ पञ्च - वि॒ग्ं॒शः । 31) अ॒ग्नि॒ष्टो॒मो भ॑वति भव त्यग्निष्टो॒मो᳚ ऽग्निष्टो॒मो भ॑वति । 31) अ॒ग्नि॒ष्टो॒म इत्य॑ग्नि - स्तो॒मः । 32) भ॒व॒ति॒ प्र॒जाप॑तेः प्र॒जाप॑ते-र्भवति भवति प्र॒जाप॑तेः । 33) प्र॒जाप॑ते॒ राप्त्या॒ आप्त्यै᳚ प्र॒जाप॑तेः प्र॒जाप॑ते॒ राप्त्यै᳚ । 33) प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ । 34) आप्त्यै॑ महाव्र॒तवा᳚-न्महाव्र॒तवा॒ नाप्त्या॒ आप्त्यै॑ महाव्र॒तवान्॑ । 35) म॒हा॒व्र॒तवा॑ न॒न्नाद्य॑स्या॒ न्नाद्य॑स्य महाव्र॒तवा᳚-न्महाव्र॒तवा॑ न॒न्नाद्य॑स्य । 35) म॒हा॒व्र॒तवा॒निति॑ महाव्र॒त - वा॒न् । 36) अ॒न्नाद्य॒स्या व॑रुद्ध्या॒ अव॑रुद्ध्या अ॒न्नाद्य॑स्या॒ न्नाद्य॒स्या व॑रुद्ध्यै । 36) अ॒न्नाद्य॒स्येत्य॑न्न - अद्य॑स्य । 37) अव॑रुद्ध्यै विश्व॒जि-द्वि॑श्व॒जि दव॑रुद्ध्या॒ अव॑रुद्ध्यै विश्व॒जित् । 37) अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ । 38) वि॒श्व॒जि-थ्सर्व॑पृष्ठ॒-स्सर्व॑पृष्ठो विश्व॒जि-द्वि॑श्व॒जि-थ्सर्व॑पृष्ठः । 38) वि॒श्व॒जिदिति॑ विश्व - जित् । 39) सर्व॑पृष्ठो ऽतिरा॒त्रो॑ ऽतिरा॒त्र-स्सर्व॑पृष्ठ॒-स्सर्व॑पृष्ठो ऽतिरा॒त्रः । 39) सर्व॑पृष्ठ॒ इति॒ सर्व॑ - पृ॒ष्ठः॒ । 40) अ॒ति॒रा॒त्रो भ॑वति भव त्यतिरा॒त्रो॑ ऽतिरा॒त्रो भ॑वति । 40) अ॒ति॒रा॒त्र इत्य॑ति - रा॒त्रः । 41) भ॒व॒ति॒ सर्व॑स्य॒ सर्व॑स्य भवति भवति॒ सर्व॑स्य । 42) सर्व॑स्या॒ भिजि॑त्या अ॒भिजि॑त्यै॒ सर्व॑स्य॒ सर्व॑स्या॒ भिजि॑त्यै । 43) अ॒भिजि॑त्यै॒ य-द्यद॒भिजि॑त्या अ॒भिजि॑त्यै॒ यत् । 43) अ॒भिजि॑त्या॒ इत्य॒भि - जि॒त्यै॒ । 44) य-त्प्र॒त्यक्ष॑-म्प्र॒त्यक्षं॒-यँ-द्य-त्प्र॒त्यक्ष᳚म् । 45) प्र॒त्यक्ष॒-म्पूर्वे॑षु॒ पूर्वे॑षु प्र॒त्यक्ष॑-म्प्र॒त्यक्ष॒-म्पूर्वे॑षु । 45) प्र॒त्यक्ष॒मिति॑ प्रति - अक्ष᳚म् । 46) पूर्वे॒ ष्वह॒ स्स्वह॑स्सु॒ पूर्वे॑षु॒ पूर्वे॒ ष्वह॑स्सु । 47) अह॑स्सु पृ॒ष्ठानि॑ पृ॒ष्ठा न्यह॒ स्स्वह॑स्सु पृ॒ष्ठानि॑ । 47) अह॒स्स्वित्यहः॑ - सु॒ । 48) पृ॒ष्ठा न्यु॑पे॒यु रु॑पे॒युः पृ॒ष्ठानि॑ पृ॒ष्ठा न्यु॑पे॒युः । 49) उ॒पे॒युः प्र॒त्यक्ष॑-म्प्र॒त्यक्ष॑ मुपे॒यु रु॑पे॒युः प्र॒त्यक्ष᳚म् । 49) उ॒पे॒युरित्यु॑प - इ॒युः । 50) प्र॒त्यक्षं॑-विँश्व॒जिति॑ विश्व॒जिति॑ प्र॒त्यक्ष॑-म्प्र॒त्यक्षं॑-विँश्व॒जिति॑ । 50) प्र॒त्यक्ष॒मिति॑ प्रति - अक्ष᳚म् । ॥ 6 ॥ (50/74)
1) वि॒श्व॒जिति॒ यथा॒ यथा॑ विश्व॒जिति॑ विश्व॒जिति॒ यथा᳚ । 1) वि॒श्व॒जितीति॑ विश्व - जिति॑ । 2) यथा॑ दु॒ग्धा-न्दु॒ग्धां-यँथा॒ यथा॑ दु॒ग्धाम् । 3) दु॒ग्धा मु॑प॒सीद॑ त्युप॒सीद॑ति दु॒ग्धा-न्दु॒ग्धा मु॑प॒सीद॑ति । 4) उ॒प॒सीद॑ त्ये॒व मे॒व मु॑प॒सीद॑ त्युप॒सीद॑ त्ये॒वम् । 4) उ॒प॒सीद॒तीत्यु॑प - सीद॑ति । 5) ए॒व मु॑त्त॒म मु॑त्त॒म मे॒व मे॒व मु॑त्त॒मम् । 6) उ॒त्त॒म मह॒ रह॑ रुत्त॒म मु॑त्त॒म महः॑ । 6) उ॒त्त॒ममित्यु॑त् - त॒मम् । 7) अह॑-स्स्या-थ्स्या॒ दह॒ रह॑-स्स्यात् । 8) स्या॒-न्न न स्या᳚-थ्स्या॒-न्न । 9) नैक॑रा॒त्र ए॑करा॒त्रो न नैक॑रा॒त्रः । 10) ए॒क॒रा॒त्र श्च॒न च॒नैक॑रा॒त्र ए॑करा॒त्र श्च॒न । 10) ए॒क॒रा॒त्र इत्ये॑क - रा॒त्रः । 11) च॒न स्या᳚-थ्स्याच् च॒न च॒न स्या᳚त् । 12) स्या॒-द्बृ॒ह॒द्र॒थ॒न्त॒रे बृ॑हद्रथन्त॒रे स्या᳚-थ्स्या-द्बृहद्रथन्त॒रे । 13) बृ॒ह॒द्र॒थ॒न्त॒रे पूर्वे॑षु॒ पूर्वे॑षु बृहद्रथन्त॒रे बृ॑हद्रथन्त॒रे पूर्वे॑षु । 13) बृ॒ह॒द्र॒थ॒न्त॒रे इति॑ बृहत् - र॒थ॒न्त॒रे । 14) पूर्वे॒ ष्वह॒ स्स्वह॑स्सु॒ पूर्वे॑षु॒ पूर्वे॒ ष्वह॑स्सु । 15) अह॒ स्सूपोपा ह॒ स्स्वह॒ स्सूप॑ । 15) अह॒स्स्वित्यहः॑ - सु॒ । 16) उप॑ यन्ति य॒ न्त्युपोप॑ यन्ति । 17) य॒न्ती॒य मि॒यं-यँ॑न्ति यन्ती॒यम् । 18) इ॒यं-वाँव वावे य मि॒यं-वाँव । 19) वाव र॑थन्त॒रग्ं र॑थन्त॒रं-वाँव वाव र॑थन्त॒रम् । 20) र॒थ॒न्त॒र म॒सा व॒सौ र॑थन्त॒रग्ं र॑थन्त॒र म॒सौ । 20) र॒थ॒न्त॒रमिति॑ रथं - त॒रम् । 21) अ॒सौ बृ॒ह-द्बृ॒ह द॒सा व॒सौ बृ॒हत् । 22) बृ॒ह दा॒भ्या मा॒भ्या-म्बृ॒ह-द्बृ॒ह दा॒भ्याम् । 23) आ॒भ्या मे॒वै वाभ्या मा॒भ्या मे॒व । 24) ए॒व न नैवैव न । 25) न य॑न्ति यन्ति॒ न न य॑न्ति । 26) य॒न्त्यथो॒ अथो॑ यन्ति य॒न्त्यथो᳚ । 27) अथो॑ अ॒नयो॑ र॒नयो॒ रथो॒ अथो॑ अ॒नयोः᳚ । 27) अथो॒ इत्यथो᳚ । 28) अ॒नयो॑ रे॒वै वानयो॑ र॒नयो॑ रे॒व । 29) ए॒व प्रति॒ प्रत्ये॒ वैव प्रति॑ । 30) प्रति॑ तिष्ठन्ति तिष्ठन्ति॒ प्रति॒ प्रति॑ तिष्ठन्ति । 31) ति॒ष्ठ॒न्ति॒ य-द्य-त्ति॑ष्ठन्ति तिष्ठन्ति॒ यत् । 32) य-त्प्र॒त्यक्ष॑-म्प्र॒त्यक्षं॒-यँ-द्य-त्प्र॒त्यक्ष᳚म् । 33) प्र॒त्यक्षं॑-विँश्व॒जिति॑ विश्व॒जिति॑ प्र॒त्यक्ष॑-म्प्र॒त्यक्षं॑-विँश्व॒जिति॑ । 33) प्र॒त्यक्ष॒मिति॑ प्रति - अक्ष᳚म् । 34) वि॒श्व॒जिति॑ पृ॒ष्ठानि॑ पृ॒ष्ठानि॑ विश्व॒जिति॑ विश्व॒जिति॑ पृ॒ष्ठानि॑ । 34) वि॒श्व॒जितीति॑ विश्व - जिति॑ । 35) पृ॒ष्ठा न्यु॑प॒य न्त्यु॑प॒यन्ति॑ पृ॒ष्ठानि॑ पृ॒ष्ठा न्यु॑प॒यन्ति॑ । 36) उ॒प॒यन्ति॒ यथा॒ यथो॑प॒य न्त्यु॑प॒यन्ति॒ यथा᳚ । 36) उ॒प॒यन्तीत्यु॑प - यन्ति॑ । 37) यथा॒ प्रत्ता॒-म्प्रत्तां॒-यँथा॒ यथा॒ प्रत्ता᳚म् । 38) प्रत्ता᳚-न्दु॒हे दु॒हे प्रत्ता॒-म्प्रत्ता᳚-न्दु॒हे । 39) दु॒हे ता॒दृ-क्ता॒दृग् दु॒हे दु॒हे ता॒दृक् । 40) ता॒दृ गे॒वैव ता॒दृ-क्ता॒दृ गे॒व । 41) ए॒व त-त्तदे॒ वैव तत् । 42) तदिति॒ तत् । ॥ 7 ॥ (42/53) ॥ अ. 2 ॥
1) बृह॒स्पति॑ रकामयता कामयत॒ बृह॒स्पति॒-र्बृह॒स्पति॑ रकामयत । 2) अ॒का॒म॒य॒त॒ ब्र॒ह्म॒व॒र्च॒सी ब्र॑ह्मवर्च॒स्य॑ कामयता कामयत ब्रह्मवर्च॒सी । 3) ब्र॒ह्म॒व॒र्च॒सी स्याग्॑ स्या-म्ब्रह्मवर्च॒सी ब्र॑ह्मवर्च॒सी स्या᳚म् । 3) ब्र॒ह्म॒व॒र्च॒सीति॑ ब्रह्म - व॒र्च॒सी । 4) स्या॒ मितीति॑ स्याग् स्या॒ मिति॑ । 5) इति॒ स स इतीति॒ सः । 6) स ए॒त मे॒तग्ं स स ए॒तम् । 7) ए॒त म॑ष्टरा॒त्र म॑ष्टरा॒त्र मे॒त मे॒त म॑ष्टरा॒त्रम् । 8) अ॒ष्ट॒रा॒त्र म॑पश्य दपश्य दष्टरा॒त्र म॑ष्टरा॒त्र म॑पश्यत् । 8) अ॒ष्ट॒रा॒त्रमित्य॑ष्ट - रा॒त्रम् । 9) अ॒प॒श्य॒-त्त-न्त म॑पश्य दपश्य॒-त्तम् । 10) त मा त-न्त मा । 11) आ ऽह॑र दहर॒दा ऽह॑रत् । 12) अ॒ह॒र॒-त्तेन॒ तेना॑ हर दहर॒-त्तेन॑ । 13) तेना॑ यजता यजत॒ तेन॒ तेना॑ यजत । 14) अ॒य॒ज॒त॒ तत॒ स्ततो॑ ऽयजता यजत॒ ततः॑ । 15) ततो॒ वै वै तत॒ स्ततो॒ वै । 16) वै स स वै वै सः । 17) स ब्र॑ह्मवर्च॒सी ब्र॑ह्मवर्च॒सी स स ब्र॑ह्मवर्च॒सी । 18) ब्र॒ह्म॒व॒र्च॒ स्य॑भव दभव-द्ब्रह्मवर्च॒सी ब्र॑ह्मवर्च॒ स्य॑भवत् । 18) ब्र॒ह्म॒व॒र्च॒सीति॑ ब्रह्म - व॒र्च॒सी । 19) अ॒भ॒व॒-द्यो यो॑ ऽभव दभव॒-द्यः । 20) य ए॒व मे॒वं-योँ य ए॒वम् । 21) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् । 22) वि॒द्वा न॑ष्टरा॒त्रेणा᳚ ष्टरा॒त्रेण॑ वि॒द्वान्. वि॒द्वा न॑ष्टरा॒त्रेण॑ । 23) अ॒ष्ट॒रा॒त्रेण॒ यज॑ते॒ यज॑ते ऽष्टरा॒त्रेणा᳚ ष्टरा॒त्रेण॒ यज॑ते । 23) अ॒ष्ट॒रा॒त्रेणेत्य॑ष्ट - रा॒त्रेण॑ । 24) यज॑ते ब्रह्मवर्च॒सी ब्र॑ह्मवर्च॒सी यज॑ते॒ यज॑ते ब्रह्मवर्च॒सी । 25) ब्र॒ह्म॒व॒र्च॒ स्ये॑वैव ब्र॑ह्मवर्च॒सी ब्र॑ह्मवर्च॒ स्ये॑व । 25) ब्र॒ह्म॒व॒र्च॒सीति॑ ब्रह्म - व॒र्च॒सी । 26) ए॒व भ॑वति भव त्ये॒वैव भ॑वति । 27) भ॒व॒ त्य॒ष्ट॒रा॒त्रो᳚ ऽष्टरा॒त्रो भ॑वति भव त्यष्टरा॒त्रः । 28) अ॒ष्ट॒रा॒त्रो भ॑वति भव त्यष्टरा॒त्रो᳚ ऽष्टरा॒त्रो भ॑वति । 28) अ॒ष्ट॒रा॒त्र इत्य॑ष्ट - रा॒त्रः । 29) भ॒व॒ त्य॒ष्टाक्ष॑रा॒ ऽष्टाक्ष॑रा भवति भव त्य॒ष्टाक्ष॑रा । 30) अ॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒ त्र्य॑ष्टाक्ष॑रा॒ ऽष्टाक्ष॑रा गाय॒त्री । 30) अ॒ष्टाक्ष॒रेत्य॒ष्टा - अ॒क्ष॒रा॒ । 31) गा॒य॒त्री गा॑य॒त्री । 32) गा॒य॒त्री ब्र॑ह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स-ङ्गा॑य॒त्री गा॑य॒त्री ब्र॑ह्मवर्च॒सम् । 33) ब्र॒ह्म॒व॒र्च॒स-ङ्गा॑यत्रि॒या गा॑यत्रि॒या ब्र॑ह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स-ङ्गा॑यत्रि॒या । 33) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । 34) गा॒य॒त्रि॒ यैवैव गा॑यत्रि॒या गा॑यत्रि॒ यैव । 35) ए॒व ब्र॑ह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स मे॒वैव ब्र॑ह्मवर्च॒सम् । 36) ब्र॒ह्म॒व॒र्च॒स मवाव॑ ब्रह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स मव॑ । 36) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । 37) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 38) रु॒न्धे॒ ऽष्ट॒रा॒त्रो᳚ ऽष्टरा॒त्रो रु॑न्धे रुन्धे ऽष्टरा॒त्रः । 39) अ॒ष्ट॒रा॒त्रो भ॑वति भव त्यष्टरा॒त्रो᳚ ऽष्टरा॒त्रो भ॑वति । 39) अ॒ष्ट॒रा॒त्र इत्य॑ष्ट - रा॒त्रः । 40) भ॒व॒ति॒ चत॑स्र॒ श्चत॑स्रो भवति भवति॒ चत॑स्रः । 41) चत॑स्रो॒ वै वै चत॑स्र॒ श्चत॑स्रो॒ वै । 42) वै दिशो॒ दिशो॒ वै वै दिशः॑ । 43) दिश॒ श्चत॑स्र॒ श्चत॑स्रो॒ दिशो॒ दिश॒ श्चत॑स्रः । 44) चत॑स्रो ऽवान्तरदि॒शा अ॑वान्तरदि॒शा श्चत॑स्र॒ श्चत॑स्रो ऽवान्तरदि॒शाः । 45) अ॒वा॒न्त॒र॒दि॒शा दि॒ग्भ्यो दि॒ग्भ्यो॑ ऽवान्तरदि॒शा अ॑वान्तरदि॒शा दि॒ग्भ्यः । 45) अ॒वा॒न्त॒र॒दि॒शा इत्य॑वान्तर - दि॒शाः । 46) दि॒ग्भ्य ए॒वैव दि॒ग्भ्यो दि॒ग्भ्य ए॒व । 46) दि॒ग्भ्य इति॑ दिक् - भ्यः । 47) ए॒व ब्र॑ह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स मे॒वैव ब्र॑ह्मवर्च॒सम् । 48) ब्र॒ह्म॒व॒र्च॒स मवाव॑ ब्रह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स मव॑ । 48) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । 49) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 50) रु॒न्धे॒ त्रि॒वृ-त्त्रि॒वृ-द्रु॑न्धे रुन्धे त्रि॒वृत् । ॥ 8 ॥ (50/63)
1) त्रि॒वृ द॑ग्निष्टो॒मो᳚ ऽग्निष्टो॒म स्त्रि॒वृ-त्त्रि॒वृ द॑ग्निष्टो॒मः । 1) त्रि॒वृदिति॑ त्रि - वृत् । 2) अ॒ग्नि॒ष्टो॒मो भ॑वति भव त्यग्निष्टो॒मो᳚ ऽग्निष्टो॒मो भ॑वति । 2) अ॒ग्नि॒ष्टो॒म इत्य॑ग्नि - स्तो॒मः । 3) भ॒व॒ति॒ तेज॒ स्तेजो॑ भवति भवति॒ तेजः॑ । 4) तेज॑ ए॒वैव तेज॒ स्तेज॑ ए॒व । 5) ए॒वावा वै॒वै वाव॑ । 6) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 7) रु॒न्धे॒ प॒ञ्च॒द॒शः प॑ञ्चद॒शो रु॑न्धे रुन्धे पञ्चद॒शः । 8) प॒ञ्च॒द॒शो भ॑वति भवति पञ्चद॒शः प॑ञ्चद॒शो भ॑वति । 8) प॒ञ्च॒द॒श इति॑ पञ्च - द॒शः । 9) भ॒व॒ती॒न्द्रि॒य मि॑न्द्रि॒य-म्भ॑वति भवतीन्द्रि॒यम् । 10) इ॒न्द्रि॒य मे॒वैवेन्द्रि॒य मि॑न्द्रि॒य मे॒व । 11) ए॒वावा वै॒वै वाव॑ । 12) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 13) रु॒न्धे॒ स॒प्त॒द॒श-स्स॑प्तद॒शो रु॑न्धे रुन्धे सप्तद॒शः । 14) स॒प्त॒द॒शो भ॑वति भवति सप्तद॒श-स्स॑प्तद॒शो भ॑वति । 14) स॒प्त॒द॒श इति॑ सप्त - द॒शः । 15) भ॒व॒ त्य॒न्नाद्य॑स्या॒ न्नाद्य॑स्य भवति भव त्य॒न्नाद्य॑स्य । 16) अ॒न्नाद्य॒स्या व॑रुद्ध्या॒ अव॑रुद्ध्या अ॒न्नाद्य॑स्या॒ न्नाद्य॒स्या व॑रुद्ध्यै । 16) अ॒न्नाद्य॒स्येत्य॑न्न - अद्य॑स्य । 17) अव॑रुद्ध्या॒ अथो॒ अथो॒ अव॑रुद्ध्या॒ अव॑रुद्ध्या॒ अथो᳚ । 17) अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ । 18) अथो॒ प्र प्राथो॒ अथो॒ प्र । 18) अथो॒ इत्यथो᳚ । 19) प्रैवैव प्र प्रैव । 20) ए॒व तेन॒ तेनै॒ वैव तेन॑ । 21) तेन॑ जायते जायते॒ तेन॒ तेन॑ जायते । 22) जा॒य॒त॒ ए॒क॒वि॒ग्ं॒श ए॑कवि॒ग्ं॒शो जा॑यते जायत एकवि॒ग्ं॒शः । 23) ए॒क॒वि॒ग्ं॒शो भ॑वति भव त्येकवि॒ग्ं॒श ए॑कवि॒ग्ं॒शो भ॑वति । 23) ए॒क॒वि॒ग्ं॒श इत्ये॑क - वि॒ग्ं॒शः । 24) भ॒व॒ति॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै भवति भवति॒ प्रति॑ष्ठित्यै । 25) प्रति॑ष्ठित्या॒ अथो॒ अथो॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्या॒ अथो᳚ । 25) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । 26) अथो॒ रुच॒ग्ं॒ रुच॒ मथो॒ अथो॒ रुच᳚म् । 26) अथो॒ इत्यथो᳚ । 27) रुच॑ मे॒वैव रुच॒ग्ं॒ रुच॑ मे॒व । 28) ए॒वात्म-न्ना॒त्म-न्ने॒वै वात्मन्न् । 29) आ॒त्म-न्ध॑त्ते धत्त आ॒त्म-न्ना॒त्म-न्ध॑त्ते । 30) ध॒त्ते॒ त्रि॒ण॒व स्त्रि॑ण॒वो ध॑त्ते धत्ते त्रिण॒वः । 31) त्रि॒ण॒वो भ॑वति भवति त्रिण॒व स्त्रि॑ण॒वो भ॑वति । 31) त्रि॒ण॒व इति॑ त्रि - न॒वः । 32) भ॒व॒ति॒ विजि॑त्यै॒ विजि॑त्यै भवति भवति॒ विजि॑त्यै । 33) विजि॑त्यै त्रयस्त्रि॒ग्ं॒श स्त्र॑यस्त्रि॒ग्ं॒शो विजि॑त्यै॒ विजि॑त्यै त्रयस्त्रि॒ग्ं॒शः । 33) विजि॑त्या॒ इति॒ वि - जि॒त्यै॒ । 34) त्र॒य॒स्त्रि॒ग्ं॒शो भ॑वति भवति त्रयस्त्रि॒ग्ं॒श स्त्र॑यस्त्रि॒ग्ं॒शो भ॑वति । 34) त्र॒य॒स्त्रि॒ग्ं॒श इति॑ त्रयः - त्रि॒ग्ं॒शः । 35) भ॒व॒ति॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै भवति भवति॒ प्रति॑ष्ठित्यै । 36) प्रति॑ष्ठित्यै पञ्चवि॒ग्ं॒शः प॑ञ्चवि॒ग्ं॒शः प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै पञ्चवि॒ग्ं॒शः । 36) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । 37) प॒ञ्च॒वि॒ग्ं॒शो᳚ ऽग्निष्टो॒मो᳚ ऽग्निष्टो॒मः प॑ञ्चवि॒ग्ं॒शः प॑ञ्चवि॒ग्ं॒शो᳚ ऽग्निष्टो॒मः । 37) प॒ञ्च॒वि॒ग्ं॒श इति॑ पञ्च - वि॒ग्ं॒शः । 38) अ॒ग्नि॒ष्टो॒मो भ॑वति भव त्यग्निष्टो॒मो᳚ ऽग्निष्टो॒मो भ॑वति । 38) अ॒ग्नि॒ष्टो॒म इत्य॑ग्नि - स्तो॒मः । 39) भ॒व॒ति॒ प्र॒जाप॑तेः प्र॒जाप॑ते-र्भवति भवति प्र॒जाप॑तेः । 40) प्र॒जाप॑ते॒ राप्त्या॒ आप्त्यै᳚ प्र॒जाप॑तेः प्र॒जाप॑ते॒ राप्त्यै᳚ । 40) प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ । 41) आप्त्यै॑ महाव्र॒तवा᳚-न्महाव्र॒तवा॒ नाप्त्या॒ आप्त्यै॑ महाव्र॒तवान्॑ । 42) म॒हा॒व्र॒तवा॑ न॒न्नाद्य॑स्या॒ न्नाद्य॑स्य महाव्र॒तवा᳚-न्महाव्र॒तवा॑ न॒न्नाद्य॑स्य । 42) म॒हा॒व्र॒तवा॒निति॑ महाव्र॒त - वा॒न् । 43) अ॒न्नाद्य॒स्या व॑रुद्ध्या॒ अव॑रुद्ध्या अ॒न्नाद्य॑स्या॒ न्नाद्य॒स्या व॑रुद्ध्यै । 43) अ॒न्नाद्य॒स्येत्य॑न्न - अद्य॑स्य । 44) अव॑रुद्ध्यै विश्व॒जि-द्वि॑श्व॒जि दव॑रुद्ध्या॒ अव॑रुद्ध्यै विश्व॒जित् । 44) अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ । 45) वि॒श्व॒जि-थ्सर्व॑पृष्ठ॒-स्सर्व॑पृष्ठो विश्व॒जि-द्वि॑श्व॒जि-थ्सर्व॑पृष्ठः । 45) वि॒श्व॒जिदिति॑ विश्व - जित् । 46) सर्व॑पृष्ठो ऽतिरा॒त्रो॑ ऽतिरा॒त्र-स्सर्व॑पृष्ठ॒-स्सर्व॑पृष्ठो ऽतिरा॒त्रः । 46) सर्व॑पृष्ठ॒ इति॒ सर्व॑ - पृ॒ष्ठः॒ । 47) अ॒ति॒रा॒त्रो भ॑वति भव त्यतिरा॒त्रो॑ ऽतिरा॒त्रो भ॑वति । 47) अ॒ति॒रा॒त्र इत्य॑ति - रा॒त्रः । 48) भ॒व॒ति॒ सर्व॑स्य॒ सर्व॑स्य भवति भवति॒ सर्व॑स्य । 49) सर्व॑स्या॒ भिजि॑त्या अ॒भिजि॑त्यै॒ सर्व॑स्य॒ सर्व॑स्या॒ भिजि॑त्यै । 50) अ॒भिजि॑त्या॒ इत्य॒भि - जि॒त्यै॒ । ॥ 9 ॥ (50/73) ॥ अ. 3 ॥
1) प्र॒जाप॑तिः प्र॒जाः प्र॒जाः प्र॒जाप॑तिः प्र॒जाप॑तिः प्र॒जाः । 1) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 2) प्र॒जा अ॑सृजता सृजत प्र॒जाः प्र॒जा अ॑सृजत । 2) प्र॒जा इति॑ प्र - जाः । 3) अ॒सृ॒ज॒त॒ ता स्ता अ॑सृजता सृजत॒ ताः । 4) ता-स्सृ॒ष्टा-स्सृ॒ष्टा स्ता स्ता-स्सृ॒ष्टाः । 5) सृ॒ष्टाः, क्षुध॒-ङ्क्षुधग्ं॑ सृ॒ष्टा-स्सृ॒ष्टाः, क्षुध᳚म् । 6) क्षुध॒-न्नि नि क्षुध॒-ङ्क्षुध॒-न्नि । 7) न्या॑य-न्नाय॒-न्नि न्या॑यन्न् । 8) आ॒य॒-न्थ्स स आ॑य-न्नाय॒-न्थ्सः । 9) स ए॒त मे॒तग्ं स स ए॒तम् । 10) ए॒त-न्न॑वरा॒त्र-न्न॑वरा॒त्र मे॒त मे॒त-न्न॑वरा॒त्रम् । 11) न॒व॒रा॒त्र म॑पश्य दपश्य-न्नवरा॒त्र-न्न॑वरा॒त्र म॑पश्यत् । 11) न॒व॒रा॒त्रमिति॑ नव - रा॒त्रम् । 12) अ॒प॒श्य॒-त्त-न्त म॑पश्य दपश्य॒-त्तम् । 13) त मा त-न्त मा । 14) आ ऽह॑र दहर॒दा ऽह॑रत् । 15) अ॒ह॒र॒-त्तेन॒ तेना॑ हर दहर॒-त्तेन॑ । 16) तेना॑ यजता यजत॒ तेन॒ तेना॑ यजत । 17) अ॒य॒ज॒त॒ तत॒ स्ततो॑ ऽयजता यजत॒ ततः॑ । 18) ततो॒ वै वै तत॒ स्ततो॒ वै । 19) वै प्र॒जाभ्यः॑ प्र॒जाभ्यो॒ वै वै प्र॒जाभ्यः॑ । 20) प्र॒जाभ्यो॑ ऽकल्पता कल्पत प्र॒जाभ्यः॑ प्र॒जाभ्यो॑ ऽकल्पत । 20) प्र॒जाभ्य॒ इति॑ प्र - जाभ्यः॑ । 21) अ॒क॒ल्प॒त॒ यर्हि॒ यर्ह्य॑कल्पता कल्पत॒ यर्हि॑ । 22) यर्हि॑ प्र॒जाः प्र॒जा यर्हि॒ यर्हि॑ प्र॒जाः । 23) प्र॒जाः, क्षुध॒-ङ्क्षुध॑-म्प्र॒जाः प्र॒जाः, क्षुध᳚म् । 23) प्र॒जा इति॑ प्र - जाः । 24) क्षुध॑-न्नि॒गच्छे॑यु-र्नि॒गच्छे॑युः॒, क्षुध॒-ङ्क्षुध॑-न्नि॒गच्छे॑युः । 25) नि॒गच्छे॑यु॒ स्तर्हि॒ तर्हि॑ नि॒गच्छे॑यु-र्नि॒गच्छे॑यु॒ स्तर्हि॑ । 25) नि॒गच्छे॑यु॒रिति॑ नि - गच्छे॑युः । 26) तर्हि॑ नवरा॒त्रेण॑ नवरा॒त्रेण॒ तर्हि॒ तर्हि॑ नवरा॒त्रेण॑ । 27) न॒व॒रा॒त्रेण॑ यजेत यजेत नवरा॒त्रेण॑ नवरा॒त्रेण॑ यजेत । 27) न॒व॒रा॒त्रेणेति॑ नव - रा॒त्रेण॑ । 28) य॒जे॒ते॒म इ॒मे य॑जेत यजेते॒मे । 29) इ॒मे हि हीम इ॒मे हि । 30) हि वै वै हि हि वै । 31) वा ए॒तासा॑ मे॒तासां॒-वैँ वा ए॒तासा᳚म् । 32) ए॒तासा᳚म् ँलो॒का लो॒का ए॒तासा॑ मे॒तासा᳚म् ँलो॒काः । 33) लो॒का अक्लृ॑प्ता॒ अक्लृ॑प्ता लो॒का लो॒का अक्लृ॑प्ताः । 34) अक्लृ॑प्ता॒ अथाथा क्लृ॑प्ता॒ अक्लृ॑प्ता॒ अथ॑ । 35) अथै॒ता ए॒ता अथा थै॒ताः । 36) ए॒ताः, क्षुध॒-ङ्क्षुध॑ मे॒ता ए॒ताः, क्षुध᳚म् । 37) क्षुध॒-न्नि नि क्षुध॒-ङ्क्षुध॒-न्नि । 38) नि ग॑च्छन्ति गच्छन्ति॒ नि नि ग॑च्छन्ति । 39) ग॒च्छ॒न्ती॒मा नि॒मा-न्ग॑च्छन्ति गच्छन्ती॒मान् । 40) इ॒मा ने॒वैवेमा नि॒मा ने॒व । 41) ए॒वाभ्य॑ आभ्य ए॒वै वाभ्यः॑ । 42) आ॒भ्यो॒ लो॒कान् ँलो॒का ना᳚भ्य आभ्यो लो॒कान् । 43) लो॒कान् क॑ल्पयति कल्पयति लो॒कान् ँलो॒कान् क॑ल्पयति । 44) क॒ल्प॒य॒ति॒ ताग् स्तान् क॑ल्पयति कल्पयति॒ तान् । 45) तान् कल्प॑माना॒न् कल्प॑माना॒-न्ताग् स्तान् कल्प॑मानान् । 46) कल्प॑माना-न्प्र॒जाभ्यः॑ प्र॒जाभ्यः॒ कल्प॑माना॒न् कल्प॑माना-न्प्र॒जाभ्यः॑ । 47) प्र॒जाभ्यो ऽन्वनु॑ प्र॒जाभ्यः॑ प्र॒जाभ्यो ऽनु॑ । 47) प्र॒जाभ्य॒ इति॑ प्र - जाभ्यः॑ । 48) अनु॑ कल्पते कल्प॒ते ऽन्वनु॑ कल्पते । 49) क॒ल्प॒ते॒ कल्प॑न्ते॒ कल्प॑न्ते कल्पते कल्पते॒ कल्प॑न्ते । 50) कल्प॑न्ते ऽस्मा अस्मै॒ कल्प॑न्ते॒ कल्प॑न्ते ऽस्मै । ॥ 10 ॥ (50/58)
1) अ॒स्मा॒ इ॒म इ॒मे᳚ ऽस्मा अस्मा इ॒मे । 2) इ॒मे लो॒का लो॒का इ॒म इ॒मे लो॒काः । 3) लो॒का ऊर्ज॒ मूर्ज॑म् ँलो॒का लो॒का ऊर्ज᳚म् । 4) ऊर्ज॑-म्प्र॒जासु॑ प्र॒जासूर्ज॒ मूर्ज॑-म्प्र॒जासु॑ । 5) प्र॒जासु॑ दधाति दधाति प्र॒जासु॑ प्र॒जासु॑ दधाति । 5) प्र॒जास्विति॑ प्र - जासु॑ । 6) द॒धा॒ति॒ त्रि॒रा॒त्रेण॑ त्रिरा॒त्रेण॑ दधाति दधाति त्रिरा॒त्रेण॑ । 7) त्रि॒रा॒त्रे णै॒वैव त्रि॑रा॒त्रेण॑ त्रिरा॒त्रे णै॒व । 7) त्रि॒रा॒त्रेणेति॑ त्रि - रा॒त्रेण॑ । 8) ए॒वेम मि॒म मे॒वैवेमम् । 9) इ॒मम् ँलो॒कम् ँलो॒क मि॒म मि॒मम् ँलो॒कम् । 10) लो॒क-ङ्क॑ल्पयति कल्पयति लो॒कम् ँलो॒क-ङ्क॑ल्पयति । 11) क॒ल्प॒य॒ति॒ त्रि॒रा॒त्रेण॑ त्रिरा॒त्रेण॑ कल्पयति कल्पयति त्रिरा॒त्रेण॑ । 12) त्रि॒रा॒त्रेणा॒ न्तरि॑क्ष म॒न्तरि॑क्ष-न्त्रिरा॒त्रेण॑ त्रिरा॒त्रेणा॒ न्तरि॑क्षम् । 12) त्रि॒रा॒त्रेणेति॑ त्रि - रा॒त्रेण॑ । 13) अ॒न्तरि॑क्ष-न्त्रिरा॒त्रेण॑ त्रिरा॒त्रेणा॒ न्तरि॑क्ष म॒न्तरि॑क्ष-न्त्रिरा॒त्रेण॑ । 14) त्रि॒रा॒त्रे णा॒मु म॒मु-न्त्रि॑रा॒त्रेण॑ त्रिरा॒त्रे णा॒मुम् । 14) त्रि॒रा॒त्रेणेति॑ त्रि - रा॒त्रेण॑ । 15) अ॒मुम् ँलो॒कम् ँलो॒क म॒मु म॒मुम् ँलो॒कम् । 16) लो॒कं-यँथा॒ यथा॑ लो॒कम् ँलो॒कं-यँथा᳚ । 17) यथा॑ गु॒णे गु॒णे यथा॒ यथा॑ गु॒णे । 18) गु॒णे गु॒ण-ङ्गु॒ण-ङ्गु॒णे गु॒णे गु॒णम् । 19) गु॒ण म॒न्वस्य॑ त्य॒न्वस्य॑ति गु॒ण-ङ्गु॒ण म॒न्वस्य॑ति । 20) अ॒न्वस्य॑ त्ये॒व मे॒व म॒न्वस्य॑ त्य॒न्वस्य॑ त्ये॒वम् । 20) अ॒न्वस्य॒तीत्य॑नु - अस्य॑ति । 21) ए॒व मे॒वै वैव मे॒व मे॒व । 22) ए॒व त-त्तदे॒ वैव तत् । 23) तल्लो॒के लो॒के त-त्तल्लो॒के । 24) लो॒के लो॒कम् ँलो॒कम् ँलो॒के लो॒के लो॒कम् । 25) लो॒क मन्वनु॑ लो॒कम् ँलो॒क मनु॑ । 26) अन्व॑स्य त्यस्य॒ त्यन् वन् व॑स्यति । 27) अ॒स्य॒ति॒ धृत्यै॒ धृत्या॑ अस्यत्य स्यति॒ धृत्यै᳚ । 28) धृत्या॒ अशि॑थिलम्भावा॒या शि॑थिलम्भावाय॒ धृत्यै॒ धृत्या॒ अशि॑थिलम्भावाय । 29) अशि॑थिलम्भावाय॒ ज्योति॒-र्ज्योति॒ रशि॑थिलम्भावा॒या शि॑थिलम्भावाय॒ ज्योतिः॑ । 29) अशि॑थिलम्भावा॒येत्यशि॑थिलं - भा॒वा॒य॒ । 30) ज्योति॒-र्गौ-र्गौ-र्ज्योति॒-र्ज्योति॒-र्गौः । 31) गौरायु॒ रायु॒-र्गौ-र्गौरायुः॑ । 32) आयु॒ रिती त्यायु॒ रायु॒ रिति॑ । 33) इति॑ ज्ञा॒ता ज्ञा॒ता इतीति॑ ज्ञा॒ताः । 34) ज्ञा॒ता-स्स्तोमा॒-स्स्तोमा᳚ ज्ञा॒ता ज्ञा॒ता-स्स्तोमाः᳚ । 35) स्तोमा॑ भवन्ति भवन्ति॒ स्तोमा॒-स्स्तोमा॑ भवन्ति । 36) भ॒व॒न्ती॒य मि॒य-म्भ॑वन्ति भवन्ती॒यम् । 37) इ॒यं-वाँव वावेय मि॒यं-वाँव । 38) वाव ज्योति॒-र्ज्योति॒-र्वाव वाव ज्योतिः॑ । 39) ज्योति॑ र॒न्तरि॑क्ष म॒न्तरि॑क्ष॒-ञ्ज्योति॒-र्ज्योति॑ र॒न्तरि॑क्षम् । 40) अ॒न्तरि॑क्ष॒-ङ्गौ-र्गौ र॒न्तरि॑क्ष म॒न्तरि॑क्ष॒-ङ्गौः । 41) गौ र॒सा व॒सौ गौ-र्गौ र॒सौ । 42) अ॒सा वायु॒ रायु॑ र॒सा व॒सा वायुः॑ । 43) आयु॑ रे॒ष्वे᳚ ष्वायु॒ रायु॑ रे॒षु । 44) ए॒ष्वे॑वै वैष्वे᳚(1॒)ष्वे॑व । 45) ए॒व लो॒केषु॑ लो॒के ष्वे॒वैव लो॒केषु॑ । 46) लो॒केषु॒ प्रति॒ प्रति॑ लो॒केषु॑ लो॒केषु॒ प्रति॑ । 47) प्रति॑ तिष्ठन्ति तिष्ठन्ति॒ प्रति॒ प्रति॑ तिष्ठन्ति । 48) ति॒ष्ठ॒न्ति॒ ज्ञात्र॒म्. ज्ञात्र॑-न्तिष्ठन्ति तिष्ठन्ति॒ ज्ञात्र᳚म् । 49) ज्ञात्र॑-म्प्र॒जाना᳚-म्प्र॒जाना॒म्. ज्ञात्र॒म्. ज्ञात्र॑-म्प्र॒जाना᳚म् । 50) प्र॒जाना᳚-ङ्गच्छति गच्छति प्र॒जाना᳚-म्प्र॒जाना᳚-ङ्गच्छति । 50) प्र॒जाना॒मिति॑ प्र - जाना᳚म् । ॥ 11 ॥ (50/57)
1) ग॒च्छ॒ति॒ न॒व॒रा॒त्रो न॑वरा॒त्रो ग॑च्छति गच्छति नवरा॒त्रः । 2) न॒व॒रा॒त्रो भ॑वति भवति नवरा॒त्रो न॑वरा॒त्रो भ॑वति । 2) न॒व॒रा॒त्र इति॑ नव - रा॒त्रः । 3) भ॒व॒ त्य॒भि॒पू॒र्व म॑भिपू॒र्व-म्भ॑वति भव त्यभिपू॒र्वम् । 4) अ॒भि॒पू॒र्व मे॒वै वाभि॑पू॒र्व म॑भिपू॒र्व मे॒व । 4) अ॒भि॒पू॒र्वमित्य॑भि - पू॒र्वम् । 5) ए॒वास्मि॑-न्नस्मि-न्ने॒वै वास्मिन्न्॑ । 6) अ॒स्मि॒-न्तेज॒ स्तेजो᳚ ऽस्मि-न्नस्मि॒-न्तेजः॑ । 7) तेजो॑ दधाति दधाति॒ तेज॒ स्तेजो॑ दधाति । 8) द॒धा॒ति॒ यो यो द॑धाति दधाति॒ यः । 9) यो ज्योगा॑मयावी॒ ज्योगा॑मयावी॒ यो यो ज्योगा॑मयावी । 10) ज्योगा॑मयावी॒ स्या-थ्स्याज् ज्योगा॑मयावी॒ ज्योगा॑मयावी॒ स्यात् । 10) ज्योगा॑मया॒वीति॒ ज्योक् - आ॒म॒या॒वी॒ । 11) स्या-थ्स स स्या-थ्स्या-थ्सः । 12) स न॑वरा॒त्रेण॑ नवरा॒त्रेण॒ स स न॑वरा॒त्रेण॑ । 13) न॒व॒रा॒त्रेण॑ यजेत यजेत नवरा॒त्रेण॑ नवरा॒त्रेण॑ यजेत । 13) न॒व॒रा॒त्रेणेति॑ नव - रा॒त्रेण॑ । 14) य॒जे॒त॒ प्रा॒णाः प्रा॒णा य॑जेत यजेत प्रा॒णाः । 15) प्रा॒णा हि हि प्रा॒णाः प्रा॒णा हि । 15) प्रा॒णा इति॑ प्र - अ॒नाः । 16) हि वै वै हि हि वै । 17) वा ए॒त स्यै॒तस्य॒ वै वा ए॒तस्य॑ । 18) ए॒तस्या धृ॑ता॒ अधृ॑ता ए॒त स्यै॒तस्या धृ॑ताः । 19) अधृ॑ता॒ अथाथा धृ॑ता॒ अधृ॑ता॒ अथ॑ । 20) अथै॒ तस्यै॒तस्या थाथै॒तस्य॑ । 21) ए॒तस्य॒ ज्योग् ज्योगे॒ तस्यै॒तस्य॒ ज्योक् । 22) ज्योगा॑मय त्यामयति॒ ज्योग् ज्योगा॑मयति । 23) आ॒म॒य॒ति॒ प्रा॒णा-न्प्रा॒णा ना॑मय त्यामयति प्रा॒णान् । 24) प्रा॒णा ने॒वैव प्रा॒णा-न्प्रा॒णा ने॒व । 24) प्रा॒णानिति॑ प्र - अ॒नान् । 25) ए॒वास्मि॑-न्नस्मि-न्ने॒वै वास्मिन्न्॑ । 26) अ॒स्मि॒-न्दा॒धा॒र॒ दा॒धा॒ रा॒स्मि॒-न्न॒स्मि॒-न्दा॒धा॒र॒ । 27) दा॒धा॒ रो॒तोत दा॑धार दाधा रो॒त । 28) उ॒त यदि॒ यद्यु॒तोत यदि॑ । 29) यदी॒तासु॑ रि॒तासु॒-र्यदि॒ यदी॒तासुः॑ । 30) इ॒तासु॒-र्भव॑ति॒ भव॑ती॒तासु॑ रि॒तासु॒-र्भव॑ति । 30) इ॒तासु॒रिती॒त - अ॒सुः॒ । 31) भव॑ति॒ जीव॑ति॒ जीव॑ति॒ भव॑ति॒ भव॑ति॒ जीव॑ति । 32) जीव॑ त्ये॒वैव जीव॑ति॒ जीव॑त्ये॒व । 33) ए॒वेत्ये॒व । ॥ 12 ॥ (33/40) ॥ अ. 4 ॥
1) प्र॒जाप॑ति रकामयता कामयत प्र॒जाप॑तिः प्र॒जाप॑ति रकामयत । 1) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 2) अ॒का॒म॒य॒त॒ प्र प्रा का॑मयता कामयत॒ प्र । 3) प्र जा॑येय जायेय॒ प्र प्र जा॑येय । 4) जा॒ये॒येतीति॑ जायेय जाये॒येति॑ । 5) इति॒ स स इतीति॒ सः । 6) स ए॒त मे॒तग्ं स स ए॒तम् । 7) ए॒त-न्दश॑होतार॒-न्दश॑होतार मे॒त मे॒त-न्दश॑होतारम् । 8) दश॑होतार मपश्य दपश्य॒-द्दश॑होतार॒-न्दश॑होतार मपश्यत् । 8) दश॑होतार॒मिति॒ दश॑ - हो॒ता॒र॒म् । 9) अ॒प॒श्य॒-त्त-न्त म॑पश्य दपश्य॒-त्तम् । 10) त म॑जुहो दजुहो॒-त्त-न्त म॑जुहोत् । 11) अ॒जु॒हो॒-त्तेन॒ तेना॑ जुहो दजुहो॒-त्तेन॑ । 12) तेन॑ दशरा॒त्र-न्द॑शरा॒त्र-न्तेन॒ तेन॑ दशरा॒त्रम् । 13) द॒श॒रा॒त्र म॑सृजता सृजत दशरा॒त्र-न्द॑शरा॒त्र म॑सृजत । 13) द॒श॒रा॒त्रमिति॑ दश - रा॒त्रम् । 14) अ॒सृ॒ज॒त॒ तेन॒ तेना॑ सृजता सृजत॒ तेन॑ । 15) तेन॑ दशरा॒त्रेण॑ दशरा॒त्रेण॒ तेन॒ तेन॑ दशरा॒त्रेण॑ । 16) द॒श॒रा॒त्रेण॒ प्र प्र द॑शरा॒त्रेण॑ दशरा॒त्रेण॒ प्र । 16) द॒श॒रा॒त्रेणेति॑ दश - रा॒त्रेण॑ । 17) प्रा जा॑यता जायत॒ प्र प्रा जा॑यत । 18) अ॒जा॒य॒त॒ द॒श॒रा॒त्राय॑ दशरा॒त्राया॑ जायता जायत दशरा॒त्राय॑ । 19) द॒श॒रा॒त्राय॑ दीक्षि॒ष्यमा॑णो दीक्षि॒ष्यमा॑णो दशरा॒त्राय॑ दशरा॒त्राय॑ दीक्षि॒ष्यमा॑णः । 19) द॒श॒रा॒त्रायेति॑ दश - रा॒त्राय॑ । 20) दी॒क्षि॒ष्यमा॑णो॒ दश॑होतार॒-न्दश॑होतार-न्दीक्षि॒ष्यमा॑णो दीक्षि॒ष्यमा॑णो॒ दश॑होतारम् । 21) दश॑होतार-ञ्जुहुयाज् जुहुया॒-द्दश॑होतार॒-न्दश॑होतार-ञ्जुहुयात् । 21) दश॑होतार॒मिति॒ दश॑ - हो॒ता॒र॒म् । 22) जु॒हु॒या॒-द्दश॑होत्रा॒ दश॑होत्रा जुहुयाज् जुहुया॒-द्दश॑होत्रा । 23) दश॑होत्रै॒वैव दश॑होत्रा॒ दश॑होत्रै॒व । 23) दश॑हो॒त्रेति॒ दश॑ - हो॒त्रा॒ । 24) ए॒व द॑शरा॒त्र-न्द॑शरा॒त्र मे॒वैव द॑शरा॒त्रम् । 25) द॒श॒रा॒त्रग्ं सृ॑जते सृजते दशरा॒त्र-न्द॑शरा॒त्रग्ं सृ॑जते । 25) द॒श॒रा॒त्रमिति॑ दश - रा॒त्रम् । 26) सृ॒ज॒ते॒ तेन॒ तेन॑ सृजते सृजते॒ तेन॑ । 27) तेन॑ दशरा॒त्रेण॑ दशरा॒त्रेण॒ तेन॒ तेन॑ दशरा॒त्रेण॑ । 28) द॒श॒रा॒त्रेण॒ प्र प्र द॑शरा॒त्रेण॑ दशरा॒त्रेण॒ प्र । 28) द॒श॒रा॒त्रेणेति॑ दश - रा॒त्रेण॑ । 29) प्र जा॑यते जायते॒ प्र प्र जा॑यते । 30) जा॒य॒ते॒ वै॒रा॒जो वै॑रा॒जो जा॑यते जायते वैरा॒जः । 31) वै॒रा॒जो वै वै वै॑रा॒जो वै॑रा॒जो वै । 32) वा ए॒ष ए॒ष वै वा ए॒षः । 33) ए॒ष य॒ज्ञो य॒ज्ञ ए॒ष ए॒ष य॒ज्ञः । 34) य॒ज्ञो य-द्य-द्य॒ज्ञो य॒ज्ञो यत् । 35) य-द्द॑शरा॒त्रो द॑शरा॒त्रो य-द्य-द्द॑शरा॒त्रः । 36) द॒श॒रा॒त्रो यो यो द॑शरा॒त्रो द॑शरा॒त्रो यः । 36) द॒श॒रा॒त्र इति॑ दश - रा॒त्रः । 37) य ए॒व मे॒वं-योँ य ए॒वम् । 38) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् । 39) वि॒द्वा-न्द॑शरा॒त्रेण॑ दशरा॒त्रेण॑ वि॒द्वान्. वि॒द्वा-न्द॑शरा॒त्रेण॑ । 40) द॒श॒रा॒त्रेण॒ यज॑ते॒ यज॑ते दशरा॒त्रेण॑ दशरा॒त्रेण॒ यज॑ते । 40) द॒श॒रा॒त्रेणेति॑ दश - रा॒त्रेण॑ । 41) यज॑ते वि॒राजं॑-विँ॒राजं॒-यँज॑ते॒ यज॑ते वि॒राज᳚म् । 42) वि॒राज॑ मे॒वैव वि॒राजं॑-विँ॒राज॑ मे॒व । 42) वि॒राज॒मिति॑ वि - राज᳚म् । 43) ए॒व ग॑च्छति गच्छ त्ये॒वैव ग॑च्छति । 44) ग॒च्छ॒ति॒ प्रा॒जा॒प॒त्यः प्रा॑जाप॒त्यो ग॑च्छति गच्छति प्राजाप॒त्यः । 45) प्रा॒जा॒प॒त्यो वै वै प्रा॑जाप॒त्यः प्रा॑जाप॒त्यो वै । 45) प्रा॒जा॒प॒त्य इति॑ प्राजा - प॒त्यः । 46) वा ए॒ष ए॒ष वै वा ए॒षः । 47) ए॒ष य॒ज्ञो य॒ज्ञ ए॒ष ए॒ष य॒ज्ञः । 48) य॒ज्ञो य-द्य-द्य॒ज्ञो य॒ज्ञो यत् । 49) य-द्द॑शरा॒त्रो द॑शरा॒त्रो य-द्य-द्द॑शरा॒त्रः । 50) द॒श॒रा॒त्रो यो यो द॑शरा॒त्रो द॑शरा॒त्रो यः । 50) द॒श॒रा॒त्र इति॑ दश - रा॒त्रः । ॥ 13 ॥ (50/64)
1) य ए॒व मे॒वं-योँ य ए॒वम् । 2) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् । 3) वि॒द्वा-न्द॑शरा॒त्रेण॑ दशरा॒त्रेण॑ वि॒द्वान्. वि॒द्वा-न्द॑शरा॒त्रेण॑ । 4) द॒श॒रा॒त्रेण॒ यज॑ते॒ यज॑ते दशरा॒त्रेण॑ दशरा॒त्रेण॒ यज॑ते । 4) द॒श॒रा॒त्रेणेति॑ दश - रा॒त्रेण॑ । 5) यज॑ते॒ प्र प्र यज॑ते॒ यज॑ते॒ प्र । 6) प्रैवैव प्र प्रैव । 7) ए॒व जा॑यते जायत ए॒वैव जा॑यते । 8) जा॒य॒त॒ इन्द्र॒ इन्द्रो॑ जायते जायत॒ इन्द्रः॑ । 9) इन्द्रो॒ वै वा इन्द्र॒ इन्द्रो॒ वै । 10) वै स॒दृ-ङ्ख्स॒दृं. वै वै स॒दृम् । 11) स॒दृ-न्दे॒वता॑भि-र्दे॒वता॑भि-स्स॒दृ-ङ्ख्स॒दृ-न्दे॒वता॑भिः । 11) स॒दृङ्ङिति॑ स - दृम् । 12) दे॒वता॑भि रासी दासी-द्दे॒वता॑भि-र्दे॒वता॑भि रासीत् । 13) आ॒सी॒-थ्स स आ॑सी दासी॒-थ्सः । 14) स न न स स न । 15) न व्या॒वृतं॑-व्याँ॒वृत॒-न्न न व्या॒वृत᳚म् । 16) व्या॒वृत॑ मगच्छ दगच्छ-द्व्या॒वृतं॑-व्याँ॒वृत॑ मगच्छत् । 16) व्या॒वृत॒मिति॑ वि - आ॒वृत᳚म् । 17) अ॒ग॒च्छ॒-थ्स सो॑ ऽगच्छ दगच्छ॒-थ्सः । 18) स प्र॒जाप॑ति-म्प्र॒जाप॑ति॒ग्ं॒ स स प्र॒जाप॑तिम् । 19) प्र॒जाप॑ति॒ मुपोप॑ प्र॒जाप॑ति-म्प्र॒जाप॑ति॒ मुप॑ । 19) प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् । 20) उपा॑ धाव दधाव॒ दुपोपा॑ धावत् । 21) अ॒धा॒व॒-त्तस्मै॒ तस्मा॑ अधावद धाव॒-त्तस्मै᳚ । 22) तस्मा॑ ए॒त मे॒त-न्तस्मै॒ तस्मा॑ ए॒तम् । 23) ए॒त-न्द॑शरा॒त्र-न्द॑शरा॒त्र मे॒त मे॒त-न्द॑शरा॒त्रम् । 24) द॒श॒रा॒त्र-म्प्र प्र द॑शरा॒त्र-न्द॑शरा॒त्र-म्प्र । 24) द॒श॒रा॒त्रमिति॑ दश - रा॒त्रम् । 25) प्राय॑च्छ दयच्छ॒-त्प्र प्राय॑च्छत् । 26) अ॒य॒च्छ॒-त्त-न्तम॑यच्छ दयच्छ॒-त्तम् । 27) त मा त-न्त मा । 28) आ ऽह॑र दहर॒दा ऽह॑रत् । 29) अ॒ह॒र॒-त्तेन॒ तेना॑ हर दहर॒-त्तेन॑ । 30) तेना॑ यजता यजत॒ तेन॒ तेना॑ यजत । 31) अ॒य॒ज॒त॒ तत॒ स्ततो॑ ऽयजता यजत॒ ततः॑ । 32) ततो॒ वै वै तत॒ स्ततो॒ वै । 33) वै स स वै वै सः । 34) सो᳚ ऽन्याभि॑ र॒न्याभि॒-स्स सो᳚ ऽन्याभिः॑ । 35) अ॒न्याभि॑-र्दे॒वता॑भि-र्दे॒वता॑भि र॒न्याभि॑ र॒न्याभि॑-र्दे॒वता॑भिः । 36) दे॒वता॑भि-र्व्या॒वृतं॑-व्याँ॒वृत॑-न्दे॒वता॑भि-र्दे॒वता॑भि-र्व्या॒वृत᳚म् । 37) व्या॒वृत॑ मगच्छ दगच्छ-द्व्या॒वृतं॑-व्याँ॒वृत॑ मगच्छत् । 37) व्या॒वृत॒मिति॑ वि - आ॒वृत᳚म् । 38) अ॒ग॒च्छ॒-द्यो यो॑ ऽगच्छ दगच्छ॒-द्यः । 39) य ए॒व मे॒वं-योँ य ए॒वम् । 40) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् । 41) वि॒द्वा-न्द॑शरा॒त्रेण॑ दशरा॒त्रेण॑ वि॒द्वान्. वि॒द्वा-न्द॑शरा॒त्रेण॑ । 42) द॒श॒रा॒त्रेण॒ यज॑ते॒ यज॑ते दशरा॒त्रेण॑ दशरा॒त्रेण॒ यज॑ते । 42) द॒श॒रा॒त्रेणेति॑ दश - रा॒त्रेण॑ । 43) यज॑ते व्या॒वृतं॑-व्याँ॒वृतं॒-यँज॑ते॒ यज॑ते व्या॒वृत᳚म् । 44) व्या॒वृत॑ मे॒वैव व्या॒वृतं॑-व्याँ॒वृत॑ मे॒व । 44) व्या॒वृत॒मिति॑ वि - आ॒वृत᳚म् । 45) ए॒व पा॒प्मना॑ पा॒प्म नै॒वैव पा॒प्मना᳚ । 46) पा॒प्मना॒ भ्रातृ॑व्येण॒ भ्रातृ॑व्येण पा॒प्मना॑ पा॒प्मना॒ भ्रातृ॑व्येण । 47) भ्रातृ॑व्येण गच्छति गच्छति॒ भ्रातृ॑व्येण॒ भ्रातृ॑व्येण गच्छति । 48) ग॒च्छ॒ति॒ त्रि॒क॒कु-त्त्रि॑क॒कु-द्ग॑च्छति गच्छति त्रिक॒कुत् । 49) त्रि॒क॒कु-द्वै वै त्रि॑क॒कु-त्त्रि॑क॒कु-द्वै । 49) त्रि॒क॒कुदिति॑ त्रि - क॒कुत् । 50) वा ए॒ष ए॒ष वै वा ए॒षः । ॥ 14 ॥ (50/59)
1) ए॒ष य॒ज्ञो य॒ज्ञ ए॒ष ए॒ष य॒ज्ञः । 2) य॒ज्ञो य-द्य-द्य॒ज्ञो य॒ज्ञो यत् । 3) य-द्द॑शरा॒त्रो द॑शरा॒त्रो य-द्य-द्द॑शरा॒त्रः । 4) द॒श॒रा॒त्रः क॒कु-त्क॒कु-द्द॑शरा॒त्रो द॑शरा॒त्रः क॒कुत् । 4) द॒श॒रा॒त्र इति॑ दश - रा॒त्रः । 5) क॒कु-त्प॑ञ्चद॒शः प॑ञ्चद॒शः क॒कु-त्क॒कु-त्प॑ञ्चद॒शः । 6) प॒ञ्च॒द॒शः क॒कु-त्क॒कु-त्प॑ञ्चद॒शः प॑ञ्चद॒शः क॒कुत् । 6) प॒ञ्च॒द॒श इति॑ पञ्च - द॒शः । 7) क॒कु दे॑कवि॒ग्ं॒श ए॑कवि॒ग्ं॒शः क॒कु-त्क॒कु दे॑कवि॒ग्ं॒शः । 8) ए॒क॒वि॒ग्ं॒शः क॒कु-त्क॒कु दे॑कवि॒ग्ं॒श ए॑कवि॒ग्ं॒शः क॒कुत् । 8) ए॒क॒वि॒ग्ं॒श इत्ये॑क - वि॒ग्ं॒शः । 9) क॒कु-त्त्र॑यस्त्रि॒ग्ं॒श स्त्र॑यस्त्रि॒ग्ं॒शः क॒कु-त्क॒कु-त्त्र॑यस्त्रि॒ग्ं॒शः । 10) त्र॒य॒स्त्रि॒ग्ं॒शो यो यस्त्र॑यस्त्रि॒ग्ं॒श स्त्र॑यस्त्रि॒ग्ं॒शो यः । 10) त्र॒य॒स्त्रि॒ग्ं॒श इति॑ त्रयः - त्रि॒ग्ं॒शः । 11) य ए॒व मे॒वं-योँ य ए॒वम् । 12) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् । 13) वि॒द्वा-न्द॑शरा॒त्रेण॑ दशरा॒त्रेण॑ वि॒द्वान्. वि॒द्वा-न्द॑शरा॒त्रेण॑ । 14) द॒श॒रा॒त्रेण॒ यज॑ते॒ यज॑ते दशरा॒त्रेण॑ दशरा॒त्रेण॒ यज॑ते । 14) द॒श॒रा॒त्रेणेति॑ दश - रा॒त्रेण॑ । 15) यज॑ते त्रिक॒कु-त्त्रि॑क॒कु-द्यज॑ते॒ यज॑ते त्रिक॒कुत् । 16) त्रि॒क॒कु दे॒वैव त्रि॑क॒कु-त्त्रि॑क॒कु दे॒व । 16) त्रि॒क॒कुदिति॑ त्रि - क॒कुत् । 17) ए॒व स॑मा॒नानाग्ं॑ समा॒नाना॑ मे॒वैव स॑मा॒नाना᳚म् । 18) स॒मा॒नाना᳚-म्भवति भवति समा॒नानाग्ं॑ समा॒नाना᳚-म्भवति । 19) भ॒व॒ति॒ यज॑मानो॒ यज॑मानो भवति भवति॒ यज॑मानः । 20) यज॑मानः पञ्चद॒शः प॑ञ्चद॒शो यज॑मानो॒ यज॑मानः पञ्चद॒शः । 21) प॒ञ्च॒द॒शो यज॑मानो॒ यज॑मानः पञ्चद॒शः प॑ञ्चद॒शो यज॑मानः । 21) प॒ञ्च॒द॒श इति॑ पञ्च - द॒शः । 22) यज॑मान एकवि॒ग्ं॒श ए॑कवि॒ग्ं॒शो यज॑मानो॒ यज॑मान एकवि॒ग्ं॒शः । 23) ए॒क॒वि॒ग्ं॒शो यज॑मानो॒ यज॑मान एकवि॒ग्ं॒श ए॑कवि॒ग्ं॒शो यज॑मानः । 23) ए॒क॒वि॒ग्ं॒श इत्ये॑क - वि॒ग्ं॒शः । 24) यज॑मान स्त्रयस्त्रि॒ग्ं॒श स्त्र॑यस्त्रि॒ग्ं॒शो यज॑मानो॒ यज॑मान स्त्रयस्त्रि॒ग्ं॒शः । 25) त्र॒य॒स्त्रि॒ग्ं॒शः पुरः॒ पुर॑ स्त्रयस्त्रि॒ग्ं॒श स्त्र॑यस्त्रि॒ग्ं॒शः पुरः॑ । 25) त्र॒य॒स्त्रि॒ग्ं॒श इति॑ त्रयः - त्रि॒ग्ं॒शः । 26) पुर॒ इत॑रा॒ इत॑राः॒ पुरः॒ पुर॒ इत॑राः । 27) इत॑रा अभिच॒र्यमा॑णो ऽभिच॒र्यमा॑ण॒ इत॑रा॒ इत॑रा अभिच॒र्यमा॑णः । 28) अ॒भि॒च॒र्यमा॑णो दशरा॒त्रेण॑ दशरा॒त्रेणा॑ भिच॒र्यमा॑णो ऽभिच॒र्यमा॑णो दशरा॒त्रेण॑ । 28) अ॒भि॒च॒र्यमा॑ण॒ इत्य॑भि - च॒र्यमा॑णः । 29) द॒श॒रा॒त्रेण॑ यजेत यजेत दशरा॒त्रेण॑ दशरा॒त्रेण॑ यजेत । 29) द॒श॒रा॒त्रेणेति॑ दश - रा॒त्रेण॑ । 30) य॒जे॒त॒ दे॒व॒पु॒रा दे॑वपु॒रा य॑जेत यजेत देवपु॒राः । 31) दे॒व॒पु॒रा ए॒वैव दे॑वपु॒रा दे॑वपु॒रा ए॒व । 31) दे॒व॒पु॒रा इति॑ देव - पु॒राः । 32) ए॒व परि॒ पर्ये॒वैव परि॑ । 33) पर्यू॑हत ऊहते॒ परि॒ पर्यू॑हते । 34) ऊ॒ह॒ते॒ तस्य॒ तस्यो॑हत ऊहते॒ तस्य॑ । 35) तस्य॒ न न तस्य॒ तस्य॒ न । 36) न कुतः॒ कुतो॒ न न कुतः॑ । 37) कुत॑ श्च॒न च॒न कुतः॒ कुत॑ श्च॒न । 38) च॒नोपा᳚व्या॒ध उ॑पाव्या॒ध श्च॒न च॒नोपा᳚व्या॒धः । 39) उ॒पा॒व्या॒धो भ॑वति भव त्युपाव्या॒ध उ॑पाव्या॒धो भ॑वति । 39) उ॒पा॒व्या॒ध इत्यु॑प - आ॒व्या॒धः । 40) भ॒व॒ति॒ न न भ॑वति भवति॒ न । 41) नैन॑ मेन॒-न्न नैन᳚म् । 42) ए॒न॒ म॒भि॒चर॑-न्नभि॒चर॑-न्नेन मेन मभि॒चरन्न्॑ । 43) अ॒भि॒चरन्᳚ थ्स्तृणुते स्तृणुते ऽभि॒चर॑-न्नभि॒चरन्᳚ थ्स्तृणुते । 43) अ॒भि॒चर॒न्नित्य॑भि - चरन्न्॑ । 44) स्तृ॒णु॒ते॒ दे॒वा॒सु॒रा दे॑वासु॒रा-स्स्तृ॑णुते स्तृणुते देवासु॒राः । 45) दे॒वा॒सु॒रा-स्संयँ॑त्ता॒-स्संयँ॑त्ता देवासु॒रा दे॑वासु॒रा-स्संयँ॑त्ताः । 45) दे॒वा॒सु॒रा इति॑ देव - अ॒सु॒राः । 46) संयँ॑त्ता आस-न्नास॒-न्थ्संयँ॑त्ता॒-स्संयँ॑त्ता आसन्न् । 46) संयँ॑त्ता॒ इति॒ सं - य॒त्ताः॒ । 47) आ॒स॒-न्ते त आ॑स-न्नास॒-न्ते । 48) ते दे॒वा दे॒वा स्ते ते दे॒वाः । 49) दे॒वा ए॒ता ए॒ता दे॒वा दे॒वा ए॒ताः । 50) ए॒ता दे॑वपु॒रा दे॑वपु॒रा ए॒ता ए॒ता दे॑वपु॒राः । ॥ 15 ॥ (50/66)
1) दे॒व॒पु॒रा अ॑पश्य-न्नपश्य-न्देवपु॒रा दे॑वपु॒रा अ॑पश्यन्न् । 1) दे॒व॒पु॒रा इति॑ देव - पु॒राः । 2) अ॒प॒श्य॒न्॒. य-द्यद॑पश्य-न्नपश्य॒न्॒. यत् । 3) य-द्द॑शरा॒त्रो द॑शरा॒त्रो य-द्य-द्द॑शरा॒त्रः । 4) द॒श॒रा॒त्र स्ता स्ता द॑शरा॒त्रो द॑शरा॒त्र स्ताः । 4) द॒श॒रा॒त्र इति॑ दश - रा॒त्रः । 5) ताः परि॒ परि॒ ता स्ताः परि॑ । 6) पर्यौ॑हन्तौ हन्त॒ परि॒ पर्यौ॑हन्त । 7) औ॒ह॒न्त॒ तेषा॒-न्तेषा॑ मौहन्तौहन्त॒ तेषा᳚म् । 8) तेषा॒-न्न न तेषा॒-न्तेषा॒-न्न । 9) न कुतः॒ कुतो॒ न न कुतः॑ । 10) कुत॑ श्च॒न च॒न कुतः॒ कुत॑ श्च॒न । 11) च॒नोपा᳚व्या॒ध उ॑पाव्या॒ध श्च॒न च॒नोपा᳚व्या॒धः । 12) उ॒पा॒व्या॒धो॑ ऽभव दभव दुपाव्या॒ध उ॑पाव्या॒धो॑ ऽभवत् । 12) उ॒पा॒व्या॒ध इत्यु॑प - आ॒व्या॒धः । 13) अ॒भ॒व॒-त्तत॒ स्ततो॑ ऽभव दभव॒-त्ततः॑ । 14) ततो॑ दे॒वा दे॒वा स्तत॒ स्ततो॑ दे॒वाः । 15) दे॒वा अभ॑व॒-न्नभ॑व-न्दे॒वा दे॒वा अभ॑वन्न् । 16) अभ॑व॒-न्परा॒ परा ऽभ॑व॒-न्नभ॑व॒-न्परा᳚ । 17) परा ऽसु॑रा॒ असु॑राः॒ परा॒ परा ऽसु॑राः । 18) असु॑रा॒ यो यो ऽसु॑रा॒ असु॑रा॒ यः । 19) यो भ्रातृ॑व्यवा॒-न्भ्रातृ॑व्यवा॒न्॒. यो यो भ्रातृ॑व्यवान् । 20) भ्रातृ॑व्यवा॒-न्थ्स्या-थ्स्या-द्भ्रातृ॑व्यवा॒-न्भ्रातृ॑व्यवा॒-न्थ्स्यात् । 20) भ्रातृ॑व्यवा॒निति॒ भ्रातृ॑व्य - वा॒न् । 21) स्या-थ्स स स्या-थ्स्या-थ्सः । 22) स द॑शरा॒त्रेण॑ दशरा॒त्रेण॒ स स द॑शरा॒त्रेण॑ । 23) द॒श॒रा॒त्रेण॑ यजेत यजेत दशरा॒त्रेण॑ दशरा॒त्रेण॑ यजेत । 23) द॒श॒रा॒त्रेणेति॑ दश - रा॒त्रेण॑ । 24) य॒जे॒त॒ दे॒व॒पु॒रा दे॑वपु॒रा य॑जेत यजेत देवपु॒राः । 25) दे॒व॒पु॒रा ए॒वैव दे॑वपु॒रा दे॑वपु॒रा ए॒व । 25) दे॒व॒पु॒रा इति॑ देव - पु॒राः । 26) ए॒व परि॒ पर्ये॒वैव परि॑ । 27) पर्यू॑हत ऊहते॒ परि॒ पर्यू॑हते । 28) ऊ॒ह॒ते॒ तस्य॒ तस्यो॑हत ऊहते॒ तस्य॑ । 29) तस्य॒ न न तस्य॒ तस्य॒ न । 30) न कुतः॒ कुतो॒ न न कुतः॑ । 31) कुत॑ श्च॒न च॒न कुतः॒ कुत॑ श्च॒न । 32) च॒नोपा᳚व्या॒ध उ॑पाव्या॒ध श्च॒न च॒नोपा᳚व्या॒धः । 33) उ॒पा॒व्या॒धो भ॑वति भव त्युपाव्या॒ध उ॑पाव्या॒धो भ॑वति । 33) उ॒पा॒व्या॒ध इत्यु॑प - आ॒व्या॒धः । 34) भ॒व॒ति॒ भव॑ति॒ भव॑ति भवति भवति॒ भव॑ति । 35) भव॑ त्या॒त्मना॒ ऽऽत्मना॒ भव॑ति॒ भव॑ त्या॒त्मना᳚ । 36) आ॒त्मना॒ परा॒ परा॒ ऽऽत्मना॒ ऽऽत्मना॒ परा᳚ । 37) परा᳚ ऽस्यास्य॒ परा॒ परा᳚ ऽस्य । 38) अ॒स्य॒ भ्रातृ॑व्यो॒ भ्रातृ॑व्यो ऽस्यास्य॒ भ्रातृ॑व्यः । 39) भ्रातृ॑व्यो भवति भवति॒ भ्रातृ॑व्यो॒ भ्रातृ॑व्यो भवति । 40) भ॒व॒ति॒ स्तोम॒-स्स्तोमो॑ भवति भवति॒ स्तोमः॑ । 41) स्तोम॒-स्स्तोम॑स्य॒ स्तोम॑स्य॒ स्तोम॒-स्स्तोम॒-स्स्तोम॑स्य । 42) स्तोम॒ स्योप॑स्ति॒ रुप॑स्ति॒-स्स्तोम॑स्य॒ स्तोम॒ स्योप॑स्तिः । 43) उप॑स्ति-र्भवति भव॒ त्युप॑स्ति॒ रुप॑स्ति-र्भवति । 44) भ॒व॒ति॒ भ्रातृ॑व्य॒-म्भ्रातृ॑व्य-म्भवति भवति॒ भ्रातृ॑व्यम् । 45) भ्रातृ॑व्य मे॒वैव भ्रातृ॑व्य॒-म्भ्रातृ॑व्य मे॒व । 46) ए॒वोप॑स्ति॒ मुप॑स्ति मे॒वै वोप॑स्तिम् । 47) उप॑स्ति-ङ्कुरुते कुरुत॒ उप॑स्ति॒ मुप॑स्ति-ङ्कुरुते । 48) कु॒रु॒ते॒ जा॒मि जा॒मि कु॑रुते कुरुते जा॒मि । 49) जा॒मि वै वै जा॒मि जा॒मि वै । 50) वा ए॒त दे॒त-द्वै वा ए॒तत् । ॥ 16 ॥ (50/57)
1) ए॒त-त्कु॑र्वन्ति कुर्व न्त्ये॒त दे॒त-त्कु॑र्वन्ति । 2) कु॒र्व॒न्ति॒ य-द्य-त्कु॑र्वन्ति कुर्वन्ति॒ यत् । 3) यज् ज्यायाग्ं॑स॒-ञ्ज्यायाग्ं॑सं॒-यँ-द्यज् ज्यायाग्ं॑सम् । 4) ज्यायाग्ं॑स॒ग्ग्॒ स्तोम॒ग्ग्॒ स्तोम॒-ञ्ज्यायाग्ं॑स॒-ञ्ज्यायाग्ं॑स॒ग्ग्॒ स्तोम᳚म् । 5) स्तोम॑ मु॒पे त्यो॒पेत्य॒ स्तोम॒ग्ग्॒ स्तोम॑ मु॒पेत्य॑ । 6) उ॒पेत्य॒ कनी॑याग्ंस॒-ङ्कनी॑याग्ंस मु॒पे त्यो॒पेत्य॒ कनी॑याग्ंसम् । 6) उ॒पेत्येत्यु॑प - इत्य॑ । 7) कनी॑याग्ंस मुप॒य न्त्यु॑प॒यन्ति॒ कनी॑याग्ंस॒-ङ्कनी॑याग्ंस मुप॒यन्ति॑ । 8) उ॒प॒यन्ति॒ य-द्यदु॑प॒य न्त्यु॑प॒यन्ति॒ यत् । 8) उ॒प॒यन्तीत्यु॑प - यन्ति॑ । 9) यद॑ग्निष्टोमसा॒मा न्य॑ग्निष्टोमसा॒मानि॒ य-द्यद॑ग्निष्टोमसा॒मानि॑ । 10) अ॒ग्नि॒ष्टो॒म॒सा॒मा न्य॒वस्ता॑ द॒वस्ता॑ दग्निष्टोमसा॒मा न्य॑ग्निष्टोमसा॒मा न्य॒वस्ता᳚त् । 10) अ॒ग्नि॒ष्टो॒म॒सा॒मानीत्य॑ग्निष्टोम - सा॒मानि॑ । 11) अ॒वस्ता᳚च् च चा॒वस्ता॑ द॒वस्ता᳚च् च । 12) च॒ प॒रस्ता᳚-त्प॒रस्ता᳚च् च च प॒रस्ता᳚त् । 13) प॒रस्ता᳚च् च च प॒रस्ता᳚-त्प॒रस्ता᳚च् च । 14) च॒ भव॑न्ति॒ भव॑न्ति च च॒ भव॑न्ति । 15) भव॒ न्त्यजा॑मित्वा॒या जा॑मित्वाय॒ भव॑न्ति॒ भव॒ न्त्यजा॑मित्वाय । 16) अजा॑मित्वाय त्रि॒वृ-त्त्रि॒वृ दजा॑मित्वा॒या जा॑मित्वाय त्रि॒वृत् । 16) अजा॑मित्वा॒येत्यजा॑मि - त्वा॒य॒ । 17) त्रि॒वृ द॑ग्निष्टो॒मो᳚ ऽग्निष्टो॒म स्त्रि॒वृ-त्त्रि॒वृ द॑ग्निष्टो॒मः । 17) त्रि॒वृदिति॑ त्रि - वृत् । 18) अ॒ग्नि॒ष्टो॒मो᳚ ऽग्नि॒ष्टु द॑ग्नि॒ष्टु द॑ग्निष्टो॒मो᳚ ऽग्निष्टो॒मो᳚ ऽग्नि॒ष्टुत् । 18) अ॒ग्नि॒ष्टो॒म इत्य॑ग्नि - स्तो॒मः । 19) अ॒ग्नि॒ष्टु दा᳚ग्ने॒यी ष्वा᳚ग्ने॒यी ष्व॑ग्नि॒ष्टु द॑ग्नि॒ष्टु दा᳚ग्ने॒यीषु॑ । 19) अ॒ग्नि॒ष्टुदित्य॑ग्नि - स्तुत् । 20) आ॒ग्ने॒यीषु॑ भवति भव त्याग्ने॒यी ष्वा᳚ग्ने॒यीषु॑ भवति । 21) भ॒व॒ति॒ तेज॒ स्तेजो॑ भवति भवति॒ तेजः॑ । 22) तेज॑ ए॒वैव तेज॒ स्तेज॑ ए॒व । 23) ए॒वावा वै॒वै वाव॑ । 24) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 25) रु॒न्धे॒ प॒ञ्च॒द॒शः प॑ञ्चद॒शो रु॑न्धे रुन्धे पञ्चद॒शः । 26) प॒ञ्च॒द॒श उ॒क्थ्य॑ उ॒क्थ्यः॑ पञ्चद॒शः प॑ञ्चद॒श उ॒क्थ्यः॑ । 26) प॒ञ्च॒द॒श इति॑ पञ्च - द॒शः । 27) उ॒क्थ्य॑ ऐ॒न्द्री ष्वै॒न्द्रीषू॒क्थ्य॑ उ॒क्थ्य॑ ऐ॒न्द्रीषु॑ । 28) ऐ॒न्द्री ष्वि॑न्द्रि॒य मि॑न्द्रि॒य मै॒न्द्री ष्वै॒न्द्री ष्वि॑न्द्रि॒यम् । 29) इ॒न्द्रि॒य मे॒वैवेन्द्रि॒य मि॑न्द्रि॒य मे॒व । 30) ए॒वावा वै॒वै वाव॑ । 31) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 32) रु॒न्धे॒ त्रि॒वृ-त्त्रि॒वृ-द्रु॑न्धे रुन्धे त्रि॒वृत् । 33) त्रि॒वृ द॑ग्निष्टो॒मो᳚ ऽग्निष्टो॒म स्त्रि॒वृ-त्त्रि॒वृ द॑ग्निष्टो॒मः । 33) त्रि॒व॒दिति॑ त्रि - वृत् । 34) अ॒ग्नि॒ष्टो॒मो वै᳚श्वदे॒वीषु॑ वैश्वदे॒वी ष्व॑ग्निष्टो॒मो᳚ ऽग्निष्टो॒मो वै᳚श्वदे॒वीषु॑ । 34) अ॒ग्नि॒ष्टो॒म इत्य॑ग्नि - स्तो॒मः । 35) वै॒श्व॒दे॒वीषु॒ पुष्टि॒-म्पुष्टिं॑-वैँश्वदे॒वीषु॑ वैश्वदे॒वीषु॒ पुष्टि᳚म् । 35) वै॒श्व॒दे॒वीष्विति॑ वैश्व - दे॒वीषु॑ । 36) पुष्टि॑ मे॒वैव पुष्टि॒-म्पुष्टि॑ मे॒व । 37) ए॒वावा वै॒वै वाव॑ । 38) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 39) रु॒न्धे॒ स॒प्त॒द॒श-स्स॑प्तद॒शो रु॑न्धे रुन्धे सप्तद॒शः । 40) स॒प्त॒द॒शो᳚ ऽग्निष्टो॒मो᳚ ऽग्निष्टो॒म-स्स॑प्तद॒श-स्स॑प्तद॒शो᳚ ऽग्निष्टो॒मः । 40) स॒प्त॒द॒श इति॑ सप्त - द॒शः । 41) अ॒ग्नि॒ष्टो॒मः प्रा॑जाप॒त्यासु॑ प्राजाप॒त्या स्व॑ग्निष्टो॒मो᳚ ऽग्निष्टो॒मः प्रा॑जाप॒त्यासु॑ । 41) अ॒ग्नि॒ष्टो॒म इत्य॑ग्नि - स्तो॒मः । 42) प्रा॒जा॒प॒त्यासु॑ तीव्रसो॒म स्ती᳚व्रसो॒मः प्रा॑जाप॒त्यासु॑ प्राजाप॒त्यासु॑ तीव्रसो॒मः । 42) प्रा॒जा॒प॒त्यास्विति॑ प्राजा - प॒त्यासु॑ । 43) ती॒व्र॒सो॒मो᳚ ऽन्नाद्य॑स्या॒ न्नाद्य॑स्य तीव्रसो॒म स्ती᳚व्रसो॒मो᳚ ऽन्नाद्य॑स्य । 43) ती॒व्र॒सो॒म इति॑ तीव्र - सो॒मः । 44) अ॒न्नाद्य॒स्या व॑रुद्ध्या॒ अव॑रुद्ध्या अ॒न्नाद्य॑स्या॒ न्नाद्य॒स्या व॑रुद्ध्यै । 44) अ॒न्नाद्य॒स्येत्य॑न्न - अद्य॑स्य । 45) अव॑रुद्ध्या॒ अथो॒ अथो॒ अव॑रुद्ध्या॒ अव॑रुद्ध्या॒ अथो᳚ । 45) अव॑रुद्ध्या॒ इत्यव॑ - रुद्॒ध्यै॒ । 46) अथो॒ प्र प्राथो॒ अथो॒ प्र । 46) अथो॒ इत्यथो᳚ । 47) प्रैवैव प्र प्रैव । 48) ए॒व तेन॒ तेनै॒ वैव तेन॑ । 49) तेन॑ जायते जायते॒ तेन॒ तेन॑ जायते । 50) जा॒य॒त॒ ए॒क॒वि॒ग्ं॒श ए॑कवि॒ग्ं॒शो जा॑यते जायत एकवि॒ग्ं॒शः । ॥ 17 ॥ (50/68)
1) ए॒क॒वि॒ग्ं॒श उ॒क्थ्य॑ उ॒क्थ्य॑ एकवि॒ग्ं॒श ए॑कवि॒ग्ं॒श उ॒क्थ्यः॑ । 1) ए॒क॒वि॒ग्ं॒श इत्ये॑क - वि॒ग्ं॒शः । 2) उ॒क्थ्य॑-स्सौ॒रीषु॑ सौ॒रीषू॒क्थ्य॑ उ॒क्थ्य॑-स्सौ॒रीषु॑ । 3) सौ॒रीषु॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै सौ॒रीषु॑ सौ॒रीषु॒ प्रति॑ष्ठित्यै । 4) प्रति॑ष्ठित्या॒ अथो॒ अथो॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्या॒ अथो᳚ । 4) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । 5) अथो॒ रुच॒ग्ं॒ रुच॒ मथो॒ अथो॒ रुच᳚म् । 5) अथो॒ इत्यथो᳚ । 6) रुच॑ मे॒वैव रुच॒ग्ं॒ रुच॑ मे॒व । 7) ए॒वात्म-न्ना॒त्म-न्ने॒वै वात्मन्न् । 8) आ॒त्म-न्ध॑त्ते धत्त आ॒त्म-न्ना॒त्म-न्ध॑त्ते । 9) ध॒त्ते॒ स॒प्त॒द॒श-स्स॑प्तद॒शो ध॑त्ते धत्ते सप्तद॒शः । 10) स॒प्त॒द॒शो᳚ ऽग्निष्टो॒मो᳚ ऽग्निष्टो॒म-स्स॑प्तद॒श-स्स॑प्तद॒शो᳚ ऽग्निष्टो॒मः । 10) स॒प्त॒द॒श इति॑ सप्त - द॒शः । 11) अ॒ग्नि॒ष्टो॒मः प्रा॑जाप॒त्यासु॑ प्राजाप॒त्या स्व॑ग्निष्टो॒मो᳚ ऽग्निष्टो॒मः प्रा॑जाप॒त्यासु॑ । 11) अ॒ग्नि॒ष्टो॒म इत्य॑ग्नि - स्तो॒मः । 12) प्रा॒जा॒प॒त्यासू॑ पह॒व्य॑ उपह॒व्यः॑ प्राजाप॒त्यासु॑ प्राजाप॒त्यासू॑ पह॒व्यः॑ । 12) प्रा॒जा॒प॒त्यास्विति॑ प्राजा - प॒त्यासु॑ । 13) उ॒प॒ह॒व्य॑ उपह॒व मु॑पह॒व मु॑पह॒व्य॑ उपह॒व्य॑ उपह॒वम् । 13) उ॒प॒ह॒व्य॑ इत्यु॑प - ह॒व्यः॑ । 14) उ॒प॒ह॒व मे॒वैवोप॑ह॒व मु॑पह॒व मे॒व । 14) उ॒प॒ह॒वमित्यु॑प - ह॒वम् । 15) ए॒व ग॑च्छति गच्छ त्ये॒वैव ग॑च्छति । 16) ग॒च्छ॒ति॒ त्रि॒ण॒वौ त्रि॑ण॒वौ ग॑च्छति गच्छति त्रिण॒वौ । 17) त्रि॒ण॒वा व॑ग्निष्टो॒मा व॑ग्निष्टो॒मौ त्रि॑ण॒वौ त्रि॑ण॒वा व॑ग्निष्टो॒मौ । 17) त्रि॒ण॒वाविति॑ त्रि - न॒वौ । 18) अ॒ग्नि॒ष्टो॒मा व॒भितो॒ ऽभितो᳚ ऽग्निष्टो॒मा व॑ग्निष्टो॒मा व॒भितः॑ । 18) अ॒ग्नि॒ष्टो॒मावित्य॑ग्नि - स्तो॒मौ । 19) अ॒भित॑ ऐ॒न्द्री ष्वै॒न्द्री ष्व॒भितो॒ ऽभित॑ ऐ॒न्द्रीषु॑ । 20) ऐ॒न्द्रीषु॒ विजि॑त्यै॒ विजि॑त्या ऐ॒न्द्री ष्वै॒न्द्रीषु॒ विजि॑त्यै । 21) विजि॑त्यै त्रयस्त्रि॒ग्ं॒श स्त्र॑यस्त्रि॒ग्ं॒शो विजि॑त्यै॒ विजि॑त्यै त्रयस्त्रि॒ग्ं॒शः । 21) विजि॑त्या॒ इति॒ वि - जि॒त्यै॒ । 22) त्र॒य॒स्त्रि॒ग्ं॒श उ॒क्थ्य॑ उ॒क्थ्य॑ स्त्रयस्त्रि॒ग्ं॒श स्त्र॑यस्त्रि॒ग्ं॒श उ॒क्थ्यः॑ । 22) त्र॒य॒स्त्रि॒ग्ं॒श इति॑ त्रयः - त्रि॒ग्ं॒शः । 23) उ॒क्थ्यो॑ वैश्वदे॒वीषु॑ वैश्वदे॒वीषू॒क्थ्य॑ उ॒क्थ्यो॑ वैश्वदे॒वीषु॑ । 24) वै॒श्व॒दे॒वीषु॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै वैश्वदे॒वीषु॑ वैश्वदे॒वीषु॒ प्रति॑ष्ठित्यै । 24) वै॒श्व॒दे॒वीष्विति॑ वैश्व - दे॒वीषु॑ । 25) प्रति॑ष्ठित्यै विश्व॒जि-द्वि॑श्व॒जि-त्प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै विश्व॒जित् । 25) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । 26) वि॒श्व॒जि-थ्सर्व॑पृष्ठ॒-स्सर्व॑पृष्ठो विश्व॒जि-द्वि॑श्व॒जि-थ्सर्व॑पृष्ठः । 26) वि॒श्व॒जिदिति॑ विश्व - जित् । 27) सर्व॑पृष्ठो ऽतिरा॒त्रो॑ ऽतिरा॒त्र-स्सर्व॑पृष्ठ॒-स्सर्व॑पृष्ठो ऽतिरा॒त्रः । 27) सर्व॑पृष्ठ॒ इति॒ सर्व॑ - पृ॒ष्ठः॒ । 28) अ॒ति॒रा॒त्रो भ॑वति भव त्यतिरा॒त्रो॑ ऽतिरा॒त्रो भ॑वति । 28) अ॒ति॒रा॒त्र इत्य॑ति - रा॒त्रः । 29) भ॒व॒ति॒ सर्व॑स्य॒ सर्व॑स्य भवति भवति॒ सर्व॑स्य । 30) सर्व॑स्या॒ भिजि॑त्या अ॒भिजि॑त्यै॒ सर्व॑स्य॒ सर्व॑स्या॒ भिजि॑त्यै । 31) अ॒भिजि॑त्या॒ इत्य॒भि - जि॒त्यै॒ । ॥ 18 ॥ (31/48) ॥ अ. 5 ॥
1) ऋ॒तवो॒ वै वा ऋ॒तव॑ ऋ॒तवो॒ वै । 2) वै प्र॒जाका॑माः प्र॒जाका॑मा॒ वै वै प्र॒जाका॑माः । 3) प्र॒जाका॑माः प्र॒जा-म्प्र॒जा-म्प्र॒जाका॑माः प्र॒जाका॑माः प्र॒जाम् । 3) प्र॒जाका॑मा॒ इति॑ प्र॒जा - का॒माः॒ । 4) प्र॒जा-न्न न प्र॒जा-म्प्र॒जा-न्न । 4) प्र॒जामिति॑ प्र - जाम् । 5) नावि॑न्दन्ता विन्दन्त॒ न नावि॑न्दन्त । 6) अ॒वि॒न्द॒न्त॒ ते ते॑ ऽविन्दन्ता विन्दन्त॒ ते । 7) ते॑ ऽकामयन्ता कामयन्त॒ ते ते॑ ऽकामयन्त । 8) अ॒का॒म॒य॒न्त॒ प्र॒जा-म्प्र॒जा म॑कामयन्ता कामयन्त प्र॒जाम् । 9) प्र॒जाग्ं सृ॑जेमहि सृजेमहि प्र॒जा-म्प्र॒जाग्ं सृ॑जेमहि । 9) प्र॒जामिति॑ प्र - जाम् । 10) सृ॒जे॒म॒हि॒ प्र॒जा-म्प्र॒जाग्ं सृ॑जेमहि सृजेमहि प्र॒जाम् । 11) प्र॒जा मवाव॑ प्र॒जा-म्प्र॒जा मव॑ । 11) प्र॒जामिति॑ प्र - जाम् । 12) अव॑ रुन्धीमहि रुन्धीम॒ ह्यवाव॑ रुन्धीमहि । 13) रु॒न्धी॒म॒हि॒ प्र॒जा-म्प्र॒जाग्ं रु॑न्धीमहि रुन्धीमहि प्र॒जाम् । 14) प्र॒जां-विँ॑न्देमहि विन्देमहि प्र॒जा-म्प्र॒जां-विँ॑न्देमहि । 14) प्र॒जामिति॑ प्र - जाम् । 15) वि॒न्दे॒म॒हि॒ प्र॒जाव॑न्तः प्र॒जाव॑न्तो विन्देमहि विन्देमहि प्र॒जाव॑न्तः । 16) प्र॒जाव॑न्त-स्स्याम स्याम प्र॒जाव॑न्तः प्र॒जाव॑न्त-स्स्याम । 16) प्र॒जाव॑न्त॒ इति॑ प्र॒जा - व॒न्तः॒ । 17) स्या॒मेतीति॑ स्याम स्या॒मेति॑ । 18) इति॒ ते त इतीति॒ ते । 19) त ए॒त मे॒त-न्ते त ए॒तम् । 20) ए॒त मे॑कादशरा॒त्र मे॑कादशरा॒त्र मे॒त मे॒त मे॑कादशरा॒त्रम् । 21) ए॒का॒द॒श॒रा॒त्र म॑पश्य-न्नपश्य-न्नेकादशरा॒त्र मे॑कादशरा॒त्र म॑पश्यन्न् । 21) ए॒का॒द॒श॒रा॒त्रमित्ये॑कादश - रा॒त्रम् । 22) अ॒प॒श्य॒-न्त-न्त म॑पश्य-न्नपश्य॒-न्तम् । 23) त मा त-न्त मा । 24) आ ऽह॑र-न्नहर॒-न्ना ऽह॑रन्न् । 25) अ॒ह॒र॒-न्तेन॒ तेना॑ हर-न्नहर॒-न्तेन॑ । 26) तेना॑ यजन्ता यजन्त॒ तेन॒ तेना॑ यजन्त । 27) अ॒य॒ज॒न्त॒ तत॒ स्ततो॑ ऽयजन्ता यजन्त॒ ततः॑ । 28) ततो॒ वै वै तत॒ स्ततो॒ वै । 29) वै ते ते वै वै ते । 30) ते प्र॒जा-म्प्र॒जा-न्ते ते प्र॒जाम् । 31) प्र॒जा म॑सृजन्ता सृजन्त प्र॒जा-म्प्र॒जा म॑सृजन्त । 31) प्र॒जामिति॑ प्र - जाम् । 32) अ॒सृ॒ज॒न्त॒ प्र॒जा-म्प्र॒जा म॑सृजन्ता सृजन्त प्र॒जाम् । 33) प्र॒जा मवाव॑ प्र॒जा-म्प्र॒जा मव॑ । 33) प्र॒जामिति॑ प्र - जाम् । 34) अवा॑ रुन्धता रुन्ध॒ता वावा॑ रुन्धत । 35) अ॒रु॒न्ध॒त॒ प्र॒जा-म्प्र॒जा म॑रुन्धता रुन्धत प्र॒जाम् । 36) प्र॒जा म॑विन्दन्ता विन्दन्त प्र॒जा-म्प्र॒जा म॑विन्दन्त । 36) प्र॒जामिति॑ प्र - जाम् । 37) अ॒वि॒न्द॒न्त॒ प्र॒जाव॑न्तः प्र॒जाव॑न्तो ऽविन्दन्ता विन्दन्त प्र॒जाव॑न्तः । 38) प्र॒जाव॑न्तो ऽभव-न्नभव-न्प्र॒जाव॑न्तः प्र॒जाव॑न्तो ऽभवन्न् । 38) प्र॒जाव॑न्त॒ इति॑ प्र॒जा - व॒न्तः॒ । 39) अ॒भ॒व॒-न्ते ते॑ ऽभव-न्नभव॒-न्ते । 40) त ऋ॒तव॑ ऋ॒तव॒ स्ते त ऋ॒तवः॑ । 41) ऋ॒तवो॑ ऽभव-न्नभव-न्नृ॒तव॑ ऋ॒तवो॑ ऽभवन्न् । 42) अ॒भ॒व॒-न्त-त्तद॑भव-न्नभव॒-न्तत् । 43) तदा᳚र्त॒वाना॑ मार्त॒वाना॒-न्त-त्तदा᳚र्त॒वाना᳚म् । 44) आ॒र्त॒वाना॑ मार्तव॒त्व मा᳚र्तव॒त्व मा᳚र्त॒वाना॑ मार्त॒वाना॑ मार्तव॒त्वम् । 45) आ॒र्त॒व॒त्व मृ॑तू॒ना मृ॑तू॒ना मा᳚र्तव॒त्व मा᳚र्तव॒त्व मृ॑तू॒नाम् । 45) आ॒र्त॒व॒त्वमित्या᳚र्तव - त्वम् । 46) ऋ॒तू॒नां-वैँ वा ऋ॑तू॒ना मृ॑तू॒नां-वैँ । 47) वा ए॒त ए॒ते वै वा ए॒ते । 48) ए॒ते पु॒त्राः पु॒त्रा ए॒त ए॒ते पु॒त्राः । 49) पु॒त्रा स्तस्मा॒-त्तस्मा᳚-त्पु॒त्राः पु॒त्रा स्तस्मा᳚त् । 50) तस्मा॑ दार्त॒वा आ᳚र्त॒वा स्तस्मा॒-त्तस्मा॑ दार्त॒वाः । ॥ 19 ॥ (50/62)
1) आ॒र्त॒वा उ॑च्यन्त उच्यन्त आर्त॒वा आ᳚र्त॒वा उ॑च्यन्ते । 2) उ॒च्य॒न्ते॒ ये य उ॑च्यन्त उच्यन्ते॒ ये । 3) य ए॒व मे॒वं-येँ य ए॒वम् । 4) ए॒वं-विँ॒द्वाग्ंसो॑ वि॒द्वाग्ंस॑ ए॒व मे॒वं-विँ॒द्वाग्ंसः॑ । 5) वि॒द्वाग्ंस॑ एकादशरा॒त्र मे॑कादशरा॒त्रं-विँ॒द्वाग्ंसो॑ वि॒द्वाग्ंस॑ एकादशरा॒त्रम् । 6) ए॒का॒द॒श॒रा॒त्र मास॑त॒ आस॑त एकादशरा॒त्र मे॑कादशरा॒त्र मास॑ते । 6) ए॒का॒द॒श॒रा॒त्रमित्ये॑कादश - रा॒त्रम् । 7) आस॑ते प्र॒जा-म्प्र॒जा मास॑त॒ आस॑ते प्र॒जाम् । 8) प्र॒जा मे॒वैव प्र॒जा-म्प्र॒जा मे॒व । 8) प्र॒जामिति॑ प्र - जाम् । 9) ए॒व सृ॑जन्ते सृजन्त ए॒वैव सृ॑जन्ते । 10) सृ॒ज॒न्ते॒ प्र॒जा-म्प्र॒जाग्ं सृ॑जन्ते सृजन्ते प्र॒जाम् । 11) प्र॒जा मवाव॑ प्र॒जा-म्प्र॒जा मव॑ । 11) प्र॒जामिति॑ प्र - जाम् । 12) अव॑ रुन्धते रुन्ध॒ते ऽवाव॑ रुन्धते । 13) रु॒न्ध॒ते॒ प्र॒जा-म्प्र॒जाग्ं रु॑न्धते रुन्धते प्र॒जाम् । 14) प्र॒जां-विँ॑न्दन्ते विन्दन्ते प्र॒जा-म्प्र॒जां-विँ॑न्दन्ते । 14) प्र॒जामिति॑ प्र - जाम् । 15) वि॒न्द॒न्ते॒ प्र॒जाव॑न्तः प्र॒जाव॑न्तो विन्दन्ते विन्दन्ते प्र॒जाव॑न्तः । 16) प्र॒जाव॑न्तो भवन्ति भवन्ति प्र॒जाव॑न्तः प्र॒जाव॑न्तो भवन्ति । 16) प्र॒जाव॑न्त॒ इति॑ प्र॒जा - व॒न्तः॒ । 17) भ॒व॒न्ति॒ ज्योति॒-र्ज्योति॑-र्भवन्ति भवन्ति॒ ज्योतिः॑ । 18) ज्योति॑ रतिरा॒त्रो॑ ऽतिरा॒त्रो ज्योति॒-र्ज्योति॑ रतिरा॒त्रः । 19) अ॒ति॒रा॒त्रो भ॑वति भव त्यतिरा॒त्रो॑ ऽतिरा॒त्रो भ॑वति । 19) अ॒ति॒रा॒त्र इत्य॑ति - रा॒त्रः । 20) भ॒व॒ति॒ ज्योति॒-र्ज्योति॑-र्भवति भवति॒ ज्योतिः॑ । 21) ज्योति॑ रे॒वैव ज्योति॒-र्ज्योति॑ रे॒व । 22) ए॒व पु॒रस्ता᳚-त्पु॒रस्ता॑ दे॒वैव पु॒रस्ता᳚त् । 23) पु॒रस्ता᳚-द्दधते दधते पु॒रस्ता᳚-त्पु॒रस्ता᳚-द्दधते । 24) द॒ध॒ते॒ सु॒व॒र्गस्य॑ सुव॒र्गस्य॑ दधते दधते सुव॒र्गस्य॑ । 25) सु॒व॒र्गस्य॑ लो॒कस्य॑ लो॒कस्य॑ सुव॒र्गस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ । 25) सु॒व॒र्गस्येति॑ सुवः - गस्य॑ । 26) लो॒कस्या नु॑ख्यात्या॒ अनु॑ख्यात्यै लो॒कस्य॑ लो॒कस्या नु॑ख्यात्यै । 27) अनु॑ख्यात्यै॒ पृष्ठ्यः॒ पृष्ठ्यो ऽनु॑ख्यात्या॒ अनु॑ख्यात्यै॒ पृष्ठ्यः॑ । 27) अनु॑ख्यात्या॒ इत्यनु॑ - ख्या॒त्यै॒ । 28) पृष्ठ्य॑ ष्षड॒ह ष्ष॑ड॒हः पृष्ठ्यः॒ पृष्ठ्य॑ ष्षड॒हः । 29) ष॒ड॒हो भ॑वति भवति षड॒ह ष्ष॑ड॒हो भ॑वति । 29) ष॒ड॒ह इति॑ षट् - अ॒हः । 30) भ॒व॒ति॒ ष-ट्थ्ष-ड्भ॑वति भवति॒ षट् । 31) ष-ड्वै वै ष-ट्थ्ष-ड्वै । 32) वा ऋ॒तव॑ ऋ॒तवो॒ वै वा ऋ॒तवः॑ । 33) ऋ॒तव॒ ष्ष-ट्थ्षडृ॒तव॑ ऋ॒तव॒ ष्षट् । 34) षट् पृ॒ष्ठानि॑ पृ॒ष्ठानि॒ ष-ट्थ्षट् पृ॒ष्ठानि॑ । 35) पृ॒ष्ठानि॑ पृ॒ष्ठैः पृ॒ष्ठैः पृ॒ष्ठानि॑ पृ॒ष्ठानि॑ पृ॒ष्ठैः । 36) पृ॒ष्ठै रे॒वैव पृ॒ष्ठैः पृ॒ष्ठै रे॒व । 37) ए॒व र्तू नृ॒तू ने॒वैव र्तून् । 38) ऋ॒तू न॒न्वारो॑ह न्त्य॒न्वारो॑ह न्त्यृ॒तू नृ॒तू न॒न्वारो॑हन्ति । 39) अ॒न्वारो॑ह न्त्यृ॒तुभिर्॑. ऋ॒तुभि॑ र॒न्वारो॑ह न्त्य॒न्वारो॑ह न्त्यृ॒तुभिः॑ । 39) अ॒न्वारो॑ह॒न्तीत्य॑नु - आरो॑हन्ति । 40) ऋ॒तुभि॑-स्संवँथ्स॒रग्ं सं॑वँथ्स॒र मृ॒तुभिर्॑. ऋ॒तुभि॑-स्संवँथ्स॒रम् । 40) ऋ॒तुभि॒रित्यृ॒तु - भिः॒ । 41) सं॒वँ॒थ्स॒र-न्ते ते सं॑वँथ्स॒रग्ं सं॑वँथ्स॒र-न्ते । 41) सं॒वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । 42) ते सं॑वँथ्स॒रे सं॑वँथ्स॒रे ते ते सं॑वँथ्स॒रे । 43) सं॒वँ॒थ्स॒र ए॒वैव सं॑वँथ्स॒रे सं॑वँथ्स॒र ए॒व । 43) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रे । 44) ए॒व प्रति॒ प्रत्ये॒वैव प्रति॑ । 45) प्रति॑ तिष्ठन्ति तिष्ठन्ति॒ प्रति॒ प्रति॑ तिष्ठन्ति । 46) ति॒ष्ठ॒न्ति॒ च॒तु॒र्वि॒ग्ं॒श श्च॑तुर्वि॒ग्ं॒श स्ति॑ष्ठन्ति तिष्ठन्ति चतुर्वि॒ग्ं॒शः । 47) च॒तु॒र्वि॒ग्ं॒शो भ॑वति भवति चतुर्वि॒ग्ं॒श श्च॑तुर्वि॒ग्ं॒शो भ॑वति । 47) च॒तु॒र्वि॒ग्ं॒श इति॑ चतुः - वि॒ग्ं॒शः । 48) भ॒व॒ति॒ चतु॑र्विग्ंशत्यक्षरा॒ चतु॑र्विग्ंशत्यक्षरा भवति भवति॒ चतु॑र्विग्ंशत्यक्षरा । 49) चतु॑र्विग्ंशत्यक्षरा गाय॒त्री गा॑य॒त्री चतु॑र्विग्ंशत्यक्षरा॒ चतु॑र्विग्ंशत्यक्षरा गाय॒त्री । 49) चतु॑र्विग्ंशत्यक्ष॒रेति॒ चतु॑विग्ंशति - अ॒क्ष॒रा॒ । 50) गा॒य॒त्री गा॑य॒त्र-ङ्गा॑य॒त्र-ङ्गा॑य॒त्री गा॑य॒त्री गा॑य॒त्रम् । ॥ 20 ॥ (50/65)
1) गा॒य॒त्र-म्ब्र॑ह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स-ङ्गा॑य॒त्र-ङ्गा॑य॒त्र-म्ब्र॑ह्मवर्च॒सम् । 2) ब्र॒ह्म॒व॒र्च॒स-ङ्गा॑यत्रि॒या-ङ्गा॑यत्रि॒या-म्ब्र॑ह्मवर्च॒स-म्ब्र॑ह्मवर्च॒स-ङ्गा॑यत्रि॒याम् । 2) ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । 3) गा॒य॒त्रि॒या मे॒वैव गा॑यत्रि॒या-ङ्गा॑यत्रि॒या मे॒व । 4) ए॒व ब्र॑ह्मवर्च॒से ब्र॑ह्मवर्च॒स ए॒वैव ब्र॑ह्मवर्च॒से । 5) ब्र॒ह्म॒व॒र्च॒से प्रति॒ प्रति॑ ब्रह्मवर्च॒से ब्र॑ह्मवर्च॒से प्रति॑ । 5) ब्र॒ह्म॒व॒र्च॒स इति॑ ब्रह्म - व॒र्च॒से । 6) प्रति॑ तिष्ठन्ति तिष्ठन्ति॒ प्रति॒ प्रति॑ तिष्ठन्ति । 7) ति॒ष्ठ॒न्ति॒ च॒तु॒श्च॒त्वा॒रि॒ग्ं॒श श्च॑तुश्चत्वारि॒ग्ं॒श स्ति॑ष्ठन्ति तिष्ठन्ति चतुश्चत्वारि॒ग्ं॒शः । 8) च॒तु॒श्च॒त्वा॒रि॒ग्ं॒शो भ॑वति भवति चतुश्चत्वारि॒ग्ं॒श श्च॑तुश्चत्वारि॒ग्ं॒शो भ॑वति । 8) च॒तु॒श्च॒त्वा॒रि॒ग्ं॒श इति॑ चतुः - च॒त्वा॒रि॒ग्ं॒शः । 9) भ॒व॒ति॒ चतु॑श्चत्वारिग्ंशदक्षरा॒ चतु॑श्चत्वारिग्ंशदक्षरा भवति भवति॒ चतु॑श्चत्वारिग्ंशदक्षरा । 10) चतु॑श्चत्वारिग्ंशदक्षरा त्रि॒ष्टु-क्त्रि॒ष्टुक्चतु॑श्चत्वारिग्ंशदक्षरा॒ चतु॑श्चत्वारिग्ंशदक्षरा त्रि॒ष्टुक् । 10) चतु॑श्चत्वारिग्ंशदक्ष॒रेति॒ चतु॑श्चत्वारिग्ंशत् - अ॒क्ष॒रा॒ । 11) त्रि॒ष्टु गि॑न्द्रि॒य मि॑न्द्रि॒य-न्त्रि॒ष्टु-क्त्रि॒ष्टु गि॑न्द्रि॒यम् । 12) इ॒न्द्रि॒य-न्त्रि॒ष्टु-प्त्रि॒ष्टु बि॑न्द्रि॒य मि॑न्द्रि॒य-न्त्रि॒ष्टुप् । 13) त्रि॒ष्टु-प्त्रि॒ष्टुभि॑ त्रि॒ष्टुभि॑ त्रि॒ष्टु-प्त्रि॒ष्टु-प्त्रि॒ष्टुभि॑ । 14) त्रि॒ष्टु भ्ये॒वैव त्रि॒ष्टुभि॑ त्रि॒ष्टु भ्ये॒व । 15) ए॒वेन्द्रि॒य इ॑न्द्रि॒य ए॒वैवेन्द्रि॒ये । 16) इ॒न्द्रि॒ये प्रति॒ प्रती᳚ न्द्रि॒य इ॑न्द्रि॒ये प्रति॑ । 17) प्रति॑ तिष्ठन्ति तिष्ठन्ति॒ प्रति॒ प्रति॑ तिष्ठन्ति । 18) ति॒ष्ठ॒ न्त्य॒ष्टा॒च॒त्वा॒रि॒ग्ं॒शो᳚ ऽष्टाचत्वारि॒ग्ं॒श स्ति॑ष्ठन्ति तिष्ठ न्त्यष्टाचत्वारि॒ग्ं॒शः । 19) अ॒ष्टा॒च॒त्वा॒रि॒ग्ं॒शो भ॑वति भव त्यष्टाचत्वारि॒ग्ं॒शो᳚ ऽष्टाचत्वारि॒ग्ं॒शो भ॑वति । 19) अ॒ष्टा॒च॒त्वा॒रि॒ग्ं॒श इत्य॑ष्टा - च॒त्वा॒रि॒ग्ं॒शः । 20) भ॒व॒ त्य॒ष्टाच॑त्वारिग्ंशदक्षरा॒ ऽष्टाच॑त्वारिग्ंशदक्षरा भवति भव त्य॒ष्टाच॑त्वारिग्ंशदक्षरा । 21) अ॒ष्टाच॑त्वारिग्ंशदक्षरा॒ जग॑ती॒ जग॑ त्य॒ष्टाच॑त्वारिग्ंशदक्षरा॒ ऽष्टाच॑त्वारिग्ंशदक्षरा॒ जग॑ती । 21) अ॒ष्टाच॑त्वारिग्ंशदक्ष॒रेत्य॒ष्टाच॑त्वारिग्ंशत् - अ॒क्ष॒रा॒ । 22) जग॑ती॒ जाग॑ता॒ जाग॑ता॒ जग॑ती॒ जग॑ती॒ जाग॑ताः । 23) जाग॑ताः प॒शवः॑ प॒शवो॒ जाग॑ता॒ जाग॑ताः प॒शवः॑ । 24) प॒शवो॒ जग॑त्या॒-ञ्जग॑त्या-म्प॒शवः॑ प॒शवो॒ जग॑त्याम् । 25) जग॑त्या मे॒वैव जग॑त्या॒-ञ्जग॑त्या मे॒व । 26) ए॒व प॒शुषु॑ प॒शु ष्वे॒वैव प॒शुषु॑ । 27) प॒शुषु॒ प्रति॒ प्रति॑ प॒शुषु॑ प॒शुषु॒ प्रति॑ । 28) प्रति॑ तिष्ठन्ति तिष्ठन्ति॒ प्रति॒ प्रति॑ तिष्ठन्ति । 29) ति॒ष्ठ॒ न्त्ये॒का॒द॒श॒रा॒त्र ए॑कादशरा॒त्र स्ति॑ष्ठन्ति तिष्ठ न्त्येकादशरा॒त्रः । 30) ए॒का॒द॒श॒रा॒त्रो भ॑वति भव त्येकादशरा॒त्र ए॑कादशरा॒त्रो भ॑वति । 30) ए॒का॒द॒श॒रा॒त्र इत्ये॑कादश - रा॒त्रः । 31) भ॒व॒ति॒ पञ्च॒ पञ्च॑ भवति भवति॒ पञ्च॑ । 32) पञ्च॒ वै वै पञ्च॒ पञ्च॒ वै । 33) वा ऋ॒तव॑ ऋ॒तवो॒ वै वा ऋ॒तवः॑ । 34) ऋ॒तव॑ आर्त॒वा आ᳚र्त॒वा ऋ॒तव॑ ऋ॒तव॑ आर्त॒वाः । 35) आ॒र्त॒वाः पञ्च॒ पञ्चा᳚र्त॒वा आ᳚र्त॒वाः पञ्च॑ । 36) पञ्च॒ र्तुष् वृ॒तुषु॒ पञ्च॒ पञ्च॒ र्तुषु॑ । 37) ऋ॒तुष् वे॒वैव र्तुष् वृ॒तु ष्वे॒व । 38) ए॒वार्त॒वे ष्वा᳚र्त॒वे ष्वे॒वै वार्त॒वेषु॑ । 39) आ॒र्त॒वेषु॑ संवँथ्स॒रे सं॑वँथ्स॒र आ᳚र्त॒वे ष्वा᳚र्त॒वेषु॑ संवँथ्स॒रे । 40) सं॒वँ॒थ्स॒रे प्र॑ति॒ष्ठाय॑ प्रति॒ष्ठाय॑ संवँथ्स॒रे सं॑वँथ्स॒रे प्र॑ति॒ष्ठाय॑ । 40) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रे । 41) प्र॒ति॒ष्ठाय॑ प्र॒जा-म्प्र॒जा-म्प्र॑ति॒ष्ठाय॑ प्रति॒ष्ठाय॑ प्र॒जाम् । 41) प्र॒ति॒ष्ठायेति॑ प्रति - स्थाय॑ । 42) प्र॒जा मवाव॑ प्र॒जा-म्प्र॒जा मव॑ । 42) प्र॒जामिति॑ प्र - जाम् । 43) अव॑ रुन्धते रुन्ध॒ते ऽवाव॑ रुन्धते । 44) रु॒न्ध॒ते॒ ऽति॒रा॒त्रा व॑तिरा॒त्रौ रु॑न्धते रुन्धते ऽतिरा॒त्रौ । 45) अ॒ति॒रा॒त्रा व॒भितो॒ ऽभितो॑ ऽतिरा॒त्रा व॑तिरा॒त्रा व॒भितः॑ । 45) अ॒ति॒रा॒त्रावित्य॑ति - रा॒त्रौ । 46) अ॒भितो॑ भवतो भवतो॒ ऽभितो॒ ऽभितो॑ भवतः । 47) भ॒व॒तः॒ प्र॒जायै᳚ प्र॒जायै॑ भवतो भवतः प्र॒जायै᳚ । 48) प्र॒जायै॒ परि॑गृहीत्यै॒ परि॑गृहीत्यै प्र॒जायै᳚ प्र॒जायै॒ परि॑गृहीत्यै । 48) प्र॒जाया॒ इति॑ प्र - जायै᳚ । 49) परि॑गृहीत्या॒ इति॒ परि॑ - गृ॒ही॒त्यै॒ । ॥ 21 ॥ (49/61) ॥ अ. 6 ॥
1) ऐ॒न्द्र॒वा॒य॒वाग्रा᳚-न्गृह्णीया-द्गृह्णीया दैन्द्रवाय॒वाग्रा॑ नैन्द्रवाय॒वाग्रा᳚-न्गृह्णीयात् । 1) ऐ॒न्द्र॒वा॒य॒वाग्रा॒नित्यै᳚न्द्रवाय॒व - अ॒ग्रा॒न् । 2) गृ॒ह्णी॒या॒-द्यो यो गृ॑ह्णीया-द्गृह्णीया॒-द्यः । 3) यः का॒मये॑त का॒मये॑त॒ यो यः का॒मये॑त । 4) का॒मये॑त यथापू॒र्वं-यँ॑थापू॒र्व-ङ्का॒मये॑त का॒मये॑त यथापू॒र्वम् । 5) य॒था॒पू॒र्व-म्प्र॒जाः प्र॒जा य॑थापू॒र्वं-यँ॑थापू॒र्व-म्प्र॒जाः । 5) य॒था॒पू॒र्वमिति॑ यथा - पू॒र्वम् । 6) प्र॒जाः क॑ल्पेरन् कल्पेर-न्प्र॒जाः प्र॒जाः क॑ल्पेरन्न् । 6) प्र॒जा इति॑ प्र - जाः । 7) क॒ल्पे॒र॒-न्नितीति॑ कल्पेरन् कल्पेर॒-न्निति॑ । 8) इति॑ य॒ज्ञस्य॑ य॒ज्ञ स्येतीति॑ य॒ज्ञस्य॑ । 9) य॒ज्ञस्य॒ वै वै य॒ज्ञस्य॑ य॒ज्ञस्य॒ वै । 10) वै क्लृप्ति॒-ङ्क्लृप्तिं॒-वैँ वै क्लृप्ति᳚म् । 11) क्लृप्ति॒ मन्वनु॒ क्लृप्ति॒-ङ्क्लृप्ति॒ मनु॑ । 12) अनु॑ प्र॒जाः प्र॒जा अन्वनु॑ प्र॒जाः । 13) प्र॒जाः क॑ल्पन्ते कल्पन्ते प्र॒जाः प्र॒जाः क॑ल्पन्ते । 13) प्र॒जा इति॑ प्र - जाः । 14) क॒ल्प॒न्ते॒ य॒ज्ञस्य॑ य॒ज्ञस्य॑ कल्पन्ते कल्पन्ते य॒ज्ञस्य॑ । 15) य॒ज्ञस्या क्लृ॑प्ति॒ मक्लृ॑प्तिं-यँ॒ज्ञस्य॑ य॒ज्ञस्या क्लृ॑प्तिम् । 16) अक्लृ॑प्ति॒ मन्वन्व क्लृ॑प्ति॒ मक्लृ॑प्ति॒ मनु॑ । 17) अनु॒ न नान्वनु॒ न । 18) न क॑ल्पन्ते कल्पन्ते॒ न न क॑ल्पन्ते । 19) क॒ल्प॒न्ते॒ य॒था॒पू॒र्वं-यँ॑थापू॒र्व-ङ्क॑ल्पन्ते कल्पन्ते यथापू॒र्वम् । 20) य॒था॒पू॒र्व मे॒वैव य॑थापू॒र्वं-यँ॑थापू॒र्व मे॒व । 20) य॒था॒पू॒र्वमिति॑ यथा - पू॒र्वम् । 21) ए॒व प्र॒जाः प्र॒जा ए॒वैव प्र॒जाः । 22) प्र॒जाः क॑ल्पयति कल्पयति प्र॒जाः प्र॒जाः क॑ल्पयति । 22) प्र॒जा इति॑ प्र - जाः । 23) क॒ल्प॒य॒ति॒ न न क॑ल्पयति कल्पयति॒ न । 24) न ज्यायाग्ं॑स॒-ञ्ज्यायाग्ं॑स॒-न्न न ज्यायाग्ं॑सम् । 25) ज्यायाग्ं॑स॒-ङ्कनी॑या॒न् कनी॑या॒न् ज्यायाग्ं॑स॒-ञ्ज्यायाग्ं॑स॒-ङ्कनी॑यान् । 26) कनी॑या॒ नत्यति॒ कनी॑या॒न् कनी॑या॒ नति॑ । 27) अति॑ क्रामति क्राम॒ त्यत्यति॑ क्रामति । 28) क्रा॒म॒ त्यै॒न्द्र॒वा॒य॒वाग्रा॑ नैन्द्रवाय॒वाग्रा᳚न् क्रामति क्राम त्यैन्द्रवाय॒वाग्रान्॑ । 29) ऐ॒न्द्र॒वा॒य॒वाग्रा᳚-न्गृह्णीया-द्गृह्णीया दैन्द्रवाय॒वाग्रा॑ नैन्द्रवाय॒वाग्रा᳚-न्गृह्णीयात् । 29) ऐ॒न्द्र॒वा॒य॒वाग्रा॒नित्यै᳚न्द्रवाय॒व - अ॒ग्रा॒न् । 30) गृ॒ह्णी॒या॒ दा॒म॒या॒विन॑ आमया॒विनो॑ गृह्णीया-द्गृह्णीया दामया॒विनः॑ । 31) आ॒म॒या॒विनः॑ प्रा॒णेन॑ प्रा॒णेना॑ मया॒विन॑ आमया॒विनः॑ प्रा॒णेन॑ । 32) प्रा॒णेन॒ वै वै प्रा॒णेन॑ प्रा॒णेन॒ वै । 32) प्रा॒णेनेति॑ प्र - अ॒नेन॑ । 33) वा ए॒ष ए॒ष वै वा ए॒षः । 34) ए॒ष वि व्ये॑ष ए॒ष वि । 35) व्यृ॑द्ध्यत ऋद्ध्यते॒ वि व्यृ॑द्ध्यते । 36) ऋ॒द्ध्य॒ते॒ यस्य॒ यस्य॑ र्द्ध्यत ऋद्ध्यते॒ यस्य॑ । 37) यस्या॒मय॑ त्या॒मय॑ति॒ यस्य॒ यस्या॒मय॑ति । 38) आ॒मय॑ति प्रा॒णः प्रा॒ण आ॒मय॑ त्या॒मय॑ति प्रा॒णः । 39) प्रा॒ण ऐ᳚न्द्रवाय॒व ऐ᳚न्द्रवाय॒वः प्रा॒णः प्रा॒ण ऐ᳚न्द्रवाय॒वः । 39) प्रा॒ण इति॑ प्र - अ॒नः । 40) ऐ॒न्द्र॒वा॒य॒वः प्रा॒णेन॑ प्रा॒णे नै᳚न्द्रवाय॒व ऐ᳚न्द्रवाय॒वः प्रा॒णेन॑ । 40) ऐ॒न्द्र॒वा॒य॒व इत्यै᳚न्द्र - वा॒य॒वः । 41) प्रा॒णे नै॒वैव प्रा॒णेन॑ प्रा॒णे नै॒व । 41) प्रा॒णेनेति॑ प्र - अ॒नेन॑ । 42) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 43) ए॒न॒ग्ं॒ सग्ं स मे॑न मेन॒ग्ं॒ सम् । 44) स म॑र्धय त्यर्धयति॒ सग्ं स म॑र्धयति । 45) अ॒र्ध॒य॒ति॒ मै॒त्रा॒व॒रु॒णाग्रा᳚-न्मैत्रावरु॒णाग्रा॑ नर्धय त्यर्धयति मैत्रावरु॒णाग्रान्॑ । 46) मै॒त्रा॒व॒रु॒णाग्रा᳚-न्गृह्णीर-न्गृह्णीर-न्मैत्रावरु॒णाग्रा᳚-न्मैत्रावरु॒णाग्रा᳚-न्गृह्णीरन्न् । 46) मै॒त्रा॒व॒रु॒णाग्रा॒निति॑ मैत्रावरु॒ण - अ॒ग्रा॒न् । 47) गृ॒ह्णी॒र॒न्॒. येषां॒-येँषा᳚-ङ्गृह्णीर-न्गृह्णीर॒न्॒. येषा᳚म् । 48) येषा᳚-न्दीक्षि॒ताना᳚-न्दीक्षि॒तानां॒-येँषां॒-येँषा᳚-न्दीक्षि॒ताना᳚म् । 49) दी॒क्षि॒ताना᳚-म्प्र॒मीये॑त प्र॒मीये॑त दीक्षि॒ताना᳚-न्दीक्षि॒ताना᳚-म्प्र॒मीये॑त । 50) प्र॒मीये॑त प्राणापा॒नाभ्या᳚-म्प्राणापा॒नाभ्या᳚-म्प्र॒मीये॑त प्र॒मीये॑त प्राणापा॒नाभ्या᳚म् । 50) प्र॒मीये॒तेति॑ प्र - मीये॑त । ॥ 22 ॥ (50/63)
1) प्रा॒णा॒पा॒नाभ्यां॒-वैँ वै प्रा॑णापा॒नाभ्या᳚-म्प्राणापा॒नाभ्यां॒-वैँ । 1) प्रा॒णा॒पा॒नाभ्या॒मिति॑ प्राण - अ॒पा॒नाभ्या᳚म् । 2) वा ए॒त ए॒ते वै वा ए॒ते । 3) ए॒ते वि व्ये॑त ए॒ते वि । 4) व्यृ॑द्ध्यन्त ऋद्ध्यन्ते॒ वि व्यृ॑द्ध्यन्ते । 5) ऋ॒द्ध्य॒न्ते॒ येषां॒-येँषा॑ मृद्ध्यन्त ऋद्ध्यन्ते॒ येषा᳚म् । 6) येषा᳚-न्दीक्षि॒ताना᳚-न्दीक्षि॒तानां॒-येँषां॒-येँषा᳚-न्दीक्षि॒ताना᳚म् । 7) दी॒क्षि॒ताना᳚-म्प्र॒मीय॑ते प्र॒मीय॑ते दीक्षि॒ताना᳚-न्दीक्षि॒ताना᳚-म्प्र॒मीय॑ते । 8) प्र॒मीय॑ते प्राणापा॒नौ प्रा॑णापा॒नौ प्र॒मीय॑ते प्र॒मीय॑ते प्राणापा॒नौ । 8) प्र॒मीय॑त॒ इति॑ प्र - मीय॑ते । 9) प्रा॒णा॒पा॒नौ मि॒त्रावरु॑णौ मि॒त्रावरु॑णौ प्राणापा॒नौ प्रा॑णापा॒नौ मि॒त्रावरु॑णौ । 9) प्रा॒णा॒पा॒नाविति॑ प्राण - अ॒पा॒नौ । 10) मि॒त्रावरु॑णौ प्राणापा॒नौ प्रा॑णापा॒नौ मि॒त्रावरु॑णौ मि॒त्रावरु॑णौ प्राणापा॒नौ । 10) मि॒त्रावरु॑णा॒विति॑ मि॒त्रा - वरु॑णौ । 11) प्रा॒णा॒पा॒ना वे॒वैव प्रा॑णापा॒नौ प्रा॑णापा॒ना वे॒व । 11) प्रा॒णा॒पा॒नाविति॑ प्राण - अ॒पा॒नौ । 12) ए॒व मु॑ख॒तो मु॑ख॒त ए॒वैव मु॑ख॒तः । 13) मु॒ख॒तः परि॒ परि॑ मुख॒तो मु॑ख॒तः परि॑ । 14) परि॑ हरन्ते हरन्ते॒ परि॒ परि॑ हरन्ते । 15) ह॒र॒न्त॒ आ॒श्वि॒नाग्रा॑ नाश्वि॒नाग्रान्॑. हरन्ते हरन्त आश्वि॒नाग्रान्॑ । 16) आ॒श्वि॒नाग्रा᳚-न्गृह्णीत गृह्णीता श्वि॒नाग्रा॑ नाश्वि॒नाग्रा᳚-न्गृह्णीत । 16) आ॒श्वि॒नाग्रा॒नित्या᳚श्वि॒न - अ॒ग्रा॒न् । 17) गृ॒ह्णी॒ता॒ नु॒जा॒व॒र आ॑नुजाव॒रो गृ॑ह्णीत गृह्णीता नुजाव॒रः । 18) आ॒नु॒जा॒व॒रो᳚ ऽश्विना॑ व॒श्विना॑ वानुजाव॒र आ॑नुजाव॒रो᳚ ऽश्विनौ᳚ । 18) आ॒नु॒जा॒व॒र इत्या॑नु - जा॒व॒रः । 19) अ॒श्विनौ॒ वै वा अ॒श्विना॑ व॒श्विनौ॒ वै । 20) वै दे॒वाना᳚-न्दे॒वानां॒-वैँ वै दे॒वाना᳚म् । 21) दे॒वाना॑ मानुजाव॒रा वा॑नुजाव॒रौ दे॒वाना᳚-न्दे॒वाना॑ मानुजाव॒रौ । 22) आ॒नु॒जा॒व॒रौ प॒श्चा प॒श्चा ऽऽनु॑जाव॒रा वा॑नुजाव॒रौ प॒श्चा । 22) आ॒नु॒जा॒व॒रावित्या॑नु - जा॒व॒रौ । 23) प॒श्चेवे॑ व प॒श्चा प॒श्चेव॑ । 24) इ॒वाग्र॒ मग्र॑ मिवे॒ वाग्र᳚म् । 25) अग्र॒-म्परि॒ पर्यग्र॒ मग्र॒-म्परि॑ । 26) पर्यै॑ता मैता॒-म्परि॒ पर्यै॑ताम् । 27) ऐ॒ता॒ म॒श्विना॑ व॒श्विना॑ वैता मैता म॒श्विनौ᳚ । 28) अ॒श्विना॑ वे॒त स्यै॒त स्या॒श्विना॑ व॒श्विना॑ वे॒तस्य॑ । 29) ए॒तस्य॑ दे॒वता॑ दे॒व तै॒त स्यै॒तस्य॑ दे॒वता᳚ । 30) दे॒वता॒ यो यो दे॒वता॑ दे॒वता॒ यः । 31) य आ॑नुजाव॒र आ॑नुजाव॒रो यो य आ॑नुजाव॒रः । 32) आ॒नु॒जा॒व॒र स्तौ ता वा॑नुजाव॒र आ॑नुजाव॒र स्तौ । 32) आ॒नु॒जा॒व॒र इत्या॑नु - जा॒व॒रः । 33) ता वे॒वैव तौ ता वे॒व । 34) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 35) ए॒न॒ मग्र॒ मग्र॑ मेन मेन॒ मग्र᳚म् । 36) अग्र॒-म्परि॒ पर्यग्र॒ मग्र॒-म्परि॑ । 37) परि॑ णयतो नयतः॒ परि॒ परि॑ णयतः । 38) न॒य॒त॒-श्शु॒क्राग्रा᳚-ञ्छु॒क्राग्रा᳚-न्नयतो नयत-श्शु॒क्राग्रान्॑ । 39) शु॒क्राग्रा᳚-न्गृह्णीत गृह्णीत शु॒क्राग्रा᳚-ञ्छु॒क्राग्रा᳚-न्गृह्णीत । 39) शु॒क्राग्रा॒निति॑ शु॒क्र - अ॒ग्रा॒न् । 40) गृ॒ह्णी॒त॒ ग॒तश्री᳚-र्ग॒तश्री᳚-र्गृह्णीत गृह्णीत ग॒तश्रीः᳚ । 41) ग॒तश्रीः᳚ प्रति॒ष्ठाका॑मः प्रति॒ष्ठाका॑मो ग॒तश्री᳚-र्ग॒तश्रीः᳚ प्रति॒ष्ठाका॑मः । 41) ग॒तश्री॒रिति॑ ग॒त - श्रीः॒ । 42) प्र॒ति॒ष्ठाका॑मो॒ ऽसा व॒सौ प्र॑ति॒ष्ठाका॑मः प्रति॒ष्ठाका॑मो॒ ऽसौ । 42) प्र॒ति॒ष्ठाका॑म॒ इति॑ प्रति॒ष्ठा - का॒मः॒ । 43) अ॒सौ वै वा अ॒सा व॒सौ वै । 44) वा आ॑दि॒त्य आ॑दि॒त्यो वै वा आ॑दि॒त्यः । 45) आ॒दि॒त्य-श्शु॒क्र-श्शु॒क्र आ॑दि॒त्य आ॑दि॒त्य-श्शु॒क्रः । 46) शु॒क्र ए॒ष ए॒ष शु॒क्र-श्शु॒क्र ए॒षः । 47) ए॒षो ऽन्तो ऽन्त॑ ए॒ष ए॒षो ऽन्तः॑ । 48) अन्तो ऽन्त॒ मन्त॒ मन्तो ऽन्तो ऽन्त᳚म् । 49) अन्त॑-म्मनु॒ष्यो॑ मनु॒ष्यो ऽन्त॒ मन्त॑-म्मनु॒ष्यः॑ । 50) म॒नु॒ष्य॑-श्श्रि॒यै श्रि॒यै म॑नु॒ष्यो॑ मनु॒ष्य॑-श्श्रि॒यै । ॥ 23 ॥ (50/62)
1) श्रि॒यै ग॒त्वा ग॒त्वा श्रि॒यै श्रि॒यै ग॒त्वा । 2) ग॒त्वा नि नि ग॒त्वा ग॒त्वा नि । 3) नि व॑र्तते वर्तते॒ नि नि व॑र्तते । 4) व॒र्त॒ते ऽन्ता॒ दन्ता᳚-द्वर्तते वर्त॒ते ऽन्ता᳚त् । 5) अन्ता॑ दे॒वै वान्ता॒ दन्ता॑ दे॒व । 6) ए॒वान्त॒ मन्त॑ मे॒वै वान्त᳚म् । 7) अन्त॒ मा ऽन्त॒ मन्त॒ मा । 8) आ र॑भते रभत॒ आ र॑भते । 9) र॒भ॒ते॒ न न र॑भते रभते॒ न । 10) न तत॒ स्ततो॒ न न ततः॑ । 11) ततः॒ पापी॑या॒-न्पापी॑या॒-न्तत॒ स्ततः॒ पापी॑यान् । 12) पापी॑या-न्भवति भवति॒ पापी॑या॒-न्पापी॑या-न्भवति । 13) भ॒व॒ति॒ म॒न्थ्य॑ग्रा-न्म॒न्थ्य॑ग्रा-न्भवति भवति म॒न्थ्य॑ग्रान् । 14) म॒न्थ्य॑ग्रा-न्गृह्णीत गृह्णीत म॒न्थ्य॑ग्रा-न्म॒न्थ्य॑ग्रा-न्गृह्णीत । 14) म॒न्थ्य॑ग्रा॒निति॑ म॒न्थि - अ॒ग्रा॒न् । 15) गृ॒ह्णी॒ता॒ भि॒चर॑-न्नभि॒चर॑-न्गृह्णीत गृह्णीता भि॒चरन्न्॑ । 16) अ॒भि॒चर॑-न्नार्तपा॒त्र मा᳚र्तपा॒त्र म॑भि॒चर॑-न्नभि॒चर॑-न्नार्तपा॒त्रम् । 16) अ॒भि॒चर॒न्नित्य॑भि - चरन्न्॑ । 17) आ॒र्त॒पा॒त्रं-वैँ वा आ᳚र्तपा॒त्र मा᳚र्तपा॒त्रं-वैँ । 17) आ॒र्त॒पा॒त्रमित्या᳚र्त - पा॒त्रम् । 18) वा ए॒त दे॒त-द्वै वा ए॒तत् । 19) ए॒त-द्य-द्यदे॒त दे॒त-द्यत् । 20) य-न्म॑न्थिपा॒त्र-म्म॑न्थिपा॒त्रं-यँ-द्य-न्म॑न्थिपा॒त्रम् । 21) म॒न्थि॒पा॒त्र-म्मृ॒त्युना॑ मृ॒त्युना॑ मन्थिपा॒त्र-म्म॑न्थिपा॒त्र-म्मृ॒त्युना᳚ । 21) म॒न्थि॒पा॒त्रमिति॑ मन्थि - पा॒त्रम् । 22) मृ॒त्यु नै॒वैव मृ॒त्युना॑ मृ॒त्यु नै॒व । 23) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 24) ए॒न॒-ङ्ग्रा॒ह॒य॒ति॒ ग्रा॒ह॒य॒ त्ये॒न॒ मे॒न॒-ङ्ग्रा॒ह॒य॒ति॒ । 25) ग्रा॒ह॒य॒ति॒ ता॒ज-क्ता॒जग् ग्रा॑हयति ग्राहयति ता॒जक् । 26) ता॒जगार्ति॒ मार्ति॑-न्ता॒ज-क्ता॒जगार्ति᳚म् । 27) आर्ति॒ मा ऽऽर्ति॒ मार्ति॒ मा । 28) आर्च्छ॑ त्यृच्छ॒ त्यार्च्छ॑ति । 29) ऋ॒च्छ॒ त्या॒ग्र॒य॒णाग्रा॑ नाग्रय॒णाग्रा॑ नृच्छ त्यृच्छ त्याग्रय॒णाग्रान्॑ । 30) आ॒ग्र॒य॒णाग्रा᳚-न्गृह्णीत गृह्णी ताग्रय॒णाग्रा॑ नाग्रय॒णाग्रा᳚-न्गृह्णीत । 30) आ॒ग्र॒य॒णाग्रा॒नित्या᳚ग्रय॒ण - अ॒ग्रा॒न् । 31) गृ॒ह्णी॒त॒ यस्य॒ यस्य॑ गृह्णीत गृह्णीत॒ यस्य॑ । 32) यस्य॑ पि॒ता पि॒ता यस्य॒ यस्य॑ पि॒ता । 33) पि॒ता पि॑ताम॒हः पि॑ताम॒हः पि॒ता पि॒ता पि॑ताम॒हः । 34) पि॒ता॒म॒हः पुण्यः॒ पुण्यः॑ पिताम॒हः पि॑ताम॒हः पुण्यः॑ । 35) पुण्य॒-स्स्या-थ्स्या-त्पुण्यः॒ पुण्य॒-स्स्यात् । 36) स्या दथाथ॒ स्या-थ्स्या दथ॑ । 37) अथ॒ त-त्तद थाथ॒ तत् । 38) त-न्न न त-त्त-न्न । 39) न प्रा᳚प्नु॒या-त्प्रा᳚प्नु॒या-न्न न प्रा᳚प्नु॒यात् । 40) प्रा॒प्नु॒या-द्वा॒चा वा॒चा प्रा᳚प्नु॒या-त्प्रा᳚प्नु॒या-द्वा॒चा । 40) प्रा॒प्नु॒यादिति॑ प्र - आ॒प्नु॒यात् । 41) वा॒चा वै वै वा॒चा वा॒चा वै । 42) वा ए॒ष ए॒ष वै वा ए॒षः । 43) ए॒ष इ॑न्द्रि॒ये णे᳚न्द्रि॒ये णै॒ष ए॒ष इ॑न्द्रि॒येण॑ । 44) इ॒न्द्रि॒येण॒ वि वीन्द्रि॒ये णे᳚न्द्रि॒येण॒ वि । 45) व्यृ॑द्ध्यत ऋद्ध्यते॒ वि व्यृ॑द्ध्यते । 46) ऋ॒द्ध्य॒ते॒ यस्य॒ यस्य॑ र्द्ध्यत ऋद्ध्यते॒ यस्य॑ । 47) यस्य॑ पि॒ता पि॒ता यस्य॒ यस्य॑ पि॒ता । 48) पि॒ता पि॑ताम॒हः पि॑ताम॒हः पि॒ता पि॒ता पि॑ताम॒हः । 49) पि॒ता॒म॒हः पुण्यः॒ पुण्यः॑ पिताम॒हः पि॑ताम॒हः पुण्यः॑ । 50) पुण्यो॒ भव॑ति॒ भव॑ति॒ पुण्यः॒ पुण्यो॒ भव॑ति । ॥ 24 ॥ (50/56)
1) भव॒ त्यथाथ॒ भव॑ति॒ भव॒ त्यथ॑ । 2) अथ॒ त-त्तद थाथ॒ तत् । 3) त-न्न न त-त्त-न्न । 4) न प्रा॒प्नोति॑ प्रा॒प्नोति॒ न न प्रा॒प्नोति॑ । 5) प्रा॒प्नो त्युर॒ उरः॑ प्रा॒प्नोति॑ प्रा॒प्नो त्युरः॑ । 5) प्रा॒प्नोतीति॑ प्र - आ॒प्नोति॑ । 6) उर॑ इवे॒ वोर॒ उर॑ इव । 7) इ॒वै॒त दे॒त दि॑वे वै॒तत् । 8) ए॒त-द्य॒ज्ञस्य॑ य॒ज्ञ स्यै॒त दे॒त-द्य॒ज्ञस्य॑ । 9) य॒ज्ञस्य॒ वाग् वाग् य॒ज्ञस्य॑ य॒ज्ञस्य॒ वाक् । 10) वागि॑वेव॒ वाग् वागि॑व । 11) इ॒व॒ य-द्यदि॑वेव॒ यत् । 12) यदा᳚ग्रय॒ण आ᳚ग्रय॒णो य-द्यदा᳚ग्रय॒णः । 13) आ॒ग्र॒य॒णो वा॒चा वा॒चा ऽऽग्र॑य॒ण आ᳚ग्रय॒णो वा॒चा । 14) वा॒चै वैव वा॒चा वा॒चैव । 15) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 16) ए॒न॒ मि॒न्द्रि॒ये णे᳚न्द्रि॒येणै॑न मेन मिन्द्रि॒येण॑ । 17) इ॒न्द्रि॒येण॒ सग्ं स मि॑न्द्रि॒ये णे᳚न्द्रि॒येण॒ सम् । 18) स म॑र्धय त्यर्धयति॒ सग्ं स म॑र्धयति । 19) अ॒र्ध॒य॒ति॒ न नार्ध॑य त्यर्धयति॒ न । 20) न तत॒ स्ततो॒ न न ततः॑ । 21) ततः॒ पापी॑या॒-न्पापी॑या॒-न्तत॒ स्ततः॒ पापी॑यान् । 22) पापी॑या-न्भवति भवति॒ पापी॑या॒-न्पापी॑या-न्भवति । 23) भ॒व॒ त्यु॒क्थ्या᳚ग्रा नु॒क्थ्या᳚ग्रा-न्भवति भव त्यु॒क्थ्या᳚ग्रान् । 24) उ॒क्थ्या᳚ग्रा-न्गृह्णीत गृह्णीतो॒क्थ्या᳚ग्रा नु॒क्थ्या᳚ग्रा-न्गृह्णीत । 24) उ॒क्थ्या᳚ग्रा॒नित्यु॒क्थ्य॑ - अ॒ग्रा॒न् । 25) गृ॒ह्णी॒ता॒ भि॒च॒र्यमा॑णो ऽभिच॒र्यमा॑णो गृह्णीत गृह्णीता भिच॒र्यमा॑णः । 26) अ॒भि॒च॒र्यमा॑ण॒-स्सर्वे॑षा॒ग्ं॒ सर्वे॑षा मभिच॒र्यमा॑णो ऽभिच॒र्यमा॑ण॒-स्सर्वे॑षाम् । 26) अ॒भि॒च॒र्यमा॑ण॒ इत्य॑भि - च॒र्यमा॑णः । 27) सर्वे॑षां॒-वैँ वै सर्वे॑षा॒ग्ं॒ सर्वे॑षां॒-वैँ । 28) वा ए॒त दे॒त-द्वै वा ए॒तत् । 29) ए॒त-त्पात्रा॑णा॒-म्पात्रा॑णा मे॒त दे॒त-त्पात्रा॑णाम् । 30) पात्रा॑णा मिन्द्रि॒य मि॑न्द्रि॒य-म्पात्रा॑णा॒-म्पात्रा॑णा मिन्द्रि॒यम् । 31) इ॒न्द्रि॒यं-यँ-द्यदि॑न्द्रि॒य मि॑न्द्रि॒यं-यँत् । 32) यदु॑क्थ्यपा॒त्र मु॑क्थ्यपा॒त्रं-यँ-द्यदु॑क्थ्यपा॒त्रम् । 33) उ॒क्थ्य॒पा॒त्रग्ं सर्वे॑ण॒ सर्वे॑णोक्थ्यपा॒त्र मु॑क्थ्यपा॒त्रग्ं सर्वे॑ण । 33) उ॒क्थ्य॒पा॒त्रमित्यु॑क्थ्य - पा॒त्रम् । 34) सर्वे॑ णै॒वैव सर्वे॑ण॒ सर्वे॑ णै॒व । 35) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 36) ए॒न॒ मि॒न्द्रि॒ये णे᳚न्द्रि॒ये णै॑न मेन मिन्द्रि॒येण॑ । 37) इ॒न्द्रि॒येणा त्यती᳚न्द्रि॒ये णे᳚न्द्रि॒ये णाति॑ । 38) अति॒ प्र प्रात्यति॒ प्र । 39) प्र यु॑ङ्क्ते युङ्क्ते॒ प्र प्र यु॑ङ्क्ते । 40) यु॒ङ्क्ते॒ सर॑स्वति॒ सर॑स्वति युङ्क्ते युङ्क्ते॒ सर॑स्वति । 41) सर॑स्व त्य॒भ्य॑भि सर॑स्वति॒ सर॑स्व त्य॒भि । 42) अ॒भि नो॑ नो अ॒भ्य॑भि नः॑ । 43) नो॒ ने॒षि॒ ने॒षि॒ नो॒ नो॒ ने॒षि॒ । 44) ने॒षि॒ वस्यो॒ वस्यो॑ नेषि नेषि॒ वस्यः॑ । 45) वस्य॒ इतीति॒ वस्यो॒ वस्य॒ इति॑ । 46) इति॑ पुरो॒रुच॑-म्पुरो॒रुच॒ मितीति॑ पुरो॒रुच᳚म् । 47) पु॒रो॒रुच॑-ङ्कुर्या-त्कुर्या-त्पुरो॒रुच॑-म्पुरो॒रुच॑-ङ्कुर्यात् । 47) पु॒रो॒रुच॒मिति॑ पुरः - रुच᳚म् । 48) कु॒र्या॒-द्वाग् वाक् कु॑र्या-त्कुर्या॒-द्वाक् । 49) वाग् वै वै वाग् वाग् वै । 50) वै सर॑स्वती॒ सर॑स्वती॒ वै वै सर॑स्वती । ॥ 25 ॥ (50/55)
1) सर॑स्वती वा॒चा वा॒चा सर॑स्वती॒ सर॑स्वती वा॒चा । 2) वा॒चै वैव वा॒चा वा॒चैव । 3) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 4) ए॒न॒ मत्य त्ये॑न मेन॒ मति॑ । 5) अति॒ प्र प्रात्यति॒ प्र । 6) प्र यु॑ङ्क्ते युङ्क्ते॒ प्र प्र यु॑ङ्क्ते । 7) यु॒ङ्क्ते॒ मा मा यु॑ङ्क्ते युङ्क्ते॒ मा । 8) मा त्व-त्त्व-न्मा मा त्वत् । 9) त्व-त्क्षेत्रा॑णि॒ क्षेत्रा॑णि॒ त्व-त्त्व-त्क्षेत्रा॑णि । 10) क्षेत्रा॒ ण्यर॑णा॒ न्यर॑णानि॒ क्षेत्रा॑णि॒ क्षेत्रा॒ ण्यर॑णानि । 11) अर॑णानि गन्म ग॒न्मा र॑णा॒ न्यर॑णानि गन्म । 12) ग॒न्मेतीति॑ गन्म ग॒न्मेति॑ । 13) इत्या॑हा॒हे तीत्या॑ह । 14) आ॒ह॒ मृ॒त्यो-र्मृ॒त्यो रा॑हाह मृ॒त्योः । 15) मृ॒त्यो-र्वै वै मृ॒त्यो-र्मृ॒त्यो-र्वै । 16) वै क्षेत्रा॑णि॒ क्षेत्रा॑णि॒ वै वै क्षेत्रा॑णि । 17) क्षेत्रा॒ ण्यर॑णा॒ न्यर॑णानि॒ क्षेत्रा॑णि॒ क्षेत्रा॒ ण्यर॑णानि । 18) अर॑णानि॒ तेन॒ तेना र॑णा॒ न्यर॑णानि॒ तेन॑ । 19) तेनै॒ वैव तेन॒ तेनै॒व । 20) ए॒व मृ॒त्यो-र्मृ॒त्यो रे॒वैव मृ॒त्योः । 21) मृ॒त्योः, क्षेत्रा॑णि॒ क्षेत्रा॑णि मृ॒त्यो-र्मृ॒त्योः, क्षेत्रा॑णि । 22) क्षेत्रा॑णि॒ न न क्षेत्रा॑णि॒ क्षेत्रा॑णि॒ न । 23) न ग॑च्छति गच्छति॒ न न ग॑च्छति । 24) ग॒च्छ॒ति॒ पू॒र्णा-न्पू॒र्णा-न्ग॑च्छति गच्छति पू॒र्णान् । 25) पू॒र्णा-न्ग्रहा॒-न्ग्रहा᳚-न्पू॒र्णा-न्पू॒र्णा-न्ग्रहान्॑ । 26) ग्रहा᳚-न्गृह्णीया-द्गृह्णीया॒-द्ग्रहा॒-न्ग्रहा᳚-न्गृह्णीयात् । 27) गृ॒ह्णी॒या॒ दा॒म॒या॒विन॑ आमया॒विनो॑ गृह्णीया-द्गृह्णीया दामया॒विनः॑ । 28) आ॒म॒या॒विनः॑ प्रा॒णा-न्प्रा॒णा ना॑मया॒विन॑ आमया॒विनः॑ प्रा॒णान् । 29) प्रा॒णान्. वै वै प्रा॒णा-न्प्रा॒णान्. वै । 29) प्रा॒णानिति॑ प्र - अ॒नान् । 30) वा ए॒त स्यै॒तस्य॒ वै वा ए॒तस्य॑ । 31) ए॒तस्य॒ शुख् छुगे॒त स्यै॒तस्य॒ शुक् । 32) शुगृ॑च्छ त्यृच्छति॒ शुख् छुगृ॑च्छति । 33) ऋ॒च्छ॒ति॒ यस्य॒ यस्य॑ र्च्छत्यृच्छति॒ यस्य॑ । 34) यस्या॒ मय॑ त्या॒मय॑ति॒ यस्य॒ यस्या॒ मय॑ति । 35) आ॒मय॑ति प्रा॒णाः प्रा॒णा आ॒मय॑ त्या॒मय॑ति प्रा॒णाः । 36) प्रा॒णा ग्रहा॒ ग्रहाः᳚ प्रा॒णाः प्रा॒णा ग्रहाः᳚ । 36) प्रा॒णा इति॑ प्र - अ॒नाः । 37) ग्रहाः᳚ प्रा॒णा-न्प्रा॒णा-न्ग्रहा॒ ग्रहाः᳚ प्रा॒णान् । 38) प्रा॒णा ने॒वैव प्रा॒णा-न्प्रा॒णाने॒व । 38) प्रा॒णानिति॑ प्र - अ॒नान् । 39) ए॒वास्या᳚ स्यै॒वै वास्य॑ । 40) अ॒स्य॒ शु॒च-श्शु॒चो᳚ ऽस्यास्य शु॒चः । 41) शु॒चो मु॑ञ्चति मुञ्चति शु॒च-श्शु॒चो मु॑ञ्चति । 42) मु॒ञ्च॒ त्यु॒तोत मु॑ञ्चति मुञ्च त्यु॒त । 43) उ॒त यदि॒ यद्यु॒तोत यदि॑ । 44) यदी॒तासु॑ रि॒तासु॒-र्यदि॒ यदी॒तासुः॑ । 45) इ॒तासु॒-र्भव॑ति॒ भव॑ती॒तासु॑ रि॒तासु॒-र्भव॑ति । 45) इ॒तासु॒रिती॒त - अ॒सुः॒ । 46) भव॑ति॒ जीव॑ति॒ जीव॑ति॒ भव॑ति॒ भव॑ति॒ जीव॑ति । 47) जीव॑ त्ये॒वैव जीव॑ति॒ जीव॑त्ये॒व । 48) ए॒व पू॒र्णा-न्पू॒र्णा ने॒वैव पू॒र्णान् । 49) पू॒र्णा-न्ग्रहा॒-न्ग्रहा᳚-न्पू॒र्णा-न्पू॒र्णा-न्ग्रहान्॑ । 50) ग्रहा᳚-न्गृह्णीया-द्गृह्णीया॒-द्ग्रहा॒-न्ग्रहा᳚-न्गृह्णीयात् । 51) गृ॒ह्णी॒या॒-द्यर्हि॒ यर्हि॑ गृह्णीया-द्गृह्णीया॒-द्यर्हि॑ । 52) यर्हि॑ प॒र्जन्यः॑ प॒र्जन्यो॒ यर्हि॒ यर्हि॑ प॒र्जन्यः॑ । 53) प॒र्जन्यो॒ न न प॒र्जन्यः॑ प॒र्जन्यो॒ न । 54) न वर्षे॒त् वर्षे॒त् न न वर्षे᳚त् । 55) वर्षे᳚-त्प्रा॒णा-न्प्रा॒णान्. वर्षे॒त् वर्षे᳚-त्प्रा॒णान् । 56) प्रा॒णान्. वै वै प्रा॒णा-न्प्रा॒णान्. वै । 56) प्रा॒णानिति॑ प्र - अ॒नान् । 57) वा ए॒तर्-ह्ये॒तर्हि॒ वै वा ए॒तर्हि॑ । 58) ए॒तर्हि॑ प्र॒जाना᳚-म्प्र॒जाना॑ मे॒तर्-ह्ये॒तर्हि॑ प्र॒जाना᳚म् । 59) प्र॒जाना॒ग्ं॒ शुख् छु-क्प्र॒जाना᳚-म्प्र॒जाना॒ग्ं॒ शुक् । 59) प्र॒जाना॒मिति॑ प्र - जाना᳚म् । 60) शुगृ॑च्छ त्यृच्छति॒ शुख् छुगृ॑च्छति । 61) ऋ॒च्छ॒ति॒ यर्हि॒ यर्ह्यृ॑च्छ त्यृच्छति॒ यर्हि॑ । 62) यर्हि॑ प॒र्जन्यः॑ प॒र्जन्यो॒ यर्हि॒ यर्हि॑ प॒र्जन्यः॑ । 63) प॒र्जन्यो॒ न न प॒र्जन्यः॑ प॒र्जन्यो॒ न । 64) न वर्ष॑ति॒ वर्ष॑ति॒ न न वर्ष॑ति । 65) वर्ष॑ति प्रा॒णाः प्रा॒णा वर्ष॑ति॒ वर्ष॑ति प्रा॒णाः । 66) प्रा॒णा ग्रहा॒ ग्रहाः᳚ प्रा॒णाः प्रा॒णा ग्रहाः᳚ । 66) प्रा॒णा इति॑ प्र - अ॒नाः । 67) ग्रहाः᳚ प्रा॒णा-न्प्रा॒णा-न्ग्रहा॒ ग्रहाः᳚ प्रा॒णान् । 68) प्रा॒णा ने॒वैव प्रा॒णा-न्प्रा॒णाने॒व । 68) प्रा॒णानिति॑ प्र - अ॒नान् । 69) ए॒व प्र॒जाना᳚-म्प्र॒जाना॑ मे॒वैव प्र॒जाना᳚म् । 70) प्र॒जानाग्ं॑ शु॒च-श्शु॒चः प्र॒जाना᳚-म्प्र॒जानाग्ं॑ शु॒चः । 70) प्र॒जाना॒मिति॑ प्र - जाना᳚म् । 71) शु॒चो मु॑ञ्चति मुञ्चति शु॒च-श्शु॒चो मु॑ञ्चति । 72) मु॒ञ्च॒ति॒ ता॒ज-क्ता॒ज-म्मु॑ञ्चति मुञ्चति ता॒जक् । 73) ता॒ज-क्प्र प्र ता॒ज-क्ता॒ज-क्प्र । 74) प्र व॑र्षति वर्षति॒ प्र प्र व॑र्षति । 75) व॒र्॒ष॒तीति॑ वर्षति । ॥ 26 ॥ (75/84) ॥ अ. 7 ॥
1) गा॒य॒त्रो वै वै गा॑य॒त्रो गा॑य॒त्रो वै । 2) वा ऐ᳚न्द्रवाय॒व ऐ᳚न्द्रवाय॒वो वै वा ऐ᳚न्द्रवाय॒वः । 3) ऐ॒न्द्र॒वा॒य॒वो गा॑य॒त्र-ङ्गा॑य॒त्र मै᳚न्द्रवाय॒व ऐ᳚न्द्रवाय॒वो गा॑य॒त्रम् । 3) ऐ॒न्द्र॒वा॒य॒व इत्यै᳚न्द्र - वा॒य॒वः । 4) गा॒य॒त्र-म्प्रा॑य॒णीय॑-म्प्राय॒णीय॑-ङ्गाय॒त्र-ङ्गा॑य॒त्र-म्प्रा॑य॒णीय᳚म् । 5) प्रा॒य॒णीय॒ मह॒ रहः॑ प्राय॒णीय॑-म्प्राय॒णीय॒ महः॑ । 5) प्रा॒य॒णीय॒मिति॑ प्र - अ॒य॒नीय᳚म् । 6) अह॒ स्तस्मा॒-त्तस्मा॒ दह॒ रह॒ स्तस्मा᳚त् । 7) तस्मा᳚-त्प्राय॒णीये᳚ प्राय॒णीये॒ तस्मा॒-त्तस्मा᳚-त्प्राय॒णीये᳚ । 8) प्रा॒य॒णीये ऽह॒-न्नह॑-न्प्राय॒णीये᳚ प्राय॒णीये ऽहन्न्॑ । 8) प्रा॒य॒णीय॒ इति॑ प्र - अ॒य॒नीये᳚ । 9) अह॑-न्नैन्द्रवाय॒व ऐ᳚न्द्रवाय॒वो ऽह॒-न्नह॑-न्नैन्द्रवाय॒वः । 10) ऐ॒न्द्र॒वा॒य॒वो गृ॑ह्यते गृह्यत ऐन्द्रवाय॒व ऐ᳚न्द्रवाय॒वो गृ॑ह्यते । 10) ऐ॒न्द्र॒वा॒य॒व इत्यै᳚न्द्र - वा॒य॒वः । 11) गृ॒ह्य॒ते॒ स्वे स्वे गृ॑ह्यते गृह्यते॒ स्वे । 12) स्व ए॒वैव स्वे स्व ए॒व । 13) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 14) ए॒न॒ मा॒यत॑न आ॒यत॑न एन मेन मा॒यत॑ने । 15) आ॒यत॑ने गृह्णाति गृह्णा त्या॒यत॑न आ॒यत॑ने गृह्णाति । 15) आ॒यत॑न॒ इत्या᳚ - यत॑ने । 16) गृ॒ह्णा॒ति॒ त्रैष्टु॑भ॒ स्त्रैष्टु॑भो गृह्णाति गृह्णाति॒ त्रैष्टु॑भः । 17) त्रैष्टु॑भो॒ वै वै त्रैष्टु॑भ॒ स्त्रैष्टु॑भो॒ वै । 18) वै शु॒क्र-श्शु॒क्रो वै वै शु॒क्रः । 19) शु॒क्र स्त्रैष्टु॑भ॒-न्त्रैष्टु॑भग्ं शु॒क्र-श्शु॒क्र स्त्रैष्टु॑भम् । 20) त्रैष्टु॑भ-न्द्वि॒तीय॑-न्द्वि॒तीय॒-न्त्रैष्टु॑भ॒-न्त्रैष्टु॑भ-न्द्वि॒तीय᳚म् । 21) द्वि॒तीय॒ मह॒ रह॑-र्द्वि॒तीय॑-न्द्वि॒तीय॒ महः॑ । 22) अह॒ स्तस्मा॒-त्तस्मा॒ दह॒ रह॒ स्तस्मा᳚त् । 23) तस्मा᳚-द्द्वि॒तीये᳚ द्वि॒तीये॒ तस्मा॒-त्तस्मा᳚-द्द्वि॒तीये᳚ । 24) द्वि॒तीये ऽह॒-न्नह॑-न्द्वि॒तीये᳚ द्वि॒तीये ऽहन्न्॑ । 25) अह॑-ञ्छु॒क्र-श्शु॒क्रो ऽह॒-न्नह॑-ञ्छु॒क्रः । 26) शु॒क्रो गृ॑ह्यते गृह्यते शु॒क्र-श्शु॒क्रो गृ॑ह्यते । 27) गृ॒ह्य॒ते॒ स्वे स्वे गृ॑ह्यते गृह्यते॒ स्वे । 28) स्व ए॒वैव स्वे स्व ए॒व । 29) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 30) ए॒न॒ मा॒यत॑न आ॒यत॑न एन मेन मा॒यत॑ने । 31) आ॒यत॑ने गृह्णाति गृह्णा त्या॒यत॑न आ॒यत॑ने गृह्णाति । 31) आ॒यत॑न॒ इत्या᳚ - यत॑ने । 32) गृ॒ह्णा॒ति॒ जाग॑तो॒ जाग॑तो गृह्णाति गृह्णाति॒ जाग॑तः । 33) जाग॑तो॒ वै वै जाग॑तो॒ जाग॑तो॒ वै । 34) वा आ᳚ग्रय॒ण आ᳚ग्रय॒णो वै वा आ᳚ग्रय॒णः । 35) आ॒ग्र॒य॒णो जाग॑त॒-ञ्जाग॑त माग्रय॒ण आ᳚ग्रय॒णो जाग॑तम् । 36) जाग॑त-न्तृ॒तीय॑-न्तृ॒तीय॒-ञ्जाग॑त॒-ञ्जाग॑त-न्तृ॒तीय᳚म् । 37) तृ॒तीय॒ मह॒ रह॑ स्तृ॒तीय॑-न्तृ॒तीय॒ महः॑ । 38) अह॒ स्तस्मा॒-त्तस्मा॒ दह॒ रह॒ स्तस्मा᳚त् । 39) तस्मा᳚-त्तृ॒तीये॑ तृ॒तीये॒ तस्मा॒-त्तस्मा᳚-त्तृ॒तीये᳚ । 40) तृ॒तीये ऽह॒-न्नह॑-न्तृ॒तीये॑ तृ॒तीये ऽहन्न्॑ । 41) अह॑-न्नाग्रय॒ण आ᳚ग्रय॒णो ऽह॒-न्नह॑-न्नाग्रय॒णः । 42) आ॒ग्र॒य॒णो गृ॑ह्यते गृह्यत आग्रय॒ण आ᳚ग्रय॒णो गृ॑ह्यते । 43) गृ॒ह्य॒ते॒ स्वे स्वे गृ॑ह्यते गृह्यते॒ स्वे । 44) स्व ए॒वैव स्वे स्व ए॒व । 45) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 46) ए॒न॒ मा॒यत॑न आ॒यत॑न एन मेन मा॒यत॑ने । 47) आ॒यत॑ने गृह्णाति गृह्णा त्या॒यत॑न आ॒यत॑ने गृह्णाति । 47) आ॒यत॑न॒ इत्या᳚ - यत॑ने । 48) गृ॒ह्णा॒ त्ये॒त दे॒त-द्गृ॑ह्णाति गृह्णा त्ये॒तत् । 49) ए॒त-द्वै वा ए॒त दे॒त-द्वै । 50) वै य॒ज्ञं-यँ॒ज्ञं-वैँ वै य॒ज्ञम् । ॥ 27 ॥ (50/57)
1) य॒ज्ञ मा॑प दाप-द्य॒ज्ञं-यँ॒ज्ञ मा॑पत् । 2) आ॒प॒-द्य-द्यदा॑प दाप॒-द्यत् । 3) यच् छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ य-द्यच् छन्दाग्ं॑सि । 4) छन्दाग्॑ स्या॒प्नो त्या॒प्नोति॒ छन्दाग्ं॑सि॒ छन्दाग्॑ स्या॒प्नोति॑ । 5) आ॒प्नोति॒ य-द्यदा॒प्नो त्या॒प्नोति॒ यत् । 6) यदा᳚ग्रय॒ण आ᳚ग्रय॒णो य-द्यदा᳚ग्रय॒णः । 7) आ॒ग्र॒य॒ण-श्श्व-श्श्व आ᳚ग्रय॒ण आ᳚ग्रय॒ण-श्श्वः । 8) श्वो गृ॒ह्यते॑ गृ॒ह्यते॒ श्व-श्श्वो गृ॒ह्यते᳚ । 9) गृ॒ह्यते॒ यत्र॒ यत्र॑ गृ॒ह्यते॑ गृ॒ह्यते॒ यत्र॑ । 10) यत्रै॒ वैव यत्र॒ यत्रै॒व । 11) ए॒व य॒ज्ञं-यँ॒ज्ञ मे॒वैव य॒ज्ञम् । 12) य॒ज्ञ मदृ॑श॒-न्नदृ॑शन्. य॒ज्ञं-यँ॒ज्ञ मदृ॑शन्न् । 13) अदृ॑श॒-न्तत॒ स्ततो ऽदृ॑श॒-न्नदृ॑श॒-न्ततः॑ । 14) तत॑ ए॒वैव तत॒ स्तत॑ ए॒व । 15) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 16) ए॒न॒-म्पुनः॒ पुन॑ रेन मेन॒-म्पुनः॑ । 17) पुनः॒ प्र प्र पुनः॒ पुनः॒ प्र । 18) प्र यु॑ङ्क्ते युङ्क्ते॒ प्र प्र यु॑ङ्क्ते । 19) यु॒ङ्क्ते॒ जग॑न्मुखो॒ जग॑न्मुखो युङ्क्ते युङ्क्ते॒ जग॑न्मुखः । 20) जग॑न्मुखो॒ वै वै जग॑न्मुखो॒ जग॑न्मुखो॒ वै । 20) जग॑न्मुख॒ इति॒ जग॑त् - मु॒खः॒ । 21) वै द्वि॒तीयो᳚ द्वि॒तीयो॒ वै वै द्वि॒तीयः॑ । 22) द्वि॒तीय॑ स्त्रिरा॒त्र स्त्रि॑रा॒त्रो द्वि॒तीयो᳚ द्वि॒तीय॑ स्त्रिरा॒त्रः । 23) त्रि॒रा॒त्रो जाग॑तो॒ जाग॑त स्त्रिरा॒त्र स्त्रि॑रा॒त्रो जाग॑तः । 23) त्रि॒रा॒त्र इति॑ त्रि - रा॒त्रः । 24) जाग॑त आग्रय॒ण आ᳚ग्रय॒णो जाग॑तो॒ जाग॑त आग्रय॒णः । 25) आ॒ग्र॒य॒णो य-द्यदा᳚ग्रय॒ण आ᳚ग्रय॒णो यत् । 26) यच् च॑तु॒र्थे च॑तु॒र्थे य-द्यच् च॑तु॒र्थे । 27) च॒तु॒र्थे ऽह॒-न्नहग्ग्॑ श्चतु॒र्थे च॑तु॒र्थे ऽहन्न्॑ । 28) अह॑-न्नाग्रय॒ण आ᳚ग्रय॒णो ऽह॒-न्नह॑-न्नाग्रय॒णः । 29) आ॒ग्र॒य॒णो गृ॒ह्यते॑ गृ॒ह्यत॑ आग्रय॒ण आ᳚ग्रय॒णो गृ॒ह्यते᳚ । 30) गृ॒ह्यते॒ स्वे स्वे गृ॒ह्यते॑ गृ॒ह्यते॒ स्वे । 31) स्व ए॒वैव स्वे स्व ए॒व । 32) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 33) ए॒न॒ मा॒यत॑न आ॒यत॑न एन मेन मा॒यत॑ने । 34) आ॒यत॑ने गृह्णाति गृह्णा त्या॒यत॑न आ॒यत॑ने गृह्णाति । 34) आ॒यत॑न॒ इत्या᳚ - यत॑ने । 35) गृ॒ह्णा॒ त्यथो॒ अथो॑ गृह्णाति गृह्णा॒ त्यथो᳚ । 36) अथो॒ स्वग्ग् स्व मथो॒ अथो॒ स्वम् । 36) अथो॒ इत्यथो᳚ । 37) स्व मे॒वैव स्वग्ग् स्व मे॒व । 38) ए॒व छन्द॒ श्छन्द॑ ए॒वैव छन्दः॑ । 39) छन्दो ऽन्वनु॒ च्छन्द॒ श्छन्दो ऽनु॑ । 40) अनु॑ प॒र्याव॑र्तन्ते प॒र्याव॑र्त॒न्ते ऽन्वनु॑ प॒र्याव॑र्तन्ते । 41) प॒र्याव॑र्तन्ते॒ राथ॑न्तरो॒ राथ॑न्तरः प॒र्याव॑र्तन्ते प॒र्याव॑र्तन्ते॒ राथ॑न्तरः । 41) प॒र्याव॑र्तन्त॒ इति॑ परि - आव॑र्तन्ते । 42) राथ॑न्तरो॒ वै वै राथ॑न्तरो॒ राथ॑न्तरो॒ वै । 42) राथ॑न्तर॒ इति॒ राथं᳚ - त॒रः॒ । 43) वा ऐ᳚न्द्रवाय॒व ऐ᳚न्द्रवाय॒वो वै वा ऐ᳚न्द्रवाय॒वः । 44) ऐ॒न्द्र॒वा॒य॒वो राथ॑न्तर॒ग्ं॒ राथ॑न्तर मैन्द्रवाय॒व ऐ᳚न्द्रवाय॒वो राथ॑न्तरम् । 44) ऐ॒न्द्र॒वा॒य॒व इत्यै᳚न्द्र - वा॒य॒वः । 45) राथ॑न्तर-म्पञ्च॒म-म्प॑ञ्च॒मग्ं राथ॑न्तर॒ग्ं॒ राथ॑न्तर-म्पञ्च॒मम् । 45) राथ॑न्तर॒मिति॒ राथं᳚ - त॒र॒म् । 46) प॒ञ्च॒म मह॒ रहः॑ पञ्च॒म-म्प॑ञ्च॒म महः॑ । 47) अह॒ स्तस्मा॒-त्तस्मा॒ दह॒ रह॒ स्तस्मा᳚त् । 48) तस्मा᳚-त्पञ्च॒मे प॑ञ्च॒मे तस्मा॒-त्तस्मा᳚-त्पञ्च॒मे । 49) प॒ञ्च॒मे ऽह॒-न्नह॑-न्पञ्च॒मे प॑ञ्च॒मे ऽहन्न्॑ । 50) अह॑-न्नैन्द्रवाय॒व ऐ᳚न्द्रवाय॒वो ऽह॒-न्नह॑-न्नैन्द्रवाय॒वः । ॥ 28 ॥ (50/58)
1) ऐ॒न्द्र॒वा॒य॒वो गृ॑ह्यते गृह्यत ऐन्द्रवाय॒व ऐ᳚न्द्रवाय॒वो गृ॑ह्यते । 1) ऐ॒न्द्र॒वा॒य॒व इत्यै᳚न्द्र - वा॒य॒वः । 2) गृ॒ह्य॒ते॒ स्वे स्वे गृ॑ह्यते गृह्यते॒ स्वे । 3) स्व ए॒वैव स्वे स्व ए॒व । 4) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 5) ए॒न॒ मा॒यत॑न आ॒यत॑न एन मेन मा॒यत॑ने । 6) आ॒यत॑ने गृह्णाति गृह्णा त्या॒यत॑न आ॒यत॑ने गृह्णाति । 6) आ॒यत॑न॒ इत्या᳚ - यत॑ने । 7) गृ॒ह्णा॒ति॒ बार्ह॑तो॒ बार्ह॑तो गृह्णाति गृह्णाति॒ बार्ह॑तः । 8) बार्ह॑तो॒ वै वै बार्ह॑तो॒ बार्ह॑तो॒ वै । 9) वै शु॒क्र-श्शु॒क्रो वै वै शु॒क्रः । 10) शु॒क्रो बार्ह॑त॒-म्बार्ह॑तग्ं शु॒क्र-श्शु॒क्रो बार्ह॑तम् । 11) बार्ह॑तग्ं ष॒ष्ठग्ं ष॒ष्ठ-म्बार्ह॑त॒-म्बार्ह॑तग्ं ष॒ष्ठम् । 12) ष॒ष्ठ मह॒ रह॑ ष्ष॒ष्ठग्ं ष॒ष्ठ महः॑ । 13) अह॒ स्तस्मा॒-त्तस्मा॒ दह॒ रह॒ स्तस्मा᳚त् । 14) तस्मा᳚ थ्ष॒ष्ठे ष॒ष्ठे तस्मा॒-त्तस्मा᳚ थ्ष॒ष्ठे । 15) ष॒ष्ठे ऽह॒-न्नहन्᳚ थ्ष॒ष्ठे ष॒ष्ठे ऽहन्न्॑ । 16) अह॑-ञ्छु॒क्र-श्शु॒क्रो ऽह॒-न्नह॑-ञ्छु॒क्रः । 17) शु॒क्रो गृ॑ह्यते गृह्यते शु॒क्र-श्शु॒क्रो गृ॑ह्यते । 18) गृ॒ह्य॒ते॒ स्वे स्वे गृ॑ह्यते गृह्यते॒ स्वे । 19) स्व ए॒वैव स्वे स्व ए॒व । 20) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 21) ए॒न॒ मा॒यत॑न आ॒यत॑न एन मेन मा॒यत॑ने । 22) आ॒यत॑ने गृह्णाति गृह्णा त्या॒यत॑न आ॒यत॑ने गृह्णाति । 22) आ॒यत॑न॒ इत्या᳚ - यत॑ने । 23) गृ॒ह्णा॒ त्ये॒त दे॒त-द्गृ॑ह्णाति गृह्णा त्ये॒तत् । 24) ए॒त-द्वै वा ए॒त दे॒त-द्वै । 25) वै द्वि॒तीय॑-न्द्वि॒तीयं॒-वैँ वै द्वि॒तीय᳚म् । 26) द्वि॒तीयं॑-यँ॒ज्ञं-यँ॒ज्ञ-न्द्वि॒तीय॑-न्द्वि॒तीयं॑-यँ॒ज्ञम् । 27) य॒ज्ञ मा॑प दाप-द्य॒ज्ञं-यँ॒ज्ञ मा॑पत् । 28) आ॒प॒-द्य-द्यदा॑प दाप॒-द्यत् । 29) यच् छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ य-द्यच् छन्दाग्ं॑सि । 30) छन्दाग्॑ स्या॒प्नो त्या॒प्नोति॒ छन्दाग्ं॑सि॒ छन्दाग्॑ स्या॒प्नोति॑ । 31) आ॒प्नोति॒ य-द्यदा॒प्नो त्या॒प्नोति॒ यत् । 32) यच्छु॒क्र-श्शु॒क्रो य-द्यच्छु॒क्रः । 33) शु॒क्र-श्श्व-श्श्व-श्शु॒क्र-श्शु॒क्र-श्श्वः । 34) श्वो गृ॒ह्यते॑ गृ॒ह्यते॒ श्व-श्श्वो गृ॒ह्यते᳚ । 35) गृ॒ह्यते॒ यत्र॒ यत्र॑ गृ॒ह्यते॑ गृ॒ह्यते॒ यत्र॑ । 36) यत्रै॒ वैव यत्र॒ यत्रै॒व । 37) ए॒व य॒ज्ञं-यँ॒ज्ञ मे॒वैव य॒ज्ञम् । 38) य॒ज्ञ मदृ॑श॒-न्नदृ॑शन्. य॒ज्ञं-यँ॒ज्ञ मदृ॑शन्न् । 39) अदृ॑श॒-न्तत॒ स्ततो ऽदृ॑श॒-न्नदृ॑श॒-न्ततः॑ । 40) तत॑ ए॒वैव तत॒ स्तत॑ ए॒व । 41) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 42) ए॒न॒-म्पुनः॒ पुन॑ रेन मेन॒-म्पुनः॑ । 43) पुनः॒ प्र प्र पुनः॒ पुनः॒ प्र । 44) प्र यु॑ङ्क्ते युङ्क्ते॒ प्र प्र यु॑ङ्क्ते । 45) यु॒ङ्क्ते॒ त्रि॒ष्टुंमु॑ख स्त्रि॒ष्टुंमु॑खो युङ्क्ते युङ्क्ते त्रि॒ष्टुंमु॑खः । 46) त्रि॒ष्टुंमु॑खो॒ वै वै त्रि॒ष्टुंमु॑ख स्त्रि॒ष्टुंमु॑खो॒ वै । 46) त्रि॒ष्टुंमु॑ख॒ इति॑ त्रि॒ष्टुक् - मु॒खः॒ । 47) वै तृ॒तीय॑ स्तृ॒तीयो॒ वै वै तृ॒तीयः॑ । 48) तृ॒तीय॑ स्त्रिरा॒त्र स्त्रि॑रा॒त्र स्तृ॒तीय॑ स्तृ॒तीय॑ स्त्रिरा॒त्रः । 49) त्रि॒रा॒त्र स्त्रैष्टु॑भ॒ स्त्रैष्टु॑भ स्त्रिरा॒त्र स्त्रि॑रा॒त्र स्त्रैष्टु॑भः । 49) त्रि॒रा॒त्र इति॑ त्रि - रा॒त्रः । 50) त्रैष्टु॑भ-श्शु॒क्र-श्शु॒क्र स्त्रैष्टु॑भ॒ स्त्रैष्टु॑भ-श्शु॒क्रः । ॥ 29 ॥ (50/55)
1) शु॒क्रो य-द्यच्छु॒क्र-श्शु॒क्रो यत् । 2) य-थ्स॑प्त॒मे स॑प्त॒मे य-द्य-थ्स॑प्त॒मे । 3) स॒प्त॒मे ऽह॒-न्नहन्᳚ थ्सप्त॒मे स॑प्त॒मे ऽहन्न्॑ । 4) अह॑-ञ्छु॒क्र-श्शु॒क्रो ऽह॒-न्नह॑-ञ्छु॒क्रः । 5) शु॒क्रो गृ॒ह्यते॑ गृ॒ह्यते॑ शु॒क्र-श्शु॒क्रो गृ॒ह्यते᳚ । 6) गृ॒ह्यते॒ स्वे स्वे गृ॒ह्यते॑ गृ॒ह्यते॒ स्वे । 7) स्व ए॒वैव स्वे स्व ए॒व । 8) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 9) ए॒न॒ मा॒यत॑न आ॒यत॑न एन मेन मा॒यत॑ने । 10) आ॒यत॑ने गृह्णाति गृह्णा त्या॒यत॑न आ॒यत॑ने गृह्णाति । 10) आ॒यत॑न॒ इत्या᳚ - यत॑ने । 11) गृ॒ह्णा॒ त्यथो॒ अथो॑ गृह्णाति गृह्णा॒ त्यथो᳚ । 12) अथो॒ स्वग्ग् स्व मथो॒ अथो॒ स्वम् । 12) अथो॒ इत्यथो᳚ । 13) स्व मे॒वैव स्वग्ग् स्व मे॒व । 14) ए॒व छन्द॒ श्छन्द॑ ए॒वैव छन्दः॑ । 15) छन्दो ऽन्वनु॒ च्छन्द॒ श्छन्दो ऽनु॑ । 16) अनु॑ प॒र्याव॑र्तन्ते प॒र्याव॑र्त॒न्ते ऽन्वनु॑ प॒र्याव॑र्तन्ते । 17) प॒र्याव॑र्तन्ते॒ वाग् वा-क्प॒र्याव॑र्तन्ते प॒र्याव॑र्तन्ते॒ वाक् । 17) प॒र्याव॑र्तन्त॒ इति॑ परि - आव॑र्तन्ते । 18) वाग् वै वै वाग् वाग् वै । 19) वा आ᳚ग्रय॒ण आ᳚ग्रय॒णो वै वा आ᳚ग्रय॒णः । 20) आ॒ग्र॒य॒णो वाग् वागा᳚ग्रय॒ण आ᳚ग्रय॒णो वाक् । 21) वाग॑ष्ट॒म म॑ष्ट॒मं-वाँग् वाग॑ष्ट॒मम् । 22) अ॒ष्ट॒म मह॒ रह॑ रष्ट॒म म॑ष्ट॒म महः॑ । 23) अह॒ स्तस्मा॒-त्तस्मा॒ दह॒ रह॒ स्तस्मा᳚त् । 24) तस्मा॑ दष्ट॒मे᳚ ऽष्ट॒मे तस्मा॒-त्तस्मा॑ दष्ट॒मे । 25) अ॒ष्ट॒मे ऽह॒-न्नह॑-न्नष्ट॒मे᳚ ऽष्ट॒मे ऽहन्न्॑ । 26) अह॑-न्नाग्रय॒ण आ᳚ग्रय॒णो ऽह॒-न्नह॑-न्नाग्रय॒णः । 27) आ॒ग्र॒य॒णो गृ॑ह्यते गृह्यत आग्रय॒ण आ᳚ग्रय॒णो गृ॑ह्यते । 28) गृ॒ह्य॒ते॒ स्वे स्वे गृ॑ह्यते गृह्यते॒ स्वे । 29) स्व ए॒वैव स्वे स्व ए॒व । 30) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 31) ए॒न॒ मा॒यत॑न आ॒यत॑न एन मेन मा॒यत॑ने । 32) आ॒यत॑ने गृह्णाति गृह्णा त्या॒यत॑न आ॒यत॑ने गृह्णाति । 32) आ॒यत॑न॒ इत्या᳚ - यत॑ने । 33) गृ॒ह्णा॒ति॒ प्रा॒णः प्रा॒णो गृ॑ह्णाति गृह्णाति प्रा॒णः । 34) प्रा॒णो वै वै प्रा॒णः प्रा॒णो वै । 34) प्रा॒ण इति॑ प्र - अ॒नः । 35) वा ऐ᳚न्द्रवाय॒व ऐ᳚न्द्रवाय॒वो वै वा ऐ᳚न्द्रवाय॒वः । 36) ऐ॒न्द्र॒वा॒य॒वः प्रा॒णः प्रा॒ण ऐ᳚न्द्रवाय॒व ऐ᳚न्द्रवाय॒वः प्रा॒णः । 36) ऐ॒न्द्र॒वा॒य॒व इत्यै᳚न्द्र - वा॒य॒वः । 37) प्रा॒णो न॑व॒म-न्न॑व॒म-म्प्रा॒णः प्रा॒णो न॑व॒मम् । 37) प्रा॒ण इति॑ प्र - अ॒नः । 38) न॒व॒म मह॒ रह॑-र्नव॒म-न्न॑व॒म महः॑ । 39) अह॒ स्तस्मा॒-त्तस्मा॒ दह॒ रह॒ स्तस्मा᳚त् । 40) तस्मा᳚-न्नव॒मे न॑व॒मे तस्मा॒-त्तस्मा᳚-न्नव॒मे । 41) न॒व॒मे ऽह॒-न्नह॑-न्नव॒मे न॑व॒मे ऽहन्न्॑ । 42) अह॑-न्नैन्द्रवाय॒व ऐ᳚न्द्रवाय॒वो ऽह॒-न्नह॑-न्नैन्द्रवाय॒वः । 43) ऐ॒न्द्र॒वा॒य॒वो गृ॑ह्यते गृह्यत ऐन्द्रवाय॒व ऐ᳚न्द्रवाय॒वो गृ॑ह्यते । 43) ऐ॒न्द्र॒वा॒य॒व इत्यै᳚न्द्र - वा॒य॒वः । 44) गृ॒ह्य॒ते॒ स्वे स्वे गृ॑ह्यते गृह्यते॒ स्वे । 45) स्व ए॒वैव स्वे स्व ए॒व । 46) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 47) ए॒न॒ मा॒यत॑न आ॒यत॑न एन मेन मा॒यत॑ने । 48) आ॒यत॑ने गृह्णाति गृह्णा त्या॒यत॑न आ॒यत॑ने गृह्णाति । 48) आ॒यत॑न॒ इत्या᳚ - यत॑ने । 49) गृ॒ह्णा॒ त्ये॒त दे॒त-द्गृ॑ह्णाति गृह्णा त्ये॒तत् । 50) ए॒त-द्वै वा ए॒त दे॒त-द्वै । ॥ 30 ॥ (50/59)
1) वै तृ॒तीय॑-न्तृ॒तीयं॒-वैँ वै तृ॒तीय᳚म् । 2) तृ॒तीयं॑-यँ॒ज्ञं-यँ॒ज्ञ-न्तृ॒तीय॑-न्तृ॒तीयं॑-यँ॒ज्ञम् । 3) य॒ज्ञ मा॑प दाप-द्य॒ज्ञं-यँ॒ज्ञ मा॑पत् । 4) आ॒प॒-द्य-द्यदा॑प दाप॒-द्यत् । 5) यच् छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ य-द्यच् छन्दाग्ं॑सि । 6) छन्दाग्॑ स्या॒प्नो त्या॒प्नोति॒ छन्दाग्ं॑सि॒ छन्दाग्॑ स्या॒प्नोति॑ । 7) आ॒प्नोति॒ य-द्यदा॒प्नो त्या॒प्नोति॒ यत् । 8) यदै᳚न्द्रवाय॒व ऐ᳚न्द्रवाय॒वो य-द्यदै᳚न्द्रवाय॒वः । 9) ऐ॒न्द्र॒वा॒य॒व-श्श्व-श्श्व ऐ᳚न्द्रवाय॒व ऐ᳚न्द्रवाय॒व-श्श्वः । 9) ऐ॒न्द्र॒वा॒य॒व इत्यै᳚न्द्र - वा॒य॒वः । 10) श्वो गृ॒ह्यते॑ गृ॒ह्यते॒ श्व-श्श्वो गृ॒ह्यते᳚ । 11) गृ॒ह्यते॒ यत्र॒ यत्र॑ गृ॒ह्यते॑ गृ॒ह्यते॒ यत्र॑ । 12) यत्रै॒ वैव यत्र॒ यत्रै॒व । 13) ए॒व य॒ज्ञं-यँ॒ज्ञ मे॒वैव य॒ज्ञम् । 14) य॒ज्ञ मदृ॑श॒-न्नदृ॑शन्. य॒ज्ञं-यँ॒ज्ञ मदृ॑शन्न् । 15) अदृ॑श॒-न्तत॒ स्ततो ऽदृ॑श॒-न्नदृ॑श॒-न्ततः॑ । 16) तत॑ ए॒वैव तत॒ स्तत॑ ए॒व । 17) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 18) ए॒न॒-म्पुनः॒ पुन॑ रेन मेन॒-म्पुनः॑ । 19) पुनः॒ प्र प्र पुनः॒ पुनः॒ प्र । 20) प्र यु॑ङ्क्ते युङ्क्ते॒ प्र प्र यु॑ङ्क्ते । 21) यु॒ङ्क्ते ऽथो॒ अथो॑ युङ्क्ते यु॒ङ्क्ते ऽथो᳚ । 22) अथो॒ स्वग्ग् स्व मथो॒ अथो॒ स्वम् । 22) अथो॒ इत्यथो᳚ । 23) स्व मे॒वैव स्वग्ग् स्व मे॒व । 24) ए॒व छन्द॒ श्छन्द॑ ए॒वैव छन्दः॑ । 25) छन्दो ऽन्वनु॒ च्छन्द॒ श्छन्दो ऽनु॑ । 26) अनु॑ प॒र्याव॑र्तन्ते प॒र्याव॑र्त॒न्ते ऽन्वनु॑ प॒र्याव॑र्तन्ते । 27) प॒र्याव॑र्तन्ते प॒थः प॒थः प॒र्याव॑र्तन्ते प॒र्याव॑र्तन्ते प॒थः । 27) प॒र्याव॑र्तन्त॒ इति॑ परि - आव॑र्तन्ते । 28) प॒थो वै वै प॒थः प॒थो वै । 29) वा ए॒त ए॒ते वै वा ए॒ते । 30) ए॒ते ऽध्य ध्ये॒त ए॒ते ऽधि॑ । 31) अध्यप॑थे॒ना प॑थे॒ना ध्यध्यप॑थेन । 32) अप॑थेन यन्ति य॒न्त्यप॑थे॒ना प॑थेन यन्ति । 33) य॒न्ति॒ ये ये य॑न्ति यन्ति॒ ये । 34) ये᳚ ऽन्येना॒ न्येन॒ ये ये᳚ ऽन्येन॑ । 35) अ॒न्येनै᳚न्द्रवाय॒वा दै᳚न्द्रवाय॒वा द॒न्येना॒ न्येनै᳚न्द्रवाय॒वात् । 36) ऐ॒न्द्र॒वा॒य॒वा-त्प्र॑ति॒पद्य॑न्ते प्रति॒पद्य॑न्त ऐन्द्रवाय॒वा दै᳚न्द्रवाय॒वा-त्प्र॑ति॒पद्य॑न्ते । 36) ऐ॒न्द्र॒वा॒य॒वादित्यै᳚न्द्र - वा॒य॒वात् । 37) प्र॒ति॒पद्य॒न्ते ऽन्तो ऽन्तः॑ प्रति॒पद्य॑न्ते प्रति॒पद्य॒न्ते ऽन्तः॑ । 37) प्र॒ति॒पद्य॑न्त॒ इति॑ प्रति - पद्य॑न्ते । 38) अन्तः॒ खलु॒ खल्वन्तो ऽन्तः॒ खलु॑ । 39) खलु॒ वै वै खलु॒ खलु॒ वै । 40) वा ए॒ष ए॒ष वै वा ए॒षः । 41) ए॒ष य॒ज्ञस्य॑ य॒ज्ञस्यै॒ष ए॒ष य॒ज्ञस्य॑ । 42) य॒ज्ञस्य॒ य-द्य-द्य॒ज्ञस्य॑ य॒ज्ञस्य॒ यत् । 43) य-द्द॑श॒म-न्द॑श॒मं-यँ-द्य-द्द॑श॒मम् । 44) द॒श॒म मह॒ रह॑-र्दश॒म-न्द॑श॒म महः॑ । 45) अह॑-र्दश॒मे द॑श॒मे ऽह॒ रह॑-र्दश॒मे । 46) द॒श॒मे ऽह॒-न्नह॑-न्दश॒मे द॑श॒मे ऽहन्न्॑ । 47) अह॑-न्नैन्द्रवाय॒व ऐ᳚न्द्रवाय॒वो ऽह॒-न्नह॑-न्नैन्द्रवाय॒वः । 48) ऐ॒न्द्र॒वा॒य॒वो गृ॑ह्यते गृह्यत ऐन्द्रवाय॒व ऐ᳚न्द्रवाय॒वो गृ॑ह्यते । 48) ऐ॒न्द्र॒वा॒य॒व इत्यै᳚न्द्र - वा॒य॒वः । 49) गृ॒ह्य॒ते॒ य॒ज्ञस्य॑ य॒ज्ञस्य॑ गृह्यते गृह्यते य॒ज्ञस्य॑ । 50) य॒ज्ञ स्यै॒वैव य॒ज्ञस्य॑ य॒ज्ञस्यै॒व । ॥ 31 ॥ (50/56)
1) ए॒वान्त॒ मन्त॑ मे॒वै वान्त᳚म् । 2) अन्त॑-ङ्ग॒त्वा ग॒त्वा ऽन्त॒ मन्त॑-ङ्ग॒त्वा । 3) ग॒त्वा ऽप॑था॒ दप॑था-द्ग॒त्वा ग॒त्वा ऽप॑थात् । 4) अप॑था॒-त्पन्था॒-म्पन्था॒ मप॑था॒ दप॑था॒-त्पन्था᳚म् । 5) पन्था॒ मप्यपि॒ पन्था॒-म्पन्था॒ मपि॑ । 6) अपि॑ यन्ति य॒न्त्य प्यपि॑ यन्ति । 7) य॒न्त्यथो॒ अथो॑ यन्ति य॒न्त्यथो᳚ । 8) अथो॒ यथा॒ यथा ऽथो॒ अथो॒ यथा᳚ । 8) अथो॒ इत्यथो᳚ । 9) यथा॒ वही॑यसा॒ वही॑यसा॒ यथा॒ यथा॒ वही॑यसा । 10) वही॑यसा प्रति॒सार॑-म्प्रति॒सारं॒-वँही॑यसा॒ वही॑यसा प्रति॒सार᳚म् । 11) प्र॒ति॒सारं॒-वँह॑न्ति॒ वह॑न्ति प्रति॒सार॑-म्प्रति॒सारं॒-वँह॑न्ति । 11) प्र॒ति॒सार॒मिति॑ प्रति - सार᳚म् । 12) वह॑न्ति ता॒दृ-क्ता॒दृग् वह॑न्ति॒ वह॑न्ति ता॒दृक् । 13) ता॒दृ गे॒वैव ता॒दृ-क्ता॒दृ गे॒व । 14) ए॒व त-त्तदे॒ वैव तत् । 15) तच् छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ त-त्तच् छन्दाग्ं॑सि । 16) छन्दाग्॑ स्य॒न्यो᳚ ऽन्य श्छन्दाग्ं॑सि॒ छन्दाग्॑ स्य॒न्यः । 17) अ॒न्यो᳚ ऽन्यस्या॒ न्यस्या॒ न्यो᳚(1॒) ऽन्यो᳚ ऽन्यस्य॑ । 18) अ॒न्यस्य॑ लो॒कम् ँलो॒क म॒न्यस्या॒ न्यस्य॑ लो॒कम् । 19) लो॒क म॒भ्य॑भि लो॒कम् ँलो॒क म॒भि । 20) अ॒भ्य॑द्ध्याय-न्नद्ध्याय-न्न॒भ्या᳚(1॒) भ्य॑द्ध्यायन्न् । 21) अ॒द्ध्या॒य॒-न्तानि॒ तान्य॑द्ध्याय-न्नद्ध्याय॒-न्तानि॑ । 22) तान्ये॒ते नै॒तेन॒ तानि॒ तान्ये॒तेन॑ । 23) ए॒ते नै॒वै वैते नै॒ते नै॒व । 24) ए॒व दे॒वा दे॒वा ए॒वैव दे॒वाः । 25) दे॒वा वि वि दे॒वा दे॒वा वि । 26) व्य॑वाहय-न्नवाहय॒न्॒. वि व्य॑वाहयन्न् । 27) अ॒वा॒ह॒य॒-न्नै॒न्द्र॒वा॒य॒व स्यै᳚न्द्रवाय॒वस्या॑ वाहय-न्नवाहय-न्नैन्द्रवाय॒वस्य॑ । 28) ऐ॒न्द्र॒वा॒य॒वस्य॒ वै वा ऐ᳚न्द्रवाय॒व स्यै᳚न्द्रवाय॒वस्य॒ वै । 28) ऐ॒न्द्र॒वा॒य॒वस्येत्यै᳚न्द्र - वा॒य॒वस्य॑ । 29) वा ए॒त दे॒त-द्वै वा ए॒तत् । 30) ए॒त दा॒यत॑न मा॒यत॑न मे॒त दे॒त दा॒यत॑नम् । 31) आ॒यत॑नं॒-यँ-द्यदा॒यत॑न मा॒यत॑नं॒-यँत् । 31) आ॒यत॑न॒मित्या᳚ - यत॑नम् । 32) यच् च॑तु॒र्थ-ञ्च॑तु॒र्थं-यँ-द्यच् च॑तु॒र्थम् । 33) च॒तु॒र्थ मह॒ रह॑ श्चतु॒र्थ-ञ्च॑तु॒र्थ महः॑ । 34) अह॒ स्तस्मि॒ग्ग्॒ स्तस्मि॒-न्नह॒ रह॒ स्तस्मिन्न्॑ । 35) तस्मि॑-न्नाग्रय॒ण आ᳚ग्रय॒ण स्तस्मि॒ग्ग्॒ स्तस्मि॑-न्नाग्रय॒णः । 36) आ॒ग्र॒य॒णो गृ॑ह्यते गृह्यत आग्रय॒ण आ᳚ग्रय॒णो गृ॑ह्यते । 37) गृ॒ह्य॒ते॒ तस्मा॒-त्तस्मा᳚-द्गृह्यते गृह्यते॒ तस्मा᳚त् । 38) तस्मा॑ दाग्रय॒णस्या᳚ ग्रय॒णस्य॒ तस्मा॒-त्तस्मा॑ दाग्रय॒णस्य॑ । 39) आ॒ग्र॒य॒णस्या॒ यत॑न आ॒यत॑न आग्रय॒णस्या᳚ ग्रय॒णस्या॒ यत॑ने । 40) आ॒यत॑ने नव॒मे न॑व॒म आ॒यत॑न आ॒यत॑ने नव॒मे । 40) आ॒यत॑न॒ इत्या᳚ - यत॑ने । 41) न॒व॒मे ऽह॒-न्नह॑-न्नव॒मे न॑व॒मे ऽहन्न्॑ । 42) अह॑-न्नैन्द्रवाय॒व ऐ᳚न्द्रवाय॒वो ऽह॒-न्नह॑-न्नैन्द्रवाय॒वः । 43) ऐ॒न्द्र॒वा॒य॒वो गृ॑ह्यते गृह्यत ऐन्द्रवाय॒व ऐ᳚न्द्रवाय॒वो गृ॑ह्यते । 43) ऐ॒न्द्र॒वा॒य॒व इत्यै᳚न्द्र - वा॒य॒वः । 44) गृ॒ह्य॒ते॒ शु॒क्रस्य॑ शु॒क्रस्य॑ गृह्यते गृह्यते शु॒क्रस्य॑ । 45) शु॒क्रस्य॒ वै वै शु॒क्रस्य॑ शु॒क्रस्य॒ वै । 46) वा ए॒त दे॒त-द्वै वा ए॒तत् । 47) ए॒त दा॒यत॑न मा॒यत॑न मे॒त दे॒त दा॒यत॑नम् । 48) आ॒यत॑नं॒-यँ-द्यदा॒यत॑न मा॒यत॑नं॒-यँत् । 48) आ॒यत॑न॒मित्या᳚ - यत॑नम् । 49) य-त्प॑ञ्च॒म-म्प॑ञ्च॒मं-यँ-द्य-त्प॑ञ्च॒मम् । 50) प॒ञ्च॒म मह॒ रहः॑ पञ्च॒म-म्प॑ञ्च॒म महः॑ । ॥ 32 ॥ (50/57)
1) अह॒ स्तस्मि॒ग्ग्॒ स्तस्मि॒-न्नह॒ रह॒ स्तस्मिन्न्॑ । 2) तस्मि॑-न्नैन्द्रवाय॒व ऐ᳚न्द्रवाय॒व स्तस्मि॒ग्ग्॒ स्तस्मि॑-न्नैन्द्रवाय॒वः । 3) ऐ॒न्द्र॒वा॒य॒वो गृ॑ह्यते गृह्यत ऐन्द्रवाय॒व ऐ᳚न्द्रवाय॒वो गृ॑ह्यते । 3) ऐ॒न्द्र॒वा॒य॒व इत्यै᳚न्द्र - वा॒य॒वः । 4) गृ॒ह्य॒ते॒ तस्मा॒-त्तस्मा᳚-द्गृह्यते गृह्यते॒ तस्मा᳚त् । 5) तस्मा॑ दैन्द्रवाय॒व स्यै᳚न्द्रवाय॒वस्य॒ तस्मा॒-त्तस्मा॑ दैन्द्रवाय॒वस्य॑ । 6) ऐ॒न्द्र॒वा॒य॒वस्या॒ यत॑न आ॒यत॑न ऐन्द्रवाय॒व स्यै᳚न्द्रवाय॒वस्या॒ यत॑ने । 6) ऐ॒न्द्र॒वा॒य॒वस्येत्यै᳚न्द्र - वा॒य॒वस्य॑ । 7) आ॒यत॑ने सप्त॒मे स॑प्त॒म आ॒यत॑न आ॒यत॑ने सप्त॒मे । 7) आ॒यत॑न॒ इत्या᳚ - यत॑ने । 8) स॒प्त॒मे ऽह॒-न्नहन्᳚ थ्सप्त॒मे स॑प्त॒मे ऽहन्न्॑ । 9) अह॑-ञ्छु॒क्र-श्शु॒क्रो ऽह॒-न्नह॑-ञ्छु॒क्रः । 10) शु॒क्रो गृ॑ह्यते गृह्यते शु॒क्र-श्शु॒क्रो गृ॑ह्यते । 11) गृ॒ह्य॒त॒ आ॒ग्र॒य॒णस्या᳚ ग्रय॒णस्य॑ गृह्यते गृह्यत आग्रय॒णस्य॑ । 12) आ॒ग्र॒य॒णस्य॒ वै वा आ᳚ग्रय॒णस्या᳚ ग्रय॒णस्य॒ वै । 13) वा ए॒त दे॒त-द्वै वा ए॒तत् । 14) ए॒त दा॒यत॑न मा॒यत॑न मे॒त दे॒त दा॒यत॑नम् । 15) आ॒यत॑नं॒-यँ-द्यदा॒यत॑न मा॒यत॑नं॒-यँत् । 15) आ॒यत॑न॒मित्या᳚ - यत॑नम् । 16) य-थ्ष॒ष्ठग्ं ष॒ष्ठं-यँ-द्य-थ्ष॒ष्ठम् । 17) ष॒ष्ठ मह॒ रह॑ ष्ष॒ष्ठग्ं ष॒ष्ठ महः॑ । 18) अह॒ स्तस्मि॒ग्ग्॒ स्तस्मि॒-न्नह॒ रह॒ स्तस्मिन्न्॑ । 19) तस्मि॑-ञ्छु॒क्र-श्शु॒क्र स्तस्मि॒ग्ग्॒ स्तस्मि॑-ञ्छु॒क्रः । 20) शु॒क्रो गृ॑ह्यते गृह्यते शु॒क्र-श्शु॒क्रो गृ॑ह्यते । 21) गृ॒ह्य॒ते॒ तस्मा॒-त्तस्मा᳚-द्गृह्यते गृह्यते॒ तस्मा᳚त् । 22) तस्मा᳚च् छु॒क्रस्य॑ शु॒क्रस्य॒ तस्मा॒-त्तस्मा᳚च् छु॒क्रस्य॑ । 23) शु॒क्रस्या॒ यत॑न आ॒यत॑ने शु॒क्रस्य॑ शु॒क्रस्या॒ यत॑ने । 24) आ॒यत॑ने ऽष्ट॒मे᳚ ऽष्ट॒म आ॒यत॑न आ॒यत॑ने ऽष्ट॒मे । 24) आ॒यत॑न॒ इत्या᳚ - यत॑ने । 25) अ॒ष्ट॒मे ऽह॒-न्नह॑-न्नष्ट॒मे᳚ ऽष्ट॒मे ऽहन्न्॑ । 26) अह॑-न्नाग्रय॒ण आ᳚ग्रय॒णो ऽह॒-न्नह॑-न्नाग्रय॒णः । 27) आ॒ग्र॒य॒णो गृ॑ह्यते गृह्यत आग्रय॒ण आ᳚ग्रय॒णो गृ॑ह्यते । 28) गृ॒ह्य॒ते॒ छन्दाग्ं॑सि॒ छन्दाग्ं॑सि गृह्यते गृह्यते॒ छन्दाग्ं॑सि । 29) छन्दाग्॑ स्ये॒वैव छन्दाग्ं॑सि॒ छन्दाग्॑ स्ये॒व । 30) ए॒व त-त्तदे॒ वैव तत् । 31) त-द्वि वि त-त्त-द्वि । 32) वि वा॑हयति वाहयति॒ वि वि वा॑हयति । 33) वा॒ह॒य॒ति॒ प्र प्र वा॑हयति वाहयति॒ प्र । 34) प्र वस्य॑सो॒ वस्य॑सः॒ प्र प्र वस्य॑सः । 35) वस्य॑सो विवा॒हं-विँ॑वा॒हं-वँस्य॑सो॒ वस्य॑सो विवा॒हम् । 36) वि॒वा॒ह मा᳚प्नो त्याप्नोति विवा॒हं-विँ॑वा॒ह मा᳚प्नोति । 36) वि॒वा॒हमिति॑ वि - वा॒हम् । 37) आ॒प्नो॒ति॒ यो य आ᳚प्नो त्याप्नोति॒ यः । 38) य ए॒व मे॒वं-योँ य ए॒वम् । 39) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ । 40) वेदाथो॒ अथो॒ वेद॒ वेदाथो᳚ । 41) अथो॑ दे॒वता᳚भ्यो दे॒वता॒भ्यो ऽथो॒ अथो॑ दे॒वता᳚भ्यः । 41) अथो॒ इत्यथो᳚ । 42) दे॒वता᳚भ्य ए॒वैव दे॒वता᳚भ्यो दे॒वता᳚भ्य ए॒व । 43) ए॒व य॒ज्ञे य॒ज्ञ ए॒वैव य॒ज्ञे । 44) य॒ज्ञे सं॒विँदग्ं॑ सं॒विँदं॑-यँ॒ज्ञे य॒ज्ञे सं॒विँद᳚म् । 45) सं॒विँद॑-न्दधाति दधाति सं॒विँदग्ं॑ सं॒विँद॑-न्दधाति । 45) सं॒विँद॒मिति॑ सं - विद᳚म् । 46) द॒धा॒ति॒ तस्मा॒-त्तस्मा᳚-द्दधाति दधाति॒ तस्मा᳚त् । 47) तस्मा॑ दि॒द मि॒द-न्तस्मा॒-त्तस्मा॑ दि॒दम् । 48) इ॒द म॒न्यो᳚ ऽन्य इ॒द मि॒द म॒न्यः । 49) अ॒न्यो᳚ ऽन्यस्मा॑ अ॒न्यस्मा॑ अ॒न्यो᳚(1॒) ऽन्यो᳚ ऽन्यस्मै᳚ । 50) अ॒न्यस्मै॑ ददाति ददा त्य॒न्यस्मा॑ अ॒न्यस्मै॑ ददाति । 51) द॒दा॒तीति॑ ददाति । ॥ 33 ॥ (51/59) ॥ अ. 8 ॥
1) प्र॒जाप॑ति रकामयता कामयत प्र॒जाप॑तिः प्र॒जाप॑ति रकामयत । 1) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 2) अ॒का॒म॒य॒त॒ प्र प्राका॑मयता कामयत॒ प्र । 3) प्र जा॑येय जायेय॒ प्र प्र जा॑येय । 4) जा॒ये॒येतीति॑ जायेय जाये॒येति॑ । 5) इति॒ स स इतीति॒ सः । 6) स ए॒त मे॒तग्ं स स ए॒तम् । 7) ए॒त-न्द्वा॑दशरा॒त्र-न्द्वा॑दशरा॒त्र मे॒त मे॒त-न्द्वा॑दशरा॒त्रम् । 8) द्वा॒द॒श॒रा॒त्र म॑पश्य दपश्य-द्द्वादशरा॒त्र-न्द्वा॑दशरा॒त्र म॑पश्यत् । 8) द्वा॒द॒श॒रा॒त्रमिति॑ द्वादश - रा॒त्रम् । 9) अ॒प॒श्य॒-त्त-न्त म॑पश्य दपश्य॒-त्तम् । 10) त मा त-न्त मा । 11) आ ऽह॑र दहर॒दा ऽह॑रत् । 12) अ॒ह॒र॒-त्तेन॒ तेना॑ हर दहर॒-त्तेन॑ । 13) तेना॑ यजता यजत॒ तेन॒ तेना॑ यजत । 14) अ॒य॒ज॒त॒ तत॒ स्ततो॑ ऽयजता यजत॒ ततः॑ । 15) ततो॒ वै वै तत॒ स्ततो॒ वै । 16) वै स स वै वै सः । 17) स प्र प्र स स प्र । 18) प्रा जा॑यता जायत॒ प्र प्रा जा॑यत । 19) अ॒जा॒य॒त॒ यो यो॑ ऽजायता जायत॒ यः । 20) यः का॒मये॑त का॒मये॑त॒ यो यः का॒मये॑त । 21) का॒मये॑त॒ प्र प्र का॒मये॑त का॒मये॑त॒ प्र । 22) प्र जा॑येय जायेय॒ प्र प्र जा॑येय । 23) जा॒ये॒येतीति॑ जायेय जाये॒येति॑ । 24) इति॒ स स इतीति॒ सः । 25) स द्वा॑दशरा॒त्रेण॑ द्वादशरा॒त्रेण॒ स स द्वा॑दशरा॒त्रेण॑ । 26) द्वा॒द॒श॒रा॒त्रेण॑ यजेत यजेत द्वादशरा॒त्रेण॑ द्वादशरा॒त्रेण॑ यजेत । 26) द्वा॒द॒श॒रा॒त्रेणेति॑ द्वादश - रा॒त्रेण॑ । 27) य॒जे॒त॒ प्र प्र य॑जेत यजेत॒ प्र । 28) प्रैवैव प्र प्रैव । 29) ए॒व जा॑यते जायत ए॒वैव जा॑यते । 30) जा॒य॒ते॒ ब्र॒ह्म॒वा॒दिनो᳚ ब्रह्मवा॒दिनो॑ जायते जायते ब्रह्मवा॒दिनः॑ । 31) ब्र॒ह्म॒वा॒दिनो॑ वदन्ति वदन्ति ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिनो॑ वदन्ति । 31) ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । 32) व॒द॒ न्त्य॒ग्नि॒ष्टो॒मप्रा॑यणा अग्निष्टो॒मप्रा॑यणा वदन्ति वद न्त्यग्निष्टो॒मप्रा॑यणाः । 33) अ॒ग्नि॒ष्टो॒मप्रा॑यणा य॒ज्ञा य॒ज्ञा अ॑ग्निष्टो॒मप्रा॑यणा अग्निष्टो॒मप्रा॑यणा य॒ज्ञाः । 33) अ॒ग्नि॒ष्टो॒मप्रा॑यणा॒ इत्य॑ग्निष्टो॒म - प्रा॒य॒णाः॒ । 34) य॒ज्ञा अथाथ॑ य॒ज्ञा य॒ज्ञा अथ॑ । 35) अथ॒ कस्मा॒-त्कस्मा॒ दथाथ॒ कस्मा᳚त् । 36) कस्मा॑ दतिरा॒त्रो॑ ऽतिरा॒त्रः कस्मा॒-त्कस्मा॑ दतिरा॒त्रः । 37) अ॒ति॒रा॒त्रः पूर्वः॒ पूर्वो॑ ऽतिरा॒त्रो॑ ऽतिरा॒त्रः पूर्वः॑ । 37) अ॒ति॒रा॒त्र इत्य॑ति - रा॒त्रः । 38) पूर्वः॒ प्र प्र पूर्वः॒ पूर्वः॒ प्र । 39) प्र यु॑ज्यते युज्यते॒ प्र प्र यु॑ज्यते । 40) यु॒ज्य॒त॒ इतीति॑ युज्यते युज्यत॒ इति॑ । 41) इति॒ चक्षु॑षी॒ चक्षु॑षी॒ इतीति॒ चक्षु॑षी । 42) चक्षु॑षी॒ वै वै चक्षु॑षी॒ चक्षु॑षी॒ वै । 42) चक्षु॑षी॒ इति॒ चक्षु॑षी । 43) वा ए॒ते ए॒ते वै वा ए॒ते । 44) ए॒ते य॒ज्ञस्य॑ य॒ज्ञस्यै॒ते ए॒ते य॒ज्ञस्य॑ । 44) ए॒ते इत्ये॒ते । 45) य॒ज्ञस्य॒ य-द्य-द्य॒ज्ञस्य॑ य॒ज्ञस्य॒ यत् । 46) यद॑तिरा॒त्रा व॑तिरा॒त्रौ य-द्यद॑तिरा॒त्रौ । 47) अ॒ति॒रा॒त्रौ क॒नीनि॑के क॒नीनि॑के अतिरा॒त्रा व॑तिरा॒त्रौ क॒नीनि॑के । 47) अ॒ति॒रा॒त्रावित्य॑ति - रा॒त्रौ । 48) क॒नीनि॑के अग्निष्टो॒मा व॑ग्निष्टो॒मौ क॒नीनि॑के क॒नीनि॑के अग्निष्टो॒मौ । 48) क॒नीनि॑के॒ इति॑ क॒नीनि॑के । 49) अ॒ग्नि॒ष्टो॒मौ य-द्यद॑ग्निष्टो॒मा व॑ग्निष्टो॒मौ यत् । 49) अ॒ग्नि॒ष्टो॒मावित्य॑ग्नि - स्तो॒मौ । 50) यद॑ग्निष्टो॒म म॑ग्निष्टो॒मं-यँ-द्यद॑ग्निष्टो॒मम् । ॥ 34 ॥ (50/61)
1) अ॒ग्नि॒ष्टो॒म-म्पूर्व॒-म्पूर्व॑ मग्निष्टो॒म म॑ग्निष्टो॒म-म्पूर्व᳚म् । 1) अ॒ग्नि॒ष्टो॒ममित्य॑ग्नि - स्तो॒मम् । 2) पूर्व॑-म्प्रयुञ्जी॒र-न्प्र॑युञ्जी॒र-न्पूर्व॒-म्पूर्व॑-म्प्रयुञ्जी॒रन्न् । 3) प्र॒यु॒ञ्जी॒र-न्ब॑हि॒र्धा ब॑हि॒र्धा प्र॑युञ्जी॒र-न्प्र॑युञ्जी॒र-न्ब॑हि॒र्धा । 3) प्र॒यु॒ञ्जी॒रन्निति॑ प्र - यु॒ञ्जी॒रन्न् । 4) ब॒हि॒र्धा क॒नीनि॑के क॒नीनि॑के बहि॒र्धा ब॑हि॒र्धा क॒नीनि॑के । 4) ब॒हि॒र्धेति॑ बहिः - धा । 5) क॒नीनि॑के दद्ध्यु-र्दद्ध्युः क॒नीनि॑के क॒नीनि॑के दद्ध्युः । 5) क॒नीनि॑के॒ इति॑ क॒नीनि॑के । 6) द॒द्ध्यु॒ स्तस्मा॒-त्तस्मा᳚-द्दद्ध्यु-र्दद्ध्यु॒ स्तस्मा᳚त् । 7) तस्मा॑ दतिरा॒त्रो॑ ऽतिरा॒त्र स्तस्मा॒-त्तस्मा॑ दतिरा॒त्रः । 8) अ॒ति॒रा॒त्रः पूर्वः॒ पूर्वो॑ ऽतिरा॒त्रो॑ ऽतिरा॒त्रः पूर्वः॑ । 8) अ॒ति॒रा॒त्र इत्य॑ति - रा॒त्रः । 9) पूर्वः॒ प्र प्र पूर्वः॒ पूर्वः॒ प्र । 10) प्र यु॑ज्यते युज्यते॒ प्र प्र यु॑ज्यते । 11) यु॒ज्य॒ते॒ चक्षु॑षी॒ चक्षु॑षी युज्यते युज्यते॒ चक्षु॑षी । 12) चक्षु॑षी ए॒वैव चक्षु॑षी॒ चक्षु॑षी ए॒व । 12) चक्षु॑षी॒ इति॒ चक्षु॑षी । 13) ए॒व य॒ज्ञे य॒ज्ञ ए॒वैव य॒ज्ञे । 14) य॒ज्ञे धि॒त्वा धि॒त्वा य॒ज्ञे य॒ज्ञे धि॒त्वा । 15) धि॒त्वा म॑द्ध्य॒तो म॑द्ध्य॒तो धि॒त्वा धि॒त्वा म॑द्ध्य॒तः । 16) म॒द्ध्य॒तः क॒नीनि॑के क॒नीनि॑के मद्ध्य॒तो म॑द्ध्य॒तः क॒नीनि॑के । 17) क॒नीनि॑के॒ प्रति॒ प्रति॑ क॒नीनि॑के क॒नीनि॑के॒ प्रति॑ । 17) क॒नीनि॑के॒ इति॑ क॒नीनि॑के । 18) प्रति॑ दधति दधति॒ प्रति॒ प्रति॑ दधति । 19) द॒ध॒ति॒ यो यो द॑धति दधति॒ यः । 20) यो वै वै यो यो वै । 21) वै गा॑य॒त्री-ङ्गा॑य॒त्रीं-वैँ वै गा॑य॒त्रीम् । 22) गा॒य॒त्री-ञ्ज्योतिः॑पक्षा॒-ञ्ज्योतिः॑पक्षा-ङ्गाय॒त्री-ङ्गा॑य॒त्री-ञ्ज्योतिः॑पक्षाम् । 23) ज्योतिः॑पक्षां॒-वेँद॒ वेद॒ ज्योतिः॑पक्षा॒-ञ्ज्योतिः॑पक्षां॒-वेँद॑ । 23) ज्योतिः॑पक्षा॒मिति॒ ज्योतिः॑ - प॒क्षा॒म् । 24) वेद॒ ज्योति॑षा॒ ज्योति॑षा॒ वेद॒ वेद॒ ज्योति॑षा । 25) ज्योति॑षा भा॒सा भा॒सा ज्योति॑षा॒ ज्योति॑षा भा॒सा । 26) भा॒सा सु॑व॒र्गग्ं सु॑व॒र्ग-म्भा॒सा भा॒सा सु॑व॒र्गम् । 27) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् । 27) सु॒व॒र्गमिति॑ सुवः - गम् । 28) लो॒क मे᳚त्येति लो॒कम् ँलो॒क मे॑ति । 29) ए॒ति॒ यौ या वे᳚त्येति॒ यौ । 30) या व॑ग्निष्टो॒मा व॑ग्निष्टो॒मौ यौ या व॑ग्निष्टो॒मौ । 31) अ॒ग्नि॒ष्टो॒मौ तौ ता व॑ग्निष्टो॒मा व॑ग्निष्टो॒मौ तौ । 31) अ॒ग्नि॒ष्टो॒मावित्य॑ग्नि - स्तो॒मौ । 32) तौ प॒क्षौ प॒क्षौ तौ तौ प॒क्षौ । 33) प॒क्षौ ये ये प॒क्षौ प॒क्षौ ये । 34) ये ऽन्त॒रे ऽन्त॑रे॒ ये ये ऽन्त॑रे । 35) अन्त॑रे॒ ऽष्टा व॒ष्टा वन्त॒रे ऽन्त॑रे॒ ऽष्टौ । 36) अ॒ष्टा वु॒क्थ्या॑ उ॒क्थ्या॑ अ॒ष्टा व॒ष्टा वु॒क्थ्याः᳚ । 37) उ॒क्थ्या᳚-स्स स उ॒क्थ्या॑ उ॒क्थ्या᳚-स्सः । 38) स आ॒त्मा ऽऽत्मा स स आ॒त्मा । 39) आ॒त्मै षैषा ऽऽत्मा ऽऽत्मैषा । 40) ए॒षा वै वा ए॒षैषा वै । 41) वै गा॑य॒त्री गा॑य॒त्री वै वै गा॑य॒त्री । 42) गा॒य॒त्री ज्योतिः॑पक्षा॒ ज्योतिः॑पक्षा गाय॒त्री गा॑य॒त्री ज्योतिः॑पक्षा । 43) ज्योतिः॑पक्षा॒ यो यो ज्योतिः॑पक्षा॒ ज्योतिः॑पक्षा॒ यः । 43) ज्योतिः॑प॒क्षेति॒ ज्योतिः॑ - प॒क्षा॒ । 44) य ए॒व मे॒वं-योँ य ए॒वम् । 45) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ । 46) वेद॒ ज्योति॑षा॒ ज्योति॑षा॒ वेद॒ वेद॒ ज्योति॑षा । 47) ज्योति॑षा भा॒सा भा॒सा ज्योति॑षा॒ ज्योति॑षा भा॒सा । 48) भा॒सा सु॑व॒र्गग्ं सु॑व॒र्ग-म्भा॒सा भा॒सा सु॑व॒र्गम् । 49) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् । 49) सु॒व॒र्गमिति॑ सुवः - गम् । 50) लो॒क मे᳚त्येति लो॒कम् ँलो॒क मे॑ति । ॥ 35 ॥ (50/62)
1) ए॒ति॒ प्र॒जाप॑तिः प्र॒जाप॑ति रेत्येति प्र॒जाप॑तिः । 2) प्र॒जाप॑ति॒-र्वै वै प्र॒जाप॑तिः प्र॒जाप॑ति॒-र्वै । 2) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 3) वा ए॒ष ए॒ष वै वा ए॒षः । 4) ए॒ष द्वा॑दश॒धा द्वा॑दश॒ धैष ए॒ष द्वा॑दश॒धा । 5) द्वा॒द॒श॒धा विहि॑तो॒ विहि॑तो द्वादश॒धा द्वा॑दश॒धा विहि॑तः । 5) द्वा॒द॒श॒धेति॑ द्वादश - धा । 6) विहि॑तो॒ य-द्य-द्विहि॑तो॒ विहि॑तो॒ यत् । 6) विहि॑त॒ इति॒ वि - हि॒तः॒ । 7) य-द्द्वा॑दशरा॒त्रो द्वा॑दशरा॒त्रो य-द्य-द्द्वा॑दशरा॒त्रः । 8) द्वा॒द॒श॒रा॒त्रो यौ यौ द्वा॑दशरा॒त्रो द्वा॑दशरा॒त्रो यौ । 8) द्वा॒द॒श॒रा॒त्र इति॑ द्वादश - रा॒त्रः । 9) या व॑तिरा॒त्रा व॑तिरा॒त्रौ यौ या व॑तिरा॒त्रौ । 10) अ॒ति॒रा॒त्रौ तौ ता व॑तिरा॒त्रा व॑तिरा॒त्रौ तौ । 10) अ॒ति॒रा॒त्रावित्य॑ति - रा॒त्रौ । 11) तौ प॒क्षौ प॒क्षौ तौ तौ प॒क्षौ । 12) प॒क्षौ ये ये प॒क्षौ प॒क्षौ ये । 13) ये ऽन्त॒रे ऽन्त॑रे॒ ये ये ऽन्त॑रे । 14) अन्त॑रे॒ ऽष्टा व॒ष्टा वन्त॒रे ऽन्त॑रे॒ ऽष्टौ । 15) अ॒ष्टा वु॒क्थ्या॑ उ॒क्थ्या॑ अ॒ष्टा व॒ष्टा वु॒क्थ्याः᳚ । 16) उ॒क्थ्या᳚-स्स स उ॒क्थ्या॑ उ॒क्थ्या᳚-स्सः । 17) स आ॒त्मा ऽऽत्मा स स आ॒त्मा । 18) आ॒त्मा प्र॒जाप॑तिः प्र॒जाप॑ति रा॒त्मा ऽऽत्मा प्र॒जाप॑तिः । 19) प्र॒जाप॑ति॒-र्वाव वाव प्र॒जाप॑तिः प्र॒जाप॑ति॒-र्वाव । 19) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 20) वावैष ए॒ष वाव वावैषः । 21) ए॒ष स-न्थ्स-न्ने॒ष ए॒ष सन्न् । 22) स-न्थ्स-थ्स-थ्स-न्थ्स-न्थ्सत् । 23) सद्ध॑ ह॒ स-थ्सद्ध॑ । 24) ह॒ वै वै ह॑ ह॒ वै । 25) वै स॒त्रेण॑ स॒त्रेण॒ वै वै स॒त्रेण॑ । 26) स॒त्रेण॑ स्पृणोति स्पृणोति स॒त्रेण॑ स॒त्रेण॑ स्पृणोति । 27) स्पृ॒णो॒ति॒ प्रा॒णाः प्रा॒णा-स्स्पृ॑णोति स्पृणोति प्रा॒णाः । 28) प्रा॒णा वै वै प्रा॒णाः प्रा॒णा वै । 28) प्रा॒णा इति॑ प्र - अ॒नाः । 29) वै स-थ्स-द्वै वै सत् । 30) स-त्प्रा॒णा-न्प्रा॒णा-न्थ्स-थ्स-त्प्रा॒णान् । 31) प्रा॒णा ने॒वैव प्रा॒णा-न्प्रा॒णा ने॒व । 31) प्रा॒णानिति॑ प्र - अ॒नान् । 32) ए॒व स्पृ॑णोति स्पृणो त्ये॒वैव स्पृ॑णोति । 33) स्पृ॒णो॒ति॒ सर्वा॑सा॒ग्ं॒ सर्वा॑साग् स्पृणोति स्पृणोति॒ सर्वा॑साम् । 34) सर्वा॑सां॒-वैँ वै सर्वा॑सा॒ग्ं॒ सर्वा॑सां॒-वैँ । 35) वा ए॒त ए॒ते वै वा ए॒ते । 36) ए॒ते प्र॒जाना᳚-म्प्र॒जाना॑ मे॒त ए॒ते प्र॒जाना᳚म् । 37) प्र॒जाना᳚-म्प्रा॒णैः प्रा॒णैः प्र॒जाना᳚-म्प्र॒जाना᳚-म्प्रा॒णैः । 37) प्र॒जाना॒मिति॑ प्र - जाना᳚म् । 38) प्रा॒णै रा॑सत आसते प्रा॒णैः प्रा॒णै रा॑सते । 38) प्रा॒णैरिति॑ प्र - अ॒नैः । 39) आ॒स॒ते॒ ये य आ॑सत आसते॒ ये । 40) ये स॒त्रग्ं स॒त्रं-येँ ये स॒त्रम् । 41) स॒त्र मास॑त॒ आस॑ते स॒त्रग्ं स॒त्र मास॑ते । 42) आस॑ते॒ तस्मा॒-त्तस्मा॒ दास॑त॒ आस॑ते॒ तस्मा᳚त् । 43) तस्मा᳚-त्पृच्छन्ति पृच्छन्ति॒ तस्मा॒-त्तस्मा᳚-त्पृच्छन्ति । 44) पृ॒च्छ॒न्ति॒ कि-ङ्कि-म्पृ॑च्छन्ति पृच्छन्ति॒ किम् । 45) किमे॒त ए॒ते कि-ङ्किमे॒ते । 46) ए॒ते स॒त्रिण॑-स्स॒त्रिण॑ ए॒त ए॒ते स॒त्रिणः॑ । 47) स॒त्रिण॒ इतीति॑ स॒त्रिण॑-स्स॒त्रिण॒ इति॑ । 48) इति॑ प्रि॒यः प्रि॒य इतीति॑ प्रि॒यः । 49) प्रि॒यः प्र॒जाना᳚-म्प्र॒जाना᳚-म्प्रि॒यः प्रि॒यः प्र॒जाना᳚म् । 50) प्र॒जाना॒ मुत्थि॑त॒ उत्थि॑तः प्र॒जाना᳚-म्प्र॒जाना॒ मुत्थि॑तः । 50) प्र॒जाना॒मिति॑ प्र - जाना᳚म् । 51) उत्थि॑तो भवति भव॒ त्युत्थि॑त॒ उत्थि॑तो भवति । 51) उत्थि॑त॒ इत्युत् - स्थि॒तः॒ । 52) भ॒व॒ति॒ यो यो भ॑वति भवति॒ यः । 53) य ए॒व मे॒वं-योँ य ए॒वम् । 54) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ । 55) वेदेति॒ वेद॑ । ॥ 36 ॥ (55/67) ॥ अ. 9 ॥
1) न वै वै न न वै । 2) वा ए॒ष ए॒ष वै वा ए॒षः । 3) ए॒षो᳚ ऽन्यतो॑वैश्वानरो॒ ऽन्यतो॑वैश्वानर ए॒ष ए॒षो᳚ ऽन्यतो॑वैश्वानरः । 4) अ॒न्यतो॑वैश्वानर-स्सुव॒र्गाय॑ सुव॒र्गाया॒ न्यतो॑वैश्वानरो॒ ऽन्यतो॑वैश्वानर-स्सुव॒र्गाय॑ । 4) अ॒न्यतो॑वैश्वानर॒ इत्य॒न्यतः॑ - वै॒श्वा॒न॒रः॒ । 5) सु॒व॒र्गाय॑ लो॒काय॑ लो॒काय॑ सुव॒र्गाय॑ सुव॒र्गाय॑ लो॒काय॑ । 5) सु॒व॒र्गायेति॑ सुवः - गाय॑ । 6) लो॒काय॒ प्र प्र लो॒काय॑ लो॒काय॒ प्र । 7) प्राभ॑व दभव॒-त्प्र प्राभ॑वत् । 8) अ॒भ॒व॒ दू॒र्ध्व ऊ॒र्ध्वो॑ ऽभव दभव दू॒र्ध्वः । 9) ऊ॒र्ध्वो ह॑ हो॒र्ध्व ऊ॒र्ध्वो ह॑ । 10) ह॒ वै वै ह॑ ह॒ वै । 11) वा ए॒ष ए॒ष वै वा ए॒षः । 12) ए॒ष आत॑त॒ आत॑त ए॒ष ए॒ष आत॑तः । 13) आत॑त आसी दासी॒ दात॑त॒ आत॑त आसीत् । 13) आत॑त॒ इत्या - त॒तः॒ । 14) आ॒सी॒-त्ते त आ॑सी दासी॒-त्ते । 15) ते दे॒वा दे॒वा स्ते ते दे॒वाः । 16) दे॒वा ए॒त मे॒त-न्दे॒वा दे॒वा ए॒तम् । 17) ए॒तं-वैँ᳚श्वान॒रं-वैँ᳚श्वान॒र मे॒त मे॒तं-वैँ᳚श्वान॒रम् । 18) वै॒श्वा॒न॒र-म्परि॒ परि॑ वैश्वान॒रं-वैँ᳚श्वान॒र-म्परि॑ । 19) पर्यौ॑ह-न्नौह॒-न्परि॒ पर्यौ॑हन्न् । 20) औ॒ह॒-न्थ्सु॒व॒र्गस्य॑ सुव॒र्ग स्यौ॑ह-न्नौह-न्थ्सुव॒र्गस्य॑ । 21) सु॒व॒र्गस्य॑ लो॒कस्य॑ लो॒कस्य॑ सुव॒र्गस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ । 21) सु॒व॒र्गस्येति॑ सुवः - गस्य॑ । 22) लो॒कस्य॒ प्रभू᳚त्यै॒ प्रभू᳚त्यै लो॒कस्य॑ लो॒कस्य॒ प्रभू᳚त्यै । 23) प्रभू᳚त्या ऋ॒तव॑ ऋ॒तवः॒ प्रभू᳚त्यै॒ प्रभू᳚त्या ऋ॒तवः॑ । 23) प्रभू᳚त्या॒ इति॒ प्र - भू॒त्यै॒ । 24) ऋ॒तवो॒ वै वा ऋ॒तव॑ ऋ॒तवो॒ वै । 25) वा ए॒ते नै॒तेन॒ वै वा ए॒तेन॑ । 26) ए॒तेन॑ प्र॒जाप॑ति-म्प्र॒जाप॑ति मे॒ते नै॒तेन॑ प्र॒जाप॑तिम् । 27) प्र॒जाप॑ति मयाजय-न्नयाजय-न्प्र॒जाप॑ति-म्प्र॒जाप॑ति मयाजयन्न् । 27) प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् । 28) अ॒या॒ज॒य॒-न्तेषु॒ तेष्व॑याजय-न्नयाजय॒-न्तेषु॑ । 29) तेष्वा᳚ र्ध्नो दार्ध्नो॒-त्तेषु॒ तेष्वा᳚ र्ध्नोत् । 30) आ॒र्ध्नो॒ दध्यध्या᳚ र्ध्नो दार्ध्नो॒ दधि॑ । 31) अधि॒ त-त्तदध्यधि॒ तत् । 32) तदृ॒द्ध्नो त्यृ॒द्ध्नोति॒ त-त्तदृ॒द्ध्नोति॑ । 33) ऋ॒द्ध्नोति॑ ह ह॒ र्द्ध्नो त्यृ॒द्ध्नोति॑ ह । 34) ह॒ वै वै ह॑ ह॒ वै । 35) वा ऋ॒त्विक् ष्वृ॒त्विक्षु॒ वै वा ऋ॒त्विक्षु॑ । 36) ऋ॒त्विक्षु॒ यो य ऋ॒त्विक् ष्वृ॒त्विक्षु॒ यः । 37) य ए॒व मे॒वं-योँ य ए॒वम् । 38) ए॒वं-विँ॒द्वान्. वि॒द्वा ने॒व मे॒वं-विँ॒द्वान् । 39) वि॒द्वा-न्द्वा॑दशा॒हेन॑ द्वादशा॒हेन॑ वि॒द्वान्. वि॒द्वा-न्द्वा॑दशा॒हेन॑ । 40) द्वा॒द॒शा॒हेन॒ यज॑ते॒ यज॑ते द्वादशा॒हेन॑ द्वादशा॒हेन॒ यज॑ते । 40) द्वा॒द॒शा॒हेनेति॑ द्वादश - अ॒हेन॑ । 41) यज॑ते॒ ते ते यज॑ते॒ यज॑ते॒ ते । 42) ते᳚ ऽस्मि-न्नस्मि॒-न्ते ते᳚ ऽस्मिन्न् । 43) अ॒स्मि॒-न्नै॒च्छ॒-न्तै॒च्छ॒-न्ता॒स्मि॒-न्न॒स्मि॒-न्नै॒च्छ॒न्त॒ । 44) ऐ॒च्छ॒न्त॒ स स ऐ᳚च्छ-न्तैच्छन्त॒ सः । 45) स रस॒ग्ं॒ रस॒ग्ं॒ स स रस᳚म् । 46) रस॒ महाह॒ रस॒ग्ं॒ रस॒ मह॑ । 47) अह॑ वस॒न्ताय॑ वस॒न्ताया हाह॑ वस॒न्ताय॑ । 48) व॒स॒न्ताय॒ प्र प्र व॑स॒न्ताय॑ वस॒न्ताय॒ प्र । 49) प्राय॑च्छ॒ दय॑च्छ॒-त्प्र प्राय॑च्छत् । 50) अय॑च्छ॒-द्यवं॒-यँव॒ मय॑च्छ॒ दय॑च्छ॒-द्यव᳚म् । ॥ 37 ॥ (50/57)
1) यव॑-ङ्ग्री॒ष्माय॑ ग्री॒ष्माय॒ यवं॒-यँव॑-ङ्ग्री॒ष्माय॑ । 2) ग्री॒ष्मा यौष॑धी॒ रोष॑धी-र्ग्री॒ष्माय॑ ग्री॒ष्मा यौष॑धीः । 3) ओष॑धी-र्व॒र्॒षाभ्यो॑ व॒र्॒षाभ्य॒ ओष॑धी॒ रोष॑धी-र्व॒र्॒षाभ्यः॑ । 4) व॒र्॒षाभ्यो᳚ व्री॒हीन् व्री॒हीन्. व॒र्॒षाभ्यो॑ व॒र्॒षाभ्यो᳚ व्री॒हीन् । 5) व्री॒ही-ञ्छ॒रदे॑ श॒रदे᳚ व्री॒हीन् व्री॒ही-ञ्छ॒रदे᳚ । 6) श॒रदे॑ माषति॒लौ मा॑षति॒लौ श॒रदे॑ श॒रदे॑ माषति॒लौ । 7) मा॒ष॒ति॒लौ हे॑मन्तशिशि॒राभ्याग्ं॑ हेमन्तशिशि॒राभ्या᳚-म्माषति॒लौ मा॑षति॒लौ हे॑मन्तशिशि॒राभ्या᳚म् । 7) मा॒ष॒ति॒लाविति॑ माष - ति॒लौ । 8) हे॒म॒न्त॒शि॒शि॒राभ्या॒-न्तेन॒ तेन॑ हेमन्तशिशि॒राभ्याग्ं॑ हेमन्तशिशि॒राभ्या॒-न्तेन॑ । 8) हे॒म॒न्त॒शि॒शि॒राभ्या॒मिति॑ हेमन्त - शि॒शि॒राभ्या᳚म् । 9) तेनेन्द्र॒ मिन्द्र॒-न्तेन॒ तेनेन्द्र᳚म् । 10) इन्द्र॑-म्प्र॒जाप॑तिः प्र॒जाप॑ति॒ रिन्द्र॒ मिन्द्र॑-म्प्र॒जाप॑तिः । 11) प्र॒जाप॑ति रयाजय दयाजय-त्प्र॒जाप॑तिः प्र॒जाप॑ति रयाजयत् । 11) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 12) अ॒या॒ज॒य॒-त्तत॒ स्ततो॑ ऽयाजय दयाजय॒-त्ततः॑ । 13) ततो॒ वै वै तत॒ स्ततो॒ वै । 14) वा इन्द्र॒ इन्द्रो॒ वै वा इन्द्रः॑ । 15) इन्द्र॒ इन्द्रः॑ । 16) इन्द्रो॑ ऽभव दभव॒ दिन्द्र॒ इन्द्रो॑ ऽभवत् । 17) अ॒भ॒व॒-त्तस्मा॒-त्तस्मा॑ दभव दभव॒-त्तस्मा᳚त् । 18) तस्मा॑ दाहु राहु॒ स्तस्मा॒-त्तस्मा॑ दाहुः । 19) आ॒हु॒ रा॒नु॒जा॒व॒रस्या॑ नुजाव॒रस्या॑हु राहु रानुजाव॒रस्य॑ । 20) आ॒नु॒जा॒व॒रस्य॑ य॒ज्ञो य॒ज्ञ आ॑नुजाव॒रस्या॑ नुजाव॒रस्य॑ य॒ज्ञः । 20) आ॒नु॒जा॒व॒रस्येत्या॑नु - जा॒व॒रस्य॑ । 21) य॒ज्ञ इतीति॑ य॒ज्ञो य॒ज्ञ इति॑ । 22) इति॒ स स इतीति॒ सः । 23) स हि हि स स हि । 24) ह्ये॑ते नै॒तेन॒ हि ह्ये॑तेन॑ । 25) ए॒ते नाग्रे ऽग्र॑ ए॒ते नै॒तेनाग्रे᳚ । 26) अग्रे ऽय॑ज॒ता य॑ज॒ ताग्रे ऽग्रे ऽय॑जत । 27) अय॑ज तै॒ष ए॒षो ऽय॑ज॒ता य॑ज तै॒षः । 28) ए॒ष ह॑ है॒ष ए॒ष ह॑ । 29) ह॒ वै वै ह॑ ह॒ वै । 30) वै कु॒णप॑-ङ्कु॒णपं॒-वैँ वै कु॒णप᳚म् । 31) कु॒णप॑ मत्त्यत्ति कु॒णप॑-ङ्कु॒णप॑ मत्ति । 32) अ॒त्ति॒ यो यो᳚ ऽत्त्यत्ति॒ यः । 33) य-स्स॒त्रे स॒त्रे यो य-स्स॒त्रे । 34) स॒त्रे प्र॑तिगृ॒ह्णाति॑ प्रतिगृ॒ह्णाति॑ स॒त्रे स॒त्रे प्र॑तिगृ॒ह्णाति॑ । 35) प्र॒ति॒गृ॒ह्णाति॑ पुरुषकुण॒प-म्पु॑रुषकुण॒प-म्प्र॑तिगृ॒ह्णाति॑ प्रतिगृ॒ह्णाति॑ पुरुषकुण॒पम् । 35) प्र॒ति॒गृ॒ह्णातीति॑ प्रति - गृ॒ह्णाति॑ । 36) पु॒रु॒ष॒कु॒ण॒प म॑श्वकुण॒प म॑श्वकुण॒प-म्पु॑रुषकुण॒प-म्पु॑रुषकुण॒प म॑श्वकुण॒पम् । 36) पु॒रु॒ष॒कु॒ण॒पमिति॑ पुरुष - कु॒ण॒पम् । 37) अ॒श्व॒कु॒ण॒प-ङ्गौ-र्गौ र॑श्वकुण॒प म॑श्वकुण॒प-ङ्गौः । 37) अ॒श्व॒कु॒ण॒पमित्य॑श्व - कु॒ण॒पम् । 38) गौ-र्वै वै गौ-र्गौ-र्वै । 39) वा अन्न॒ मन्नं॒-वैँ वा अन्न᳚म् । 40) अन्नं॒-येँन॒ येनान्न॒ मन्नं॒-येँन॑ । 41) येन॒ पात्रे॑ण॒ पात्रे॑ण॒ येन॒ येन॒ पात्रे॑ण । 42) पात्रे॒ णान्न॒ मन्न॒-म्पात्रे॑ण॒ पात्रे॒ णान्न᳚म् । 43) अन्न॒-म्बिभ्र॑ति॒ बिभ्र॒ त्यन्न॒ मन्न॒-म्बिभ्र॑ति । 44) बिभ्र॑ति॒ य-द्य-द्बिभ्र॑ति॒ बिभ्र॑ति॒ यत् । 45) य-त्त-त्त-द्य-द्य-त्तत् । 46) त-न्न न त-त्त-न्न । 47) न नि॒र्णेनि॑जति नि॒र्णेनि॑जति॒ न न नि॒र्णेनि॑जति । 48) नि॒र्णेनि॑जति॒ तत॒ स्ततो॑ नि॒र्णेनि॑जति नि॒र्णेनि॑जति॒ ततः॑ । 48) नि॒र्णेनि॑ज॒तीति॑ निः - नेनि॑जति । 49) ततो ऽध्यधि॒ तत॒ स्ततो ऽधि॑ । 50) अधि॒ मल॒-म्मल॒ मध्यधि॒ मल᳚म् । ॥ 38 ॥ (50/58)
1) मल॑-ञ्जायते जायते॒ मल॒-म्मल॑-ञ्जायते । 2) जा॒य॒त॒ एक॒ एको॑ जायते जायत॒ एकः॑ । 3) एक॑ ए॒वै वैक॒ एक॑ ए॒व । 4) ए॒व य॑जेत यजेतै॒वैव य॑जेत । 5) य॒जे॒तैक॒ एको॑ यजेत यजे॒तैकः॑ । 6) एको॒ हि ह्येक॒ एको॒ हि । 7) हि प्र॒जाप॑तिः प्र॒जाप॑ति॒र्॒ हि हि प्र॒जाप॑तिः । 8) प्र॒जाप॑ति॒ रार्ध्नो॒ दार्ध्नो᳚-त्प्र॒जाप॑तिः प्र॒जाप॑ति॒ रार्ध्नो᳚त् । 8) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 9) आर्ध्नो॒-द्द्वाद॑श॒ द्वाद॒शा र्ध्नो॒ दार्ध्नो॒-द्द्वाद॑श । 10) द्वाद॑श॒ रात्री॒ रात्री॒-र्द्वाद॑श॒ द्वाद॑श॒ रात्रीः᳚ । 11) रात्री᳚-र्दीक्षि॒तो दी᳚क्षि॒तो रात्री॒ रात्री᳚-र्दीक्षि॒तः । 12) दी॒क्षि॒त-स्स्या᳚-थ्स्या-द्दीक्षि॒तो दी᳚क्षि॒त-स्स्या᳚त् । 13) स्या॒-द्द्वाद॑श॒ द्वाद॑श स्या-थ्स्या॒-द्द्वाद॑श । 14) द्वाद॑श॒ मासा॒ मासा॒ द्वाद॑श॒ द्वाद॑श॒ मासाः᳚ । 15) मासा᳚-स्संवँथ्स॒र-स्सं॑वँथ्स॒रो मासा॒ मासा᳚-स्संवँथ्स॒रः । 16) सं॒वँ॒थ्स॒र-स्सं॑वँथ्स॒रः । 16) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः । 17) सं॒वँ॒थ्स॒रः प्र॒जाप॑तिः प्र॒जाप॑ति-स्संवँथ्स॒र-स्सं॑वँथ्स॒रः प्र॒जाप॑तिः । 17) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः । 18) प्र॒जाप॑तिः प्र॒जाप॑तिः । 18) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 19) प्र॒जाप॑ति॒-र्वाव वाव प्र॒जाप॑तिः प्र॒जाप॑ति॒-र्वाव । 19) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 20) वावैष ए॒ष वाव वावैषः । 21) ए॒ष ए॒षः । 22) ए॒ष ह॑ है॒ष ए॒ष ह॑ । 23) ह॒ तु तु ह॑ ह॒ तु । 24) त्वै वै तु त्वै । 25) वै जा॑यते जायते॒ वै वै जा॑यते । 26) जा॒य॒ते॒ यो यो जा॑यते जायते॒ यः । 27) यस्तप॑स॒ स्तप॑सो॒ यो यस्तप॑सः । 28) तप॒सो ऽध्यधि॒ तप॑स॒ स्तप॒सो ऽधि॑ । 29) अधि॒ जाय॑ते॒ जाय॒ते ऽध्यधि॒ जाय॑ते । 30) जाय॑ते चतु॒र्धा च॑तु॒र्धा जाय॑ते॒ जाय॑ते चतु॒र्धा । 31) च॒तु॒र्धा वै वै च॑तु॒र्धा च॑तु॒र्धा वै । 31) च॒तु॒र्धेति॑ चतुः - धा । 32) वा ए॒ता ए॒ता वै वा ए॒ताः । 33) ए॒ता स्ति॒स्रस्ति॑स्र स्ति॒स्रस्ति॑स्र ए॒ता ए॒ता स्ति॒स्रस्ति॑स्रः । 34) ति॒स्रस्ति॑स्रो॒ रात्र॑यो॒ रात्र॑य स्ति॒स्रस्ति॑स्र स्ति॒स्रस्ति॑स्रो॒ रात्र॑यः । 34) ति॒स्रस्ति॑स्र॒ इति॑ ति॒स्रः - ति॒स्रः॒ । 35) रात्र॑यो॒ य-द्य-द्रात्र॑यो॒ रात्र॑यो॒ यत् । 36) य-द्द्वाद॑श॒ द्वाद॑श॒ य-द्य-द्द्वाद॑श । 37) द्वाद॑शोप॒सद॑ उप॒सदो॒ द्वाद॑श॒ द्वाद॑शोप॒सदः॑ । 38) उ॒प॒सदो॒ या या उ॑प॒सद॑ उप॒सदो॒ याः । 38) उ॒प॒सद॒ इत्यु॑प - सदः॑ । 39) याः प्र॑थ॒माः प्र॑थ॒मा या याः प्र॑थ॒माः । 40) प्र॒थ॒मा य॒ज्ञं-यँ॒ज्ञ-म्प्र॑थ॒माः प्र॑थ॒मा य॒ज्ञम् । 41) य॒ज्ञ-न्ताभि॒ स्ताभि॑-र्य॒ज्ञं-यँ॒ज्ञ-न्ताभिः॑ । 42) ताभि॒-स्सग्ं स-न्ताभि॒ स्ताभि॒-स्सम् । 43) स-म्भ॑रति भरति॒ सग्ं स-म्भ॑रति । 44) भ॒र॒ति॒ या या भ॑रति भरति॒ याः । 45) या द्वि॒तीया᳚ द्वि॒तीया॒ या या द्वि॒तीयाः᳚ । 46) द्वि॒तीया॑ य॒ज्ञं-यँ॒ज्ञ-न्द्वि॒तीया᳚ द्वि॒तीया॑ य॒ज्ञम् । 47) य॒ज्ञ-न्ताभि॒ स्ताभि॑-र्य॒ज्ञं-यँ॒ज्ञ-न्ताभिः॑ । 48) ताभि॒रा ताभि॒ स्ताभि॒रा । 49) आ र॑भते रभत॒ आ र॑भते । 50) र॒भ॒ते॒ या या र॑भते रभते॒ याः । ॥ 39 ॥ (50/58)
1) यास्तृ॒तीया᳚ स्तृ॒तीया॒ या यास्तृ॒तीयाः᳚ । 2) तृ॒तीयाः॒ पात्रा॑णि॒ पात्रा॑णि तृ॒तीया᳚ स्तृ॒तीयाः॒ पात्रा॑णि । 3) पात्रा॑णि॒ ताभि॒ स्ताभिः॒ पात्रा॑णि॒ पात्रा॑णि॒ ताभिः॑ । 4) ताभि॒-र्नि-र्णिष् टाभि॒ स्ताभि॒-र्निः । 5) नि-र्णे॑निक्ते नेनिक्ते॒ नि-र्णि-र्णे॑निक्ते । 6) ने॒नि॒क्ते॒ या या ने॑निक्ते नेनिक्ते॒ याः । 7) याश्च॑तु॒र्थी श्च॑तु॒र्थी-र्या याश्च॑तु॒र्थीः । 8) च॒तु॒र्थी रप्यपि॑ चतु॒र्थी श्च॑तु॒र्थी रपि॑ । 9) अपि॒ ताभि॒ स्ताभि॒ रप्यपि॒ ताभिः॑ । 10) ताभि॑ रा॒त्मान॑ मा॒त्मान॒-न्ताभि॒ स्ताभि॑ रा॒त्मान᳚म् । 11) आ॒त्मान॑ मन्तर॒तो᳚ ऽन्तर॒त आ॒त्मान॑ मा॒त्मान॑ मन्तर॒तः । 12) अ॒न्त॒र॒त-श्शु॑न्धते शुन्धते ऽन्तर॒तो᳚ ऽन्तर॒त-श्शु॑न्धते । 13) शु॒न्ध॒ते॒ यो य-श्शु॑न्धते शुन्धते॒ यः । 14) यो वै वै यो यो वै । 15) वा अ॑स्यास्य॒ वै वा अ॑स्य । 16) अ॒स्य॒ प॒शु-म्प॒शु म॑स्यास्य प॒शुम् । 17) प॒शु मत्त्यत्ति॑ प॒शु-म्प॒शु मत्ति॑ । 18) अत्ति॑ मा॒ग्ं॒स-म्मा॒ग्ं॒स मत्त्यत्ति॑ मा॒ग्ं॒सम् । 19) मा॒ग्ं॒सग्ं स स मा॒ग्ं॒स-म्मा॒ग्ं॒सग्ं सः । 20) सो᳚ ऽत्त्यत्ति॒ स सो᳚ ऽत्ति । 21) अ॒त्ति॒ यो यो᳚ ऽत्त्यत्ति॒ यः । 22) यः पु॑रो॒डाश॑-म्पुरो॒डाशं॒-योँ यः पु॑रो॒डाश᳚म् । 23) पु॒रो॒डाश॑-म्म॒स्तिष्क॑-म्म॒स्तिष्क॑-म्पुरो॒डाश॑-म्पुरो॒डाश॑-म्म॒स्तिष्क᳚म् । 24) म॒स्तिष्क॒ग्ं॒ स स म॒स्तिष्क॑-म्म॒स्तिष्क॒ग्ं॒ सः । 25) स यो य-स्स स यः । 26) यः प॑रिवा॒प-म्प॑रिवा॒पं-योँ यः प॑रिवा॒पम् । 27) प॒रि॒वा॒प-म्पुरी॑ष॒-म्पुरी॑ष-म्परिवा॒प-म्प॑रिवा॒प-म्पुरी॑षम् । 27) प॒रि॒वा॒पमिति॑ परि - वा॒पम् । 28) पुरी॑ष॒ग्ं॒ स स पुरी॑ष॒-म्पुरी॑ष॒ग्ं॒ सः । 29) स यो य-स्स स यः । 30) य आज्य॒ माज्यं॒-योँ य आज्य᳚म् । 31) आज्य॑-म्म॒ज्जान॑-म्म॒ज्जान॒ माज्य॒ माज्य॑-म्म॒ज्जान᳚म् । 32) म॒ज्जान॒ग्ं॒ स स म॒ज्जान॑-म्म॒ज्जान॒ग्ं॒ सः । 33) स यो य-स्स स यः । 34) य-स्सोम॒ग्ं॒ सोमं॒-योँ य-स्सोम᳚म् । 35) सोम॒ग्ग्॒ स्वेद॒ग्ग्॒ स्वेद॒ग्ं॒ सोम॒ग्ं॒ सोम॒ग्ग्॒ स्वेद᳚म् । 36) स्वेद॒ग्ं॒ स स स्वेद॒ग्ग्॒ स्वेद॒ग्ं॒ सः । 37) सो ऽप्यपि॒ स सो ऽपि॑ । 38) अपि॑ ह॒ हाप्यपि॑ ह । 39) ह॒ वै वै ह॑ ह॒ वै । 40) वा अ॑स्यास्य॒ वै वा अ॑स्य । 41) अ॒स्य॒ शी॒र्॒ष॒ण्या᳚-श्शीर्ष॒ण्या॑ अस्यास्य शीर्ष॒ण्याः᳚ । 42) शी॒र्॒ष॒ण्या॑ नि॒ष्पदो॑ नि॒ष्पद॑-श्शीर्ष॒ण्या᳚-श्शीर्ष॒ण्या॑ नि॒ष्पदः॑ । 43) नि॒ष्पदः॒ प्रति॒ प्रति॑ नि॒ष्पदो॑ नि॒ष्पदः॒ प्रति॑ । 43) नि॒ष्पद॒ इति॑ निः - पदः॑ । 44) प्रति॑ गृह्णाति गृह्णाति॒ प्रति॒ प्रति॑ गृह्णाति । 45) गृ॒ह्णा॒ति॒ यो यो गृ॑ह्णाति गृह्णाति॒ यः । 46) यो द्वा॑दशा॒हे द्वा॑दशा॒हे यो यो द्वा॑दशा॒हे । 47) द्वा॒द॒शा॒हे प्र॑तिगृ॒ह्णाति॑ प्रतिगृ॒ह्णाति॑ द्वादशा॒हे द्वा॑दशा॒हे प्र॑तिगृ॒ह्णाति॑ । 47) द्वा॒द॒शा॒ह इति॑ द्वादश - अ॒हे । 48) प्र॒ति॒गृ॒ह्णाति॒ तस्मा॒-त्तस्मा᳚-त्प्रतिगृ॒ह्णाति॑ प्रतिगृ॒ह्णाति॒ तस्मा᳚त् । 48) प्र॒ति॒गृ॒ह्णातीति॑ प्रति - गृ॒ह्णाति॑ । 49) तस्मा᳚-द्द्वादशा॒हेन॑ द्वादशा॒हेन॒ तस्मा॒-त्तस्मा᳚-द्द्वादशा॒हेन॑ । 50) द्वा॒द॒शा॒हेन॒ न न द्वा॑दशा॒हेन॑ द्वादशा॒हेन॒ न । 50) द्वा॒द॒शा॒हेनेति॑ द्वादश - अ॒हेन॑ । 51) न याज्यं॒-याँज्य॒-न्न न याज्य᳚म् । 52) याज्य॑-म्पा॒प्मनः॑ पा॒प्मनो॒ याज्यं॒-याँज्य॑-म्पा॒प्मनः॑ । 53) पा॒प्मनो॒ व्यावृ॑त्त्यै॒ व्यावृ॑त्त्यै पा॒प्मनः॑ पा॒प्मनो॒ व्यावृ॑त्त्यै । 54) व्यावृ॑त्त्या॒ इति॑ वि - आवृ॑त्त्यै । ॥ 40 ॥ (54/59) ॥ अ. 10 ॥
1) एक॑स्मै॒ स्वाहा॒ स्वाहै क॑स्मा॒ एक॑स्मै॒ स्वाहा᳚ । 2) स्वाहा॒ द्वाभ्या॒-न्द्वाभ्या॒ग्॒ स्वाहा॒ स्वाहा॒ द्वाभ्या᳚म् । 3) द्वाभ्या॒ग्॒ स्वाहा॒ स्वाहा॒ द्वाभ्या॒-न्द्वाभ्या॒ग्॒ स्वाहा᳚ । 4) स्वाहा᳚ त्रि॒भ्य स्त्रि॒भ्य-स्स्वाहा॒ स्वाहा᳚ त्रि॒भ्यः । 5) त्रि॒भ्य-स्स्वाहा॒ स्वाहा᳚ त्रि॒भ्य स्त्रि॒भ्य-स्स्वाहा᳚ । 5) त्रि॒भ्य इति॑ त्रि - भ्यः । 6) स्वाहा॑ च॒तुर्भ्य॑ श्च॒तुर्भ्य॒-स्स्वाहा॒ स्वाहा॑ च॒तुर्भ्यः॑ । 7) च॒तुर्भ्य॒-स्स्वाहा॒ स्वाहा॑ च॒तुर्भ्य॑ श्च॒तुर्भ्य॒-स्स्वाहा᳚ । 7) च॒तुर्भ्य॒ इति॑ च॒तुः - भ्यः॒ । 8) स्वाहा॑ प॒ञ्चभ्यः॑ प॒ञ्चभ्य॒-स्स्वाहा॒ स्वाहा॑ प॒ञ्चभ्यः॑ । 9) प॒ञ्चभ्य॒-स्स्वाहा॒ स्वाहा॑ प॒ञ्चभ्यः॑ प॒ञ्चभ्य॒-स्स्वाहा᳚ । 9) प॒ञ्चभ्य॒ इति॑ प॒ञ्च - भ्यः॒ । 10) स्वाहा॑ ष॒ड्भ्य ष्ष॒ड्भ्य-स्स्वाहा॒ स्वाहा॑ ष॒ड्भ्यः । 11) ष॒ड्भ्य-स्स्वाहा॒ स्वाहा॑ ष॒ड्भ्य ष्ष॒ड्भ्य-स्स्वाहा᳚ । 11) ष॒ड्भ्य इति॑ षट् - भ्यः । 12) स्वाहा॑ स॒प्तभ्य॑-स्स॒प्तभ्य॒-स्स्वाहा॒ स्वाहा॑ स॒प्तभ्यः॑ । 13) स॒प्तभ्य॒-स्स्वाहा॒ स्वाहा॑ स॒प्तभ्य॑-स्स॒प्तभ्य॒-स्स्वाहा᳚ । 13) स॒प्तभ्य॒ इति॑ स॒प्त - भ्यः॒ । 14) स्वाहा᳚ ऽष्टा॒भ्यो᳚ ऽष्टा॒भ्य-स्स्वाहा॒ स्वाहा᳚ ऽष्टा॒भ्यः । 15) अ॒ष्टा॒भ्य-स्स्वाहा॒ स्वाहा᳚ ऽष्टा॒भ्यो᳚ ऽष्टा॒भ्य-स्स्वाहा᳚ । 16) स्वाहा॑ न॒वभ्यो॑ न॒वभ्य॒-स्स्वाहा॒ स्वाहा॑ न॒वभ्यः॑ । 17) न॒वभ्य॒-स्स्वाहा॒ स्वाहा॑ न॒वभ्यो॑ न॒वभ्य॒-स्स्वाहा᳚ । 17) न॒वभ्य॒ इति॑ न॒व - भ्यः॒ । 18) स्वाहा॑ द॒शभ्यो॑ द॒शभ्य॒-स्स्वाहा॒ स्वाहा॑ द॒शभ्यः॑ । 19) द॒शभ्य॒-स्स्वाहा॒ स्वाहा॑ द॒शभ्यो॑ द॒शभ्य॒-स्स्वाहा᳚ । 19) द॒शभ्य॒ इति॑ द॒श - भ्यः॒ । 20) स्वाहै॑काद॒शभ्य॑ एकाद॒शभ्य॒-स्स्वाहा॒ स्वाहै॑काद॒शभ्यः॑ । 21) ए॒का॒द॒शभ्य॒-स्स्वाहा॒ स्वाहै॑काद॒शभ्य॑ एकाद॒शभ्य॒-स्स्वाहा᳚ । 21) ए॒का॒द॒शभ्य॒ इत्ये॑काद॒श - भ्यः॒ । 22) स्वाहा᳚ द्वाद॒शभ्यो᳚ द्वाद॒शभ्य॒-स्स्वाहा॒ स्वाहा᳚ द्वाद॒शभ्यः॑ । 23) द्वा॒द॒शभ्य॒-स्स्वाहा॒ स्वाहा᳚ द्वाद॒शभ्यो᳚ द्वाद॒शभ्य॒-स्स्वाहा᳚ । 23) द्वा॒द॒शभ्य॒ इति॑ द्वाद॒श - भ्यः॒ । 24) स्वाहा᳚ त्रयोद॒शभ्य॑ स्त्रयोद॒शभ्य॒-स्स्वाहा॒ स्वाहा᳚ त्रयोद॒शभ्यः॑ । 25) त्र॒यो॒द॒शभ्य॒-स्स्वाहा॒ स्वाहा᳚ त्रयोद॒शभ्य॑ स्त्रयोद॒शभ्य॒-स्स्वाहा᳚ । 25) त्र॒यो॒द॒शभ्य॒ इति॑ त्रयोद॒श - भ्यः॒ । 26) स्वाहा॑ चतुर्द॒शभ्य॑ श्चतुर्द॒शभ्य॒-स्स्वाहा॒ स्वाहा॑ चतुर्द॒शभ्यः॑ । 27) च॒तु॒र्द॒शभ्य॒-स्स्वाहा॒ स्वाहा॑ चतुर्द॒शभ्य॑ श्चतुर्द॒शभ्य॒-स्स्वाहा᳚ । 27) च॒तु॒र्द॒शभ्य॒ इति॑ चतुर्द॒श - भ्यः॒ । 28) स्वाहा॑ पञ्चद॒शभ्यः॑ पञ्चद॒शभ्य॒-स्स्वाहा॒ स्वाहा॑ पञ्चद॒शभ्यः॑ । 29) प॒ञ्च॒द॒शभ्य॒-स्स्वाहा॒ स्वाहा॑ पञ्चद॒शभ्यः॑ पञ्चद॒शभ्य॒-स्स्वाहा᳚ । 29) प॒ञ्च॒द॒शभ्य॒ इति॑ पञ्चद॒श - भ्यः॒ । 30) स्वाहा॑ षोड॒शभ्य॑ ष्षोड॒शभ्य॒-स्स्वाहा॒ स्वाहा॑ षोड॒शभ्यः॑ । 31) षो॒ड॒शभ्य॒-स्स्वाहा॒ स्वाहा॑ षोड॒शभ्य॑ ष्षोड॒शभ्य॒-स्स्वाहा᳚ । 31) षो॒ड॒शभ्य॒ इति॑ षोड॒श - भ्यः॒ । 32) स्वाहा॑ सप्तद॒शभ्य॑-स्सप्तद॒शभ्य॒-स्स्वाहा॒ स्वाहा॑ सप्तद॒शभ्यः॑ । 33) स॒प्त॒द॒शभ्य॒-स्स्वाहा॒ स्वाहा॑ सप्तद॒शभ्य॑-स्सप्तद॒शभ्य॒-स्स्वाहा᳚ । 33) स॒प्त॒द॒शभ्य॒ इति॑ सप्तद॒श - भ्यः॒ । 34) स्वाहा᳚ ऽष्टाद॒शभ्यो᳚ ऽष्टाद॒शभ्य॒-स्स्वाहा॒ स्वाहा᳚ ऽष्टाद॒शभ्यः॑ । 35) अ॒ष्टा॒द॒शभ्य॒-स्स्वाहा॒ स्वाहा᳚ ऽष्टाद॒शभ्यो᳚ ऽष्टाद॒शभ्य॒-स्स्वाहा᳚ । 35) अ॒ष्टा॒द॒शभ्य॒ इत्य॑ष्टाद॒श - भ्यः॒ । 36) स्वाहैका॒ देका॒-थ्स्वाहा॒ स्वाहैका᳚त् । 37) एका॒-न्न नैका॒ देका॒-न्न । 38) न विग्ं॑श॒त्यै विग्ं॑श॒त्यै न न विग्ं॑श॒त्यै । 39) वि॒ग्ं॒श॒त्यै स्वाहा॒ स्वाहा॑ विग्ंश॒त्यै विग्ं॑श॒त्यै स्वाहा᳚ । 40) स्वाहा॒ नव॑विग्ंशत्यै॒ नव॑विग्ंशत्यै॒ स्वाहा॒ स्वाहा॒ नव॑विग्ंशत्यै । 41) नव॑विग्ंशत्यै॒ स्वाहा॒ स्वाहा॒ नव॑विग्ंशत्यै॒ नव॑विग्ंशत्यै॒ स्वाहा᳚ । 41) नव॑विग्ंशत्या॒ इति॒ नव॑ - वि॒ग्ं॒श॒त्यै॒ । 42) स्वाहैका॒ देका॒-थ्स्वाहा॒ स्वाहैका᳚त् । 43) एका॒-न्न नैका॒ देका॒-न्न । 44) न च॑त्वारि॒ग्ं॒शते॑ चत्वारि॒ग्ं॒शते॒ न न च॑त्वारि॒ग्ं॒शते᳚ । 45) च॒त्वा॒रि॒ग्ं॒शते॒ स्वाहा॒ स्वाहा॑ चत्वारि॒ग्ं॒शते॑ चत्वारि॒ग्ं॒शते॒ स्वाहा᳚ । 46) स्वाहा॒ नव॑चत्वारिग्ंशते॒ नव॑चत्वारिग्ंशते॒ स्वाहा॒ स्वाहा॒ नव॑चत्वारिग्ंशते । 47) नव॑चत्वारिग्ंशते॒ स्वाहा॒ स्वाहा॒ नव॑चत्वारिग्ंशते॒ नव॑चत्वारिग्ंशते॒ स्वाहा᳚ । 47) नव॑चत्वारिग्ंशत॒ इति॒ नव॑ - च॒त्वा॒रि॒ग्ं॒श॒ते॒ । 48) स्वाहैका॒ देका॒-थ्स्वाहा॒ स्वाहैका᳚त् । 49) एका॒-न्न नैका॒ देका॒-न्न । 50) न ष॒ष्ट्यै ष॒ष्ट्यै न न ष॒ष्ट्यै । 51) ष॒ष्ट्यै स्वाहा॒ स्वाहा॑ ष॒ष्ट्यै ष॒ष्ट्यै स्वाहा᳚ । 52) स्वाहा॒ नव॑षष्ट्यै॒ नव॑षष्ट्यै॒ स्वाहा॒ स्वाहा॒ नव॑षष्ट्यै । 53) नव॑षष्ट्यै॒ स्वाहा॒ स्वाहा॒ नव॑षष्ट्यै॒ नव॑षष्ट्यै॒ स्वाहा᳚ । 53) नव॑षष्ट्या॒ इति॒ नव॑ - ष॒ष्ट्यै॒ । 54) स्वाहैका॒ देका॒-थ्स्वाहा॒ स्वाहैका᳚त् । 55) एका॒-न्न नैका॒ देका॒-न्न । 56) नाशी॒त्या अ॑शी॒त्यै न नाशी॒त्यै । 57) अ॒शी॒त्यै स्वाहा॒ स्वाहा॑ ऽशी॒त्या अ॑शी॒त्यै स्वाहा᳚ । 58) स्वाहा॒ नवा॑शीत्यै॒ नवा॑शीत्यै॒ स्वाहा॒ स्वाहा॒ नवा॑शीत्यै । 59) नवा॑शीत्यै॒ स्वाहा॒ स्वाहा॒ नवा॑शीत्यै॒ नवा॑शीत्यै॒ स्वाहा᳚ । 59) नवा॑शीत्या॒ इति॒ नव॑ - अ॒शी॒त्यै॒ । 60) स्वाहैका॒ देका॒-थ्स्वाहा॒ स्वाहैका᳚त् । 61) एका॒-न्न नैका॒ देका॒-न्न । 62) न श॒ताय॑ श॒ताय॒ न न श॒ताय॑ । 63) श॒ताय॒ स्वाहा॒ स्वाहा॑ श॒ताय॑ श॒ताय॒ स्वाहा᳚ । 64) स्वाहा॑ श॒ताय॑ श॒ताय॒ स्वाहा॒ स्वाहा॑ श॒ताय॑ । 65) श॒ताय॒ स्वाहा॒ स्वाहा॑ श॒ताय॑ श॒ताय॒ स्वाहा᳚ । 66) स्वाहा॒ द्वाभ्या॒-न्द्वाभ्या॒ग्॒ स्वाहा॒ स्वाहा॒ द्वाभ्या᳚म् । 67) द्वाभ्याग्ं॑ श॒ताभ्याग्ं॑ श॒ताभ्या॒-न्द्वाभ्या॒-न्द्वाभ्याग्ं॑ श॒ताभ्या᳚म् । 68) श॒ताभ्या॒ग्॒ स्वाहा॒ स्वाहा॑ श॒ताभ्याग्ं॑ श॒ताभ्या॒ग्॒ स्वाहा᳚ । 69) स्वाहा॒ सर्व॑स्मै॒ सर्व॑स्मै॒ स्वाहा॒ स्वाहा॒ सर्व॑स्मै । 70) सर्व॑स्मै॒ स्वाहा॒ स्वाहा॒ सर्व॑स्मै॒ सर्व॑स्मै॒ स्वाहा᳚ । 71) स्वाहेति॒ स्वाहा᳚ । ॥ 41 ॥ (71/90) ॥ अ. 11 ॥
1) एक॑स्मै॒ स्वाहा॒ स्वाहैक॑स्मा॒ एक॑स्मै॒ स्वाहा᳚ । 2) स्वाहा᳚ त्रि॒भ्य स्त्रि॒भ्य-स्स्वाहा॒ स्वाहा᳚ त्रि॒भ्यः । 3) त्रि॒भ्य-स्स्वाहा॒ स्वाहा᳚ त्रि॒भ्य स्त्रि॒भ्य-स्स्वाहा᳚ । 3) त्रि॒भ्य इति॑ त्रि - भ्यः । 4) स्वाहा॑ प॒ञ्चभ्यः॑ प॒ञ्चभ्य॒-स्स्वाहा॒ स्वाहा॑ प॒ञ्चभ्यः॑ । 5) प॒ञ्चभ्य॒-स्स्वाहा॒ स्वाहा॑ प॒ञ्चभ्यः॑ प॒ञ्चभ्य॒-स्स्वाहा᳚ । 5) प॒ञ्चभ्य॒ इति॑ प॒ञ्च - भ्यः॒ । 6) स्वाहा॑ स॒प्तभ्य॑-स्स॒प्तभ्य॒-स्स्वाहा॒ स्वाहा॑ स॒प्तभ्यः॑ । 7) स॒प्तभ्य॒-स्स्वाहा॒ स्वाहा॑ स॒प्तभ्य॑-स्स॒प्तभ्य॒-स्स्वाहा᳚ । 7) स॒प्तभ्य॒ इति॑ स॒प्त - भ्यः॒ । 8) स्वाहा॑ न॒वभ्यो॑ न॒वभ्य॒-स्स्वाहा॒ स्वाहा॑ न॒वभ्यः॑ । 9) न॒वभ्य॒-स्स्वाहा॒ स्वाहा॑ न॒वभ्यो॑ न॒वभ्य॒-स्स्वाहा᳚ । 9) न॒वभ्य॒ इति॑ न॒व - भ्यः॒ । 10) स्वाहै॑काद॒शभ्य॑ एकाद॒शभ्य॒-स्स्वाहा॒ स्वाहै॑काद॒शभ्यः॑ । 11) ए॒का॒द॒शभ्य॒-स्स्वाहा॒ स्वाहै॑काद॒शभ्य॑ एकाद॒शभ्य॒-स्स्वाहा᳚ । 11) ए॒का॒द॒शभ्य॒ इत्ये॑काद॒श - भ्यः॒ । 12) स्वाहा᳚ त्रयोद॒शभ्य॑ स्त्रयोद॒शभ्य॒-स्स्वाहा॒ स्वाहा᳚ त्रयोद॒शभ्यः॑ । 13) त्र॒यो॒द॒शभ्य॒-स्स्वाहा॒ स्वाहा᳚ त्रयोद॒शभ्य॑ स्त्रयोद॒शभ्य॒-स्स्वाहा᳚ । 13) त्र॒यो॒द॒शभ्य॒ इति॑ त्रयोद॒श - भ्यः॒ । 14) स्वाहा॑ पञ्चद॒शभ्यः॑ पञ्चद॒शभ्य॒-स्स्वाहा॒ स्वाहा॑ पञ्चद॒शभ्यः॑ । 15) प॒ञ्च॒द॒शभ्य॒-स्स्वाहा॒ स्वाहा॑ पञ्चद॒शभ्यः॑ पञ्चद॒शभ्य॒-स्स्वाहा᳚ । 15) प॒ञ्च॒द॒शभ्य॒ इति॑ पञ्चद॒श - भ्यः॒ । 16) स्वाहा॑ सप्तद॒शभ्य॑-स्सप्तद॒शभ्य॒-स्स्वाहा॒ स्वाहा॑ सप्तद॒शभ्यः॑ । 17) स॒प्त॒द॒शभ्य॒-स्स्वाहा॒ स्वाहा॑ सप्तद॒शभ्य॑-स्सप्तद॒शभ्य॒-स्स्वाहा᳚ । 17) स॒प्त॒द॒शभ्य॒ इति॑ सप्तद॒श - भ्यः॒ । 18) स्वाहैका॒ देका॒-थ्स्वाहा॒ स्वाहैका᳚त् । 19) एका॒-न्न नैका॒ देका॒-न्न । 20) न विग्ं॑श॒त्यै विग्ं॑श॒त्यै न न विग्ं॑श॒त्यै । 21) वि॒ग्ं॒श॒त्यै स्वाहा॒ स्वाहा॑ विग्ंश॒त्यै विग्ं॑श॒त्यै स्वाहा᳚ । 22) स्वाहा॒ नव॑विग्ंशत्यै॒ नव॑विग्ंशत्यै॒ स्वाहा॒ स्वाहा॒ नव॑विग्ंशत्यै । 23) नव॑विग्ंशत्यै॒ स्वाहा॒ स्वाहा॒ नव॑विग्ंशत्यै॒ नव॑विग्ंशत्यै॒ स्वाहा᳚ । 23) नव॑विग्ंशत्या॒ इति॒ नव॑ - वि॒ग्ं॒श॒त्यै॒ । 24) स्वाहैका॒ देका॒-थ्स्वाहा॒ स्वाहैका᳚त् । 25) एका॒-न्न नैका॒ देका॒-न्न । 26) न च॑त्वारि॒ग्ं॒शते॑ चत्वारि॒ग्ं॒शते॒ न न च॑त्वारि॒ग्ं॒शते᳚ । 27) च॒त्वा॒रि॒ग्ं॒शते॒ स्वाहा॒ स्वाहा॑ चत्वारि॒ग्ं॒शते॑ चत्वारि॒ग्ं॒शते॒ स्वाहा᳚ । 28) स्वाहा॒ नव॑चत्वारिग्ंशते॒ नव॑चत्वारिग्ंशते॒ स्वाहा॒ स्वाहा॒ नव॑चत्वारिग्ंशते । 29) नव॑चत्वारिग्ंशते॒ स्वाहा॒ स्वाहा॒ नव॑चत्वारिग्ंशते॒ नव॑चत्वारिग्ंशते॒ स्वाहा᳚ । 29) नव॑चत्वारिग्ंशत॒ इति॒ नव॑ - च॒त्वा॒रि॒ग्ं॒श॒ते॒ । 30) स्वाहैका॒ देका॒-थ्स्वाहा॒ स्वाहैका᳚त् । 31) एका॒-न्न नैका॒ देका॒-न्न । 32) न ष॒ष्ट्यै ष॒ष्ट्यै न न ष॒ष्ट्यै । 33) ष॒ष्ट्यै स्वाहा॒ स्वाहा॑ ष॒ष्ट्यै ष॒ष्ट्यै स्वाहा᳚ । 34) स्वाहा॒ नव॑षष्ट्यै॒ नव॑षष्ट्यै॒ स्वाहा॒ स्वाहा॒ नव॑षष्ट्यै । 35) नव॑षष्ट्यै॒ स्वाहा॒ स्वाहा॒ नव॑षष्ट्यै॒ नव॑षष्ट्यै॒ स्वाहा᳚ । 35) नव॑षष्ट्या॒ इति॒ नव॑ - ष॒ष्ट्यै॒ । 36) स्वाहैका॒ देका॒-थ्स्वाहा॒ स्वाहैका᳚त् । 37) एका॒-न्न नैका॒ देका॒-न्न । 38) नाशी॒त्या अ॑शी॒त्यै न नाशी॒त्यै । 39) अ॒शी॒त्यै स्वाहा॒ स्वाहा॑ ऽशी॒त्या अ॑शी॒त्यै स्वाहा᳚ । 40) स्वाहा॒ नवा॑शीत्यै॒ नवा॑शीत्यै॒ स्वाहा॒ स्वाहा॒ नवा॑शीत्यै । 41) नवा॑शीत्यै॒ स्वाहा॒ स्वाहा॒ नवा॑शीत्यै॒ नवा॑शीत्यै॒ स्वाहा᳚ । 41) नवा॑शीत्या॒ इति॒ नव॑ - अ॒शी॒त्यै॒ । 42) स्वाहैका॒ देका॒-थ्स्वाहा॒ स्वाहैका᳚त् । 43) एका॒-न्न नैका॒ देका॒-न्न । 44) न श॒ताय॑ श॒ताय॒ न न श॒ताय॑ । 45) श॒ताय॒ स्वाहा॒ स्वाहा॑ श॒ताय॑ श॒ताय॒ स्वाहा᳚ । 46) स्वाहा॑ श॒ताय॑ श॒ताय॒ स्वाहा॒ स्वाहा॑ श॒ताय॑ । 47) श॒ताय॒ स्वाहा॒ स्वाहा॑ श॒ताय॑ श॒ताय॒ स्वाहा᳚ । 48) स्वाहा॒ सर्व॑स्मै॒ सर्व॑स्मै॒ स्वाहा॒ स्वाहा॒ सर्व॑स्मै । 49) सर्व॑स्मै॒ स्वाहा॒ स्वाहा॒ सर्व॑स्मै॒ सर्व॑स्मै॒ स्वाहा᳚ । 50) स्वाहेति॒ स्वाहा᳚ । ॥ 42 ॥ (50/62) ॥ अ. 12 ॥
1) द्वाभ्या॒ग्॒ स्वाहा॒ स्वाहा॒ द्वाभ्या॒-न्द्वाभ्या॒ग्॒ स्वाहा᳚ । 2) स्वाहा॑ च॒तुर्भ्य॑ श्च॒तुर्भ्य॒-स्स्वाहा॒ स्वाहा॑ च॒तुर्भ्यः॑ । 3) च॒तुर्भ्य॒-स्स्वाहा॒ स्वाहा॑ च॒तुर्भ्य॑ श्च॒तुर्भ्य॒-स्स्वाहा᳚ । 3) च॒तुर्भ्य॒ इति॑ च॒तुः - भ्यः॒ । 4) स्वाहा॑ ष॒ड्भ्य ष्ष॒ड्भ्य-स्स्वाहा॒ स्वाहा॑ ष॒ड्भ्यः । 5) ष॒ड्भ्य-स्स्वाहा॒ स्वाहा॑ ष॒ड्भ्य ष्ष॒ड्भ्य-स्स्वाहा᳚ । 5) ष॒ड्भ्य इति॑ षट् - भ्यः । 6) स्वाहा᳚ ऽष्टा॒भ्यो᳚ ऽष्टा॒भ्य-स्स्वाहा॒ स्वाहा᳚ ऽष्टा॒भ्यः । 7) अ॒ष्टा॒भ्य-स्स्वाहा॒ स्वाहा᳚ ऽष्टा॒भ्यो᳚ ऽष्टा॒भ्य-स्स्वाहा᳚ । 8) स्वाहा॑ द॒शभ्यो॑ द॒शभ्य॒-स्स्वाहा॒ स्वाहा॑ द॒शभ्यः॑ । 9) द॒शभ्य॒-स्स्वाहा॒ स्वाहा॑ द॒शभ्यो॑ द॒शभ्य॒-स्स्वाहा᳚ । 9) द॒शभ्य॒ इति॑ द॒श - भ्यः॒ । 10) स्वाहा᳚ द्वाद॒शभ्यो᳚ द्वाद॒शभ्य॒-स्स्वाहा॒ स्वाहा᳚ द्वाद॒शभ्यः॑ । 11) द्वा॒द॒शभ्य॒-स्स्वाहा॒ स्वाहा᳚ द्वाद॒शभ्यो᳚ द्वाद॒शभ्य॒-स्स्वाहा᳚ । 11) द्वा॒द॒शभ्य॒ इति॑ द्वाद॒श - भ्यः॒ । 12) स्वाहा॑ चतुर्द॒शभ्य॑ श्चतुर्द॒शभ्य॒-स्स्वाहा॒ स्वाहा॑ चतुर्द॒शभ्यः॑ । 13) च॒तु॒र्द॒शभ्य॒-स्स्वाहा॒ स्वाहा॑ चतुर्द॒शभ्य॑ श्चतुर्द॒शभ्य॒-स्स्वाहा᳚ । 13) च॒तु॒र्द॒शभ्य॒ इति॑ चतुर्द॒श - भ्यः॒ । 14) स्वाहा॑ षोड॒शभ्य॑ ष्षोड॒शभ्य॒-स्स्वाहा॒ स्वाहा॑ षोड॒शभ्यः॑ । 15) षो॒ड॒शभ्य॒-स्स्वाहा॒ स्वाहा॑ षोड॒शभ्य॑ ष्षोड॒शभ्य॒-स्स्वाहा᳚ । 15) षो॒ड॒शभ्य॒ इति॑ षोड॒श - भ्यः॒ । 16) स्वाहा᳚ ऽष्टाद॒शभ्यो᳚ ऽष्टाद॒शभ्य॒-स्स्वाहा॒ स्वाहा᳚ ऽष्टाद॒शभ्यः॑ । 17) अ॒ष्टा॒द॒शभ्य॒-स्स्वाहा॒ स्वाहा᳚ ऽष्टाद॒शभ्यो᳚ ऽष्टाद॒शभ्य॒-स्स्वाहा᳚ । 17) अ॒ष्टा॒द॒शभ्य॒ इत्य॑ष्टाद॒श - भ्यः॒ । 18) स्वाहा॑ विग्ंश॒त्यै विग्ं॑श॒त्यै स्वाहा॒ स्वाहा॑ विग्ंश॒त्यै । 19) वि॒ग्ं॒श॒त्यै स्वाहा॒ स्वाहा॑ विग्ंश॒त्यै विग्ं॑श॒त्यै स्वाहा᳚ । 20) स्वाहा॒ ऽष्टान॑वत्या अ॒ष्टान॑वत्यै॒ स्वाहा॒ स्वाहा॒ ऽष्टान॑वत्यै । 21) अ॒ष्टान॑वत्यै॒ स्वाहा॒ स्वाहा॒ ऽष्टान॑वत्या अ॒ष्टान॑वत्यै॒ स्वाहा᳚ । 21) अ॒ष्टान॑वत्या॒ इत्य॒ष्टा - न॒व॒त्यै॒ । 22) स्वाहा॑ श॒ताय॑ श॒ताय॒ स्वाहा॒ स्वाहा॑ श॒ताय॑ । 23) श॒ताय॒ स्वाहा॒ स्वाहा॑ श॒ताय॑ श॒ताय॒ स्वाहा᳚ । 24) स्वाहा॒ सर्व॑स्मै॒ सर्व॑स्मै॒ स्वाहा॒ स्वाहा॒ सर्व॑स्मै । 25) सर्व॑स्मै॒ स्वाहा॒ स्वाहा॒ सर्व॑स्मै॒ सर्व॑स्मै॒ स्वाहा᳚ । 26) स्वाहेति॒ स्वाहा᳚ । ॥ 43 ॥ (26/34) ॥ अ. 13 ॥
1) त्रि॒भ्य-स्स्वाहा॒ स्वाहा᳚ त्रि॒भ्य स्त्रि॒भ्य-स्स्वाहा᳚ । 1) त्रि॒भ्य इति॑ त्रि - भ्यः । 2) स्वाहा॑ प॒ञ्चभ्यः॑ प॒ञ्चभ्य॒-स्स्वाहा॒ स्वाहा॑ प॒ञ्चभ्यः॑ । 3) प॒ञ्चभ्य॒-स्स्वाहा॒ स्वाहा॑ प॒ञ्चभ्यः॑ प॒ञ्चभ्य॒-स्स्वाहा᳚ । 3) प॒ञ्चभ्य॒ इति॑ प॒ञ्च - भ्यः॒ । 4) स्वाहा॑ स॒प्तभ्य॑-स्स॒प्तभ्य॒-स्स्वाहा॒ स्वाहा॑ स॒प्तभ्यः॑ । 5) स॒प्तभ्य॒-स्स्वाहा॒ स्वाहा॑ स॒प्तभ्य॑-स्स॒प्तभ्य॒-स्स्वाहा᳚ । 5) स॒प्तभ्य॒ इति॑ स॒प्त - भ्यः॒ । 6) स्वाहा॑ न॒वभ्यो॑ न॒वभ्य॒-स्स्वाहा॒ स्वाहा॑ न॒वभ्यः॑ । 7) न॒वभ्य॒-स्स्वाहा॒ स्वाहा॑ न॒वभ्यो॑ न॒वभ्य॒-स्स्वाहा᳚ । 7) न॒वभ्य॒ इति॑ न॒व - भ्यः॒ । 8) स्वाहै॑काद॒शभ्य॑ एकाद॒शभ्य॒-स्स्वाहा॒ स्वाहै॑काद॒शभ्यः॑ । 9) ए॒का॒द॒शभ्य॒-स्स्वाहा॒ स्वाहै॑काद॒शभ्य॑ एकाद॒शभ्य॒-स्स्वाहा᳚ । 9) ए॒का॒द॒शभ्य॒ इत्ये॑काद॒श - भ्यः॒ । 10) स्वाहा᳚ त्रयोद॒शभ्य॑ स्त्रयोद॒शभ्य॒-स्स्वाहा॒ स्वाहा᳚ त्रयोद॒शभ्यः॑ । 11) त्र॒यो॒द॒शभ्य॒-स्स्वाहा॒ स्वाहा᳚ त्रयोद॒शभ्य॑ स्त्रयोद॒शभ्य॒-स्स्वाहा᳚ । 11) त्र॒यो॒द॒शभ्य॒ इति॑ त्रयोद॒श - भ्यः॒ । 12) स्वाहा॑ पञ्चद॒शभ्यः॑ पञ्चद॒शभ्य॒-स्स्वाहा॒ स्वाहा॑ पञ्चद॒शभ्यः॑ । 13) प॒ञ्च॒द॒शभ्य॒-स्स्वाहा॒ स्वाहा॑ पञ्चद॒शभ्यः॑ पञ्चद॒शभ्य॒-स्स्वाहा᳚ । 13) प॒ञ्च॒द॒शभ्य॒ इति॑ पञ्चद॒श - भ्यः॒ । 14) स्वाहा॑ सप्तद॒शभ्य॑-स्सप्तद॒शभ्य॒-स्स्वाहा॒ स्वाहा॑ सप्तद॒शभ्यः॑ । 15) स॒प्त॒द॒शभ्य॒-स्स्वाहा॒ स्वाहा॑ सप्तद॒शभ्य॑-स्सप्तद॒शभ्य॒-स्स्वाहा᳚ । 15) स॒प्त॒द॒शभ्य॒ इति॑ सप्तद॒श - भ्यः॒ । 16) स्वाहैका॒ देका॒-थ्स्वाहा॒ स्वाहैका᳚त् । 17) एका॒-न्न नैका॒ देका॒-न्न । 18) न विग्ं॑श॒त्यै विग्ं॑श॒त्यै न न विग्ं॑श॒त्यै । 19) वि॒ग्ं॒श॒त्यै स्वाहा॒ स्वाहा॑ विग्ंश॒त्यै विग्ं॑श॒त्यै स्वाहा᳚ । 20) स्वाहा॒ नव॑विग्ंशत्यै॒ नव॑विग्ंशत्यै॒ स्वाहा॒ स्वाहा॒ नव॑विग्ंशत्यै । 21) नव॑विग्ंशत्यै॒ स्वाहा॒ स्वाहा॒ नव॑विग्ंशत्यै॒ नव॑विग्ंशत्यै॒ स्वाहा᳚ । 21) नव॑विग्ंशत्या॒ इति॒ नव॑ - वि॒ग्ं॒श॒त्यै॒ । 22) स्वाहैका॒ देका॒-थ्स्वाहा॒ स्वाहैका᳚त् । 23) एका॒-न्न नैका॒ देका॒-न्न । 24) न च॑त्वारि॒ग्ं॒शते॑ चत्वारि॒ग्ं॒शते॒ न न च॑त्वारि॒ग्ं॒शते᳚ । 25) च॒त्वा॒रि॒ग्ं॒शते॒ स्वाहा॒ स्वाहा॑ चत्वारि॒ग्ं॒शते॑ चत्वारि॒ग्ं॒शते॒ स्वाहा᳚ । 26) स्वाहा॒ नव॑चत्वारिग्ंशते॒ नव॑चत्वारिग्ंशते॒ स्वाहा॒ स्वाहा॒ नव॑चत्वारिग्ंशते । 27) नव॑चत्वारिग्ंशते॒ स्वाहा॒ स्वाहा॒ नव॑चत्वारिग्ंशते॒ नव॑चत्वारिग्ंशते॒ स्वाहा᳚ । 27) नव॑चत्वारिग्ंशत॒ इति॒ नव॑ - च॒त्वा॒रि॒ग्ं॒श॒ते॒ । 28) स्वाहैका॒ देका॒-थ्स्वाहा॒ स्वाहैका᳚त् । 29) एका॒-न्न नैका॒ देका॒-न्न । 30) न ष॒ष्ट्यै ष॒ष्ट्यै न न ष॒ष्ट्यै । 31) ष॒ष्ट्यै स्वाहा॒ स्वाहा॑ ष॒ष्ट्यै ष॒ष्ट्यै स्वाहा᳚ । 32) स्वाहा॒ नव॑षष्ट्यै॒ नव॑षष्ट्यै॒ स्वाहा॒ स्वाहा॒ नव॑षष्ट्यै । 33) नव॑षष्ट्यै॒ स्वाहा॒ स्वाहा॒ नव॑षष्ट्यै॒ नव॑षष्ट्यै॒ स्वाहा᳚ । 33) नव॑षष्ट्या॒ इति॒ नव॑ - ष॒ष्ट्यै॒ । 34) स्वाहैका॒ देका॒-थ्स्वाहा॒ स्वाहैका᳚त् । 35) एका॒-न्न नैका॒ देका॒-न्न । 36) नाशी॒त्या अ॑शी॒त्यै न नाशी॒त्यै । 37) अ॒शी॒त्यै स्वाहा॒ स्वाहा॑ ऽशी॒त्या अ॑शी॒त्यै स्वाहा᳚ । 38) स्वाहा॒ नवा॑शीत्यै॒ नवा॑शीत्यै॒ स्वाहा॒ स्वाहा॒ नवा॑शीत्यै । 39) नवा॑शीत्यै॒ स्वाहा॒ स्वाहा॒ नवा॑शीत्यै॒ नवा॑शीत्यै॒ स्वाहा᳚ । 39) नवा॑शीत्या॒ इति॒ नव॑ - अ॒शी॒त्यै॒ । 40) स्वाहैका॒ देका॒-थ्स्वाहा॒ स्वाहैका᳚त् । 41) एका॒-न्न नैका॒ देका॒-न्न । 42) न श॒ताय॑ श॒ताय॒ न न श॒ताय॑ । 43) श॒ताय॒ स्वाहा॒ स्वाहा॑ श॒ताय॑ श॒ताय॒ स्वाहा᳚ । 44) स्वाहा॑ श॒ताय॑ श॒ताय॒ स्वाहा॒ स्वाहा॑ श॒ताय॑ । 45) श॒ताय॒ स्वाहा॒ स्वाहा॑ श॒ताय॑ श॒ताय॒ स्वाहा᳚ । 46) स्वाहा॒ सर्व॑स्मै॒ सर्व॑स्मै॒ स्वाहा॒ स्वाहा॒ सर्व॑स्मै । 47) सर्व॑स्मै॒ स्वाहा॒ स्वाहा॒ सर्व॑स्मै॒ सर्व॑स्मै॒ स्वाहा᳚ । 48) स्वाहेति॒ स्वाहा᳚ । ॥ 44 ॥ (48/60) ॥ अ. 14 ॥
1) च॒तुर्भ्य॒-स्स्वाहा॒ स्वाहा॑ च॒तुर्भ्य॑ श्च॒तुर्भ्य॒-स्स्वाहा᳚ । 1) च॒तुर्भ्य॒ इति॑ च॒तुः - भ्यः॒ । 2) स्वाहा᳚ ऽष्टा॒भ्यो᳚ ऽष्टा॒भ्य-स्स्वाहा॒ स्वाहा᳚ ऽष्टा॒भ्यः । 3) अ॒ष्टा॒भ्य-स्स्वाहा॒ स्वाहा᳚ ऽष्टा॒भ्यो᳚ ऽष्टा॒भ्य-स्स्वाहा᳚ । 4) स्वाहा᳚ द्वाद॒शभ्यो᳚ द्वाद॒शभ्य॒-स्स्वाहा॒ स्वाहा᳚ द्वाद॒शभ्यः॑ । 5) द्वा॒द॒शभ्य॒-स्स्वाहा॒ स्वाहा᳚ द्वाद॒शभ्यो᳚ द्वाद॒शभ्य॒-स्स्वाहा᳚ । 5) द्वा॒द॒शभ्य॒ इति॑ द्वाद॒श - भ्यः॒ । 6) स्वाहा॑ षोड॒शभ्य॑ ष्षोड॒शभ्य॒-स्स्वाहा॒ स्वाहा॑ षोड॒शभ्यः॑ । 7) षो॒ड॒शभ्य॒-स्स्वाहा॒ स्वाहा॑ षोड॒शभ्य॑ ष्षोड॒शभ्य॒-स्स्वाहा᳚ । 7) षो॒ड॒शभ्य॒ इति॑ षोड॒श - भ्यः॒ । 8) स्वाहा॑ विग्ंश॒त्यै विग्ं॑श॒त्यै स्वाहा॒ स्वाहा॑ विग्ंश॒त्यै । 9) वि॒ग्ं॒श॒त्यै स्वाहा॒ स्वाहा॑ विग्ंश॒त्यै विग्ं॑श॒त्यै स्वाहा᳚ । 10) स्वाहा॒ षण्ण॑वत्यै॒ षण्ण॑वत्यै॒ स्वाहा॒ स्वाहा॒ षण्ण॑वत्यै । 11) षण्ण॑वत्यै॒ स्वाहा॒ स्वाहा॒ षण्ण॑वत्यै॒ षण्ण॑वत्यै॒ स्वाहा᳚ । 11) षण्ण॑वत्या॒ इति॒ षट् - न॒व॒त्यै॒ । 12) स्वाहा॑ श॒ताय॑ श॒ताय॒ स्वाहा॒ स्वाहा॑ श॒ताय॑ । 13) श॒ताय॒ स्वाहा॒ स्वाहा॑ श॒ताय॑ श॒ताय॒ स्वाहा᳚ । 14) स्वाहा॒ सर्व॑स्मै॒ सर्व॑स्मै॒ स्वाहा॒ स्वाहा॒ सर्व॑स्मै । 15) सर्व॑स्मै॒ स्वाहा॒ स्वाहा॒ सर्व॑स्मै॒ सर्व॑स्मै॒ स्वाहा᳚ । 16) स्वाहेति॒ स्वाहा᳚ । ॥ 45 ॥ (16/20) ॥ अ. 15 ॥
1) प॒ञ्चभ्य॒-स्स्वाहा॒ स्वाहा॑ प॒ञ्चभ्यः॑ प॒ञ्चभ्य॒-स्स्वाहा᳚ । 1) प॒ञ्चभ्य॒ इति॑ प॒ञ्च - भ्यः॒ । 2) स्वाहा॑ द॒शभ्यो॑ द॒शभ्य॒-स्स्वाहा॒ स्वाहा॑ द॒शभ्यः॑ । 3) द॒शभ्य॒-स्स्वाहा॒ स्वाहा॑ द॒शभ्यो॑ द॒शभ्य॒-स्स्वाहा᳚ । 3) द॒शभ्य॒ इति॑ द॒श - भ्यः॒ । 4) स्वाहा॑ पञ्चद॒शभ्यः॑ पञ्चद॒शभ्य॒-स्स्वाहा॒ स्वाहा॑ पञ्चद॒शभ्यः॑ । 5) प॒ञ्च॒द॒शभ्य॒-स्स्वाहा॒ स्वाहा॑ पञ्चद॒शभ्यः॑ पञ्चद॒शभ्य॒-स्स्वाहा᳚ । 5) प॒ञ्च॒द॒शभ्य॒ इति॑ पञ्चद॒श - भ्यः॒ । 6) स्वाहा॑ विग्ंश॒त्यै विग्ं॑श॒त्यै स्वाहा॒ स्वाहा॑ विग्ंश॒त्यै । 7) वि॒ग्ं॒श॒त्यै स्वाहा॒ स्वाहा॑ विग्ंश॒त्यै विग्ं॑श॒त्यै स्वाहा᳚ । 8) स्वाहा॒ पञ्च॑नवत्यै॒ पञ्च॑नवत्यै॒ स्वाहा॒ स्वाहा॒ पञ्च॑नवत्यै । 9) पञ्च॑नवत्यै॒ स्वाहा॒ स्वाहा॒ पञ्च॑नवत्यै॒ पञ्च॑नवत्यै॒ स्वाहा᳚ । 9) पञ्च॑नवत्या॒ इति॒ पञ्च॑ - न॒व॒त्यै॒ । 10) स्वाहा॑ श॒ताय॑ श॒ताय॒ स्वाहा॒ स्वाहा॑ श॒ताय॑ । 11) श॒ताय॒ स्वाहा॒ स्वाहा॑ श॒ताय॑ श॒ताय॒ स्वाहा᳚ । 12) स्वाहा॒ सर्व॑स्मै॒ सर्व॑स्मै॒ स्वाहा॒ स्वाहा॒ सर्व॑स्मै । 13) सर्व॑स्मै॒ स्वाहा॒ स्वाहा॒ सर्व॑स्मै॒ सर्व॑स्मै॒ स्वाहा᳚ । 14) स्वाहेति॒ स्वाहा᳚ । ॥ 46 ॥ (14/18) ॥ अ. 16 ॥
1) द॒शभ्य॒-स्स्वाहा॒ स्वाहा॑ द॒शभ्यो॑ द॒शभ्य॒-स्स्वाहा᳚ । 1) द॒शभ्य॒ इति॑ द॒श - भ्यः॒ । 2) स्वाहा॑ विग्ंश॒त्यै विग्ं॑श॒त्यै स्वाहा॒ स्वाहा॑ विग्ंश॒त्यै । 3) वि॒ग्ं॒श॒त्यै स्वाहा॒ स्वाहा॑ विग्ंश॒त्यै विग्ं॑श॒त्यै स्वाहा᳚ । 4) स्वाहा᳚ त्रि॒ग्ं॒शते᳚ त्रि॒ग्ं॒शते॒ स्वाहा॒ स्वाहा᳚ त्रि॒ग्ं॒शते᳚ । 5) त्रि॒ग्ं॒शते॒ स्वाहा॒ स्वाहा᳚ त्रि॒ग्ं॒शते᳚ त्रि॒ग्ं॒शते॒ स्वाहा᳚ । 6) स्वाहा॑ चत्वारि॒ग्ं॒शते॑ चत्वारि॒ग्ं॒शते॒ स्वाहा॒ स्वाहा॑ चत्वारि॒ग्ं॒शते᳚ । 7) च॒त्वा॒रि॒ग्ं॒शते॒ स्वाहा॒ स्वाहा॑ चत्वारि॒ग्ं॒शते॑ चत्वारि॒ग्ं॒शते॒ स्वाहा᳚ । 8) स्वाहा॑ पञ्चा॒शते॑ पञ्चा॒शते॒ स्वाहा॒ स्वाहा॑ पञ्चा॒शते᳚ । 9) प॒ञ्चा॒शते॒ स्वाहा॒ स्वाहा॑ पञ्चा॒शते॑ पञ्चा॒शते॒ स्वाहा᳚ । 10) स्वाहा॑ ष॒ष्ट्यै ष॒ष्ट्यै स्वाहा॒ स्वाहा॑ ष॒ष्ट्यै । 11) ष॒ष्ट्यै स्वाहा॒ स्वाहा॑ ष॒ष्ट्यै ष॒ष्ट्यै स्वाहा᳚ । 12) स्वाहा॑ सप्त॒त्यै स॑प्त॒त्यै स्वाहा॒ स्वाहा॑ सप्त॒त्यै । 13) स॒प्त॒त्यै स्वाहा॒ स्वाहा॑ सप्त॒त्यै स॑प्त॒त्यै स्वाहा᳚ । 14) स्वाहा॑ ऽशी॒त्या अ॑शी॒त्यै स्वाहा॒ स्वाहा॑ ऽशी॒त्यै । 15) अ॒शी॒त्यै स्वाहा॒ स्वाहा॑ ऽशी॒त्या अ॑शी॒त्यै स्वाहा᳚ । 16) स्वाहा॑ नव॒त्यै न॑व॒त्यै स्वाहा॒ स्वाहा॑ नव॒त्यै । 17) न॒व॒त्यै स्वाहा॒ स्वाहा॑ नव॒त्यै न॑व॒त्यै स्वाहा᳚ । 18) स्वाहा॑ श॒ताय॑ श॒ताय॒ स्वाहा॒ स्वाहा॑ श॒ताय॑ । 19) श॒ताय॒ स्वाहा॒ स्वाहा॑ श॒ताय॑ श॒ताय॒ स्वाहा᳚ । 20) स्वाहा॒ सर्व॑स्मै॒ सर्व॑स्मै॒ स्वाहा॒ स्वाहा॒ सर्व॑स्मै । 21) सर्व॑स्मै॒ स्वाहा॒ स्वाहा॒ सर्व॑स्मै॒ सर्व॑स्मै॒ स्वाहा᳚ । 22) स्वाहेति॒ स्वाहा᳚ । ॥ 47 ॥ (22/23) ॥ अ. 17 ॥
1) वि॒ग्ं॒श॒त्यै स्वाहा॒ स्वाहा॑ विग्ंश॒त्यै विग्ं॑श॒त्यै स्वाहा᳚ । 2) स्वाहा॑ चत्वारि॒ग्ं॒शते॑ चत्वारि॒ग्ं॒शते॒ स्वाहा॒ स्वाहा॑ चत्वारि॒ग्ं॒शते᳚ । 3) च॒त्वा॒रि॒ग्ं॒शते॒ स्वाहा॒ स्वाहा॑ चत्वारि॒ग्ं॒शते॑ चत्वारि॒ग्ं॒शते॒ स्वाहा᳚ । 4) स्वाहा॑ ष॒ष्ट्यै ष॒ष्ट्यै स्वाहा॒ स्वाहा॑ ष॒ष्ट्यै । 5) ष॒ष्ट्यै स्वाहा॒ स्वाहा॑ ष॒ष्ट्यै ष॒ष्ट्यै स्वाहा᳚ । 6) स्वाहा॑ ऽशी॒त्या अ॑शी॒त्यै स्वाहा॒ स्वाहा॑ ऽशी॒त्यै । 7) अ॒शी॒त्यै स्वाहा॒ स्वाहा॑ ऽशी॒त्या अ॑शी॒त्यै स्वाहा᳚ । 8) स्वाहा॑ श॒ताय॑ श॒ताय॒ स्वाहा॒ स्वाहा॑ श॒ताय॑ । 9) श॒ताय॒ स्वाहा॒ स्वाहा॑ श॒ताय॑ श॒ताय॒ स्वाहा᳚ । 10) स्वाहा॒ सर्व॑स्मै॒ सर्व॑स्मै॒ स्वाहा॒ स्वाहा॒ सर्व॑स्मै । 11) सर्व॑स्मै॒ स्वाहा॒ स्वाहा॒ सर्व॑स्मै॒ सर्व॑स्मै॒ स्वाहा᳚ । 12) स्वाहेति॒ स्वाहा᳚ । ॥ 48 ॥ (12/12) ॥ अ. 18 ॥
1) प॒ञ्चा॒शते॒ स्वाहा॒ स्वाहा॑ पञ्चा॒शते॑ पञ्चा॒शते॒ स्वाहा᳚ । 2) स्वाहा॑ श॒ताय॑ श॒ताय॒ स्वाहा॒ स्वाहा॑ श॒ताय॑ । 3) श॒ताय॒ स्वाहा॒ स्वाहा॑ श॒ताय॑ श॒ताय॒ स्वाहा᳚ । 4) स्वाहा॒ द्वाभ्या॒-न्द्वाभ्या॒ग्॒ स्वाहा॒ स्वाहा॒ द्वाभ्या᳚म् । 5) द्वाभ्याग्ं॑ श॒ताभ्याग्ं॑ श॒ताभ्या॒-न्द्वाभ्या॒-न्द्वाभ्याग्ं॑ श॒ताभ्या᳚म् । 6) श॒ताभ्या॒ग्॒ स्वाहा॒ स्वाहा॑ श॒ताभ्याग्ं॑ श॒ताभ्या॒ग्॒ स्वाहा᳚ । 7) स्वाहा᳚ त्रि॒भ्य स्त्रि॒भ्य-स्स्वाहा॒ स्वाहा᳚ त्रि॒भ्यः । 8) त्रि॒भ्य-श्श॒तेभ्य॑-श्श॒तेभ्य॑ स्त्रि॒भ्य स्त्रि॒भ्य-श्श॒तेभ्यः॑ । 8) त्रि॒भ्य इति॑ त्रि - भ्यः । 9) श॒तेभ्य॒-स्स्वाहा॒ स्वाहा॑ श॒तेभ्य॑-श्श॒तेभ्य॒-स्स्वाहा᳚ । 10) स्वाहा॑ च॒तुर्भ्य॑ श्च॒तुर्भ्य॒-स्स्वाहा॒ स्वाहा॑ च॒तुर्भ्यः॑ । 11) च॒तुर्भ्य॑-श्श॒तेभ्य॑-श्श॒तेभ्य॑ श्च॒तुर्भ्य॑ श्च॒तुर्भ्य॑-श्श॒तेभ्यः॑ । 11) च॒तुर्भ्य॒ इति॑ च॒तुः - भ्यः॒ । 12) श॒तेभ्य॒-स्स्वाहा॒ स्वाहा॑ श॒तेभ्य॑-श्श॒तेभ्य॒-स्स्वाहा᳚ । 13) स्वाहा॑ प॒ञ्चभ्यः॑ प॒ञ्चभ्य॒-स्स्वाहा॒ स्वाहा॑ प॒ञ्चभ्यः॑ । 14) प॒ञ्चभ्य॑-श्श॒तेभ्य॑-श्श॒तेभ्यः॑ प॒ञ्चभ्यः॑ प॒ञ्चभ्य॑-श्श॒तेभ्यः॑ । 14) प॒ञ्चभ्य॒ इति॑ प॒ञ्च - भ्यः॒ । 15) श॒तेभ्य॒-स्स्वाहा॒ स्वाहा॑ श॒तेभ्य॑-श्श॒तेभ्य॒-स्स्वाहा᳚ । 16) स्वाहा॑ ष॒ड्भ्य ष्ष॒ड्भ्य-स्स्वाहा॒ स्वाहा॑ ष॒ड्भ्यः । 17) ष॒ड्भ्य-श्श॒तेभ्य॑-श्श॒तेभ्य॑ ष्ष॒ड्भ्य ष्ष॒ड्भ्य-श्श॒तेभ्यः॑ । 17) ष॒ड्भ्य इति॑ षट् - भ्यः । 18) श॒तेभ्य॒-स्स्वाहा॒ स्वाहा॑ श॒तेभ्य॑-श्श॒तेभ्य॒-स्स्वाहा᳚ । 19) स्वाहा॑ स॒प्तभ्य॑-स्स॒प्तभ्य॒-स्स्वाहा॒ स्वाहा॑ स॒प्तभ्यः॑ । 20) स॒प्तभ्य॑-श्श॒तेभ्य॑-श्श॒तेभ्य॑-स्स॒प्तभ्य॑-स्स॒प्तभ्य॑-श्श॒तेभ्यः॑ । 20) स॒प्तभ्य॒ इति॑ स॒प्त - भ्यः॒ । 21) श॒तेभ्य॒-स्स्वाहा॒ स्वाहा॑ श॒तेभ्य॑-श्श॒तेभ्य॒-स्स्वाहा᳚ । 22) स्वाहा᳚ ऽष्टा॒भ्यो᳚ ऽष्टा॒भ्य-स्स्वाहा॒ स्वाहा᳚ ऽष्टा॒भ्यः । 23) अ॒ष्टा॒भ्य-श्श॒तेभ्य॑-श्श॒तेभ्यो᳚ ऽष्टा॒भ्यो᳚ ऽष्टा॒भ्य-श्श॒तेभ्यः॑ । 24) श॒तेभ्य॒-स्स्वाहा॒ स्वाहा॑ श॒तेभ्य॑-श्श॒तेभ्य॒-स्स्वाहा᳚ । 25) स्वाहा॑ न॒वभ्यो॑ न॒वभ्य॒-स्स्वाहा॒ स्वाहा॑ न॒वभ्यः॑ । 26) न॒वभ्य॑-श्श॒तेभ्य॑-श्श॒तेभ्यो॑ न॒वभ्यो॑ न॒वभ्य॑-श्श॒तेभ्यः॑ । 26) न॒वभ्य॒ इति॑ न॒व - भ्यः॒ । 27) श॒तेभ्य॒-स्स्वाहा॒ स्वाहा॑ श॒तेभ्य॑-श्श॒तेभ्य॒-स्स्वाहा᳚ । 28) स्वाहा॑ स॒हस्रा॑य स॒हस्रा॑य॒ स्वाहा॒ स्वाहा॑ स॒हस्रा॑य । 29) स॒हस्रा॑य॒ स्वाहा॒ स्वाहा॑ स॒हस्रा॑य स॒हस्रा॑य॒ स्वाहा᳚ । 30) स्वाहा॒ सर्व॑स्मै॒ सर्व॑स्मै॒ स्वाहा॒ स्वाहा॒ सर्व॑स्मै । 31) सर्व॑स्मै॒ स्वाहा॒ स्वाहा॒ सर्व॑स्मै॒ सर्व॑स्मै॒ स्वाहा᳚ । 32) स्वाहेति॒ स्वाहा᳚ । ॥ 49 ॥ (32/38) ॥ अ. 19 ॥
1) श॒ताय॒ स्वाहा॒ स्वाहा॑ श॒ताय॑ श॒ताय॒ स्वाहा᳚ । 2) स्वाहा॑ स॒हस्रा॑य स॒हस्रा॑य॒ स्वाहा॒ स्वाहा॑ स॒हस्रा॑य । 3) स॒हस्रा॑य॒ स्वाहा॒ स्वाहा॑ स॒हस्रा॑य स॒हस्रा॑य॒ स्वाहा᳚ । 4) स्वाहा॒ ऽयुता॑या॒ युता॑य॒ स्वाहा॒ स्वाहा॒ ऽयुता॑य । 5) अ॒युता॑य॒ स्वाहा॒ स्वाहा॒ ऽयुता॑या॒ युता॑य॒ स्वाहा᳚ । 6) स्वाहा॑ नि॒युता॑य नि॒युता॑य॒ स्वाहा॒ स्वाहा॑ नि॒युता॑य । 7) नि॒युता॑य॒ स्वाहा॒ स्वाहा॑ नि॒युता॑य नि॒युता॑य॒ स्वाहा᳚ । 7) नि॒युता॒येति॑ नि - युता॑य । 8) स्वाहा᳚ प्र॒युता॑य प्र॒युता॑य॒ स्वाहा॒ स्वाहा᳚ प्र॒युता॑य । 9) प्र॒युता॑य॒ स्वाहा॒ स्वाहा᳚ प्र॒युता॑य प्र॒युता॑य॒ स्वाहा᳚ । 9) प्र॒युता॒येति॑ प्र - युता॑य । 10) स्वाहा ऽर्बु॑दा॒या र्बु॑दाय॒ स्वाहा॒ स्वाहा ऽर्बु॑दाय । 11) अर्बु॑दाय॒ स्वाहा॒ स्वाहा ऽर्बु॑दा॒या र्बु॑दाय॒ स्वाहा᳚ । 12) स्वाहा॒ न्य॑र्बुदाय॒ न्य॑र्बुदाय॒ स्वाहा॒ स्वाहा॒ न्य॑र्बुदाय । 13) न्य॑र्बुदाय॒ स्वाहा॒ स्वाहा॒ न्य॑र्बुदाय॒ न्य॑र्बुदाय॒ स्वाहा᳚ । 13) न्य॑र्बुदा॒येति॒ नि - अ॒र्बु॒दा॒य॒ । 14) स्वाहा॑ समु॒द्राय॑ समु॒द्राय॒ स्वाहा॒ स्वाहा॑ समु॒द्राय॑ । 15) स॒मु॒द्राय॒ स्वाहा॒ स्वाहा॑ समु॒द्राय॑ समु॒द्राय॒ स्वाहा᳚ । 16) स्वाहा॒ मद्ध्या॑य॒ मद्ध्या॑य॒ स्वाहा॒ स्वाहा॒ मद्ध्या॑य । 17) मद्ध्या॑य॒ स्वाहा॒ स्वाहा॒ मद्ध्या॑य॒ मद्ध्या॑य॒ स्वाहा᳚ । 18) स्वाहा ऽन्ता॒यान्ता॑य॒ स्वाहा॒ स्वाहा ऽन्ता॑य । 19) अन्ता॑य॒ स्वाहा॒ स्वाहा ऽन्ता॒या न्ता॑य॒ स्वाहा᳚ । 20) स्वाहा॑ परा॒र्धाय॑ परा॒र्धाय॒ स्वाहा॒ स्वाहा॑ परा॒र्धाय॑ । 21) प॒रा॒र्धाय॒ स्वाहा॒ स्वाहा॑ परा॒र्धाय॑ परा॒र्धाय॒ स्वाहा᳚ । 21) प॒रा॒र्धायेति॑ पर - अ॒र्धाय॑ । 22) स्वाहो॒ षस॑ उ॒षसे॒ स्वाहा॒ स्वाहो॒ षसे᳚ । 23) उ॒षसे॒ स्वाहा॒ स्वाहो॒ षस॑ उ॒षसे॒ स्वाहा᳚ । 24) स्वाहा॒ व्यु॑ष्ट्यै॒ व्यु॑ष्ट्यै॒ स्वाहा॒ स्वाहा॒ व्यु॑ष्ट्यै । 25) व्यु॑ष्ट्यै॒ स्वाहा॒ स्वाहा॒ व्यु॑ष्ट्यै॒ व्यु॑ष्ट्यै॒ स्वाहा᳚ । 25) व्यु॑ष्ट्या॒ इति॒ वि - उ॒ष्ट्यै॒ । 26) स्वाहो॑देष्य॒त उ॑देष्य॒ते स्वाहा॒ स्वाहो॑देष्य॒ते । 27) उ॒दे॒ष्य॒ते स्वाहा॒ स्वाहो॑देष्य॒त उ॑देष्य॒ते स्वाहा᳚ । 27) उ॒दे॒ष्य॒त इत्यु॑त् - ए॒ष्य॒ते । 28) स्वाहो᳚ द्य॒त उ॑द्य॒ते स्वाहा॒ स्वाहो᳚ द्य॒ते । 29) उ॒द्य॒ते स्वाहा॒ स्वाहो᳚ द्य॒त उ॑द्य॒ते स्वाहा᳚ । 29) उ॒द्य॒त इत्यु॑त् - य॒ते । 30) स्वाहोदि॑ता॒यो दि॑ताय॒ स्वाहा॒ स्वाहोदि॑ताय । 31) उदि॑ताय॒ स्वाहा॒ स्वाहोदि॑ता॒यो दि॑ताय॒ स्वाहा᳚ । 31) उदि॑ता॒येत्युत् - इ॒ता॒य॒ । 32) स्वाहा॑ सुव॒र्गाय॑ सुव॒र्गाय॒ स्वाहा॒ स्वाहा॑ सुव॒र्गाय॑ । 33) सु॒व॒र्गाय॒ स्वाहा॒ स्वाहा॑ सुव॒र्गाय॑ सुव॒र्गाय॒ स्वाहा᳚ । 33) सु॒व॒र्गायेति॑ सुवः - गाय॑ । 34) स्वाहा॑ लो॒काय॑ लो॒काय॒ स्वाहा॒ स्वाहा॑ लो॒काय॑ । 35) लो॒काय॒ स्वाहा॒ स्वाहा॑ लो॒काय॑ लो॒काय॒ स्वाहा᳚ । 36) स्वाहा॒ सर्व॑स्मै॒ सर्व॑स्मै॒ स्वाहा॒ स्वाहा॒ सर्व॑स्मै । 37) सर्व॑स्मै॒ स्वाहा॒ स्वाहा॒ सर्व॑स्मै॒ सर्व॑स्मै॒ स्वाहा᳚ । 38) स्वाहेति॒ स्वाहा᳚ । ॥ 50 ॥ (38, 47)
॥ अ. 20 ॥
Browse Related Categories: