Nitya Parayana · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
जयत्यतिबलो रामो लक्ष्मणश्च महाबलः राजा जयति सुग्रीवो राघवेणाभिपालितः । दासोहं कोसलेंद्रस्य रामस्याक्लिष्टकर्मणः हनुमान् शत्रुसैन्यानां निहंता मारुतात्मजः ॥
न रावण सहस्रं मे युद्धे प्रतिबलं भवेत् शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः । अर्धयित्वा पुरीं लंकामभिवाद्य च मैथिलीं समृद्धार्धो गमिष्यामि मिषतां सर्वरक्षसाम् ॥
Browse Related Categories:
Offered for worship and study, not as prediction. Non-commercial.