Nitya Parayana · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्यांबरं नानारत्न विभूषितं मृगमदा मोदांकितं चंदनम् । जाती चंपक बिल्वपत्र रचितं पुष्पं च धूपं तथा दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम् ॥ 1 ॥
सौवर्णे नवरत्नखंड रचिते पात्रे घृतं पायसं भक्ष्यं पंचविधं पयोदधियुतं रंभाफलं पानकम् । शाकानामयुतं जलं रुचिकरं कर्पूर खंडोज्ज्चलं तांबूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ॥ 2 ॥
छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलं वीणा भेरि मृदंग काहलकला गीतं च नृत्यं तथा । साष्टांगं प्रणतिः स्तुति-र्बहुविधा-ह्येतत्-समस्तं मया संकल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो ॥ 3 ॥
आत्मा त्वं गिरिजा मतिः सहचराः प्राणाः शरीरं गृहं पूजा ते विषयोपभोग-रचना निद्रा समाधिस्थितिः । संचारः पदयोः प्रदक्षिणविधिः स्तोत्राणि सर्वा गिरो यद्यत्कर्म करोमि तत्तदखिलं शंभो तवाराधनम् ॥ 4 ॥
कर चरण कृतं वाक्कायजं कर्मजं वा श्रवण नयनजं वा मानसं वापराधम् । विहितमविहितं वा सर्वमेतत्-क्षमस्व जय जय करुणाब्धे श्री महादेव शंभो ॥ 5 ॥
Browse Related Categories:
Offered for worship and study, not as prediction. Non-commercial.