Vedic · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
(तै. ब्रा. 2.8.8.6)
श्र॒द्धया॒ऽग्निः समि॑ध्यते । श्र॒द्धया॑ विंदते ह॒विः । श्र॒द्धां भग॑स्य मू॒र्धनि॑ । वच॒साऽऽवे॑दयामसि । प्रि॒यग्ग् श्र॑द्धे॒ दद॑तः । प्रि॒यग्ग् श्र॑द्धे॒ दिदा॑सतः । प्रि॒यं भो॒जेषु॒ यज्व॑सु ॥
इ॒दं म॑ उदि॒तं कृ॑धि । यथा॑ दे॒वा असु॑रेषु । श्र॒द्धामु॒ग्रेषु॑ चक्रि॒रे । ए॒वं भो॒जेषु॒ यज्व॑सु । अ॒स्माक॑मुदि॒तं कृ॑धि । श्र॒द्धां दे॑वा॒ यज॑मानाः । वा॒युगो॑पा॒ उपा॑सते । श्र॒द्धाग्ं हृ॑द॒य्य॑याऽऽकू᳚त्या । श्र॒द्धया॑ हूयते ह॒विः । श्र॒द्धां प्रा॒तर्ह॑वामहे ॥
श्र॒द्धां म॒ध्यंदि॑नं॒ परि॑ । श्र॒द्धाग्ं सूर्य॑स्य नि॒मृचि॑ । श्रद्धे॒ श्रद्धा॑पये॒ह मा᳚ । श्र॒द्धा दे॒वानधि॑वस्ते । श्र॒द्धा विश्व॑मि॒दं जग॑त् । श्र॒द्धां काम॑स्य मा॒तरम्᳚ । ह॒विषा॑ वर्धयामसि ।
Browse Related Categories:
Offered for worship and study, not as prediction. Non-commercial.