Surya Bhagavan · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
आदित्यः प्रथमं नामं द्वितीयं तु दिवाकरः । तृतीयं भास्करः प्रोक्तं चतुर्थं तु प्रभाकरः ॥ 1 ॥
पंचमं तु सहस्रांशुः षष्ठं चैव त्रिलोचनः । सप्तमं हरिदश्वश्च अष्टमं तु विभावसुः ॥ 2 ॥
Offered for worship and study, not as prediction. Non-commercial.
नवमं दिनकृत् प्रोक्तं दशमं द्वादशात्मकः । एकादशं त्रयीमूर्तिर्द्वादशं सूर्य एव च ॥ 3 ॥
द्वादशादित्यनामानि प्रातः काले पठेन्नरः । दुःस्वप्नो नश्यते तस्य सर्वदुःखं च नश्यति ॥ 4 ॥
दद्रुकुष्ठहरं चैव दारिद्र्यं हरते ध्रुवम् । सर्वतीर्थकरं चैव सर्वकामफलप्रदम् ॥ 5 ॥
यः पठेत् प्रातरुत्थाय भक्त्या स्तोत्रमिदं नरः । सौख्यमायुस्तथारोग्यं लभते मोक्षमेव च ॥ 6 ॥
इति श्री आदित्य द्वादशनाम स्तोत्रम् ।
Browse Related Categories: