Raghavendra Swamy · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
श्रीमद्रामपादारविंदमधुपः श्रीमध्ववंशाधिपः सच्चिष्योडुगणोडुपः श्रितजगद्गीर्वाणसत्पादपः । अत्यर्थं मनसा कृताच्युतजपः पापांधकारातपः श्रीमत्सद्गुरुराघवेंद्रयतिराट् कुर्याद्ध्रुवं मंगलम् ॥ 1 ॥
कर्मंदींद्रसुधींद्रसद्गुरुकरांभोजोद्भवः संततं प्राज्यध्यानवशीकृताखिलजगद्वास्तव्यलक्ष्मीधवः । सच्छास्त्रादि विदूषकाखिलमृषावादीभकंठीरवः श्रीमत्सद्गुरुराघवेंद्रयतिराट् कुर्याद्ध्रुवं मंगलम् ॥ 2 ॥
सालंकारककाव्यनाटककलाकाणादपातंजल- त्रय्यर्थस्मृतिजैमिनीयकवितासंकीतपारंगतः । विप्रक्षत्रविडंघ्रिजातमुखरानेकप्रजासेवितः श्रीमत्सद्गुरुराघवेंद्रयतिराट् कुर्याद्ध्रुवं मंगलम् ॥ 3 ॥
रंगोत्तुंगतरंगमंगलकर श्रीतुंगभद्रातट- प्रत्यक्स्थद्विजपुंगवालय लसन्मंत्रालयाख्ये पुरे । नव्येंद्रोपलनीलभव्यकरसद्वृंदावनांतर्गतः श्रीमत्सद्गुरुराघवेंद्रयतिराट् कुर्याद्ध्रुवं मंगलम् ॥ 4 ॥
विद्वद्राजशिरःकिरीटखचितानर्घ्योरुरत्नप्रभा रागाघौघहपादुकाद्वयचरः पद्माक्षमालाधरः । भास्वद्दंटकमंडलूज्ज्वलकरो रक्तांबराडंबरः श्रीमत्सद्गुरुराघवेंद्रयतिराट् कुर्याद्ध्रुवं मंगलम् ॥ 5 ॥
यद्वृंदावनसत्प्रदक्षिणनमस्काराभिषेकस्तुति- ध्यानाराधनमृद्विलेपनमुखानेकोपचारान् सदा । कारं कारमभिप्रयांति चतुरो लोकाः पुमर्थान् सदा श्रीमत्सद्गुरुराघवेंद्रयतिराट् कुर्याद्ध्रुवं मंगलम् ॥ 6 ॥
वेदव्यासमुनीशमध्वयतिराट् टीकार्यवाक्यामृतं ज्ञात्वाऽद्वैतमतं हलाहलसमं त्यक्त्वा समाख्याप्तये । संख्यावत्सुखदां दशोपनिषदां व्याख्यां समाख्यन्मुदा श्रीमत्सद्गुरुराघवेंद्रयतिराट् कुर्याद्ध्रुवं मंगलम् ॥ 7 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
श्रीमद्वैष्णवलोकजालकगुरुः श्रीमत्परिव्राड्गुरुः शास्त्रे देवगुरुः श्रितामरतरुः प्रत्यूहगोत्रस्वरुः । चेतोऽतीतशिरुस्तथा जितवरुस्सत्सौख्यसंपत्करुः श्रीमत्सद्गुरुराघवेंद्रयतिराट् कुर्याद्ध्रुवं मंगलम् ॥ 8 ॥
यस्संध्यास्वनिशं गुरोर्यतिपतेः सन्मंगलस्याष्टकं सद्यः पापहरं स्वसेवि विदुषां भक्त्यैतदाभाषितम् । भक्त्या वक्ति सुसंपदं शुभपदं दीर्घायुरारोग्यकं कीर्तिं पुत्रकलत्रबांधवसुहृन्मूर्तिः प्रयाति ध्रुवम् ॥
इति श्रीमदप्पणाचार्यकृतं राघवेंद्रमंगलाष्टकं संपूर्णम् ।
Browse Related Categories: