Chanakya Neethi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः । पतिरेव गुरुः स्त्रीणां सर्वस्याभ्यागतो गुरुः ॥ 01 ॥
यथा चतुर्भिः कनकं परीक्ष्यते निघर्षणच्छेदनतापताडनैः । तथा चतुर्भिः पुरुषः परीक्ष्यते त्यागेन शीलेन गुणेन कर्मणा ॥ 02 ॥
तावद्भयेषु भेतव्यं यावद्भयमनागतम् । आगतं तु भयं वीक्ष्य प्रहर्तव्यमशंकया ॥ 03 ॥
एकोदरसमुद्भूता एकनक्षत्रजातकाः । न भवंति समाः शीले यथा बदरकंटकाः ॥ 04 ॥
निःस्पृहो नाधिकारी स्यान् नाकामो मंडनप्रियः । नाविदग्धः प्रियं ब्रूयात्स्पष्टवक्ता न वंचकः ॥ 05 ॥
मूर्खाणां पंडिता द्वेष्या अधनानां महाधनाः । परांगना कुलस्त्रीणां सुभगानां च दुर्भगाः ॥ 06 ॥
आलस्योपगता विद्या परहस्तगतं धनम् । अल्पबीजं हतं क्षेत्रं हतं सैन्यमनायकम् ॥ 07 ॥
अभ्यासाद्धार्यते विद्या कुलं शीलेन धार्यते । गुणेन ज्ञायते त्वार्यः कोपो नेत्रेण गम्यते ॥ 08 ॥
वित्तेन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते । मृदुना रक्ष्यते भूपः सत्स्त्रिया रक्ष्यते गृहम् ॥ 09 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
अन्यथा वेदशास्त्राणि ज्ञानपांडित्यमन्यथा । अन्यथा तत्पदं शांतं लोकाः क्लिश्यंति चाह्न्यथा ॥ 10 ॥
दारिद्र्यनाशनं दानं शीलं दुर्गतिनाशनम् । अज्ञाननाशिनी प्रज्ञा भावना भयनाशिनी ॥ 11 ॥
नास्ति कामसमो व्याधिर्नास्ति मोहसमो रिपुः । नास्ति कोपसमो वह्निर्नास्ति ज्ञानात्परं सुखम् ॥ 12 ॥
जन्ममृत्यू हि यात्येको भुनक्त्येकः शुभाशुभम् । नरकेषु पतत्येक एको याति परां गतिम् ॥ 13 ॥
तृणं ब्रह्मविदः स्वर्गस्तृणं शूरस्य जीवितम् । जिताशस्य तृणं नारी निःस्पृहस्य तृणं जगत् ॥ 14 ॥
विद्या मित्रं प्रवासे च भार्या मित्रं गृहेषु च । व्याधितस्यौषधं मित्रं धर्मो मित्रं मृतस्य च ॥ 15 ॥
वृथा वृष्टिः समुद्रेषु वृथा तृप्तस्य भोजनम् । वृथा दानं समर्थस्य वृथा दीपो दिवापि च ॥ 16 ॥
नास्ति मेघसमं तोयं नास्ति चात्मसमं बलम् । नास्ति चक्षुःसमं तेजो नास्ति धान्यसमं प्रियम् ॥ 17 ॥
अधना धनमिच्छंति वाचं चैव चतुष्पदाः । मानवाः स्वर्गमिच्छंति मोक्षमिच्छंति देवताः ॥ 18 ॥
सत्येन धार्यते पृथ्वी सत्येन तपते रविः । सत्येन वाति वायुश्च सर्वं सत्ये प्रतिष्ठितम् ॥ 19 ॥
चला लक्ष्मीश्चलाः प्राणाश्चले जीवितमंदिरे । चलाचले च संसारे धर्म एको हि निश्चलः ॥ 20 ॥
नराणां नापितो धूर्तः पक्षिणां चैव वायसः । चतुष्पादं शऋगालस्तु स्त्रीणां धूर्ता च मालिनी ॥ 21 ॥
जनिता चोपनेता च यस्तु विद्यां प्रयच्छति । अन्नदाता भयत्राता पंचैते पितरः स्मृताः ॥ 22 ॥
राजपत्नी गुरोः पत्नी मित्रपत्नी तथैव च । पत्नीमाता स्वमाता च पंचैता मातरः स्मृताः ॥ 23 ॥
Browse Related Categories: