Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
तरलमधुकृत् वृंदे वृंदावनेऽथ मनोहरे पशुपशिशुभिः साकं वत्सानुपालनलोलुपः । हलधरसखो देव श्रीमन् विचेरिथ धारयन् गवलमुरलीवेत्रं नेत्राभिरामतनुद्युतिः ॥1॥
विहितजगतीरक्षं लक्ष्मीकरांबुजलालितं ददति चरणद्वंद्वं वृंदावने त्वयि पावने । किमिव न बभौ संपत्संपूरितं तरुवल्लरी- सलिलधरणीगोत्रक्षेत्रादिकं कमलापते ॥2॥
विलसदुलपे कांतारांते समीरणशीतले विपुलयमुनातीरे गोवर्धनाचलमूर्धसु । ललितमुरलीनादः संचारयन् खलु वात्सकं क्वचन दिवसे दैत्यं वत्साकृतिं त्वमुदैक्षथाः ॥3॥
रभसविलसत्पुच्छं विच्छायतोऽस्य विलोकयन् किमपि वलितस्कंधं रंध्रप्रतीक्षमुदीक्षितम् । तमथ चरणे बिभ्रद्विभ्रामयन् मुहुरुच्चकैः कुहचन महावृक्षे चिक्षेपिथ क्षतजीवितम् ॥4॥
निपतति महादैत्ये जात्या दुरात्मनि तत्क्षणं निपतनजवक्षुण्णक्षोणीरुहक्षतकानने । दिवि परिमिलत् वृंदा वृंदारकाः कुसुमोत्करैः शिरसि भवतो हर्षाद्वर्षंति नाम तदा हरे ॥5॥
सुरभिलतमा मूर्धन्यूर्ध्वं कुतः कुसुमावली निपतति तवेत्युक्तो बालैः सहेलमुदैरयः । झटिति दनुजक्षेपेणोर्ध्वं गतस्तरुमंडलात् कुसुमनिकरः सोऽयं नूनं समेति शनैरिति ॥6॥
क्वचन दिवसे भूयो भूयस्तरे परुषातपे तपनतनयापाथः पातुं गता भवदादयः । चलितगरुतं प्रेक्षामासुर्बकं खलु विस्म्रृतं क्षितिधरगरुच्छेदे कैलासशैलमिवापरम् ॥7॥
पिबति सलिलं गोपव्राते भवंतमभिद्रुतः स किल निगिलन्नग्निप्रख्यं पुनर्द्रुतमुद्वमन् । दलयितुमगात्त्रोट्याः कोट्या तदाऽऽशु भवान् विभो खलजनभिदाचुंचुश्चंचू प्रगृह्य ददार तम् ॥8॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
सपदि सहजां संद्रष्टुं वा मृतां खलु पूतना- मनुजमघमप्यग्रे गत्वा प्रतीक्षितुमेव वा । शमननिलयं याते तस्मिन् बके सुमनोगणे किरति सुमनोवृंदं वृंदावनात् गृहमैयथाः ॥9॥
ललितमुरलीनादं दूरान्निशम्य वधूजनै- स्त्वरितमुपगम्यारादारूढमोदमुदीक्षितः । जनितजननीनंदानंदः समीरणमंदिर- प्रथितवसते शौरे दूरीकुरुष्व ममामयान् ॥10॥
Browse Related Categories: