Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
तव विलोकनाद्गोपिकाजनाः प्रमदसंकुलाः पंकजेक्षण । अमृतधारया संप्लुता इव स्तिमिततां दधुस्त्वत्पुरोगताः ॥1॥
तदनु काचन त्वत्करांबुजं सपदि गृह्णती निर्विशंकितम् । घनपयोधरे सन्निधाय सा पुलकसंवृता तस्थुषी चिरम् ॥2॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
तव विभोऽपरा कोमलं भुजं निजगलांतरे पर्यवेष्टयत् । गलसमुद्गतं प्राणमारुतं प्रतिनिरुंधतीवातिहर्षुला ॥3॥
अपगतत्रपा कापि कामिनी तव मुखांबुजात् पूगचर्वितम् । प्रतिगृहय्य तद्वक्त्रपंकजे निदधती गता पूर्णकामताम् ॥4॥
विकरुणो वने संविहाय मामपगतोऽसि का त्वामिह स्पृशेत् । इति सरोषया तावदेकया सजललोचनं वीक्षितो भवान् ॥5॥
इति मुदाऽऽकुलैर्वल्लवीजनैः सममुपागतो यामुने तटे । मृदुकुचांबरैः कल्पितासने घुसृणभासुरे पर्यशोभथाः ॥6॥
कतिविधा कृपा केऽपि सर्वतो धृतदयोदयाः केचिदाश्रिते । कतिचिदीदृशा मादृशेष्वपीत्यभिहितो भवान् वल्लवीजनैः ॥7॥
अयि कुमारिका नैव शंक्यतां कठिनता मयि प्रेमकातरे । मयि तु चेतसो वोऽनुवृत्तये कृतमिदं मयेत्यूचिवान् भवान् ॥8॥
अयि निशम्यतां जीववल्लभाः प्रियतमो जनो नेदृशो मम । तदिह रम्यतां रम्ययामिनीष्वनुपरोधमित्यालपो विभो ॥9॥
इति गिराधिकं मोदमेदुरैर्व्रजवधूजनैः साकमारमन् । कलितकौतुको रासखेलने गुरुपुरीपते पाहि मां गदात् ॥10॥
Browse Related Categories: