Vedic · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
नमो॑ अस्तु स॒र्पेभ्यो॒ ये के च॑ पृथि॒वी मनु॑ । ये अं॒तरि॑क्षे॒ ये दि॒वि तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ । (तै.सं.4.2.3)
ये॑ऽदो रो॑च॒ने दि॒वो ये वा॒ सूर्य॑स्य र॒श्मिषु॑ । येषा॑म॒प्सु सदः॑ कृ॒तं तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ।
या इष॑वो यातु॒धाना॑नां॒-येँ वा॒ वन॒स्पती॒ग्ं॒ रनु॑ । ये वा॑ऽव॒टेषु॒ शेर॑ते॒ तेभ्यः॑ स॒र्पेभ्यो॒ नमः॑ ।
इ॒दग्ं स॒र्पेभ्यो॑ ह॒विर॑स्तु॒ जुष्टम्᳚ । आ॒श्रे॒षा येषा॑मनु॒यंति॒ चेतः॑ । ये अं॒तरि॑क्षं पृथि॒वीं क्षि॒यंति॑ । ते न॑स्स॒र्पासो॒ हव॒माग॑मिष्ठाः । ये रो॑च॒ने सूर्य॒स्यापि॑ स॒र्पाः । ये दिवं॑ दे॒वीमनु॑स॒न्चरं॑ति । येषा॑माश्रे॒षा अ॑नु॒यंति॒ कामम्᳚ । तेभ्य॑स्स॒र्पेभ्यो॒ मधु॑मज्जुहोमि ॥ 2 ॥
नि॒घृष्वै॑रस॒मायु॑तैः । कालैर्हरित्व॑माप॒न्नैः । इंद्राया॑हि स॒हस्र॑युक् । अ॒ग्निर्वि॒भ्राष्टि॑वसनः । वा॒युश्वेत॑सिकद्रु॒कः । सं॒वँ॒थ्स॒रो वि॑षू॒वर्णैः᳚ । नित्या॒स्तेऽनुच॑रास्त॒व । सुब्रह्मण्योग्ं सुब्रह्मण्योग्ं सु॑ब्रह्मण्योग्म् ॥ 3 ॥
ॐ शांतिः शांतिः शांतिः ॥
Browse Related Categories:
Offered for worship and study, not as prediction. Non-commercial.