Shiva · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
॥ॐ ॐ॥ ॐकारबिंदु संयुक्तं नित्यं ध्यायंति योगिनः । कामदं मोक्षदं तस्मादोंकाराय नमोनमः ॥ 1 ॥
॥ॐ नं॥ नमंति मुनयः सर्वे नमंत्यप्सरसां गणाः । नराणामादिदेवाय नकाराय नमोनमः ॥ 2 ॥
॥ॐ मं॥ महातत्वं महादेव प्रियं ज्ञानप्रदं परम् । महापापहरं तस्मान्मकाराय नमोनमः ॥ 3 ॥
॥ॐ शिं॥ शिवं शांतं शिवाकारं शिवानुग्रहकारणम् । महापापहरं तस्माच्छिकाराय नमोनमः ॥ 4 ॥
॥ॐ वां॥ वाहनं वृषभोयस्य वासुकिः कंठभूषणम् । वामे शक्तिधरं देवं वकाराय नमोनमः ॥ 5 ॥
॥ॐ यं॥ यकारे संस्थितो देवो यकारं परमं शुभम् । यं नित्यं परमानंदं यकाराय नमोनमः ॥ 6 ॥
षडक्षरमिदं स्तोत्रं यः पठेच्छिव सन्निधौ । तस्य मृत्युभयं नास्ति ह्यपमृत्युभयं कुतः ॥
शिवशिवेति शिवेति शिवेति वा भवभवेति भवेति भवेति वा । हरहरेति हरेति हरेति वा भजमनश्शिवमेव निरंतरम् ॥
इति श्रीमत्परमहंस परिव्राजकाचार्य श्रीमच्छंकरभगवत्पादपूज्यकृत शिवषडक्षरीस्तोत्रं संपूर्णम् ।
Offered for worship and study, not as prediction. Non-commercial.
Browse Related Categories: