Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
ऋषय ऊचु ।
जितं जितं तेऽजित यज्ञभावना त्रयीं तनूं स्वां परिधुन्वते नमः । यद्रोमगर्तेषु निलिल्युरध्वराः तस्मै नमः कारणसूकराय ते ॥ 1 ॥
रूपं तवैतन्ननु दुष्कृतात्मनां दुर्दर्शनं देव यदध्वरात्मकम् । छंदांसि यस्य त्वचि बर्हिरोम- स्स्वाज्यं दृशि त्वंघ्रिषु चातुर्होत्रम् ॥ 2 ॥
स्रुक्तुंड आसीत्स्रुव ईश नासयो- रिडोदरे चमसाः कर्णरंध्रे । प्राशित्रमास्ये ग्रसने ग्रहास्तु ते यच्चर्वणंते भगवन्नग्निहोत्रम् ॥ 3 ॥
दीक्षानुजन्मोपसदः शिरोधरं त्वं प्रायणीयो दयनीय दंष्ट्रः । जिह्वा प्रवर्ग्यस्तव शीर्षकं क्रतोः सभ्यावसथ्यं चितयोऽसवो हि ते ॥ 4 ॥
सोमस्तु रेतः सवनान्यवस्थितिः संस्थाविभेदास्तव देव धातवः । सत्राणि सर्वाणि शरीरसंधि- स्त्वं सर्वयज्ञक्रतुरिष्टिबंधनः ॥ 5 ॥
नमो नमस्तेऽखिलयंत्रदेवता द्रव्याय सर्वक्रतवे क्रियात्मने । वैराग्य भक्त्यात्मजयाऽनुभावित ज्ञानाय विद्यागुरवे नमॊ नमः ॥ 6 ॥
दंष्ट्राग्रकोट्या भगवंस्त्वया धृता विराजते भूधर भूस्सभूधरा । यथा वनान्निस्सरतो दता धृता मतंगजेंद्रस्य स पत्रपद्मिनी ॥ 7 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
त्रयीमयं रूपमिदं च सौकरं भूमंडले नाथ तदा धृतेन ते । चकास्ति शृंगोढघनेन भूयसा कुलाचलेंद्रस्य यथैव विभ्रमः ॥ 8 ॥
संस्थापयैनां जगतां सतस्थुषां लोकाय पत्नीमसि मातरं पिता । विधेम चास्यै नमसा सह त्वया यस्यां स्वतेजोऽग्निमिवारणावधाः ॥ 9 ॥
कः श्रद्धधीतान्यतमस्तव प्रभो रसां गताया भुव उद्विबर्हणम् । न विस्मयोऽसौ त्वयि विश्वविस्मये यो माययेदं ससृजेऽति विस्मयम् ॥ 10 ॥
विधुन्वता वेदमयं निजं वपु- र्जनस्तपः सत्यनिवासिनो वयम् । सटाशिखोद्धूत शिवांबुबिंदुभि- र्विमृज्यमाना भृशमीश पाविताः ॥ 11 ॥
स वै बत भ्रष्टमतिस्तवैष ते यः कर्मणां पारमपारकर्मणः । यद्योगमाया गुण योग मोहितं विश्वं समस्तं भगवन् विधेहि शम् ॥ 12 ॥
इति श्रीमद्भागवते महापुराणे तृतीयस्कंधे श्री वराह प्रादुर्भावोनाम त्रयोदशोध्यायः ।
Browse Related Categories: