Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
मार्कंडेय उवाच
नारायणं परब्रह्म सर्व-कारण-कारणम् । प्रपद्ये वेंकटेशाख्यं तदेव कवचं मम ॥ 1 ॥
सहस्र-शीर्षा पुरुषो वेंकटेश-श्शिरोऽवतु । प्राणेशः प्राण-निलयः प्राणान् रक्षतु मे हरिः ॥ 2 ॥
आकाशरा-ट्सुतानाथ आत्मानं मे सदावतु । देवदेवोत्तमो पायाद्देहं मे वेंकटेश्वरः ॥ 3 ॥
सर्वत्र सर्वकालेषु मंगांबाजा-निरीश्वरः । पालयेन्मां सदा कर्म-साफल्यं नः प्रयच्छतु ॥ 4 ॥
य एत-द्वज्रकवच-मभेद्यं वेंकटेशितुः । सायं प्रातः पठेन्नित्यं मृत्युं तरति निर्भयः ॥ 5 ॥
इति मार्कंडेय-कृतं श्री वेंकटेश्वर वज्रकवच-स्तोत्रं संपूर्णम् ॥
Browse Related Categories:
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts