Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
लक्ष्मीभर्तुर्भुजाग्रे कृतवसति सितं यस्य रूपं विशालं नीलाद्रेस्तुंगशृंगस्थितमिव रजनीनाथबिंबं विभाति । पायान्नः पांचजन्यः स दितिसुतकुलत्रासनैः पूरयन्स्वै- -र्निध्वानैर्नीरदौघध्वनिपरिभवदैरंबरं कंबुराजः ॥ 1 ॥
आहुर्यस्य स्वरूपं क्षणमुखमखिलं सूरयः कालमेतं ध्वांतस्यैकांतमंतं यदपि च परमं सर्वधाम्नां च धाम । चक्रं तच्चक्रपाणेर्दितिजतनुगलद्रक्तधाराक्तधारं शश्वन्नो विश्ववंद्यं वितरतु विपुलं शर्म धर्मांशुशोभम् ॥ 2 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
अव्यान्निर्घातघोरो हरिभुजपवनामर्शनाध्मातमूर्ते- -रस्मान्विस्मेरनेत्रत्रिदशनुतिवचःसाधुकारैः सुतारः । सर्वं संहर्तुमिच्छोररिकुलभुवन स्फारविष्फारनादः संयत्कल्पांतसिंधौ शरसलिलघटावार्मुचः कार्मुकस्य ॥ 3 ॥
जीमूतश्यामभासा मुहुरपि भगवद्बाहुना मोहयंती युद्धेषूद्धूयमाना झटिति तटिदिवालक्ष्यते यस्य मूर्तिः । सोऽसिस्त्रासाकुलाक्षत्रिदशरिपुवपुःशोणितास्वादतृप्तो नित्यानंदाय भूयान्मधुमथनमनोनंदनो नंदको नः ॥ 4 ॥
कम्राकारा मुरारेः करकमलतलेनानुरागाद्गृहीता सम्यग्वृत्ता स्थिताग्रे सपदि न सहते दर्शनं या परेषाम् । राजंती दैत्यजीवासवमदमुदिता लोहितालेपनार्द्रा कामं दीप्तांशुकांता प्रदिशतु दयितेवास्य कौमोदकी नः ॥ 5 ॥
यो विश्वप्राणभूतस्तनुरपि च हरेर्यानकेतुस्वरूपो यं संचिंत्यैव सद्यः स्वयमुरगवधूवर्गगर्भाः पतंति । चंचच्चंडोरुतुंडत्रुटितफणिवसारक्तपंकांकितस्यं वंदे छंदोमयं तं खगपतिममलस्वर्णवर्णं सुपर्णम् ॥ 6 ॥
विष्णोर्विश्वेश्वरस्य प्रवरशयनकृत्सर्वलोकैकधर्ता सोऽनंतः सर्वभूतः पृथुविमलयशाः सर्ववेदैश्च वेद्यः । पाता विश्वस्य शश्वत्सकलसुररिपुध्वंसनः पापहंता सर्वज्ञः सर्वसाक्षी सकलविषभयात्पातु भोगीश्वरो नः ॥ 7 ॥
वाग्भूगैर्यादिभेदैर्विदुरिह मुनयो यां यदीयैश्च पुंसां कारुण्यार्द्रैः कटाक्षैः सकृदपि पतितैः संपदः स्युः समग्राः । कुंदेंदुस्वच्छमंदस्मितमधुरमुखांभोरुहां सुंदरांगीं वंदे वंद्यामशेषैरपि मुरभिदुरोमंदिरामिंदिरां ताम् ॥ 8 ॥
या सूते सत्त्वजालं सकलमपि सदा संनिधानेन पुंसो धत्ते या तत्त्वयोगाच्चरमचरमिदं भूतये भूतजातम् । धात्रीं स्थात्रीं जनित्रीं प्रकृतिमविकृतिं विश्वशक्तिं विधात्रीं विष्णोर्विश्वात्मनस्तां विपुलगुणमयीं प्राणनाथां प्रणौमि ॥ 9 ॥
येभ्योऽसूयद्भिरुच्चैः सपदि पदमुरु त्यज्यते दैत्यवर्गै- -र्येभो धर्तुं च मूर्ध्ना स्पृहयति सततं सर्वगीर्वाणवर्गः । नित्यं निर्मूलयेयुर्निचिततरममी भक्तिनिघ्नात्मनां नः पद्माक्षस्यांघ्रिपद्मद्वयतलनिलयाः पांसवः पापपंकम् ॥ 10 ॥
रेखा लेखादिवंद्याश्चरणतलगताश्चक्रमत्स्यादिरूपाः स्निग्धाः सूक्ष्माः सुजाता मृदुललिततरक्षौमसूत्रायमाणाः । दद्युर्नो मंगलानि भ्रमरभरजुषा कोमलेनाब्धिजायाः कम्रेणाम्रेड्यमानाः किसलयमृदुना पाणिना चक्रपाणेः ॥ 11 ॥
यस्मादाक्रामतो द्यां गरुडमणिशिलाकेतुदंडायमाना दाश्च्योतंती बभासे सुरसरिदमला वैजयंतीव कांता । भूमिष्ठो यस्तथान्यो भुवनगृहबृहत्स्तंभशोभां दधौ नः पातामेतौ पायोजोदरललिततलौ पंकजाक्षस्य पादौ ॥ 12 ॥
आक्रामद्भ्यां त्रिलोकीमसुरसुरपती तत्क्षणादेव नीतौ याभ्यां वैरोचनींद्रौ युगपदपि विपत्संपदोरेकधामः । ताभ्यां ताम्रोदराभ्यां मुहुरहमजितस्यांचिताभ्यामुभाभ्यां प्राज्यैश्वर्यप्रदाभ्यां प्रणतिमुपगतः पादपंकेरुहाभ्याम् ॥ 13 ॥
येभ्यो वर्णश्चतुर्थश्चरमत उदभूदादिसर्गे प्रजानां साहस्री चापि संख्या प्रकटमभिहिता सर्ववेदेषु येषाम् । प्राप्ता विश्वंभरा यैरतिवितततनोर्विश्वमूर्तेर्विराजो विष्णोस्तेभ्यो महद्भ्यः सततमपि नमोऽस्त्वंघ्रिपंकेरुहेभ्यः ॥ 14 ॥
विष्णोः पादद्वयाग्रे विमलनखमणिभ्राजिता राजते या राजीवस्येव रम्या हिमजलकणिकालंकृताग्रा दलाली । अस्माकं विस्मयार्हाण्यखिलजनमन प्रार्थनीया हि सेयं दद्यादाद्यानवद्या ततिरतिरुचिरा मंगलान्यंगुलीनाम् ॥ 15 ॥
यस्यां दृष्ट्वामलायां प्रतिकृतिममराः संभवंत्यानमंतः सेंद्राः सांद्रीकृतेर्ष्यास्त्वपरसुरकुलाशंकयातंकवंतः । सा सद्यः सातिरेकां सकलसुखकरीं संपदं साधयेन्न- -श्चंचच्चार्वंशुचक्रा चरणनलिनयोश्चक्रपाणेर्नखाली ॥ 16 ॥
पादांभोजन्मसेवासमवनतसुरव्रातभास्वत्किरीट- -प्रत्युप्तोच्चावचाश्मप्रवरकरगणैश्चिंतितं यद्विभाति । नम्रांगानां हरेर्नो हरिदुपलमहाकूर्मसौंदर्यहारि- -च्छायं श्रेयःप्रदायि प्रपदयुगमिदं प्रापयेत्पापमंतम् ॥ 17 ॥
श्रीमत्यौ चारुवृत्ते करपरिमलनानंदहृष्टे रमायाः सौंदर्याढ्येंद्रनीलोपलरचितमहादंडयोः कांतिचोरे । सूरींद्रैः स्तूयमाने सुरकुलसुखदे सूदितारातिसंघे जंघे नारायणीये मुहुरपि जयतामस्मदंहो हरंत्यौ ॥ 18 ॥
सम्यक्साह्यं विधातुं सममिव सततं जंघयोः खिन्नयोर्ये भारीभूतोरुदंडद्वयभरणकृतोत्तंभभावं भजेते । चित्तादर्शं निधातुं महितमिव सतां ते समुद्रायमाने वृत्ताकारे विधत्तां ह्यदि मुदमजितस्यानिशं जानुनी नः ॥ 19 ॥
देवो भीतिं विधातुः सपदि विदधतौ कैटभाख्यं मधुं चा- -प्यारोप्यारूढगर्वावधिजलधि ययोरादिदैत्यौ जघान । वृत्तावन्योन्यतुल्यौ चतुरमुपचयं बिभ्रतावभ्रनीला- -वूरू चारू हरेस्तौ मुदमतिशयिनीं मानसे नो विधत्ताम् ॥ 20 ॥
पीतेन द्योतते यच्चतुरपरिहितेनांबरेणात्युदारं जातालंकारयोगं जलमिव जलधेर्बाडबाग्निप्रभाभिः । एतत्पातित्यदान्नो जघनमतिघनादेनसो माननीयं सातत्येनैव चेतोविषयमवतरत्पातु पीतांबरस्य ॥ 21 ॥
यस्या दाम्ना त्रिधाम्नो जघनकलितया भ्राजतेऽंगं यथाब्धे- -र्मध्यस्थो मंदराद्रिर्भुजगपतिमहाभोगसंनद्धमध्यः । कांची सा कांचनाभा मणिवरकिरणैरुल्लसद्भिः प्रदीप्ता कल्यां कल्याणदात्रीं मम मतिमनिशं कम्ररूपां करोतु ॥ 22 ॥
उन्नम्रं कम्रमुच्चैरुपचितमुदभूद्यत्र पत्रैर्विचित्रैः पूर्वं गीर्वाणपूज्यं कमलजमधुपस्यास्पदं तत्पयोजम् । यस्मिन्नीलाश्मनीलैस्तरलरुचिजलैः पूरिते केलिबुद्ध्या नालीकाक्षस्य नाभीसरसि वसतु नश्चित्तहंसश्चिराय ॥ 23 ॥
पातालं यस्य नालं वलयमपि दिशां पत्रपंक्तीर्नगेंद्रा- -न्विद्वांसः केसरालीर्विदुरिह विपुलां कर्णिकां स्वर्णशैलम् । भूयाद्गायत्स्वयंभूमधुकरभवनं भूमयं कामदं नो नालीकं नाभिपद्माकरभवमुरु तन्नागशय्यस्य शौरेः ॥ 24 ॥
आदौ कल्पस्य यस्मात्प्रभवति विततं विश्वमेतद्विकल्पैः कल्पांते यस्य चांत प्रविशति सकलं स्थावरं जंगमं च । अत्यंताचिंत्यमूर्तेश्चिरतरमजितस्यांतरिक्षस्वरूपे तस्मिन्नस्माकमंतःकरणमतिमुदा क्रीडतात्क्रोडभागे ॥ 25 ॥
कांत्यंभःपूरपूर्णे लसदसितवलीभंगभास्वत्तरंगे गंभीराकारनाभीचतुरतरमहावर्तशोभिन्युदारे । क्रीडत्वानद्वहेमोदरनहनमहाबाडबाग्निप्रभाढ्ये कामं दामोदरीयोदरसलिलनिधौ चित्तमत्स्यश्चिरं नः ॥ 26 ॥
नाभीनालीकमूलादधिकपरिमलोन्मोहितानामलीनां माला नीलेव यांती स्फुरति रुचिमती वक्त्रपद्मोन्मुखी या । रम्या सा रोमराजिर्महितरुचिकरी मध्यभागस्य विष्णो- -श्चित्तस्था मा विरंसीच्चिरतरमुचितां साधयंती श्रियं नः ॥ 27 ॥
संस्तीर्णं कौस्तुभांशुप्रसरकिसलयैर्मुग्धमुक्ताफलाढ्यं श्रीवत्सोल्लासि फुल्लप्रतिनववनमालांकि राजद्भुजांतम् । वक्षः श्रीवृक्षकांतं मधुकरनिकरश्यामलं शार्ङ्गपाणेः संसाराध्वश्रमार्तैरुपवनमिव यत्सेवितं तत्प्रपद्ये ॥ 28 ॥
कांतं वक्षो नितांतं विदधदिव गलं कालिमा कालशत्रो- -रिंदोर्बिंबं यथांको मधुप इव तरोर्मंजरीं राजते यः । श्रीमान्नित्यं विधेयादविरलमिलितः कौस्तुभश्रीप्रतानैः श्रीवत्सः श्रीपतेः स श्रिय इव दयितो वत्स उच्चैःश्रियं नः ॥ 29 ॥
संभूयांभोधिमध्यात्सपदि सहजया यः श्रिया संनिधत्ते नीले नारायणोरःस्थलगगनतले हारतारोपसेव्ये । आशाः सर्वाः प्रकाशा विदधदपिदधच्चात्मभासान्यतेजा- -स्याश्चर्यस्याकरो नो द्युमणिरिव मणिः कौस्तुभः सोऽस्तुभूत्यै ॥ 30 ॥
या वायावानुकूल्यात्सरति मणिरुचा भासमाना समाना साकं साकंपमंसे वसति विदधती वासुभद्रं सुभद्रम् । सारं सारंगसंघैर्मुखरितकुसुमा मेचकांता च कांता माला मालालितास्मान्न विरमतु सुखैर्योजयंती जयंती ॥ 31 ॥
हारस्योरुप्रभाभिः प्रतिनववनमालाशुभिः प्रांशुरूपैः श्रीभिश्चाप्यंगदानां कबलितरुचि यन्निष्कभाभिश्च भाति । बाहुल्येनैव बद्धांजलिपुटमजितस्याभियाचामहे त- -द्वंधार्तिं बाधतां नो बहुविहतिकरीं बंधुरं बाहुमूलम् ॥ 32 ॥
विश्वत्राणैकदीक्षास्तदनुगुणगुणक्षत्रनिर्माणदक्षाः कर्तारो दुर्निरूपस्फुटगुणयशसा कर्मणामद्भुतानाम् । शार्ङ्गं बाणं कृपाणं फलकमरिगदे पद्मशंखौ सहस्रं बिभ्राणाः शस्त्रजालं मम दधतु हरेर्बाहवो मोहहानिम् ॥ 33 ॥
कंठाकल्पोद्गतैर्यः कनकमयलसत्कुंडलोत्थैरुदारै- -रुद्योतैः कौस्तुभस्याप्युरुभिरुपचितश्चित्रवर्णो विभाति । कंठाश्लेषे रमायाः करवलयपदैर्मुद्रिते भद्ररूपे वैकुंठीयेऽत्र कंठे वसतु मम मतिः कुंठभावं विहाय ॥ 34 ॥
पद्मानंदप्रदाता परिलसदरुणश्रीपरीताग्रभागः काले काले च कंबुप्रवरशशधरापूरणे यः प्रवीणः । वक्त्राकाशांतरस्थस्तिरयति नितरां दंततारौघशोभां श्रीभर्तुर्दंतवासोद्युमणिरघतमोनाशनायास्त्वसौ नः ॥ 35 ॥
नित्यं स्नेहातिरेकान्निजकमितुरलं विप्रयोगाक्षमा या वक्त्रेंदोरंतराले कृतवसतिरिवाभाति नक्षत्रराजिः । लक्ष्मीकांतस्य कांताकृतिरतिविलसन्मुग्धमुक्तावलिश्री- -र्दंताली संततं सा नतिनुतिनिरतानक्षतान्रक्षतान्नः ॥ 36 ॥
ब्रह्मन्ब्रह्मण्यजिह्मां मतिमपि कुरुषे देव संभावये त्वां शंभो शक्र त्रिलोकीमवसि किममरैर्नारदाद्याः सुखं वः । इत्थं सेवावनम्रं सुरमुनिनिकरं वीक्ष्य विष्णोः प्रसन्न- -स्यास्येंदोरास्रवंती वरवचनसुधाह्लादयेन्मानसं नः ॥ 37 ॥
कर्णस्थस्वर्णकम्रोज्ज्वलमकरमहाकुंडलप्रोतदीप्य- -न्माणिक्यश्रीप्रतानैः परिमिलितमलिश्यामलं कोमलं यत् । प्रोद्यत्सूर्यांशुराजन्मरकतमुकुराकारचोरं मुरारे- -र्गाढामागामिनीं नः शमयतु विपदं गंडयोर्मंडलं तत् ॥ 38 ॥
वक्त्रांभोजे लसंतं मुहुरधरमणिं पक्वबिंबाभिरामं दृष्ट्वा द्रष्टुं शुकस्य स्फुटमवतरतस्तुंडदंडायते यः । घोणः शोणीकृतात्मा श्रवणयुगलसत्कुंडलोस्रैर्मुरारेः प्राणाख्यस्यानिलस्य प्रसरणसरणिः प्राणदानाय नः स्यात् ॥ 39 ॥
दिक्कालौ वेदयंतौ जगति मुहुरिमौ संचरंतौ रवींदू त्रैलोक्यालोकदीपावभिदधति ययोरेव रूपं मुनींद्राः । अस्मानब्जप्रभे ते प्रचुरतरकृपानिर्भरं प्रेक्षमाणे पातामाताम्रशुक्लासितरुचिरुचिरे पद्मनेत्रस्य नेत्रे ॥ 40 ॥
पातात्पातालपातात्पतगपतिगतेर्भ्रूयुगं भुग्नमध्यं येनेषच्चालितेन स्वपदनियमिताः सासुरा देवसंघाः । नृत्यल्लालाटरंगे रजनिकरतनोरर्धखंडावदाते कालव्यालद्वयं वा विलसति समया वालिकामातरं नः ॥ 41 ॥
लक्ष्माकारालकालिस्फुरदलिकशशांकार्धसंदर्शमील- -न्नेत्रांभोजप्रबोधोत्सुकनिभृततरालीनभृंगच्छटाभे । लक्ष्मीनाथस्य लक्ष्यीकृतविबुधगणापांगबाणासनार्ध- -च्छाये नो भूरिभूतिप्रसवकुशलते भ्रूलते पालयेताम् ॥ 42 ॥
रूक्षस्मारेक्षुचापच्युतशरनिकरक्षीणलक्ष्मीकटाक्ष- -प्रोत्फुल्लत्पद्ममालाविलसितमहितस्फाटिकैशानलिंगम् । भूयाद्भूयो विभूत्यै मम भुवनपतेर्भ्रूलताद्वंद्वमध्या- -दुत्थं तत्पुंड्रमूर्ध्वं जनिमरणतमःखंडनं मंडनं च ॥ 43 ॥
पीठीभूतालकांते कृतमकुटमहादेवलिंगप्रतिष्ठे लालाटे नाट्यरंगे विकटतरतटे कैटभारेश्चिराय । प्रोद्धाट्यैवात्मतंद्रीप्रकटपटकुटीं प्रस्फुरंतीं स्फुटांगं पट्वीयं भावनाख्यां चटुलमतिनटी नाटिकां नाटयेन्नः ॥ 44 ॥
मालालीवालिधाम्नः कुवलयकलिता श्रीपतेः कुंतलाली कालिंद्यारुह्य मूर्ध्नो गलति हरशिरःस्वर्धुनीस्पर्धया नु । राहुर्वा याति वक्त्रं सकलशशिकलाभ्रांतिलोलांतरात्मा लोकैरालोक्यते या प्रदिशतु सततं साखिलं मंगलं नः ॥ 45 ॥
सुप्ताकाराः प्रसुप्ते भगवति विबुधैरप्यदृष्टस्वरूपा व्याप्तव्योमांतरालास्तरलमणिरुचा रंजिताः स्पष्टभासः । देहच्छायोद्गमाभा रिपुवपुरगुरुप्लोषरोषाग्निधूम्याः केशाः केशिद्विषो नो विदधतु विपुलक्लेशपाशप्रणाशम् ॥ 46 ॥
यत्र प्रत्युप्तरत्नप्रवरपरिलसद्भूरिरोचिष्प्रतान- -स्फूर्त्यां मूर्तिर्मुरारेर्द्युमणिशतचितव्योमवद्दुर्निरीक्ष्या । कुर्वत्पारेपयोधि ज्वलदकृशशिखाभास्वदौर्वाग्निशंकां शश्वन्नः शर्म दिश्यात्कलिकलुषतमःपाटनं तत्किरीटम् ॥ 47 ॥
भ्रांत्वा भ्रांत्वा यदंतस्त्रिभुवनगुरुरप्यब्दकोटीरनेका गंतुं नांतं समर्थो भ्रमर इव पुनर्नाभिनालीकनालात् । उन्मज्जन्नूर्जितश्रीस्त्रिभुवनमपरं निर्ममे तत्सदृक्षं देहांभोधिः स देयान्निरवधिरमृतं दैत्यविद्वेषिणो नः ॥ 48 ॥
मत्स्यः कूर्मो वराहो नरहरिणपतिर्वामनो जामदग्न्यः काकुत्स्थः कंसघाती मनसिजविजयी यश्च कल्किर्भविष्यन् । विष्णोरंशावतरा भुवनहितकरा धर्मसंस्थापनार्थाः पायासुर्मां त एते गुरुतरकरुणाभारखिन्नाशया ये ॥ 49 ॥
यस्माद्वाचो निवृत्ताः सममपि मनसा लक्षणामीक्षमाणाः स्वार्थालाभात्परार्थव्यपगमकथनश्लाघिनो वेदवादाः । नित्यानंदं स्वसंविन्निरवधिविमलस्वांतसंक्रांतबिंब- -च्छायापत्यापि नित्यं सुखयति यमिनो यत्तदव्यान्महो नः ॥ 50 ॥
आपादादा च शीर्षाद्वपुरिदमनघं वैष्णवं यः स्वचित्ते धत्ते नित्यं निरस्ताखिलकलिकलुष संततांतः प्रमोदम् । जुह्वज्जिह्वाकृशानौ हरिचरितहविः स्तोत्रमंत्रानुपाठै- -स्तत्पादांभोरुहाभ्यां सततमपि नमस्कुर्महे निर्मलाभ्याम् ॥ 51 ॥
मोदात्पादादिकेशस्तुतिमितिरचिता कीर्तयित्वा त्रिधाम्न पादाब्जद्वंद्वसेवासमयनतमतिर्मस्तकेनानमेद्य । उन्मुच्यैवात्मनैनोनिचयकवचक पंचतामेत्य भानो- -र्बिंबांतर्गोचर स प्रविशति परमानंदमात्मस्वरूपम् ॥ 52 ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविंदभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ श्री विष्णु पादादिकेशांतवर्णण स्तोत्रं संपूर्णम् ।
Browse Related Categories: