Navagraha · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
महीसुतो महाभागो मंगलो मंगलप्रदः । महावीरो महाशूरो महाबलपराक्रमः ॥ 1 ॥
महारौद्रो महाभद्रो माननीयो दयाकरः । मानदोऽमर्षणः क्रूरस्तापपापविवर्जितः ॥ 2 ॥
सुप्रतीपः सुताम्राक्षः सुब्रह्मण्यः सुखप्रदः । वक्रस्तंभादिगमनो वरेण्यो वरदः सुखी ॥ 3 ॥
वीरभद्रो विरूपाक्षो विदूरस्थो विभावसुः । नक्षत्रचक्रसंचारी क्षत्रपः क्षात्रवर्जितः ॥ 4 ॥
क्षयवृद्धिविनिर्मुक्तः क्षमायुक्तो विचक्षणः । अक्षीणफलदः चक्षुर्गोचरः शुभलक्षणः ॥ 5 ॥
वीतरागो वीतभयो विज्वरो विश्वकारणः । नक्षत्रराशिसंचारो नानाभयनिकृंतनः ॥ 6 ॥
कमनीयो दयासारः कनत्कनकभूषणः । भयघ्नो भव्यफलदो भक्ताभयवरप्रदः ॥ 7 ॥
शत्रुहंता शमोपेतः शरणागतपोषकः । साहसः सद्गुणाऽध्यक्षः साधुः समरदुर्जयः ॥ 8 ॥
दुष्टदूरः शिष्टपूज्यः सर्वकष्टनिवारकः । दुश्चेष्टवारको दुःखभंजनो दुर्धरो हरिः ॥ 9 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
दुःस्वप्नहंता दुर्धर्षो दुष्टगर्वविमोचकः । भरद्वाजकुलोद्भूतो भूसुतो भव्यभूषणः ॥ 10 ॥
रक्तांबरो रक्तवपुर्भक्तपालनतत्परः । चतुर्भुजो गदाधारी मेषवाहोऽमिताशनः ॥ 11 ॥
शक्तिशूलधरः शक्तः शस्त्रविद्याविशारदः । तार्किकस्तामसाधारस्तपस्वी ताम्रलोचनः ॥ 12 ॥
तप्तकांचनसंकाशो रक्तकिंजल्कसन्निभः । गोत्राधिदेवो गोमध्यचरो गुणविभूषणः ॥ 13 ॥
असृगंगारकोऽवंतीदेशाधीशो जनार्दनः । सूर्ययाम्यप्रदेशस्थो यौवनो याम्यदिङ्मुखः ॥ 14 ॥
त्रिकोणमंडलगतस्त्रिदशाधिपसन्नुतः । शुचिः शुचिकरः शूरो शुचिवश्यः शुभावहः ॥ 15 ॥
मेषवृश्चिकराशीशो मेधावी मितभाषणः । सुखप्रदः सुरूपाक्षः सर्वाभीष्टफलप्रदः ॥ 16 ॥
इति श्री अंगारकाष्टोत्तरशतनाम स्तोत्रम् ।
Browse Related Categories: