Surya Bhagavan · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
उद्यन्नद्यविवस्वानारोहन्नुत्तरां दिवं देवः । हृद्रोगं मम सूर्यो हरिमाणं चाऽऽशु नाशयतु ॥ 1 ॥
निमिषार्धेनैकेन द्वे च शते द्वे सहस्रे द्वे । क्रममाण योजनानां नमोऽस्तु ते नलिननाथाय ॥ 2 ॥
कर्मज्ञानखदशकं मनश्च जीव इति विश्वसर्गाय । द्वादशधा यो विचरति स द्वादशमूर्तिरस्तु मोदाय ॥ 3 ॥
त्वं हि यजूऋक्सामः त्वमागमस्त्वं वषट्कारः । त्वं विश्वं त्वं हंसः त्वं भानो परमहंसश्च ॥ 4 ॥
शिवरूपात् ज्ञानमहं त्वत्तो मुक्तिं जनार्दनाकारात् । शिखिरूपादैश्वर्यं त्वत्तश्चारोग्यमिच्छामि ॥ 5 ॥
त्वचि दोषा दृशि दोषाः हृदि दोषा येऽखिलेंद्रियजदोषाः । तान् पूषा हतदोषः किंचिद्रोषाग्निना दहतु ॥ 6 ॥
धर्मार्थकाममोक्षप्रतिरोधानुग्रतापवेगकरान् । बंदीकृतेंद्रियगणान् गदान् विखंडयतु चंडांशुः ॥ 7 ॥
येन विनेदं तिमिरं जगदेत्य ग्रसति चरमचरमखिलम् । धृतबोधं तं नलिनीभर्तारं हर्तारमापदामीडे ॥ 8 ॥
यस्य सहस्राभीशोरभीशु लेशो हिमांशुबिंबगतः । भासयति नक्तमखिलं भेदयतु विपद्गणानरुणः ॥ 9 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
तिमिरमिव नेत्रतिमिरं पटलमिवाऽशेषरोगपटलं नः । काशमिवाधिनिकायं कालपिता रोगयुक्ततां हरतात् ॥ 10 ॥
वाताश्मरीगदार्शस्त्वग्दोषमहोदरप्रमेहांश्च । ग्रहणीभगंधराख्या महतीस्त्वं मे रुजो हंसि ॥ 11 ॥
त्वं माता त्वं शरणं त्वं धाता त्वं धनं त्वमाचार्यः । त्वं त्राता त्वं हर्ता विपदामर्क प्रसीद मम भानो ॥ 12 ॥
इत्यार्याद्वादशकं सांबस्य पुरो नभःस्थलात्पतितम् । पठतां भाग्यसमृद्धिः समस्तरोगक्षयश्च स्यात् ॥ 13 ॥
इति श्रीसांबकृतद्वादशार्यासूर्यस्तुतिः ।
Browse Related Categories: