Nitya Parayana · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
ॐ सच्चिदानंद रूपाय नमोस्तु परमात्मने । ज्योतिर्मय स्वरूपाय विश्वमांगल्यमूर्तये ॥
प्रकृतिः पंच भूतानि ग्रहालोकाः स्वरा स्तधा । दिशः कालश्च सर्वेषां सदा कुर्वंतु मंगलम् ॥
रत्नाकरा धौतपदां हिमालय किरीटिनीम् । ब्रह्मराजर्षि रत्नाढ्यां वंदे भारत मातरम् ॥
महेंद्रो मलयः सह्यो देवतात्मा हिमालयः । ध्येयो रैवतको विंध्यो गिरिश्चारावलिस्तधा ॥
गंगा सरस्वती सिंधुर् ब्रह्मपुत्रश्च गंडकी । कावेरी यमुना रेवा कृष्णागोदा महानदी ॥
अयोध्या मधुरा माया काशीकांची अवंतिका । वैशाली द्वारिका ध्येया पुरी तक्षशिला गया ॥
प्रयागः पाटली पुत्रं विजयानगरं महत् । इंद्रप्रस्धं सोमनाधः तधामृतसरः प्रियम् ॥
चतुर्वेदाः पुराणानि सर्वोपनिषदस्तधा । रामायणं भारतं च गीता षड्दर्शनानि च ॥
जैनागमा स्त्रिपिटका गुरुग्रंधः सतां गिरः । एषः ज्ञाननिधिः श्रेष्ठः हृदि सर्वदा ॥
Offered for worship and study, not as prediction. Non-commercial.
अरुंधत्यनसूय च सावित्री जानकी सती । द्रौपदी कण्णगी गार्गी मीरा दुर्गावती तधा ॥
लक्ष्मी रहल्या चॆन्नम्मा रुद्रमांबा सुविक्रमा । निवेदिता शारदा च प्रणम्याः मातृदेवताः ॥
श्रीरामो भरतः कृष्णो भीष्मो धर्म स्तधार्जुनः । मार्कंडेया हरिश्चंद्रः प्रह्लादो नारदो ध्रुवः ॥
हनुमान् जनको व्यासो वशिष्ठश्च शुको बलिः । दधीचि विश्वकर्माणौ पृधु वाल्मीकि भार्गवाः ॥
भगीरधश्चैकलव्यो मनुर्धन्वंतरिस्तधा । शिबिश्च रंतिदेवश्च पुराणोद्गीत कीर्तयः ॥
बुद्धोजिनेंद्रा गोरक्षः तिरुवल्लुवरस्तधा । नायन्मारालवाराश्च कंबश्च बसवेश्वरः ॥
देवलो रविदासश्च कबीरो गुरुनानकः । नरसिस्तुलसीदासो दशमेशो दृढव्रतः ॥
श्रीमत् शंकरदेवश्च बंधू सायणमाधवौ । ज्ञानेश्वर स्तुकारामो रामदासः पुरंदरः ॥
विरजा सहजानंदो रामासंद्स्तधा महान् । वितरस्तु सदैवैते दैवीं सद्गुण संपदम् ॥
भरतर्षिः कालिदासः श्रीभोजो जकणस्तधा । सूरदासस्त्यागराजो रसखानश्च सत्कविः ॥
रविवर्मा भारतखंडे भाग्यचंद्रः स भूपतिः । कलावंतश्च विख्याताः स्मरणीय निरंतरम् ॥
अगस्त्यः कंबुकौंडिन्यौ राजेंद्रश्चोलवंशजः । अशोकः पुष्यमित्रश्च खारवेलाः सुनीतिमान् ॥
चाणक्य चंद्रगुप्तौ च विक्रमः शालिवाहनः । समुद्र गुप्तः श्री हर्षःशैलेंद्रो बप्परावलः ॥
लाचित् भास्करवर्माच यशोधर्मा च हूणजित् । श्रीकृष्णदेवरायश्च ललितादित्य उद्बलः ॥
मुसुनूरि नायका तौ प्रतापः शिवभूपतिः । रणजित् सिंह इत्येते वीरा विख्यात विक्रमाः ॥
वैज्ञानिकाश्च कपिलः कणादः शुश्रत स्तधा । चरको भास्कराचार्यो वराहमिहरः सुधीः ॥
नागार्जुनो भरद्वाजः आर्यभट्टो वसुर्भुधः । ध्येयो वेंकटरामश्च विज्ञा रामानुजादयः ॥
रामकृष्णो दयानंदो रवींद्रो राममोहनः । रामतीर्धो रविंदश्च विवेकानंद उड्यशाः ॥
दादाभायी गोपबंधुः तिलको गांधिरादृताः । रमणो मालवीयश्च श्री सुब्रह्मण्य भारती ॥
सुभाषः प्रणवानंदः क्रांतिवीरो विनायकः । ठक्करो भीमरावश्च पुलेनारायणो गुरुः ॥
संघशक्तिः प्रणेतारौ केशवो माधवश्तधा । स्मरणीया सदैवैते नवचैतन्यदायकाः ॥
अनुक्ता ये भक्ताः प्रभुचरण संसक्त हृदयाः । अविज्ञाता वीराः अधिसमरमुद्ध्वस्तरिपवः ॥
समाजोद्धर्तारः सुहितकरविज्ञान निपुणाः । नम स्तेभ्यो भूयात् सकल सुजनेभ्यः प्रतिदिनम् ॥
इदमेकात्मतास्तोत्रं श्रद्धया यः सदा पठेत् । स राष्ट्र धर्म निष्टावान् अखंडं भारतं स्मरेत् ॥
Browse Related Categories: