Kanda 1 - Krishna Yajurveda Taittiriya Samhita · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
1) दे॒वस्य॑ त्वा त्वा दे॒वस्य॑ दे॒वस्य॑ त्वा । 2) त्वा॒ स॒वि॒तु-स्स॑वि॒तु स्त्वा᳚ त्वा सवि॒तुः । 3) स॒वि॒तुः प्र॑स॒वे प्र॑स॒वे स॑वि॒तु-स्स॑वि॒तुः प्र॑स॒वे । 4) प्र॒स॒वे᳚ ऽश्विनो॑ र॒श्विनोः᳚ प्रस॒वे प्र॑स॒वे᳚ ऽश्विनोः᳚ । 4) प्र॒स॒व इति॑ प्र - स॒वे । 5) अ॒श्विनो᳚-र्बा॒हुभ्या᳚-म्बा॒हुभ्या॑ म॒श्विनो॑ र॒श्विनो᳚-र्बा॒हुभ्या᳚म् । 6) बा॒हुभ्या᳚-म्पू॒ष्णः पू॒ष्णो बा॒हुभ्या᳚-म्बा॒हुभ्या᳚-म्पू॒ष्णः । 6) बा॒हुभ्या॒मिति॑ बा॒हु - भ्या॒म् । 7) पू॒ष्णो हस्ता᳚भ्या॒(ग्म्॒) हस्ता᳚भ्या-म्पू॒ष्णः पू॒ष्णो हस्ता᳚भ्याम् । 8) हस्ता᳚भ्या॒ मा हस्ता᳚भ्या॒(ग्म्॒) हस्ता᳚भ्या॒ मा । 9) आ द॑दे दद॒ आ द॑दे । 10) द॒दे ऽभ्रि॒ रभ्रि॑-र्ददे द॒दे ऽभ्रिः॑ । 11) अभ्रि॑ रस्य॒ स्यभ्रि॒ रभ्रि॑ रसि । 12) अ॒सि॒ नारि॒-र्नारि॑र स्यसि॒ नारिः॑ । 13) नारि॑ रस्यसि॒ नारि॒-र्नारि॑ रसि । 14) अ॒सि॒ परि॑लिखित॒-म्परि॑लिखित मस्यसि॒ परि॑लिखितम् । 15) परि॑लिखित॒(ग्म्॒) रक्षो॒ रक्षः॒ परि॑लिखित॒-म्परि॑लिखित॒(ग्म्॒) रक्षः॑ । 15) परि॑लिखित॒मिति॒ परि॑ - लि॒खि॒त॒म् । 16) रक्षः॒ परि॑लिखिताः॒ परि॑लिखिता॒ रक्षो॒ रक्षः॒ परि॑लिखिताः । 17) परि॑लिखिता॒ अरा॑त॒यो ऽरा॑तयः॒ परि॑लिखिताः॒ परि॑लिखिता॒ अरा॑तयः । 17) परि॑लिखिता॒ इति॒ परि॑ - लि॒खि॒ताः॒ । 18) अरा॑तय इ॒द मि॒द मरा॑त॒यो ऽरा॑तय इ॒दम् । 19) इ॒द म॒ह म॒ह मि॒द मि॒द म॒हम् । 20) अ॒हग्ं रक्ष॑सो॒ रक्ष॑सो॒ ऽह म॒हग्ं रक्ष॑सः । 21) रक्ष॑सो ग्री॒वा ग्री॒वा रक्ष॑सो॒ रक्ष॑सो ग्री॒वाः । 22) ग्री॒वा अप्यपि॑ ग्री॒वा ग्री॒वा अपि॑ । 23) अपि॑ कृन्तामि कृन्ता॒ म्यप्यपि॑ कृन्तामि । 24) कृ॒न्ता॒मि॒ यो यः कृ॑न्तामि कृन्तामि॒ यः । 25) यो᳚ ऽस्मा न॒स्मान्. यो यो᳚ ऽस्मान् । 26) अ॒स्मा-न्द्वेष्टि॒ द्वेष्ट्य॒ स्मा न॒स्मा-न्द्वेष्टि॑ । 27) द्वेष्टि॒ यं-यँ-न्द्वेष्टि॒ द्वेष्टि॒ यम् । 28) य-ञ्च॑ च॒ यं-यँ-ञ्च॑ । 29) च॒ व॒यं-वँ॒य-ञ्च॑ च व॒यम् । 30) व॒य-न्द्वि॒ष्मो द्वि॒ष्मो व॒यं-वँ॒य-न्द्वि॒ष्मः । 31) द्वि॒ष्म इ॒द मि॒द-न्द्वि॒ष्मो द्वि॒ष्म इ॒दम् । 32) इ॒द म॑स्यास्ये॒ द मि॒द म॑स्य । 33) अ॒स्य॒ ग्री॒वा ग्री॒वा अ॑स्यास्य ग्री॒वाः । 34) ग्री॒वा अप्यपि॑ ग्री॒वा ग्री॒वा अपि॑ । 35) अपि॑ कृन्तामि कृन्ता॒ म्यप्यपि॑ कृन्तामि । 36) कृ॒न्ता॒मि॒ दि॒वे दि॒वे कृ॑न्तामि कृन्तामि दि॒वे । 37) दि॒वे त्वा᳚ त्वा दि॒वे दि॒वे त्वा᳚ । 38) त्वा॒ ऽन्तरि॑क्षा या॒न्तरि॑क्षाय त्वा त्वा॒ ऽन्तरि॑क्षाय । 39) अ॒न्तरि॑क्षाय त्वा त्वा॒ ऽन्तरि॑क्षा या॒न्तरि॑क्षाय त्वा । 40) त्वा॒ पृ॒थि॒व्यै पृ॑थि॒व्यै त्वा᳚ त्वा पृथि॒व्यै । 41) पृ॒थि॒व्यै त्वा᳚ त्वा पृथि॒व्यै पृ॑थि॒व्यै त्वा᳚ । 42) त्वा॒ शुन्ध॑ता॒(ग्म्॒) शुन्ध॑ता-न्त्वा त्वा॒ शुन्ध॑ताम् । 43) शुन्ध॑ताम् ँलो॒को लो॒क-श्शुन्ध॑ता॒(ग्म्॒) शुन्ध॑ताम् ँलो॒कः । 44) लो॒कः पि॑तृ॒षद॑नः पितृ॒षद॑नो लो॒को लो॒कः पि॑तृ॒षद॑नः । 45) पि॒तृ॒षद॑नो॒ यवो॒ यवः॑ पितृ॒षद॑नः पितृ॒षद॑नो॒ यवः॑ । 45) पि॒तृ॒षद॑न॒ इति॑ पितृ - सद॑नः । 46) यवो᳚ ऽस्यसि॒ यवो॒ यवो॑ ऽसि । 47) अ॒सि॒ य॒वय॑ य॒वया᳚ स्यसि य॒वय॑ । 48) य॒वया॒स्म द॒स्म-द्य॒वय॑ य॒व या॒स्मत् । 49) अ॒स्म-द्द्वेषो॒ द्वेषो॒ ऽस्म द॒स्म-द्द्वेषः॑ । 50) द्वेषो॑ य॒वय॑ य॒वय॒ द्वेषो॒ द्वेषो॑ य॒वय॑ । ॥ 1 ॥ (50/55)
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
1) य॒वया रा॑ती॒र रा॑ती-र्य॒वय॑ य॒व यारा॑तीः । 2) अरा॑तीः पितृ॒णा-म्पि॑तृ॒णा मरा॑ती॒ ररा॑तीः पितृ॒णाम् । 3) पि॒तृ॒णाग्ं सद॑न॒(ग्म्॒) सद॑न-म्पितृ॒णा-म्पि॑तृ॒णाग्ं सद॑नम् । 4) सद॑न मस्यसि॒ सद॑न॒(ग्म्॒) सद॑न मसि । 5) अ॒स्यु दुद॑ स्य॒ स्युत् । 6) उ-द्दिव॒-न्दिव॒ मुदु-द्दिव᳚म् । 7) दिव(ग्ग्॑) स्तभान स्तभान॒ दिव॒-न्दिव(ग्ग्॑) स्तभान । 8) स्त॒भा॒ना स्त॑भान स्तभा॒ना । 9) आ ऽन्तरि॑क्ष म॒न्तरि॑क्ष॒ मा ऽन्तरि॑क्षम् । 10) अ॒न्तरि॑क्ष-म्पृण पृणा॒न्तरि॑क्ष म॒न्तरि॑क्ष-म्पृण । 11) पृ॒ण॒ पृ॒थि॒वी-म्पृ॑थि॒वी-म्पृ॑ण पृण पृथि॒वीम् । 12) पृ॒थि॒वी-न्दृ(ग्म्॑)ह दृग्ंह पृथि॒वी-म्पृ॑थि॒वी-न्दृ(ग्म्॑)ह । 13) दृ॒(ग्म्॒)ह॒ द्यु॒ता॒नो द्यु॑ता॒नो दृ(ग्म्॑)ह दृग्ंह द्युता॒नः । 14) द्यु॒ता॒न स्त्वा᳚ त्वा द्युता॒नो द्यु॑ता॒न स्त्वा᳚ । 15) त्वा॒ मा॒रु॒तो मा॑रु॒त स्त्वा᳚ त्वा मारु॒तः । 16) मा॒रु॒तो मि॑नोतु मिनोतु मारु॒तो मा॑रु॒तो मि॑नोतु । 17) मि॒नो॒तु॒ मि॒त्रावरु॑णयो-र्मि॒त्रावरु॑णयो-र्मिनोतु मिनोतु मि॒त्रावरु॑णयोः । 18) मि॒त्रावरु॑णयो-र्ध्रु॒वेण॑ ध्रु॒वेण॑ मि॒त्रावरु॑णयो-र्मि॒त्रावरु॑णयो-र्ध्रु॒वेण॑ । 18) मि॒त्रावरु॑णयो॒रिति॑ मि॒त्रा - वरु॑णयोः । 19) ध्रु॒वेण॒ धर्म॑णा॒ धर्म॑णा ध्रु॒वेण॑ ध्रु॒वेण॒ धर्म॑णा । 20) धर्म॑णा ब्रह्म॒वनि॑-म्ब्रह्म॒वनि॒-न्धर्म॑णा॒ धर्म॑णा ब्रह्म॒वनि᳚म् । 21) ब्र॒ह्म॒वनि॑-न्त्वा त्वा ब्रह्म॒वनि॑-म्ब्रह्म॒वनि॑-न्त्वा । 21) ब्र॒ह्म॒वनि॒मिति॑ ब्रह्म - वनि᳚म् । 22) त्वा॒ क्ष॒त्र॒वनि॑-ङ्क्षत्र॒वनि॑-न्त्वा त्वा क्षत्र॒वनि᳚म् । 23) क्ष॒त्र॒वनि(ग्म्॑) सुप्रजा॒वनि(ग्म्॑) सुप्रजा॒वनि॑-ङ्क्षत्र॒वनि॑-ङ्क्षत्र॒वनि(ग्म्॑) सुप्रजा॒वनि᳚म् । 23) क्ष॒त्र॒वनि॒मिति॑ क्षत्र - वनि᳚म् । 24) सु॒प्र॒जा॒वनि(ग्म्॑) रायस्पोष॒वनि(ग्म्॑) रायस्पोष॒वनि(ग्म्॑) सुप्रजा॒वनि(ग्म्॑) सुप्रजा॒वनि(ग्म्॑) रायस्पोष॒वनि᳚म् । 24) सु॒प्र॒जा॒वनि॒मिति॑ सुप्रजा - वनि᳚म् । 25) रा॒य॒स्पो॒ष॒वनि॒-म्परि॒ परि॑ रायस्पोष॒वनि(ग्म्॑) रायस्पोष॒वनि॒-म्परि॑ । 25) रा॒य॒स्पो॒ष॒वनि॒मिति॑ रायस्पोष - वनि᳚म् । 26) पर्यू॑हाम्यूहामि॒ परि॒ पर्यू॑हामि । 27) ऊ॒हा॒मि॒ ब्रह्म॒ ब्रह्मो॑हा म्यूहामि॒ ब्रह्म॑ । 28) ब्रह्म॑ दृग्ंह दृग्ंह॒ ब्रह्म॒ ब्रह्म॑ दृग्ंह । 29) दृ॒(ग्म्॒)ह॒ क्ष॒त्र-ङ्क्ष॒त्र-न्दृ(ग्म्॑)ह दृग्ंह क्ष॒त्रम् । 30) क्ष॒त्र-न्दृ(ग्म्॑)ह दृग्ंह क्ष॒त्र-ङ्क्ष॒त्र-न्दृ(ग्म्॑)ह । 31) दृ॒(ग्म्॒)ह॒ प्र॒जा-म्प्र॒जा-न्दृ(ग्म्॑)ह दृग्ंह प्र॒जाम् । 32) प्र॒जा-न्दृ(ग्म्॑)ह दृग्ंह प्र॒जा-म्प्र॒जा-न्दृ(ग्म्॑)ह । 32) प्र॒जामिति॑ प्र - जाम् । 33) दृ॒(ग्म्॒)ह॒ रा॒यो रा॒यो दृ(ग्म्॑)ह दृग्ंह रा॒यः । 34) रा॒यस् पोष॒-म्पोष(ग्म्॑) रा॒यो रा॒यस् पोष᳚म् । 35) पोष॑-न्दृग्ंह दृग्ंह॒ पोष॒-म्पोष॑-न्दृग्ंह । 36) दृ॒(ग्म्॒)ह॒ घृ॒तेन॑ घृ॒तेन॑ दृग्ंह दृग्ंह घृ॒तेन॑ । 37) घृ॒तेन॑ द्यावापृथिवी द्यावापृथिवी घृ॒तेन॑ घृ॒तेन॑ द्यावापृथिवी । 38) द्या॒वा॒पृ॒थि॒वी॒ आ द्या॑वापृथिवी द्यावापृथिवी॒ आ । 38) द्या॒वा॒पृ॒थि॒वी॒ इति॑ द्यावा - पृ॒थि॒वी॒ । 39) आ पृ॑णेथा-म्पृणेथा॒ मा पृ॑णेथाम् । 40) पृ॒णे॒था॒ मिन्द्र॒स्ये न्द्र॑स्य पृणेथा-म्पृणेथा॒ मिन्द्र॑स्य । 41) इन्द्र॑स्य॒ सद॒-स्सद॒ इन्द्र॒स्ये न्द्र॑स्य॒ सदः॑ । 42) सदो᳚ ऽस्यसि॒ सद॒-स्सदो॑ ऽसि । 43) अ॒सि॒ वि॒श्व॒ज॒नस्य॑ विश्वज॒न स्या᳚स्यसि विश्वज॒नस्य॑ । 44) वि॒श्व॒ज॒नस्य॑ छा॒या छा॒या वि॑श्वज॒नस्य॑ विश्वज॒नस्य॑ छा॒या । 44) वि॒श्व॒ज॒नस्येति॑ विश्व - ज॒नस्य॑ । 45) छा॒या परि॒ परि॑च् छा॒या छा॒या परि॑ । 46) परि॑ त्वा त्वा॒ परि॒ परि॑ त्वा । 47) त्वा॒ गि॒र्व॒णो॒ गि॒र्व॒ण॒ स्त्वा॒ त्वा॒ गि॒र्व॒णः॒ । 48) गि॒र्व॒णो॒ गिरो॒ गिरो॑ गिर्वणो गिर्वणो॒ गिरः॑ । 49) गिर॑ इ॒मा इ॒मा गिरो॒ गिर॑ इ॒माः । 50) इ॒मा भ॑वन्तु भव न्त्वि॒मा इ॒मा भ॑वन्तु । 51) भ॒व॒न्तु॒ वि॒श्वतो॑ वि॒श्वतो॑ भवन्तु भवन्तु वि॒श्वतः॑ । 52) वि॒श्वतो॑ वृ॒द्धायुं॑-वृँ॒द्धायुं॑-विँ॒श्वतो॑ वि॒श्वतो॑ वृ॒द्धायु᳚म् । 53) वृ॒द्धायु॒ मन्वनु॑ वृ॒द्धायुं॑-वृँ॒द्धायु॒ मनु॑ । 53) वृ॒द्धायु॒मिति॑ वृ॒द्ध - आ॒यु॒म् । 54) अनु॒ वृद्ध॑यो॒ वृद्ध॒यो ऽन्वनु॒ वृद्ध॑यः । 55) वृद्ध॑यो॒ जुष्टा॒ जुष्टा॒ वृद्ध॑यो॒ वृद्ध॑यो॒ जुष्टाः᳚ । 56) जुष्टा॑ भवन्तु भवन्तु॒ जुष्टा॒ जुष्टा॑ भवन्तु । 57) भ॒व॒न्तु॒ जुष्ट॑यो॒ जुष्ट॑यो भवन्तु भवन्तु॒ जुष्ट॑यः । 58) जुष्ट॑य॒ इन्द्र॒स्ये न्द्र॑स्य॒ जुष्ट॑यो॒ जुष्ट॑य॒ इन्द्र॑स्य । 59) इन्द्र॑स्य॒ स्यू-स्स्यू रिन्द्र॒स्ये न्द्र॑स्य॒ स्यूः । 60) स्यू र॑स्यसि॒ स्यू-स्स्यू र॑सि । 61) अ॒सीन्द्र॒स्ये न्द्र॑स्या स्य॒सीन्द्र॑स्य । 62) इन्द्र॑स्य ध्रु॒व-न्ध्रु॒व मिन्द्र॒स्ये न्द्र॑स्य ध्रु॒वम् । 63) ध्रु॒व म॑स्यसि ध्रु॒व-न्ध्रु॒व म॑सि । 64) अ॒स्यै॒न्द्र मै॒न्द्र म॑स्य स्यै॒न्द्रम् । 65) ऐ॒न्द्र म॑स्य स्यै॒न्द्र मै॒न्द्र म॑सि । 66) अ॒सीन्द्रा॒ये न्द्रा॑ यास्य॒सी न्द्रा॑य । 67) इन्द्रा॑य त्वा॒ त्वेन्द्रा॒ये न्द्रा॑य त्वा । 68) त्वेति॑ त्वा । ॥ 2 ॥ (68/77) ॥ अ. 1 ॥
1) र॒क्षो॒हणो॑ वलग॒हनो॑ वलग॒हनो॑ रक्षो॒हणो॑ रक्षो॒हणो॑ वलग॒हनः॑ । 1) र॒क्षो॒हण॒ इति॑ रक्षः - हनः॑ । 2) व॒ल॒ग॒हनो॑ वैष्ण॒वान्. वै᳚ष्ण॒वान्. व॑लग॒हनो॑ वलग॒हनो॑ वैष्ण॒वान् । 2) व॒ल॒ग॒हन॒ इति॑ वलग - हनः॑ । 3) वै॒ष्ण॒वा-न्ख॑नामि खनामि वैष्ण॒वान्. वै᳚ष्ण॒वा-न्ख॑नामि । 4) ख॒ना॒ मी॒द मि॒द-ङ्ख॑नामि खना मी॒दम् । 5) इ॒द म॒ह म॒ह मि॒द मि॒द म॒हम् । 6) अ॒ह-न्त-न्त म॒ह म॒ह-न्तम् । 7) तं-वँ॑ल॒गं-वँ॑ल॒ग-न्त-न्तं-वँ॑ल॒गम् । 8) व॒ल॒ग मुदु-द्व॑ल॒गं-वँ॑ल॒ग मुत् । 8) व॒ल॒गमिति॑ वल - गम् । 9) उ-द्व॑पामि वपा॒ म्युदु-द्व॑पामि । 10) व॒पा॒मि॒ यं-यंँ व॑पामि वपामि॒ यम् । 11) य-न्नो॑ नो॒ यं-यँ-न्नः॑ । 12) न॒-स्स॒मा॒न-स्स॑मा॒नो नो॑ न-स्समा॒नः । 13) स॒मा॒नो यं-यँग्ं स॑मा॒न-स्स॑मा॒नो यम् । 14) य मस॑मा॒नो ऽस॑मानो॒ यं-यँ मस॑मानः । 15) अस॑मानो निच॒खान॑ निच॒खा नास॑मा॒नो ऽस॑मानो निच॒खान॑ । 16) नि॒च॒खाने॒ द मि॒द-न्नि॑च॒खान॑ निच॒खाने॒ दम् । 16) नि॒च॒खानेति॑ नि - च॒खान॑ । 17) इ॒द मे॑न मेन मि॒द मि॒द मे॑नम् । 18) ए॒न॒ मध॑र॒ मध॑र मेन मेन॒ मध॑रम् । 19) अध॑र-ङ्करोमि करो॒ म्यध॑र॒ मध॑र-ङ्करोमि । 20) क॒रो॒मि॒ यो यः क॑रोमि करोमि॒ यः । 21) यो नो॑ नो॒ यो यो नः॑ । 22) न॒-स्स॒मा॒न-स्स॑मा॒नो नो॑ न-स्समा॒नः । 23) स॒मा॒नो यो य-स्स॑मा॒न-स्स॑मा॒नो यः । 24) यो ऽस॑मा॒नो ऽस॑मानो॒ यो यो ऽस॑मानः । 25) अस॑मानो ऽराती॒यत्य॑ राती॒य त्यस॑मा॒नो ऽस॑मानो ऽराती॒यति॑ । 26) अ॒रा॒ती॒यति॑ गाय॒त्रेण॑ गाय॒त्रेणा॑ राती॒यत्य॑ राती॒यति॑ गाय॒त्रेण॑ । 27) गा॒य॒त्रेण॒ छन्द॑सा॒ छन्द॑सा गाय॒त्रेण॑ गाय॒त्रेण॒ छन्द॑सा । 28) छन्द॒सा ऽव॑बा॒ढो ऽव॑बाढ॒ श्छन्द॑सा॒ छन्द॒सा ऽव॑बाढः । 29) अव॑बाढो वल॒गो व॑ल॒गो ऽव॑बा॒ढो ऽव॑बाढो वल॒गः । 29) अव॑बाढ॒ इत्यव॑ - बा॒ढः॒ । 30) व॒ल॒गः कि-ङ्किं-वँ॑ल॒गो व॑ल॒गः किम् । 30) व॒ल॒ग इति॑ वल - गः । 31) कि मत्रात्र॒ कि-ङ्कि मत्र॑ । 32) अत्र॑ भ॒द्र-म्भ॒द्र मत्रात्र॑ भ॒द्रम् । 33) भ॒द्र-न्त-त्त-द्भ॒द्र-म्भ॒द्र-न्तत् । 34) त-न्नौ॑ नौ॒ त-त्त-न्नौ᳚ । 35) नौ॒ स॒ह स॒ह नौ॑ नौ स॒ह । 36) स॒ह वि॒रा-ड्वि॒राट् -थ्स॒ह स॒ह वि॒राट् । 37) वि॒राड॑ स्यसि वि॒रा-ड्वि॒रा ड॑सि । 37) वि॒राडिति॑ वि - राट् । 38) अ॒सि॒ स॒प॒त्न॒हा स॑पत्न॒हा ऽस्य॑सि सपत्न॒हा । 39) स॒प॒त्न॒हा स॒म्रा-ट्थ्स॒म्रा-ट्थ्स॑पत्न॒हा स॑पत्न॒हा स॒म्राट् । 39) स॒प॒त्न॒हेति॑ सपत्न - हा । 40) स॒म्रा ड॑स्यसि स॒म्राट् -थ्सं॒ राड॑सि । 40) स॒म्राडिति॑ सम् - राट् । 41) अ॒सि॒ भ्रा॒तृ॒व्य॒हा भ्रा॑तृव्य॒हा ऽस्य॑सि भ्रातृव्य॒हा । 42) भ्रा॒तृ॒व्य॒हा स्व॒रा-ट्थ्स्व॒रा-ड्भ्रा॑तृव्य॒हा भ्रा॑तृव्य॒हा स्व॒राट् । 42) भ्रा॒तृ॒व्य॒हेति॑ भ्रातृव्य - हा । 43) स्व॒रा ड॑स्यसि स्व॒रा-ट्थ्स्व॒रा ड॑सि । 43) स्व॒राडिति॑ स्व - राट् । 44) अ॒स्य॒ भि॒मा॒ति॒हा ऽभि॑माति॒हा ऽस्य॑स्य भिमाति॒हा । 45) अ॒भि॒मा॒ति॒हा वि॑श्वा॒रा-ड्वि॑श्वा॒रा ड॑भिमाति॒हा ऽभि॑माति॒हा वि॑श्वा॒राट् । 45) अ॒भि॒मा॒ति॒हेत्य॑भिमाति - हा । 46) वि॒श्वा॒ राड॑स्यसि विश्वा॒रा-ड्वि॑श्वा॒ राड॑सि । 46) वि॒श्वा॒राडिति॑ विश्व - राट् । 47) अ॒सि॒ विश्वा॑सां॒-विँश्वा॑सा मस्यसि॒ विश्वा॑साम् । 48) विश्वा॑सा-न्ना॒ष्ट्राणा᳚-न्ना॒ष्ट्राणां॒-विँश्वा॑सां॒-विँश्वा॑सा-न्ना॒ष्ट्राणा᳚म् । 49) ना॒ष्ट्राणा(ग्म्॑) ह॒न्ता ह॒न्ता ना॒ष्ट्राणा᳚-न्ना॒ष्ट्राणा(ग्म्॑) ह॒न्ता । 50) ह॒न्ता र॑क्षो॒हणो॑ रक्षो॒हणो॑ ह॒न्ता ह॒न्ता र॑क्षो॒हणः॑ । ॥ 3 ॥ (50/63)
1) र॒क्षो॒हणो॑ वलग॒हनो॑ वलग॒हनो॑ रक्षो॒हणो॑ रक्षो॒हणो॑ वलग॒हनः॑ । 1) र॒क्षो॒हण॒ इति॑ रक्षः - हनः॑ । 2) व॒ल॒ग॒हनः॒ प्र प्र व॑लग॒हनो॑ वलग॒हनः॒ प्र । 2) व॒ल॒ग॒हन॒ इति॑ वलग - हनः॑ । 3) प्रोक्षा᳚ म्युक्षामि॒ प्र प्रोक्षा॑मि । 4) उ॒क्षा॒मि॒ वै॒ष्ण॒वान्. वै᳚ष्ण॒वा नु॑क्षा म्युक्षामि वैष्ण॒वान् । 5) वै॒ष्ण॒वा-न्र॑क्षो॒हणो॑ रक्षो॒हणो॑ वैष्ण॒वान्. वै᳚ष्ण॒वा-न्र॑क्षो॒हणः॑ । 6) र॒क्षो॒हणो॑ वलग॒हनो॑ वलग॒हनो॑ रक्षो॒हणो॑ रक्षो॒हणो॑ वलग॒हनः॑ । 6) र॒क्षो॒हण॒ इति॑ रक्षः - हनः॑ । 7) व॒ल॒ग॒हनो ऽवाव॑ वलग॒हनो॑ वलग॒हनो ऽव॑ । 7) व॒ल॒ग॒हन॒ इति॑ वलग - हनः॑ । 8) अव॑ नयामि नया॒ म्यवाव॑ नयामि । 9) न॒या॒मि॒ वै॒ष्ण॒वान्. वै᳚ष्ण॒वा-न्न॑यामि नयामि वैष्ण॒वान् । 10) वै॒ष्ण॒वान्. यवो॒ यवो॑ वैष्ण॒वान्. वै᳚ष्ण॒वान्. यवः॑ । 11) यवो᳚ ऽस्यसि॒ यवो॒ यवो॑ ऽसि । 12) अ॒सि॒ य॒वय॑ य॒वया᳚ स्यसि य॒वय॑ । 13) य॒व या॒स्म द॒स्म-द्य॒वय॑ य॒व या॒स्मत् । 14) अ॒स्म-द्द्वेषो॒ द्वेषो॒ ऽस्म द॒स्म-द्द्वेषः॑ । 15) द्वेषो॑ य॒वय॑ य॒वय॒ द्वेषो॒ द्वेषो॑ य॒वय॑ । 16) य॒व यारा॑ती॒ ररा॑ती-र्य॒वय॑ य॒व यारा॑तीः । 17) अरा॑ती रक्षो॒हणो॑ रक्षो॒हणो ऽरा॑ती॒ ररा॑ती रक्षो॒हणः॑ । 18) र॒क्षो॒हणो॑ वलग॒हनो॑ वलग॒हनो॑ रक्षो॒हणो॑ रक्षो॒हणो॑ वलग॒हनः॑ । 18) र॒क्षो॒हण॒ इति॑ रक्षः - हनः॑ । 19) व॒ल॒ग॒हनो ऽवाव॑ वलग॒हनो॑ वलग॒हनो ऽव॑ । 19) व॒ल॒ग॒हन॒ इति॑ वलग - हनः॑ । 20) अव॑ स्तृणामि स्तृणा॒ म्यवाव॑ स्तृणामि । 21) स्तृ॒णा॒मि॒ वै॒ष्ण॒वान्. वै᳚ष्ण॒वा-न्थ्स्तृ॑णामि स्तृणामि वैष्ण॒वान् । 22) वै॒ष्ण॒वा-न्र॑क्षो॒हणो॑ रक्षो॒हणो॑ वैष्ण॒वान्. वै᳚ष्ण॒वा-न्र॑क्षो॒हणः॑ । 23) र॒क्षो॒हणो॑ वलग॒हनो॑ वलग॒हनो॑ रक्षो॒हणो॑ रक्षो॒हणो॑ वलग॒हनः॑ । 23) र॒क्षो॒हण॒ इति॑ रक्षः - हनः॑ । 24) व॒ल॒ग॒हनो॒ ऽभ्य॑भि व॑लग॒हनो॑ वलग॒हनो॒ ऽभि । 24) व॒ल॒ग॒हन॒ इति॑ वलग - हनः॑ । 25) अ॒भि जु॑होमि जुहो म्य॒भ्य॑भि जु॑होमि । 26) जु॒हो॒मि॒ वै॒ष्ण॒वान्. वै᳚ष्ण॒वान् जु॑होमि जुहोमि वैष्ण॒वान् । 27) वै॒ष्ण॒वा-न्र॑क्षो॒हणौ॑ रक्षो॒हणौ॑ वैष्ण॒वान्. वै᳚ष्ण॒वा-न्र॑क्षो॒हणौ᳚ । 28) र॒क्षो॒हणौ॑ वलग॒हनौ॑ वलग॒हनौ॑ रक्षो॒हणौ॑ रक्षो॒हणौ॑ वलग॒हनौ᳚ । 28) र॒क्षो॒हणा॒विति॑ रक्षः - हनौ᳚ । 29) व॒ल॒ग॒हना॒ वुपोप॑ वलग॒हनु॑ वलग॒हना॒ वुपोप॑ । 29) व॒ल॒ग॒हना॒विति॑ वलग - हनौ᳚ । 30) उप॑ दधामि दधा॒ म्युपोप॑ दधामि । 31) द॒धा॒मि॒ वै॒ष्ण॒वी वै᳚ष्ण॒वी द॑धामि दधामि वैष्ण॒वी । 32) वै॒ष्ण॒वी र॑क्षो॒हणौ॑ रक्षो॒हणौ॑ वैष्ण॒वी वै᳚ष्ण॒वी र॑क्षो॒हणौ᳚ । 32) वै॒ष्ण॒वी इति॑ वैष्ण॒वी । 33) र॒क्षो॒हणौ॑ वलग॒हनौ॑ वलग॒हनौ॑ रक्षो॒हणौ॑ रक्षो॒हणौ॑ वलग॒हनौ᳚ । 33) र॒क्षो॒हणा॒विति॑ रक्षः - हनौ᳚ । 34) व॒ल॒ग॒हनौ॒ परि॒ परि॑ वलग॒हनौ॑ वलग॒हनौ॒ परि॑ । 34) व॒ल॒ग॒हना॒विति॑ वलग - हनौ᳚ । 35) पर्यू॑हा म्यूहामि॒ परि॒ पर्यू॑हामि । 36) ऊ॒हा॒मि॒ वै॒ष्ण॒वी वै᳚ष्ण॒वी ऊ॑हा म्यूहामि वैष्ण॒वी । 37) वै॒ष्ण॒वी र॑क्षो॒हणौ॑ रक्षो॒हणौ॑ वैष्ण॒वी वै᳚ष्ण॒वी र॑क्षो॒हणौ᳚ । 37) वै॒ष्ण॒वी इति॑ वैष्ण॒वी । 38) र॒क्षो॒हणौ॑ वलग॒हनौ॑ वलग॒हनौ॑ रक्षो॒हणौ॑ रक्षो॒हणौ॑ वलग॒हनौ᳚ । 38) र॒क्षो॒हणा॒विति॑ रक्षः - हनौ᳚ । 39) व॒ल॒ग॒हनौ॒ परि॒ परि॑ वलग॒हनौ॑ वलग॒हनौ॒ परि॑ । 39) व॒ल॒ग॒हना॒विति॑ वलग - हनौ᳚ । 40) परि॑ स्तृणामि स्तृणामि॒ परि॒ परि॑ स्तृणामि । 41) स्तृ॒णा॒मि॒ वै॒ष्ण॒वी वै᳚ष्ण॒वी स्तृ॑णामि स्तृणामि वैष्ण॒वी । 42) वै॒ष्ण॒वी र॑क्षो॒हणौ॑ रक्षो॒हणौ॑ वैष्ण॒वी वै᳚ष्ण॒वी र॑क्षो॒हणौ᳚ । 42) वै॒ष्ण॒वी इति॑ वैष्ण॒वी । 43) र॒क्षो॒हणौ॑ वलग॒हनौ॑ वलग॒हनौ॑ रक्षो॒हणौ॑ रक्षो॒हणौ॑ वलग॒हनौ᳚ । 43) र॒क्षो॒हणा॒विति॑ रक्षः - हनौ᳚ । 44) व॒ल॒ग॒हनौ॑ वैष्ण॒वी वै᳚ष्ण॒वी व॑लग॒हनौ॑ वलग॒हनौ॑ वैष्ण॒वी । 44) व॒ल॒ग॒हना॒विति॑ वलग - हनौ᳚ । 45) वै॒ष्ण॒वी बृ॒ह-न्बृ॒हन्. वै᳚ष्ण॒वी वै᳚ष्ण॒वी बृ॒हन्न् । 45) वै॒ष्ण॒वी इति॑ वैष्ण॒वी । 46) बृ॒ह-न्न॑स्यसि बृ॒ह-न्बृ॒ह-न्न॑सि । 47) अ॒सि॒ बृ॒हद्ग्रा॑वा बृ॒हद्ग्रा॑वा ऽस्यसि बृ॒हद्ग्रा॑वा । 48) बृ॒हद्ग्रा॑वा बृह॒ती-म्बृ॑ह॒ती-म्बृ॒हद्ग्रा॑वा बृ॒हद्ग्रा॑वा बृह॒तीम् । 48) बृ॒हद्ग्रा॒वेति॑ बृ॒हत् - ग्रा॒वा॒ । 49) बृ॒ह॒ती मिन्द्रा॒ये न्द्रा॑य बृह॒ती-म्बृ॑ह॒ती मिन्द्रा॑य । 50) इन्द्रा॑य॒ वाचं॒-वाँच॒ मिन्द्रा॒ये न्द्रा॑य॒ वाच᳚म् । 51) वाचं॑-वँद वद॒ वाचं॒-वाँचं॑-वँद । 52) व॒देति॑ वद । ॥ 4 ॥ (52/73) ॥ अ. 2 ॥
1) वि॒भू र॑स्यसि वि॒भू-र्वि॒भू र॑सि । 1) वि॒भूरिति॑ वि - भूः । 2) अ॒सि॒ प्र॒वाह॑णः प्र॒वाह॑णो ऽस्यसि प्र॒वाह॑णः । 3) प्र॒वाह॑णो॒ वह्नि॒-र्वह्निः॑ प्र॒वाह॑णः प्र॒वाह॑णो॒ वह्निः॑ । 3) प्र॒वाह॑ण॒ इति॑ प्र - वाह॑नः । 4) वह्नि॑ रस्यसि॒ वह्नि॒-र्वह्नि॑ रसि । 5) अ॒सि॒ ह॒व्य॒वाह॑नो हव्य॒वाह॑नो ऽस्यसि हव्य॒वाह॑नः । 6) ह॒व्य॒वाह॑न-श्श्वा॒त्र-श्श्वा॒त्रो ह॑व्य॒वाह॑नो हव्य॒वाह॑न-श्श्वा॒त्रः । 6) ह॒व्य॒वाह॑न॒ इति॑ हव्य - वाह॑नः । 7) श्वा॒त्रो᳚ ऽस्यसि श्वा॒त्र-श्श्वा॒त्रो॑ ऽसि । 8) अ॒सि॒ प्रचे॑ताः॒ प्रचे॑ता अस्यसि॒ प्रचे॑ताः । 9) प्रचे॑ता स्तु॒थ स्तु॒थः प्रचे॑ताः॒ प्रचे॑ता स्तु॒थः । 9) प्रचे॑ता॒ इति॒ प्र - चे॒ताः॒ । 10) तु॒थो᳚ ऽस्यसि तु॒थ स्तु॒थो॑ ऽसि । 11) अ॒सि॒ वि॒श्ववे॑दा वि॒श्ववे॑दा अस्यसि वि॒श्ववे॑दाः । 12) वि॒श्ववे॑दा उ॒शि गु॒शिग् वि॒श्ववे॑दा वि॒श्ववे॑दा उ॒शिक् । 12) वि॒श्ववे॑दा॒ इति॑ वि॒श्व - वे॒दाः॒ । 13) उ॒शि ग॑स्य स्यु॒शि गु॒शिग॑सि । 14) अ॒सि॒ क॒विः क॒वि र॑स्यसि क॒विः । 15) क॒वि रङ्घा॑रि॒ रङ्घा॑रिः क॒विः क॒वि रङ्घा॑रिः । 16) अङ्घा॑रि रस्य॒स्यङ्घा॑रि॒ रङ्घा॑रिरसि । 17) अ॒सि॒ बम्भा॑रि॒-र्बम्भा॑रि रस्यसि॒ बम्भा॑रिः । 18) बम्भा॑रि रव॒स्यु र॑व॒स्यु-र्बम्भा॑रि॒-र्बम्भा॑रि रव॒स्युः । 19) अ॒व॒स्यु र॑स्य स्यव॒स्यु र॑व॒स्युर॑सि । 20) अ॒सि॒ दुव॑स्वा॒-न्दुव॑स्वा नस्यसि॒ दुव॑स्वान् । 21) दुव॑स्वा-ञ्छु॒न्ध्यू-श्शु॒न्ध्यू-र्दुव॑स्वा॒-न्दुव॑स्वा-ञ्छु॒न्ध्यूः । 22) शु॒न्ध्यू र॑स्यसि शु॒न्ध्यू-श्शु॒न्ध्यू र॑सि । 23) अ॒सि॒ मा॒र्जा॒लीयो॑ मार्जा॒लीयो᳚ ऽस्यसि मार्जा॒लीयः॑ । 24) मा॒र्जा॒लीय॑-स्स॒म्रा-ट्थ्स॒म्राण् मा᳚र्जा॒लीयो॑ मार्जा॒लीय॑-स्स॒म्राट् । 25) स॒म्राड॑स्यसि स॒म्रा-ट्थ्स॒म्राड॑सि । 25) स॒म्राडिति॑ सं - राट् । 26) अ॒सि॒ कृ॒शानुः॑ कृ॒शानु॑ रस्यसि कृ॒शानुः॑ । 27) कृ॒शानुः॑ परि॒षद्यः॑ परि॒षद्यः॑ कृ॒शानुः॑ कृ॒शानुः॑ परि॒षद्यः॑ । 27) कृ॒शानु॒रिति॑ कृ॒श - अ॒नुः॒ । 28) प॒रि॒षद्यो᳚ ऽस्यसि परि॒षद्यः॑ परि॒षद्यो॑ ऽसि । 28) प॒रि॒षद्य॒ इति॑ परि - सद्यः॑ । 29) अ॒सि॒ पव॑मानः॒ पव॑मानो ऽस्यसि॒ पव॑मानः । 30) पव॑मानः प्र॒तक्वा᳚ प्र॒तक्वा॒ पव॑मानः॒ पव॑मानः प्र॒तक्वा᳚ । 31) प्र॒तक्वा᳚ ऽस्यसि प्र॒तक्वा᳚ प्र॒तक्वा॑ ऽसि । 31) प्र॒तक्वेति॑ प्र - तक्वा᳚ । 32) अ॒सि॒ नभ॑स्वा॒-न्नभ॑स्वा नस्यसि॒ नभ॑स्वान् । 33) नभ॑स्वा॒ नस॑म्मृ॒ष्टो ऽस॑म्मृष्टो॒ नभ॑स्वा॒-न्नभ॑स्वा॒ नस॑म्मृष्टः । 34) अस॑म्मृष्टो ऽस्य॒ स्यस॑म्मृ॒ष्टो ऽस॑म्मृष्टो ऽसि । 34) अस॑म्मृष्ट॒ इत्यसं᳚ - मृ॒ष्टः॒ । 35) अ॒सि॒ ह॒व्य॒सूदो॑ हव्य॒सूदो᳚ ऽस्यसि हव्य॒सूदः॑ । 36) ह॒व्य॒सूद॑ ऋ॒तधा॑म॒र्तधा॑मा हव्य॒सूदो॑ हव्य॒सूद॑ ऋ॒तधा॑मा । 36) ह॒व्य॒सूद॒ इति॑ हव्य - सूदः॑ । 37) ऋ॒तधा॑मा ऽस्य स्यृ॒तधा॑म॒ र्तधा॑मा ऽसि । 37) ऋ॒तधा॒मेत्यृ॒त - धा॒मा॒ । 38) अ॒सि॒ सुव॑र्ज्योति॒-स्सुव॑र्ज्योति रस्यसि॒ सुव॑र्ज्योतिः । 39) सुव॑र्ज्योति॒-र्ब्रह्म॑ज्योति॒-र्ब्रह्म॑ज्योति॒-स्सुव॑र्ज्योति॒-स्सुव॑र्ज्योति॒-र्ब्रह्म॑ज्योतिः । 39) सुव॑र्ज्योति॒रिति॒ सुवः॑ - ज्यो॒तिः॒ । 40) ब्रह्म॑ज्योति रस्यसि॒ ब्रह्म॑ज्योति॒-र्ब्रह्म॑ज्योति रसि । 40) ब्रह्म॑ज्योति॒रिति॒ ब्रह्म॑ - ज्यो॒तिः॒ । 41) अ॒सि॒ सुव॑र्धामा॒ सुव॑र्धामा ऽस्यसि॒ सुव॑र्धामा । 42) सुव॑र्धामा॒ ऽजो॑ ऽज-स्सुव॑र्धामा॒ सुव॑र्धामा॒ ऽजः । 42) सुव॑र्धा॒मेति॒ सुवः॑ - धा॒मा॒ । 43) अ॒जो᳚ ऽस्यस्य॒जो᳚(1॒) ऽजो॑ ऽसि । 44) अ॒स्ये क॑पा॒ देक॑पा दस्य॒ स्येक॑पात् । 45) एक॑पा॒ दहि॒ रहि॒ रेक॑पा॒ देक॑पा॒ दहिः॑ । 45) एक॑पा॒दित्येक॑ - पा॒त् । 46) अहि॑ रस्य॒ स्यहि॒ रहि॑ रसि । 47) अ॒सि॒ बु॒द्ध्नियो॑ बु॒द्ध्नियो᳚ ऽस्यसि बु॒द्ध्नियः॑ । 48) बु॒द्ध्नियो॒ रौद्रे॑ण॒ रौद्रे॑ण बु॒द्ध्नियो॑ बु॒द्ध्नियो॒ रौद्रे॑ण । 49) रौद्रे॒ णानी॑के॒नानी॑केन॒ रौद्रे॑ण॒ रौद्रे॒णानी॑केन । 50) अनी॑केन पा॒हि पा॒ह्य नी॑के॒नानी॑केन पा॒हि । 51) पा॒हि मा॑ मा पा॒हि पा॒हि मा᳚ । 52) मा॒ ऽग्ने॒ ऽग्ने॒ मा॒ मा॒ ऽग्ने॒ । 53) अ॒ग्ने॒ पि॒पृ॒हि पि॑पृ॒ह्य॑ग्ने ऽग्ने पिपृ॒हि । 54) पि॒पृ॒हि मा॑ मा पिपृ॒हि पि॑पृ॒हि मा᳚ । 55) मा॒ मा मा मा॑ मा॒ मा । 56) मा मा॑ मा॒ मा मा मा᳚ । 57) मा॒ हि॒(ग्म्॒)सी॒र्॒ हि॒(ग्म्॒)सी॒-र्मा॒ मा॒ हि॒(ग्म्॒)सीः॒ । 58) हि॒(ग्म्॒)सी॒रिति॑ हिग्ंसीः । ॥ 5 ॥ (58/74) ॥ अ. 3 ॥
1) त्वग्ं सो॑म सोम॒ त्व-न्त्वग्ं सो॑म । 2) सो॒म॒ त॒नू॒कृद्भ्य॑ स्तनू॒कृद्भ्य॑-स्सोम सोम तनू॒कृद्भ्यः॑ । 3) त॒नू॒कृद्भ्यो॒ द्वेषो᳚भ्यो॒ द्वेषो᳚भ्य स्तनू॒कृद्भ्य॑ स्तनू॒कृद्भ्यो॒ द्वेषो᳚भ्यः । 3) त॒नू॒कृद्भ्य॒ इति॑ तनू॒कृत् - भ्यः॒ । 4) द्वेषो᳚भ्यो॒ ऽन्यकृ॑तेभ्यो॒ ऽन्यकृ॑तेभ्यो॒ द्वेषो᳚भ्यो॒ द्वेषो᳚भ्यो॒ ऽन्यकृ॑तेभ्यः । 4) द्वेषो᳚भ्य॒ इति॒ द्वेषः॑ - भ्यः॒ । 5) अ॒न्यकृ॑तेभ्य उ॒रू᳚(1॒)र्व॑न्यकृ॑तेभ्यो॒ ऽन्यकृ॑तेभ्य उ॒रु । 5) अ॒न्यकृ॑तेभ्य॒ इत्य॒न्य - कृ॒ते॒भ्यः॒ । 6) उ॒रु य॒न्ता य॒न्तो रू॑रु य॒न्ता । 7) य॒न्ता ऽस्य॑सि य॒न्ता य॒न्ता ऽसि॑ । 8) अ॒सि॒ वरू॑थं॒-वँरू॑थ मस्यसि॒ वरू॑थम् । 9) वरू॑थ॒(ग्ग्॒) स्वाहा॒ स्वाहा॒ वरू॑थं॒-वँरू॑थ॒(ग्ग्॒) स्वाहा᳚ । 10) स्वाहा॑ जुषा॒णो जु॑षा॒ण-स्स्वाहा॒ स्वाहा॑ जुषा॒णः । 11) जु॒षा॒णो अ॒प्तु र॒प्तु-र्जु॑षा॒णो जु॑षा॒णो अ॒प्तुः । 12) अ॒प्तु राज्य॒ स्याज्य॑ स्या॒प्तु र॒प्तु राज्य॑स्य । 13) आज्य॑स्य वेतु वे॒त्वाज्य॒ स्याज्य॑स्य वेतु । 14) वे॒तु॒ स्वाहा॒ स्वाहा॑ वेतु वेतु॒ स्वाहा᳚ । 15) स्वाहा॒ ऽय म॒यग्ग् स्वाहा॒ स्वाहा॒ ऽयम् । 16) अ॒य-न्नो॑ नो॒ ऽयं अ॒य-न्नः॑ । 17) नो॒ अ॒ग्नि र॒ग्नि-र्नो॑ नो अ॒ग्निः । 18) अ॒ग्नि-र्वरि॑वो॒ वरि॑वो॒ ऽग्नि र॒ग्नि-र्वरि॑वः । 19) वरि॑वः कृणोतु कृणोतु॒ वरि॑वो॒ वरि॑वः कृणोतु । 20) कृ॒णो॒त्व॒य म॒य-ङ्कृ॑णोतु कृणोत्व॒यम् । 21) अ॒य-म्मृधो॒ मृधो॒ ऽय म॒य-म्मृधः॑ । 22) मृधः॑ पु॒रः पु॒रो मृधो॒ मृधः॑ पु॒रः । 23) पु॒र ए᳚त्वेतु पु॒रः पु॒र ए॑तु । 24) ए॒तु॒ प्र॒भि॒न्द-न्प्र॑भि॒न्द-न्ने᳚त्वेतु प्रभि॒न्दन्न् ॥ 25) प्र॒भि॒न्दन्निति॑ प्र - भि॒न्दन्न् ॥ 26) अ॒यग्ं शत्रू॒-ञ्छत्रू॑ न॒य म॒यग्ं शत्रून्॑ । 27) शत्रू᳚न् जयतु जयतु॒ शत्रू॒-ञ्छत्रू᳚न् जयतु । 28) ज॒य॒तु॒ जर्हृ॑षाणो॒ जर्हृ॑षाणो जयतु जयतु॒ जर्हृ॑षाणः । 29) जर्हृ॑षाणो॒ ऽय म॒य-ञ्जर्हृ॑षाणो॒ जर्हृ॑षाणो॒ ऽयम् । 30) अ॒यं-वाँजं॒-वाँज॑ म॒य म॒यं-वाँज᳚म् । 31) वाज॑-ञ्जयतु जयतु॒ वाजं॒-वाँज॑-ञ्जयतु । 32) ज॒य॒तु॒ वाज॑सातौ॒ वाज॑सातौ जयतु जयतु॒ वाज॑सातौ । 33) वाज॑साता॒विति॒ वाज॑ - सा॒तौ॒ । 34) उ॒रु वि॑ष्णो विष्णो उ॒रू॑रु वि॑ष्णो । 35) वि॒ष्णो॒ वि वि वि॑ष्णो विष्णो॒ वि । 35) वि॒ष्णो॒ इति॑ विष्णो । 36) वि क्र॑मस्व क्रमस्व॒ वि वि क्र॑मस्व । 37) क्र॒म॒स्वो॒ रू॑रु क्र॑मस्व क्रम स्वो॒रु । 38) उ॒रु क्षया॑य॒ क्षया॑यो॒ रू॑रु क्षया॑य । 39) क्षया॑य नो नः॒, क्षया॑य॒ क्षया॑य नः । 40) नः॒ कृ॒धि॒ कृ॒धि॒ नो॒ नः॒ कृ॒धि॒ । 41) कृ॒धीति॑ कृधि । 42) घृ॒त-ङ्घृ॑तयोने घृतयोने घृ॒त-ङ्घृ॒त-ङ्घृ॑तयोने । 43) घृ॒त॒यो॒ने॒ पि॒ब॒ पि॒ब॒ घृ॒त॒यो॒ने॒ घृ॒त॒यो॒ने॒ पि॒ब॒ । 43) घृ॒त॒यो॒न॒ इति॑ घृत - यो॒ने॒ । 44) पि॒ब॒ प्रप्र॒ प्रप्र॑ पिब पिब॒ प्रप्र॑ । 45) प्रप्र॑ य॒ज्ञप॑तिं-यँ॒ज्ञप॑ति॒-म्प्रप्र॒ प्रप्र॑ य॒ज्ञप॑तिम् । 45) प्रप्रेति॒ प्र - प्र॒ । 46) य॒ज्ञप॑ति-न्तिर तिर य॒ज्ञप॑तिं-यँ॒ज्ञप॑ति-न्तिर । 46) य॒ज्ञप॑ति॒मिति॑ य॒ज्ञ - प॒ति॒म् । 47) ति॒रेति॑ तिर । 48) सोमो॑ जिगाति जिगाति॒ सोम॒-स्सोमो॑ जिगाति । 49) जि॒गा॒ति॒ गा॒तु॒वि-द्गा॑तु॒विज् जि॑गाति जिगाति गातु॒वित् । 50) गा॒तु॒वि-द्दे॒वाना᳚-न्दे॒वाना᳚-ङ्गातु॒वि-द्गा॑तु॒वि-द्दे॒वाना᳚म् । 50) गा॒तु॒विदिति॑ गातु - वित् । ॥ 6 ॥ (50/58)
1) दे॒वाना॑ मेत्येति दे॒वाना᳚-न्दे॒वाना॑ मेति । 2) ए॒ति॒ नि॒ष्कृ॒त-न्नि॑ष्कृ॒त मे᳚त्येति निष्कृ॒तम् । 3) नि॒ष्कृ॒त मृ॒तस्य॒ र्तस्य॑ निष्कृ॒त-न्नि॑ष्कृ॒त मृ॒तस्य॑ । 3) नि॒ष्कृ॒तमिति॑ निः - कृ॒तम् । 4) ऋ॒तस्य॒ योनिं॒-योँनि॑ मृ॒तस्य॒ र्तस्य॒ योनि᳚म् । 5) योनि॑ मा॒सद॑ मा॒सदं॒-योँनिं॒-योँनि॑ मा॒सद᳚म् । 6) आ॒सद॒ मदि॑त्या॒ अदि॑त्या आ॒सद॑ मा॒सद॒ मदि॑त्याः । 6) आ॒सद॒मित्या᳚ - सद᳚म् । 7) अदि॑त्या॒-स्सद॒-स्सदो ऽदि॑त्या॒ अदि॑त्या॒-स्सदः॑ । 8) सदो᳚ ऽस्यसि॒ सद॒-स्सदो॑ ऽसि । 9) अ॒स्यदि॑त्या॒ अदि॑त्या अस्य॒ स्यदि॑त्याः । 10) अदि॑त्या॒-स्सद॒-स्सदो ऽदि॑त्या॒ अदि॑त्या॒-स्सदः॑ । 11) सद॒ आ सद॒-स्सद॒ आ । 12) आ सी॑द सी॒दा सी॑द । 13) सी॒दै॒ष ए॒ष सी॑द सीदै॒षः । 14) ए॒ष वो॑ व ए॒ष ए॒ष वः॑ । 15) वो॒ दे॒व॒ दे॒व॒ वो॒ वो॒ दे॒व॒ । 16) दे॒व॒ स॒वि॒त॒-स्स॒वि॒त॒-र्दे॒व॒ दे॒व॒ स॒वि॒तः॒ । 17) स॒वि॒त॒-स्सोम॒-स्सोम॑-स्सवित-स्सवित॒-स्सोमः॑ । 18) सोम॒ स्त-न्तग्ं सोम॒-स्सोम॒ स्तम् । 19) तग्ं र॑क्षद्ध्वग्ं रक्षद्ध्व॒-न्त-न्तग्ं र॑क्षद्ध्वम् । 20) र॒क्ष॒द्ध्व॒-म्मा मा र॑क्षद्ध्वग्ं रक्षद्ध्व॒-म्मा । 21) मा वो॑ वो॒ मा मा वः॑ । 22) वो॒ द॒भ॒-द्द॒भ॒-द्वो॒ वो॒ द॒भ॒त् । 23) द॒भ॒ दे॒त दे॒त-द्द॑भ-द्दभ दे॒तत् । 24) ए॒त-त्त्व-न्त्व मे॒त दे॒त-त्त्वम् । 25) त्वग्ं सो॑म सोम॒ त्व-न्त्वग्ं सो॑म । 26) सो॒म॒ दे॒वो दे॒व-स्सो॑म सोम दे॒वः । 27) दे॒वो दे॒वा-न्दे॒वा-न्दे॒वो दे॒वो दे॒वान् । 28) दे॒वा नुपोप॑ दे॒वा-न्दे॒वा नुप॑ । 29) उपा॑गा अगा॒ उपोपा॑गाः । 30) अ॒गा॒ इ॒द मि॒द म॑गा अगा इ॒दम् । 31) इ॒द म॒ह म॒ह मि॒द मि॒द म॒हम् । 32) अ॒ह-म्म॑नु॒ष्यो॑ मनु॒ष्यो॑ ऽह म॒ह-म्म॑नु॒ष्यः॑ । 33) म॒नु॒ष्यो॑ मनु॒ष्या᳚-न्मनु॒ष्या᳚-न्मनु॒ष्यो॑ मनु॒ष्यो॑ मनु॒ष्यान्॑ । 34) म॒नु॒ष्या᳚-न्थ्स॒ह स॒ह म॑नु॒ष्या᳚-न्मनु॒ष्या᳚-न्थ्स॒ह । 35) स॒ह प्र॒जया᳚ प्र॒जया॑ स॒ह स॒ह प्र॒जया᳚ । 36) प्र॒जया॑ स॒ह स॒ह प्र॒जया᳚ प्र॒जया॑ स॒ह । 36) प्र॒जयेति॑ प्र - जया᳚ । 37) स॒ह रा॒यो रा॒य-स्स॒ह स॒ह रा॒यः । 38) रा॒यस् पोषे॑ण॒ पोषे॑ण रा॒यो रा॒यस् पोषे॑ण । 39) पोषे॑ण॒ नमो॒ नमः॒ पोषे॑ण॒ पोषे॑ण॒ नमः॑ । 40) नमो॑ दे॒वेभ्यो॑ दे॒वेभ्यो॒ नमो॒ नमो॑ दे॒वेभ्यः॑ । 41) दे॒वेभ्य॑-स्स्व॒धा स्व॒धा दे॒वेभ्यो॑ दे॒वेभ्य॑-स्स्व॒धा । 42) स्व॒धा पि॒तृभ्यः॑ पि॒तृभ्य॑-स्स्व॒धा स्व॒धा पि॒तृभ्यः॑ । 42) स्व॒धेति॑ स्व - धा । 43) पि॒तृभ्य॑ इ॒द मि॒द-म्पि॒तृभ्यः॑ पि॒तृभ्य॑ इ॒दम् । 43) पि॒तृभ्य॒ इति॑ पि॒तृ - भ्यः॒ । 44) इ॒द म॒ह म॒ह मि॒द मि॒द म॒हम् । 45) अ॒ह-न्नि-र्णिर॒ह म॒ह-न्निः । 46) नि-र्वरु॑णस्य॒ वरु॑णस्य॒ नि-र्णि-र्वरु॑णस्य । 47) वरु॑णस्य॒ पाशा॒-त्पाशा॒-द्वरु॑णस्य॒ वरु॑णस्य॒ पाशा᳚त् । 48) पाशा॒ थ्सुव॒-स्सुवः॒ पाशा॒-त्पाशा॒-थ्सुवः॑ । 49) सुव॑ र॒भ्य॑भि सुव॒-स्सुव॑ र॒भि । 50) अ॒भि वि व्या᳚(1॒)भ्य॑भि वि । ॥ 7 ॥ (50/55)
1) वि ख्ये॑ष-ङ्ख्येषं॒-विँ वि ख्ये॑षम् । 2) ख्ये॒षं॒-वैँ॒श्वा॒न॒रं-वैँ᳚श्वान॒र-ङ्ख्ये॑ष-ङ्ख्येषं-वैँश्वान॒रम् । 3) वै॒श्वा॒न॒र-ञ्ज्योति॒-र्ज्योति॑-र्वैश्वान॒रं-वैँ᳚श्वान॒र-ञ्ज्योतिः॑ । 4) ज्योति॒ रग्ने ऽग्ने॒ ज्योति॒-र्ज्योति॒ रग्ने᳚ । 5) अग्ने᳚ व्रतपते व्रतप॒ते ऽग्ने ऽग्ने᳚ व्रतपते । 6) व्र॒त॒प॒ते॒ त्व-न्त्वं-व्रँ॑तपते व्रतपते॒ त्वम् । 6) व्र॒त॒प॒त॒ इति॑ व्रत - प॒ते॒ । 7) त्वं-व्रँ॒तानां᳚-व्रँ॒ताना॒-न्त्व-न्त्वं-व्रँ॒ताना᳚म् । 8) व्र॒तानां᳚-व्रँ॒तप॑ति-र्व्र॒तप॑ति-र्व्र॒तानां᳚-व्रँ॒तानां᳚-व्रँ॒तप॑तिः । 9) व्र॒तप॑ति रस्यसि व्र॒तप॑ति-र्व्र॒तप॑ति रसि । 9) व्र॒तप॑ति॒रिति॑ व्र॒त - प॒तिः॒ । 10) अ॒सि॒ या या ऽस्य॑सि॒ या । 11) या मम॒ मम॒ या या मम॑ । 12) मम॑ त॒नू स्त॒नू-र्मम॒ मम॑ त॒नूः । 13) त॒नू स्त्वयि॒ त्वयि॑ त॒नू स्त॒नू स्त्वयि॑ । 14) त्वय्यभू॒ दभू॒-त्त्वयि॒ त्वय्यभू᳚त् । 15) अभू॑ दि॒य मि॒य मभू॒ दभू॑ दि॒यम् । 16) इ॒यग्ं सा सेय मि॒यग्ं सा । 17) सा मयि॒ मयि॒ सा सा मयि॑ । 18) मयि॒ या या मयि॒ मयि॒ या । 19) या तव॒ तव॒ या या तव॑ । 20) तव॑ त॒नू स्त॒नू स्तव॒ तव॑ त॒नूः । 21) त॒नू-र्मयि॒ मयि॑ त॒नू स्त॒नू-र्मयि॑ । 22) मय्यभू॒ दभू॒-न्मयि॒ मय्यभू᳚त् । 23) अभू॑ दे॒षैषा ऽभू॒दभू॑ दे॒षा । 24) ए॒षा सा सैषैषा सा । 25) सा त्वयि॒ त्वयि॒ सा सा त्वयि॑ । 26) त्वयि॑ यथाय॒थं-यँ॑थाय॒थ-न्त्वयि॒ त्वयि॑ यथाय॒थम् । 27) य॒था॒य॒थ-न्नौ॑ नौ यथाय॒थं-यँ॑थाय॒थ-न्नौ᳚ । 27) य॒था॒य॒थमिति॑ यथा - य॒थम् । 28) नौ॒ व्र॒त॒प॒ते॒ व्र॒त॒प॒ते॒ नौ॒ नौ॒ व्र॒त॒प॒ते॒ । 29) व्र॒त॒प॒ते॒ व्र॒तिनो᳚-र्व्र॒तिनो᳚-र्व्रतपते व्रतपते व्र॒तिनोः᳚ । 29) व्र॒त॒प॒त॒ इति॑ व्रत - प॒ते॒ । 30) व्र॒तिनो᳚-र्व्र॒तानि॑ व्र॒तानि॑ व्र॒तिनो᳚-र्व्र॒तिनो᳚-र्व्र॒तानि॑ । 31) व्र॒तानीति॑ व्र॒तानि॑ । ॥ 8 ॥ (31/35) ॥ अ. 4 ॥
1) अत्य॒न्या न॒न्या नत्यत्य॒न्यान् । 2) अ॒न्या नगा॒ मगा॑ म॒न्या न॒न्या नगा᳚म् । 3) अगा॒-न्न नागा॒ मगा॒-न्न । 4) नान्या न॒न्या-न्न नान्यान् । 5) अ॒न्या नुपोपा॒न्या न॒न्या नुप॑ । 6) उपा॑गा मगा॒ मुपोपा॑गाम् । 7) अ॒गा॒ म॒र्वा ग॒र्वाग॑गा मगा म॒र्वाक् । 8) अ॒र्वा-क्त्वा᳚ त्वा॒ ऽर्वाग॒र्वा-क्त्वा᳚ । 9) त्वा॒ परैः॒ परै᳚ स्त्वा त्वा॒ परैः᳚ । 10) परै॑ रविद मविद॒-म्परैः॒ परै॑ रविदम् । 11) अ॒वि॒द॒-म्प॒रः प॒रो॑ ऽविद मविद-म्प॒रः । 12) प॒रो ऽव॑ रै॒रव॑रैः प॒रः प॒रो ऽव॑रैः । 13) अव॑ रै॒स्त-न्त मव॑ रै॒रव॑ रै॒स्तम् । 14) त-न्त्वा᳚ त्वा॒ त-न्त-न्त्वा᳚ । 15) त्वा॒ जु॒षे॒ जु॒षे॒ त्वा॒ त्वा॒ जु॒षे॒ । 16) जु॒षे॒ वै॒ष्ण॒वं-वैँ᳚ष्ण॒व-ञ्जु॑षे जुषे वैष्ण॒वम् । 17) वै॒ष्ण॒व-न्दे॑वय॒ज्यायै॑ देवय॒ज्यायै॑ वैष्ण॒वं-वैँ᳚ष्ण॒व-न्दे॑वय॒ज्यायै᳚ । 18) दे॒व॒य॒ज्यायै॑ दे॒वो दे॒वो दे॑वय॒ज्यायै॑ देवय॒ज्यायै॑ दे॒वः । 18) दे॒व॒य॒ज्याया॒ इति॑ देव - य॒ज्यायै᳚ । 19) दे॒व स्त्वा᳚ त्वा दे॒वो दे॒व स्त्वा᳚ । 20) त्वा॒ स॒वि॒ता स॑वि॒ता त्वा᳚ त्वा सवि॒ता । 21) स॒वि॒ता मद्ध्वा॒ मद्ध्वा॑ सवि॒ता स॑वि॒ता मद्ध्वा᳚ । 22) मद्ध्वा॑ ऽनक्त्वनक्तु॒ मद्ध्वा॒ मद्ध्वा॑ ऽनक्तु । 23) अ॒न॒क्त्वोष॑ध॒ ओष॑धे ऽनक्त्वन॒ क्त्वोष॑धे । 24) ओष॑धे॒ त्राय॑स्व॒ त्राय॒ स्वौष॑ध॒ ओष॑धे॒ त्राय॑स्व । 25) त्राय॑स्वैन मेन॒-न्त्राय॑स्व॒ त्राय॑स्वैनम् । 26) ए॒न॒(ग्ग्॒) स्वधि॑ते॒ स्वधि॑त एन मेन॒(ग्ग्॒) स्वधि॑ते । 27) स्वधि॑ते॒ मा मा स्वधि॑ते॒ स्वधि॑ते॒ मा । 27) स्वधि॑त॒ इति॒ स्व - धि॒ते॒ । 28) मैन॑ मेन॒-म्मा मैन᳚म् । 29) ए॒न॒(ग्म्॒) हि॒(ग्म्॒)सी॒र्॒ हि॒(ग्म्॒)सी॒ रे॒न॒ मे॒न॒(ग्म्॒) हि॒(ग्म्॒)सीः॒ । 30) हि॒(ग्म्॒)सी॒-र्दिव॒-न्दिव(ग्म्॑) हिग्ंसीर्-हिग्ंसी॒-र्दिव᳚म् । 31) दिव॒ मग्रे॒ णाग्रे॑ण॒ दिव॒-न्दिव॒ मग्रे॑ण । 32) अग्रे॑ण॒ मा मा ऽग्रे॒णाग्रे॑ण॒ मा । 33) मा ले॑खी-र्लेखी॒-र्मा मा ले॑खीः । 34) ले॒खी॒ र॒न्तरि॑क्ष म॒न्तरि॑क्षम् ँलेखी-र्लेखी र॒न्तरि॑क्षम् । 35) अ॒न्तरि॑क्ष॒-म्मद्ध्ये॑न॒ मद्ध्ये॑ ना॒न्तरि॑क्ष म॒न्तरि॑क्ष॒-म्मद्ध्ये॑न । 36) मद्ध्ये॑न॒ मा मा मद्ध्ये॑न॒ मद्ध्ये॑न॒ मा । 37) मा हि(ग्म्॑)सीर्-हिग्ंसी॒-र्मा मा हि(ग्म्॑)सीः । 38) हि॒(ग्म्॒)सीः॒ पृ॒थि॒व्या पृ॑थि॒व्या हि(ग्म्॑)सीर्-हिग्ंसीः पृथि॒व्या । 39) पृ॒थि॒व्या सग्ं स-म्पृ॑थि॒व्या पृ॑थि॒व्या सम् । 40) स-म्भ॑व भव॒ सग्ं स-म्भ॑व । 41) भ॒व॒ वन॑स्पते॒ वन॑स्पते भव भव॒ वन॑स्पते । 42) वन॑स्पते श॒तव॑ल्श-श्श॒तव॑ल्शो॒ वन॑स्पते॒ वन॑स्पते श॒तव॑ल्शः । 43) श॒तव॑ल्शो॒ वि वि श॒तव॑ल्श-श्श॒तव॑ल्शो॒ वि । 43) श॒तव॑ल्श॒ इति॑ श॒त - व॒ल्॒.शः॒ । 44) वि रो॑ह रोह॒ वि वि रो॑ह । 45) रो॒ह॒ स॒हस्र॑वल्शा-स्स॒हस्र॑वल्शा रोह रोह स॒हस्र॑वल्शाः । 46) स॒हस्र॑वल्शा॒ वि वि स॒हस्र॑वल्शा-स्स॒हस्र॑वल्शा॒ वि । 46) स॒हस्र॑वल्शा॒ इति॑ स॒हस्र॑ - व॒ल्॒.शाः॒ । 47) वि व॒यं-वँ॒यं-विँ वि व॒यम् । 48) व॒यग्ं रु॑हेम रुहेम व॒यं-वँ॒यग्ं रु॑हेम । 49) रु॒हे॒म॒ यं-यँग्ं रु॑हेम रुहेम॒ यम् । 50) य-न्त्वा᳚ त्वा॒ यं-यँ-न्त्वा᳚ । 51) त्वा॒ ऽय म॒य-न्त्वा᳚ त्वा॒ ऽयम् । 52) अ॒यग्ग् स्वधि॑ति॒-स्स्वधि॑ति र॒य म॒यग्ग् स्वधि॑तिः । 53) स्वधि॑ति॒ स्तेति॑जान॒ स्तेति॑जान॒-स्स्वधि॑ति॒-स्स्वधि॑ति॒ स्तेति॑जानः । 53) स्वधि॑ति॒रिति॒ स्व - धि॒तिः॒ । 54) तेति॑जानः प्रणि॒नाय॑ प्रणि॒नाय॒ तेति॑जान॒ स्तेति॑जानः प्रणि॒नाय॑ । 55) प्र॒णि॒नाय॑ मह॒ते म॑ह॒ते प्र॑णि॒नाय॑ प्रणि॒नाय॑ मह॒ते । 55) प्र॒णि॒नायेति॑ प्र - नि॒नाय॑ । 56) म॒ह॒ते सौभ॑गाय॒ सौभ॑गाय मह॒ते म॑ह॒ते सौभ॑गाय । 57) सौभ॑गा॒ याच्छि॒न्नो ऽच्छि॑न्न॒-स्सौभ॑गाय॒ सौभ॑गा॒ याच्छि॑न्नः । 58) अच्छि॑न्नो॒ रायो॒ रायो ऽच्छि॒न्नो ऽच्छि॑न्नो॒ रायः॑ । 59) राय॑-स्सु॒वीर॑-स्सु॒वीरो॒ रायो॒ राय॑-स्सु॒वीरः॑ । 60) सु॒वीर॒ इति॑ सु - वीरः॑ । ॥ 9 ॥ (60/66) ॥ अ. 5 ॥
1) पृ॒थि॒व्यै त्वा᳚ त्वा पृथि॒व्यै पृ॑थि॒व्यै त्वा᳚ । 2) त्वा॒ ऽन्तरि॑क्षा या॒न्तरि॑क्षाय त्वा त्वा॒ ऽन्तरि॑क्षाय । 3) अ॒न्तरि॑क्षाय त्वा त्वा॒ ऽन्तरि॑क्षा या॒न्तरि॑क्षाय त्वा । 4) त्वा॒ दि॒वे दि॒वे त्वा᳚ त्वा दि॒वे । 5) दि॒वे त्वा᳚ त्वा दि॒वे दि॒वे त्वा᳚ । 6) त्वा॒ शुन्ध॑ता॒(ग्म्॒) शुन्ध॑ता-न्त्वा त्वा॒ शुन्ध॑ताम् । 7) शुन्ध॑ताम् ँलो॒को लो॒क-श्शुन्ध॑ता॒(ग्म्॒) शुन्ध॑ताम् ँलो॒कः । 8) लो॒कः पि॑तृ॒षद॑नः पितृ॒षद॑नो लो॒को लो॒कः पि॑तृ॒षद॑नः । 9) पि॒तृ॒षद॑नो॒ यवो॒ यवः॑ पितृ॒षद॑नः पितृ॒षद॑नो॒ यवः॑ । 9) पि॒तृ॒षद॑न॒ इति॑ पितृ - सद॑नः । 10) यवो᳚ ऽस्यसि॒ यवो॒ यवो॑ ऽसि । 11) अ॒सि॒ य॒वय॑ य॒व या᳚स्यसि य॒वय॑ । 12) य॒व या॒स्म द॒स्म-द्य॒वय॑ य॒व या॒स्मत् । 13) अ॒स्म-द्द्वेषो॒ द्वेषो॒ ऽस्म द॒स्म-द्द्वेषः॑ । 14) द्वेषो॑ य॒वय॑ य॒वय॒ द्वेषो॒ द्वेषो॑ य॒वय॑ । 15) य॒वयारा॑ती॒र रा॑ती-र्य॒वय॑ य॒वयारा॑तीः । 16) अरा॑तीः पितृ॒णा-म्पि॑तृ॒णा मरा॑ती॒ ररा॑तीः पितृ॒णाम् । 17) पि॒तृ॒णाग्ं सद॑न॒(ग्म्॒) सद॑न-म्पितृ॒णा-म्पि॑तृ॒णाग्ं सद॑नम् । 18) सद॑न मस्यसि॒ सद॑न॒(ग्म्॒) सद॑न मसि । 19) अ॒सि॒ स्वा॒वे॒श-स्स्वा॑वे॒शो᳚ ऽस्यसि स्वावे॒शः । 20) स्वा॒वे॒शो᳚ ऽस्यसि स्वावे॒श-स्स्वा॑वे॒शो॑ ऽसि । 20) स्वा॒वे॒श इति॑ सु - आ॒वे॒शः । 21) अ॒स्य॒ग्रे॒गा अ॑ग्रे॒गा अ॑स्य स्यग्रे॒गाः । 22) अ॒ग्रे॒गा ने॑तृ॒णा-न्ने॑तृ॒णा म॑ग्रे॒गा अ॑ग्रे॒गा ने॑तृ॒णाम् । 22) अ॒ग्रे॒गा इत्य॑ग्रे - गाः । 23) ने॒तृ॒णां-वँन॒स्पति॒-र्वन॒स्पति॑-र्नेतृ॒णा-न्ने॑तृ॒णां-वँन॒स्पतिः॑ । 24) वन॒स्पति॒ रध्यधि॒ वन॒स्पति॒-र्वन॒स्पति॒ रधि॑ । 25) अधि॑ त्वा॒ त्वा ऽध्यधि॑ त्वा । 26) त्वा॒ स्था॒स्य॒ति॒ स्था॒स्य॒ति॒ त्वा॒ त्वा॒ स्था॒स्य॒ति॒ । 27) स्था॒स्य॒ति॒ तस्य॒ तस्य॑ स्थास्यति स्थास्यति॒ तस्य॑ । 28) तस्य॑ वित्ता-द्वित्ता॒-त्तस्य॒ तस्य॑ वित्तात् । 29) वि॒त्ता॒-द्दे॒वो दे॒वो वि॑त्ता-द्वित्ता-द्दे॒वः । 30) दे॒वस्त्वा᳚ त्वा दे॒वो दे॒वस्त्वा᳚ । 31) त्वा॒ स॒वि॒ता स॑वि॒ता त्वा᳚ त्वा सवि॒ता । 32) स॒वि॒ता मद्ध्वा॒ मद्ध्वा॑ सवि॒ता स॑वि॒ता मद्ध्वा᳚ । 33) मद्ध्वा॑ ऽनक्त्वनक्तु॒ मद्ध्वा॒ मद्ध्वा॑ ऽनक्तु । 34) अ॒न॒क्तु॒ सु॒पि॒प्प॒लाभ्य॑-स्सुपिप्प॒लाभ्यो॑ ऽनक्त्वनक्तु सुपिप्प॒लाभ्यः॑ । 35) सु॒पि॒प्प॒लाभ्य॑ स्त्वा त्वा सुपिप्प॒लाभ्य॑-स्सुपिप्प॒लाभ्य॑ स्त्वा । 35) सु॒पि॒प्प॒लाभ्य॒ इति॑ सु - पि॒प्प॒लाभ्यः॑ । 36) त्वौष॑धीभ्य॒ ओष॑धी भ्यस्त्वा॒ त्वौष॑धीभ्यः । 37) ओष॑धीभ्य॒ उदु दोष॑धीभ्य॒ ओष॑धीभ्य॒ उत् । 37) ओष॑धीभ्य॒ इत्योष॑धि - भ्यः॒ । 38) उ-द्दिव॒-न्दिव॒ मुदु-द्दिव᳚म् । 39) दिव(ग्ग्॑) स्तभान स्तभान॒ दिव॒-न्दिव(ग्ग्॑) स्तभान । 40) स्त॒भा॒ना स्त॑भान स्तभा॒ना । 41) आ ऽन्तरि॑क्ष म॒न्तरि॑क्ष॒ मा ऽन्तरि॑क्षम् । 42) अ॒न्तरि॑क्ष-म्पृण पृणा॒न्तरि॑क्ष म॒न्तरि॑क्ष-म्पृण । 43) पृ॒ण॒ पृ॒थि॒वी-म्पृ॑थि॒वी-म्पृ॑ण पृण पृथि॒वीम् । 44) पृ॒थि॒वी मुप॑रे॒ णोप॑रेण पृथि॒वी-म्पृ॑थि॒वी मुप॑रेण । 45) उप॑रेण दृग्ंह दृ॒(ग्म्॒) होप॑रे॒ णोप॑रेण दृग्ंह । 46) दृ॒(ग्म्॒)ह॒ ते ते दृ(ग्म्॑)ह दृग्ंह॒ ते । 47) ते ते॑ ते॒ ते ते ते᳚ । 48) ते॒ धामा॑नि॒ धामा॑नि ते ते॒ धामा॑नि । 49) धामा᳚ न्युश्म स्युश्मसि॒ धामा॑नि॒ धामा᳚ न्युश्मसि । 50) उ॒श्म॒सी॒ ग॒मद्ध्ये॑ ग॒मद्ध्य॑ उश्म स्युश्मसी ग॒मद्ध्ये᳚ । ॥ 10 ॥ (50/55)
1) ग॒मद्ध्ये॒ गावो॒ गावो॑ ग॒मद्ध्ये॑ ग॒मद्ध्ये॒ गावः॑ । 2) गावो॒ यत्र॒ यत्र॒ गावो॒ गावो॒ यत्र॑ । 3) यत्र॒ भूरि॑शृङ्गा॒ भूरि॑शृङ्गा॒ यत्र॒ यत्र॒ भूरि॑शृङ्गाः । 4) भूरि॑शृङ्गा अ॒यासो॒ ऽयासो॒ भूरि॑शृङ्गा॒ भूरि॑शृङ्गा अ॒यासः॑ । 4) भूरि॑शृङ्गा॒ इति॒ भूरि॑ - शृ॒ङ्गाः॒ । 5) अ॒यास॒ इत्य॒यासः॑ । 6) अत्रा हाहा त्रा त्राह॑ । 7) अह॒ त-त्तदहाह॒ तत् । 8) तदु॑ रुगा॒यस्यो॑ रुगा॒यस्य॒ त-त्तदु॑ रुगा॒यस्य॑ । 9) उ॒रु॒गा॒यस्य॒ विष्णो॒-र्विष्णो॑ रुरुगा॒य स्यो॑रुगा॒यस्य॒ विष्णोः᳚ । 9) उ॒रु॒गा॒यस्येत्यु॑रु - गा॒यस्य॑ । 10) विष्णोः᳚ पर॒म-म्प॑र॒मं-विँष्णो॒-र्विष्णोः᳚ पर॒मम् । 11) प॒र॒म-म्प॒द-म्प॒द-म्प॑र॒म-म्प॑र॒म-म्प॒दम् । 12) प॒द मवाव॑ प॒द-म्प॒द मव॑ । 13) अव॑ भाति भा॒त्यवाव॑ भाति । 14) भा॒ति॒ भूरे॒-र्भूरे᳚-र्भाति भाति॒ भूरेः᳚ । 15) भूरे॒रिति॒ भुरेः᳚ । 16) विष्णोः॒ कर्मा॑णि॒ कर्मा॑णि॒ विष्णो॒-र्विष्णोः॒ कर्मा॑णि । 17) कर्मा॑णि पश्यत पश्यत॒ कर्मा॑णि॒ कर्मा॑णि पश्यत । 18) प॒श्य॒त॒ यतो॒ यतः॑ पश्यत पश्यत॒ यतः॑ । 19) यतो᳚ व्र॒तानि॑ व्र॒तानि॒ यतो॒ यतो᳚ व्र॒तानि॑ । 20) व्र॒तानि॑ पस्प॒शे प॑स्प॒शे व्र॒तानि॑ व्र॒तानि॑ पस्प॒शे । 21) प॒स्प॒श इति॑ पस्प॒शे । 22) इन्द्र॑स्य॒ युज्यो॒ युज्य॒ इन्द्र॒स्ये न्द्र॑स्य॒ युज्यः॑ । 23) युज्य॒-स्सखा॒ सखा॒ युज्यो॒ युज्य॒-स्सखा᳚ । 24) सखेति॒ सखा᳚ । 25) त-द्विष्णो॒-र्विष्णो॒ स्त-त्त-द्विष्णोः᳚ । 26) विष्णोः᳚ पर॒म-म्प॑र॒मं-विँष्णो॒-र्विष्णोः᳚ पर॒मम् । 27) प॒र॒म-म्प॒द-म्प॒द-म्प॑र॒म-म्प॑र॒म-म्प॒दम् । 28) प॒दग्ं सदा॒ सदा॑ प॒द-म्प॒दग्ं सदा᳚ । 29) सदा॑ पश्यन्ति पश्यन्ति॒ सदा॒ सदा॑ पश्यन्ति । 30) प॒श्य॒न्ति॒ सू॒रय॑-स्सू॒रयः॑ पश्यन्ति पश्यन्ति सू॒रयः॑ । 31) सू॒रय॒ इति॑ सू॒रयः॑ । 32) दि॒वीवे॑ व दि॒वि दि॒वीव॑ । 33) इ॒व॒ चक्षु॒ श्चक्षु॑ रिवे व॒ चक्षुः॑ । 34) चक्षु॒रात॑त॒ मात॑त॒-ञ्चक्षु॒ श्चक्षु॒रात॑तम् । 35) आत॑त॒मित्या - त॒त॒म् । 36) ब्र॒ह्म॒वनि॑-न्त्वा त्वा ब्रह्म॒वनि॑-म्ब्रह्म॒वनि॑-न्त्वा । 36) ब्र॒ह्म॒वनि॒मिति॑ ब्रह्म - वनि᳚म् । 37) त्वा॒ क्ष॒त्र॒वनि॑-ङ्क्षत्र॒वनि॑-न्त्वा त्वा क्षत्र॒वनि᳚म् । 38) क्ष॒त्र॒वनि(ग्म्॑) सुप्रजा॒वनि(ग्म्॑) सुप्रजा॒वनि॑-ङ्क्षत्र॒वनि॑-ङ्क्षत्र॒वनि(ग्म्॑) सुप्रजा॒वनि᳚म् । 38) क्ष॒त्र॒वनि॒मिति॑ क्षत्र - वनि᳚म् । 39) सु॒प्र॒जा॒वनि(ग्म्॑) रायस्पोष॒वनि(ग्म्॑) रायस्पोष॒वनि(ग्म्॑) सुप्रजा॒वनि(ग्म्॑) सुप्रजा॒वनि(ग्म्॑) रायस्पोष॒वनि᳚म् । 39) सु॒प्र॒जा॒वनि॒मिति॑ सुप्रजा - वनि᳚म् । 40) रा॒य॒स्पो॒ष॒वनि॒-म्परि॒ परि॑ रायस्पोष॒वनि(ग्म्॑) रायस्पोष॒वनि॒-म्परि॑ । 40) रा॒य॒स्पो॒ष॒वनि॒मिति॑ रायस्पोष - वनि᳚म् । 41) प-र्यू॑हा म्यूहामि॒ परि॒ पर्यू॑हामि । 42) ऊ॒हा॒मि॒ ब्रह्म॒ ब्रह्मो॑ हाम्यूहामि॒ ब्रह्म॑ । 43) ब्रह्म॑ दृग्ंह दृग्ंह॒ ब्रह्म॒ ब्रह्म॑ दृग्ंह । 44) दृ॒(ग्म्॒)ह॒ क्ष॒त्र-ङ्क्ष॒त्र-न्दृ(ग्म्॑)ह दृग्ंह क्ष॒त्रम् । 45) क्ष॒त्र-न्दृ(ग्म्॑)ह दृग्ंह क्ष॒त्र-ङ्क्ष॒त्र-न्दृ(ग्म्॑)ह । 46) दृ॒(ग्म्॒)ह॒ प्र॒जा-म्प्र॒जा-न्दृ(ग्म्॑)ह दृग्ंह प्र॒जाम् । 47) प्र॒जा-न्दृ(ग्म्॑)ह दृग्ंह प्र॒जा-म्प्र॒जा-न्दृ(ग्म्॑)ह । 47) प्र॒जामिति॑ प्र - जाम् । 48) दृ॒(ग्म्॒)ह॒ रा॒यो रा॒यो दृ(ग्म्॑)ह दृग्ंह रा॒यः । 49) रा॒यस् पोष॒-म्पोष(ग्म्॑) रा॒यो रा॒यस् पोष᳚म् । 50) पोष॑-न्दृग्ंह दृग्ंह॒ पोष॒-म्पोष॑-न्दृग्ंह । 51) दृ॒(ग्म्॒)ह॒ प॒रि॒वीः प॑रि॒वी-र्दृ(ग्म्॑)ह दृग्ंह परि॒वीः । 52) प॒रि॒वी र॑स्यसि परि॒वीः प॑रि॒वी र॑सि । 52) प॒रि॒वीरिति॑ परि - वीः । 53) अ॒सि॒ परि॒ पर्य॑स्यसि॒ परि॑ । 54) परि॑ त्वा त्वा॒ परि॒ परि॑ त्वा । 55) त्वा॒ दैवी॒-र्दैवी᳚ स्त्वा त्वा॒ दैवीः᳚ । 56) दैवी॒-र्विशो॒ विशो॒ दैवी॒-र्दैवी॒-र्विशः॑ । 57) विशो᳚ व्ययन्तां-व्यँयन्तां॒-विँशो॒ विशो᳚ व्ययन्ताम् । 58) व्य॒य॒न्ता॒-म्परि॒ परि॑ व्ययन्तां-व्यँयन्ता॒-म्परि॑ । 59) परी॒म मि॒म-म्परि॒ परी॒मम् । 60) इ॒मग्ं रा॒यो रा॒य इ॒म मि॒मग्ं रा॒यः । 61) रा॒य स्पोषः॒ पोषो॑ रा॒यो रा॒य स्पोषः॑ । 62) पोषो॒ यज॑मानं॒-यँज॑मान॒-म्पोषः॒ पोषो॒ यज॑मानम् । 63) यज॑मान-म्मनु॒ष्या॑ मनु॒ष्या॑ यज॑मानं॒-यँज॑मान-म्मनु॒ष्याः᳚ । 64) म॒नु॒ष्या॑ अ॒न्तरि॑क्ष स्या॒न्तरि॑क्षस्य मनु॒ष्या॑ मनु॒ष्या॑ अ॒न्तरि॑क्षस्य । 65) अ॒न्तरि॑क्षस्य त्वा त्वा॒ ऽन्तरि॑क्ष स्या॒न्तरि॑क्षस्य त्वा । 66) त्वा॒ सानौ॒ सानौ᳚ त्वा त्वा॒ सानौ᳚ । 67) साना॒ ववाव॒ सानौ॒ साना॒ वव॑ । 68) अव॑ गूहामि गूहा॒ म्यवाव॑ गूहामि । 69) गू॒हा॒मीति॑ गूहामि । ॥ 11 ॥ (69/77) ॥ अ. 6 ॥
1) इ॒षे त्वा᳚ त्वे॒ष इ॒षे त्वा᳚ । 2) त्वो॒प॒वी रु॑प॒वी स्त्वा᳚ त्वोप॒वीः । 3) उ॒प॒वी र॑स्य स्युप॒वी रु॑प॒वी र॑सि । 3) उ॒प॒वीरित्यु॑प - वीः । 4) अ॒स्युपो॒ उपो॑ अस्य॒ स्युपो᳚ । 5) उपो॑ दे॒वा-न्दे॒वा नुपो॒ उपो॑ दे॒वान् । 5) उपो॒ इत्युपो᳚ । 6) दे॒वा-न्दैवी॒-र्दैवी᳚-र्दे॒वा-न्दे॒वा-न्दैवीः᳚ । 7) दैवी॒-र्विशो॒ विशो॒ दैवी॒-र्दैवी॒-र्विशः॑ । 8) विशः॒ प्र प्र विशो॒ विशः॒ प्र । 9) प्रागु॑रगुः॒ प्र प्रागुः॑ । 10) अ॒गु॒-र्वह्नी॒-र्वह्नी॑ रगु रगु॒-र्वह्नीः᳚ । 11) वह्नी॑ रु॒शिज॑ उ॒शिजो॒ वह्नी॒-र्वह्नी॑ रु॒शिजः॑ । 12) उ॒शिजो॒ बृह॑स्पते॒ बृह॑स्पत उ॒शिज॑ उ॒शिजो॒ बृह॑स्पते । 13) बृह॑स्पते धा॒रय॑ धा॒रय॒ बृह॑स्पते॒ बृह॑स्पते धा॒रय॑ । 14) धा॒रया॒ वसू॑नि॒ वसू॑नि धा॒रय॑ धा॒रया॒ वसू॑नि । 15) वसू॑नि ह॒व्या ह॒व्या वसू॑नि॒ वसू॑नि ह॒व्या । 16) ह॒व्या ते॑ ते ह॒व्या ह॒व्या ते᳚ । 17) ते॒ स्व॒द॒न्ता॒(ग्ग्॒) स्व॒द॒न्ता॒-न्ते॒ ते॒ स्व॒द॒न्ता॒म् । 18) स्व॒द॒न्ता॒-न्देव॒ देव॑ स्वदन्ताग् स्वदन्ता॒-न्देव॑ । 19) देव॑ त्वष्टस् त्वष्ट॒-र्देव॒ देव॑ त्वष्टः । 20) त्व॒ष्ट॒-र्वसु॒ वसु॑ त्वष्ट स्त्वष्ट॒-र्वसु॑ । 21) वसु॑ रण्व रण्व॒ वसु॒ वसु॑ रण्व । 22) र॒ण्व॒ रेव॑ती॒ रेव॑ती रण्व रण्व॒ रेव॑तीः । 23) रेव॑ती॒ रम॑द्ध्व॒(ग्म्॒) रम॑द्ध्व॒(ग्म्॒) रेव॑ती॒ रेव॑ती॒ रम॑द्ध्वम् । 24) रम॑द्ध्व म॒ग्ने र॒ग्ने रम॑द्ध्व॒(ग्म्॒) रम॑द्ध्व म॒ग्नेः । 25) अ॒ग्ने-र्ज॒नित्र॑-ञ्ज॒नित्र॑ म॒ग्ने र॒ग्ने-र्ज॒नित्र᳚म् । 26) ज॒नित्र॑ मस्यसि ज॒नित्र॑-ञ्ज॒नित्र॑ मसि । 27) अ॒सि॒ वृष॑णौ॒ वृष॑णा वस्यसि॒ वृष॑णौ । 28) वृष॑णौ स्थ-स्स्थो॒ वृष॑णौ॒ वृष॑णौ स्थः । 29) स्थ॒ उ॒र्वश्यु॒र्वशी᳚ स्थ-स्स्थ उ॒र्वशी᳚ । 30) उ॒र्वश्य॑ स्य स्यु॒र्व श्यु॒र्वश्य॑सि । 31) अ॒स्या॒यु रा॒यु र॑स्यस्या॒युः । 32) आ॒यु र॑स्यस्या॒यु रा॒युर॑सि । 33) अ॒सि॒ पु॒रू॒रवाः᳚ पुरू॒रवा॑ अस्यसि पुरू॒रवाः᳚ । 34) पु॒रू॒रवा॑ घृ॒तेन॑ घृ॒तेन॑ पुरू॒रवाः᳚ पुरू॒रवा॑ घृ॒तेन॑ । 35) घृ॒तेना॒क्ते अ॒क्ते घृ॒तेन॑ घृ॒तेना॒क्ते । 36) अ॒क्ते वृष॑णं॒-वृँष॑ण म॒क्ते अ॒क्ते वृष॑णम् । 36) अ॒क्ते इत्य॒क्ते । 37) वृष॑ण-न्दधाथा-न्दधाथां॒-वृँष॑णं॒-वृँष॑ण-न्दधाथाम् । 38) द॒धा॒था॒-ङ्गा॒य॒त्र-ङ्गा॑य॒त्र-न्द॑धाथा-न्दधाथा-ङ्गाय॒त्रम् । 39) गा॒य॒त्र-ञ्छन्द॒ श्छन्दो॑ गाय॒त्र-ङ्गा॑य॒त्र-ञ्छन्दः॑ । 40) छन्दो ऽन्वनु॒ छन्द॒ श्छन्दो ऽनु॑ । 41) अनु॒ प्र प्राण्वनु॒ प्र । 42) प्र जा॑यस्व जायस्व॒ प्र प्र जा॑यस्व । 43) जा॒य॒स्व॒ त्रैष्टु॑भ॒-न्त्रैष्टु॑भ-ञ्जायस्व जायस्व॒ त्रैष्टु॑भम् । 44) त्रैष्टु॑भ॒-ञ्जाग॑त॒-ञ्जाग॑त॒-न्त्रैष्टु॑भ॒-न्त्रैष्टु॑भ॒-ञ्जाग॑तम् । 45) जाग॑त॒-ञ्छन्द॒ श्छन्दो॒ जाग॑त॒-ञ्जाग॑त॒-ञ्छन्दः॑ । 46) छन्दो ऽन्वनु॒ छन्द॒ श्छन्दो ऽनु॑ । 47) अनु॒ प्र प्राण्वनु॒ प्र । 48) प्र जा॑यस्व जायस्व॒ प्र प्र जा॑यस्व । 49) जा॒य॒स्व॒ भव॑त॒-म्भव॑त-ञ्जायस्व जायस्व॒ भव॑तम् । 50) भव॑त-न्नो नो॒ भव॑त॒-म्भव॑त-न्नः । ॥ 12 ॥ (50/53)
1) न॒-स्सम॑नसौ॒ सम॑नसौ नो न॒-स्सम॑नसौ । 2) सम॑नसौ॒ समो॑कसौ॒ समो॑कसौ॒ सम॑नसौ॒ सम॑नसौ॒ समो॑कसौ । 2) सम॑नसा॒विति॒ स - म॒न॒सौ॒ । 3) समो॑कसा वरे॒पसा॑ वरे॒पसौ॒ समो॑कसौ॒ समो॑कसा वरे॒पसौ᳚ । 3) समो॑कसा॒विति॒ सं - ओ॒क॒सौ॒ । 4) अ॒रे॒पसावित्य॑रे॒पसौ᳚ । 5) मा य॒ज्ञं-यँ॒ज्ञ-म्मा मा य॒ज्ञम् । 6) य॒ज्ञग्ं हि(ग्म्॑)सिष्टग्ं हिग्ंसिष्टं-यँ॒ज्ञं-यँ॒ज्ञग्ं हि(ग्म्॑)सिष्टम् । 7) हि॒(ग्म्॒)सि॒ष्ट॒-म्मा मा हि(ग्म्॑)सिष्टग्ं हिग्ंसिष्ट॒-म्मा । 8) मा य॒ज्ञप॑तिं-यँ॒ज्ञप॑ति॒-म्मा मा य॒ज्ञप॑तिम् । 9) य॒ज्ञप॑ति-ञ्जातवेदसौ जातवेदसौ य॒ज्ञप॑तिं-यँ॒ज्ञप॑ति-ञ्जातवेदसौ । 9) य॒ज्ञप॑ति॒मिति॑ य॒ज्ञ - प॒ति॒म् । 10) जा॒त॒वे॒द॒सौ॒ शि॒वौ शि॒वौ जा॑तवेदसौ जातवेदसौ शि॒वौ । 10) जा॒त॒वे॒द॒सा॒विति॑ जात - वे॒द॒सौ॒ । 11) शि॒वौ भ॑वत-म्भवतग्ं शि॒वौ शि॒वौ भ॑वतम् । 12) भ॒व॒त॒ म॒द्याद्य भ॑वत-म्भवत म॒द्य । 13) अ॒द्य नो॑ नो॒ ऽद्याद्य नः॑ । 14) न॒ इति॑ नः । 15) अ॒ग्ना व॒ग्नि र॒ग्नि र॒ग्ना व॒ग्ना व॒ग्निः । 16) अ॒ग्नि श्च॑रति चर त्य॒ग्नि र॒ग्नि श्च॑रति । 17) च॒र॒ति॒ प्रवि॑ष्टः॒ प्रवि॑ष्ट श्चरति चरति॒ प्रवि॑ष्टः । 18) प्रवि॑ष्ट॒ ऋषी॑णा॒ मृषी॑णा॒-म्प्रवि॑ष्टः॒ प्रवि॑ष्ट॒ ऋषी॑णाम् । 18) प्रवि॑ष्ट॒ इति॒ प्र - वि॒ष्टः॒ । 19) ऋषी॑णा-म्पु॒त्रः पु॒त्र ऋषी॑णा॒ मृषी॑णा-म्पु॒त्रः । 20) पु॒त्रो अ॑धिरा॒जो॑ ऽधिरा॒जः पु॒त्रः पु॒त्रो अ॑धिरा॒जः । 21) अ॒धि॒रा॒ज ए॒ष ए॒षो॑ ऽधिरा॒जो॑ ऽधिरा॒ज ए॒षः । 21) अ॒धि॒रा॒ज इत्य॑धि - रा॒जः । 22) ए॒ष इत्ये॒षः । 23) स्वा॒हा॒कृत्य॒ ब्रह्म॑णा॒ ब्रह्म॑णा स्वाहा॒कृत्य॑ स्वाहा॒कृत्य॒ ब्रह्म॑णा । 23) स्वा॒हा॒कृत्येति॑ स्वाहा - कृत्य॑ । 24) ब्रह्म॑णा ते ते॒ ब्रह्म॑णा॒ ब्रह्म॑णा ते । 25) ते॒ जु॒हो॒मि॒ जु॒हो॒मि॒ ते॒ ते॒ जु॒हो॒मि॒ । 26) जु॒हो॒मि॒ मा मा जु॑होमि जुहोमि॒ मा । 27) मा दे॒वाना᳚-न्दे॒वाना॒-म्मा मा दे॒वाना᳚म् । 28) दे॒वाना᳚-म्मिथु॒या मि॑थु॒या दे॒वाना᳚-न्दे॒वाना᳚-म्मिथु॒या । 29) मि॒थु॒या कः॑ क-र्मिथु॒या मि॑थु॒या कः॑ । 30) कर्॒ भा॒ग॒धेय॑-म्भाग॒धेय॑-ङ्कः क-र्भाग॒धेय᳚म् । 31) भा॒ग॒धेय॒मिति॑ भाग - धेय᳚म् । ॥ 13 ॥ (31/38) ॥ अ. 7 ॥
1) आ द॑दे दद॒ आ द॑दे । 2) द॒द॒ ऋ॒तस्य॒ र्तस्य॑ ददे दद ऋ॒तस्य॑ । 3) ऋ॒तस्य॑ त्वा त्व॒र्तस्य॒ र्तस्य॑ त्वा । 4) त्वा॒ दे॒व॒ह॒वि॒-र्दे॒व॒ह॒वि॒ स्त्वा॒ त्वा॒ दे॒व॒ह॒विः॒ । 5) दे॒व॒ह॒विः॒ पाशे॑न॒ पाशे॑न देवहवि-र्देवहविः॒ पाशे॑न । 5) दे॒व॒ह॒वि॒रिति॑ देव - ह॒विः॒ । 6) पाशे॒ना पाशे॑न॒ पाशे॒ना । 7) आ र॑भे रभ॒ आ र॑भे । 8) र॒भे॒ धर्ष॒ धर्ष॑ रभे रभे॒ धर्ष॑ । 9) धर्षा॒ मानु॑षा॒-न्मानु॑षा॒-न्धर्ष॒ धर्षा॒ मानु॑षान् । 10) मानु॑षा न॒द्भ्यो᳚ ऽद्भ्यो मानु॑षा॒-न्मानु॑षा न॒द्भ्यः । 11) अ॒द्भ्य स्त्वा᳚ त्वा॒ ऽद्भ्यो᳚ ऽद्भ्य स्त्वा᳚ । 11) अ॒द्भ्य इत्य॑त् - भ्यः । 12) त्वौष॑धीभ्य॒ ओष॑धीभ्य स्त्वा॒ त्वौष॑धीभ्यः । 13) ओष॑धीभ्यः॒ प्र प्रौष॑धीभ्य॒ ओष॑धीभ्यः॒ प्र । 13) ओष॑धीभ्य॒ इत्योष॑धि - भ्यः॒ । 14) प्रोक्षा᳚ म्युक्षामि॒ प्र प्रोक्षा॑मि । 15) उ॒क्षा॒ म्य॒पा म॒पा मु॑क्षा म्युक्षा म्य॒पाम् । 16) अ॒पा-म्पे॒रुः पे॒रु र॒पा म॒पा-म्पे॒रुः । 17) पे॒रु र॑स्यसि पे॒रुः पे॒रु र॑सि । 18) अ॒सि॒ स्वा॒त्तग्ग् स्वा॒त्त म॑स्यसि स्वा॒त्तम् । 19) स्वा॒त्त-ञ्चि॑च् चि-थ्स्वा॒त्तग्ग् स्वा॒त्त-ञ्चि॑त् । 20) चि॒-थ्सदे॑व॒(ग्म्॒) सदे॑व-ञ्चिच् चि॒-थ्सदे॑वम् । 21) सदे॑वग्ं ह॒व्यग्ं ह॒व्यग्ं सदे॑व॒(ग्म्॒) सदे॑वग्ं ह॒व्यम् । 21) सदे॑व॒मिति॒ स - दे॒व॒म् । 22) ह॒व्य माप॒ आपो॑ ह॒व्यग्ं ह॒व्य मापः॑ । 23) आपो॑ देवी-र्देवी॒ राप॒ आपो॑ देवीः । 24) दे॒वी॒-स्स्वद॑त॒ स्वद॑त देवी-र्देवी॒-स्स्वद॑त । 25) स्वद॑तैन मेन॒(ग्ग्॒) स्वद॑त॒ स्वद॑ तैनम् । 26) ए॒न॒(ग्म्॒) सग्ं स मे॑न मेन॒(ग्म्॒) सम् । 27) स-न्ते॑ ते॒ सग्ं स-न्ते᳚ । 28) ते॒ प्रा॒णः प्रा॒ण स्ते॑ ते प्रा॒णः । 29) प्रा॒णो वा॒युना॑ वा॒युना᳚ प्रा॒णः प्रा॒णो वा॒युना᳚ । 29) प्रा॒ण इति॑ प्र - अ॒नः । 30) वा॒युना॑ गच्छता-ङ्गच्छतां-वाँ॒युना॑ वा॒युना॑ गच्छताम् । 31) ग॒च्छ॒ता॒(ग्म्॒) सग्ं स-ङ्ग॑च्छता-ङ्गच्छता॒(ग्म्॒) सम् । 32) सं-यँज॑त्रै॒-र्यज॑त्रै॒-स्सग्ं सं-यँज॑त्रैः । 33) यज॑त्रै॒ रङ्गा॒ न्यङ्गा॑नि॒ यज॑त्रै॒-र्यज॑त्रै॒ रङ्गा॑नि । 34) अङ्गा॑नि॒ सग्ं स मङ्गा॒ न्यङ्गा॑नि॒ सम् । 35) सं-यँ॒ज्ञप॑ति-र्य॒ज्ञप॑ति॒-स्सग्ं सं-यँ॒ज्ञप॑तिः । 36) य॒ज्ञप॑ति रा॒शिषा॒ ऽऽशिषा॑ य॒ज्ञप॑ति-र्य॒ज्ञप॑ति रा॒शिषा᳚ । 36) य॒ज्ञप॑ति॒रिति॑ य॒ज्ञ - प॒तिः॒ । 37) आ॒शिषा॑ घृ॒तेन॑ घृ॒तेना॒शिषा॒ ऽऽशिषा॑ घृ॒तेन॑ । 37) आ॒शिषेत्या᳚ - शिषा᳚ । 38) घृ॒ते ना॒क्ता व॒क्तौ घृ॒तेन॑ घृ॒ते ना॒क्तौ । 39) अ॒क्तौ प॒शु-म्प॒शु म॒क्ता व॒क्तौ प॒शुम् । 40) प॒शु-न्त्रा॑येथा-न्त्रायेथा-म्प॒शु-म्प॒शु-न्त्रा॑येथाम् । 41) त्रा॒ये॒था॒(ग्म्॒) रेव॑ती॒ रेव॑ती स्त्रायेथा-न्त्रायेथा॒(ग्म्॒) रेव॑तीः । 42) रेव॑ती-र्य॒ज्ञप॑तिं-यँ॒ज्ञप॑ति॒(ग्म्॒) रेव॑ती॒ रेव॑ती-र्य॒ज्ञप॑तिम् । 43) य॒ज्ञप॑ति-म्प्रिय॒धा प्रि॑य॒धा य॒ज्ञप॑तिं-यँ॒ज्ञप॑ति-म्प्रिय॒धा । 43) य॒ज्ञप॑ति॒मिति॑ य॒ज्ञ - प॒ति॒म् । 44) प्रि॒य॒धा ऽऽवि॑शत विश॒ता प्रि॑य॒धा प्रि॑य॒धा ऽऽवि॑शत । 44) प्रि॒य॒धेति॑ प्रिय - धा । 45) आ वि॑शत विश॒ता वि॑शत । 46) वि॒श॒तोरो॒ उरो॑ विशत विश॒तोरो᳚ । 47) उरो॑ अन्तरिक् षान्तरि॒क्षोरो॒ उरो॑ अन्तरिक्ष । 47) उरो॒ इत्युरो᳚ । 48) अ॒न्त॒रि॒क्ष॒ स॒जू-स्स॒जू र॑न्तरिक् षान्तरिक्ष स॒जूः । 49) स॒जू-र्दे॒वेन॑ दे॒वेन॑ स॒जू-स्स॒जू-र्दे॒वेन॑ । 49) स॒जूरिति॑ स - जूः । 50) दे॒वेन॒ वाते॑न॒ वाते॑न दे॒वेन॑ दे॒वेन॒ वाते॑न । ॥ 14 ॥ (50/61)
1) वाते॑ ना॒स्यास्य वाते॑न॒ वाते॑ ना॒स्य । 2) अ॒स्य ह॒विषो॑ ह॒विषो॒ ऽस्यास्य ह॒विषः॑ । 3) ह॒विष॒ स्त्मना॒ त्मना॑ ह॒विषो॑ ह॒विष॒ स्त्मना᳚ । 4) त्मना॑ यज यज॒ त्मना॒ त्मना॑ यज । 5) य॒ज॒ सग्ं सं-यँ॑ज यज॒ सम् । 6) स म॑स्यास्य॒ सग्ं स म॑स्य । 7) अ॒स्य॒ त॒नुवा॑ त॒नुवा᳚ ऽस्यास्य त॒नुवा᳚ । 8) त॒नुवा॑ भव भव त॒नुवा॑ त॒नुवा॑ भव । 9) भ॒व॒ वर्षी॑यो॒ वर्षी॑यो भव भव॒ वर्षी॑यः । 10) वर्षी॑यो॒ वर्षी॑यसि॒ वर्षी॑यसि॒ वर्षी॑यो॒ वर्षी॑यो॒ वर्षी॑यसि । 11) वर्षी॑यसि य॒ज्ञे य॒ज्ञे वर्षी॑यसि॒ वर्षी॑यसि य॒ज्ञे । 12) य॒ज्ञे य॒ज्ञप॑तिं-यँ॒ज्ञप॑तिं-यँ॒ज्ञे य॒ज्ञे य॒ज्ञप॑तिम् । 13) य॒ज्ञप॑ति-न्धा धा य॒ज्ञप॑तिं-यँ॒ज्ञप॑ति-न्धाः । 13) य॒ज्ञप॑ति॒मिति॑ य॒ज्ञ - प॒ति॒म् । 14) धाः॒ पृ॒थि॒व्याः पृ॑थि॒व्या धा॑ धाः पृथि॒व्याः । 15) पृ॒थि॒व्या-स्स॒म्पृच॑-स्स॒म्पृचः॑ पृथि॒व्याः पृ॑थि॒व्या-स्स॒म्पृचः॑ । 16) स॒म्पृचः॑ पाहि पाहि स॒म्पृच॑-स्स॒म्पृचः॑ पाहि । 16) स॒म्पृच॒ इति॑ सम् - पृचः॑ । 17) पा॒हि॒ नमो॒ नमः॑ पाहि पाहि॒ नमः॑ । 18) नम॑ स्ते ते॒ नमो॒ नम॑ स्ते । 19) त॒ आ॒ता॒ ना॒ता॒न॒ ते॒ त॒ आ॒ता॒न॒ । 20) आ॒ता॒ ना॒न॒र्वा ऽन॒र्वा ऽऽता॑ नाता नान॒र्वा । 20) आ॒ता॒नेत्या᳚ - ता॒न॒ । 21) अ॒न॒र्वा प्र प्राण॒र्वा ऽन॒र्वा प्र । 22) प्रे ही॑हि॒ प्र प्रे हि॑ । 23) इ॒हि॒ घृ॒तस्य॑ घृ॒तस्ये॑ हीहि घृ॒तस्य॑ । 24) घृ॒तस्य॑ कु॒ल्या-ङ्कु॒ल्या-ङ्घृ॒तस्य॑ घृ॒तस्य॑ कु॒ल्याम् । 25) कु॒ल्या मन्वनु॑ कु॒ल्या-ङ्कु॒ल्या मनु॑ । 26) अनु॑ स॒ह स॒हा न्वनु॑ स॒ह । 27) स॒ह प्र॒जया᳚ प्र॒जया॑ स॒ह स॒ह प्र॒जया᳚ । 28) प्र॒जया॑ स॒ह स॒ह प्र॒जया᳚ प्र॒जया॑ स॒ह । 28) प्र॒जयेति॑ प्र - जया᳚ । 29) स॒ह रा॒यो रा॒य-स्स॒ह स॒ह रा॒यः । 30) रा॒य स्पोषे॑ण॒ पोषे॑ण रा॒यो रा॒य स्पोषे॑ण । 31) पोषे॒णाप॒ आपः॒ पोषे॑ण॒ पोषे॒णापः॑ । 32) आपो॑ देवी-र्देवी॒ राप॒ आपो॑ देवीः । 33) दे॒वी॒-श्शु॒द्धा॒यु॒व॒-श्शु॒द्धा॒यु॒वो॒ दे॒वी॒-र्दे॒वी॒-श्शु॒द्धा॒यु॒वः॒ । 34) शु॒द्धा॒यु॒व॒-श्शु॒द्धा-श्शु॒द्धा-श्शु॑द्धायुव-श्शुद्धायुव-श्शु॒द्धाः । 34) शु॒द्धा॒यु॒व॒ इति॑ शुद्ध - यु॒वः॒ । 35) शु॒द्धा यू॒यं-यूँ॒यग्ं शु॒द्धा-श्शु॒द्धा यू॒यम् । 36) यू॒य-न्दे॒वा-न्दे॒वान्. यू॒यं-यूँ॒य-न्दे॒वान् । 37) दे॒वाग्ं ऊ᳚ढ्व मूढ्व-न्दे॒वा-न्दे॒वाग्ं ऊ᳚ढ्वम् । 38) ऊ॒ढ्व॒(ग्म्॒) शु॒द्धा-श्शु॒द्धा ऊ᳚ढ्व मूढ्वग्ं शु॒द्धाः । 39) शु॒द्धा व॒यं-वँ॒यग्ं शु॒द्धा-श्शु॒द्धा व॒यम् । 40) व॒य-म्परि॑विष्टाः॒ परि॑विष्टा व॒यं-वँ॒य-म्परि॑विष्टाः । 41) परि॑विष्टाः परिवे॒ष्टारः॑ परिवे॒ष्टारः॒ परि॑विष्टाः॒ परि॑विष्टाः परिवे॒ष्टारः॑ । 41) परि॑विष्टा॒ इति॒ परि॑ - वि॒ष्टाः॒ । 42) प॒रि॒वे॒ष्टारो॑ वो वः परिवे॒ष्टारः॑ परिवे॒ष्टारो॑ वः । 42) प॒रि॒वे॒ष्टार॒ इति॑ परि - वे॒ष्टारः॑ । 43) वो॒ भू॒या॒स्म॒ भू॒या॒स्म॒ वो॒ वो॒ भू॒या॒स्म॒ । 44) भू॒या॒स्मेति॑ भूयास्म । ॥ 15 ॥ (44/51) ॥ अ. 8 ॥
1) वा-क्ते॑ ते॒ वाग् वा-क्ते᳚ । 2) त॒ आ ते॑ त॒ आ । 3) आ प्या॑यता-म्प्यायता॒ मा प्या॑यताम् । 4) प्या॒य॒ता॒-म्प्रा॒णः प्रा॒णः प्या॑यता-म्प्यायता-म्प्रा॒णः । 5) प्रा॒ण स्ते॑ ते प्रा॒णः प्रा॒ण स्ते᳚ । 5) प्रा॒ण इति॑ प्र - अ॒नः । 6) त॒ आ ते॑ त॒ आ । 7) आ प्या॑यता-म्प्यायता॒ मा प्या॑यताम् । 8) प्या॒य॒ता॒-ञ्चक्षु॒ श्चक्षुः॑ प्यायता-म्प्यायता॒-ञ्चक्षुः॑ । 9) चक्षु॑ स्ते ते॒ चक्षु॒ श्चक्षु॑ स्ते । 10) त॒ आ ते॑ त॒ आ । 11) आ प्या॑यता-म्प्यायता॒ मा प्या॑यताम् । 12) प्या॒य॒ता॒(ग्ग्॒) श्रोत्र॒(ग्ग्॒) श्रोत्र॑-म्प्यायता-म्प्यायता॒(ग्ग्॒) श्रोत्र᳚म् । 13) श्रोत्र॑-न्ते ते॒ श्रोत्र॒(ग्ग्॒) श्रोत्र॑-न्ते । 14) त॒ आ ते॑ त॒ आ । 15) आ प्या॑यता-म्प्यायता॒ मा प्या॑यताम् । 16) प्या॒य॒तां॒-याँ या प्या॑यता-म्प्यायतां॒-याँ । 17) या ते॑ ते॒ या या ते᳚ । 18) ते॒ प्रा॒णा-न्प्रा॒णाग् स्ते॑ ते प्रा॒णान् । 19) प्रा॒णा-ञ्छुक् छु-क्प्रा॒णा-न्प्रा॒णा-ञ्छुक् । 19) प्रा॒णानिति॑ प्र - अ॒नान् । 20) शुग् ज॒गाम॑ ज॒गाम॒ शुक् छुग् ज॒गाम॑ । 21) ज॒गाम॒ या या ज॒गाम॑ ज॒गाम॒ या । 22) या चक्षु॒ श्चक्षु॒-र्या या चक्षुः॑ । 23) चक्षु॒-र्या या चक्षु॒ श्चक्षु॒-र्या । 24) या श्रोत्र॒(ग्ग्॒) श्रोत्रं॒-याँ या श्रोत्र᳚म् । 25) श्रोत्रं॒-यँ-द्यच्छ्रोत्र॒(ग्ग्॒) श्रोत्रं॒-यँत् । 26) य-त्ते॑ ते॒ य-द्य-त्ते᳚ । 27) ते॒ क्रू॒र-ङ्क्रू॒र-न्ते॑ ते क्रू॒रम् । 28) क्रू॒रं-यँ-द्य-त्क्रू॒र-ङ्क्रू॒रं-यँत् । 29) यदास्थि॑त॒ मास्थि॑तं॒-यँ-द्यदास्थि॑तम् । 30) आस्थि॑त॒-न्त-त्तदास्थि॑त॒ मास्थि॑त॒-न्तत् । 30) आस्थि॑त॒मित्या - स्थि॒त॒म् । 31) त-त्ते॑ ते॒ त-त्त-त्ते᳚ । 32) त॒ आ ते॑ त॒ आ । 33) आ प्या॑यता-म्प्यायता॒ मा प्या॑यताम् । 34) प्या॒य॒ता॒-न्त-त्त-त्प्या॑यता-म्प्यायता॒-न्तत् । 35) त-त्ते॑ ते॒ त-त्त-त्ते᳚ । 36) त॒ ए॒ते नै॒तेन॑ ते त ए॒तेन॑ । 37) ए॒तेन॑ शुन्धताग्ं शुन्धता मे॒तेनै॒तेन॑ शुन्धताम् । 38) शु॒न्ध॒ता॒-न्नाभि॒-र्नाभि॑-श्शुन्धताग्ं शुन्धता॒-न्नाभिः॑ । 39) नाभि॑ स्ते ते॒ नाभि॒-र्नाभि॑ स्ते । 40) त॒ आ ते॑ त॒ आ । 41) आ प्या॑यता-म्प्यायता॒ मा प्या॑यताम् । 42) प्या॒य॒ता॒-म्पा॒युः पा॒युः प्या॑यता-म्प्यायता-म्पा॒युः । 43) पा॒यु स्ते॑ ते पा॒युः पा॒यु स्ते᳚ । 44) त॒ आ ते॑ त॒ आ । 45) आ प्या॑यता-म्प्यायता॒ मा प्या॑यताम् । 46) प्या॒य॒ता॒(ग्म्॒) शु॒द्धा-श्शु॒द्धाः प्या॑यता-म्प्यायताग्ं शु॒द्धाः । 47) शु॒द्धा श्च॒रित्रा᳚ श्च॒रित्रा᳚-श्शु॒द्धा-श्शु॒द्धा श्च॒रित्राः᳚ । 48) च॒रित्रा॒-श्शग्ं श-ञ्च॒रित्रा᳚ श्च॒रित्रा॒-श्शम् । 49) श म॒द्भ्यो᳚ ऽद्भ्य-श्शग्ं श म॒द्भ्यः । 50) अ॒द्भ्य-श्शग्ं श म॒द्भ्यो᳚ ऽद्भ्य-श्शम् । 50) अ॒द्भ्य इत्य॑त् - भ्यः । ॥ 16 ॥ (50/54)
1) श मोष॑धीभ्य॒ ओष॑धीभ्य॒-श्शग्ं श मोष॑धीभ्यः । 2) ओष॑धीभ्य॒-श्शग्ं श मोष॑धीभ्य॒ ओष॑धीभ्य॒-श्शम् । 2) ओष॑धीभ्य॒ इत्योष॑धि - भ्यः॒ । 3) श-म्पृ॑थि॒व्यै पृ॑थि॒व्यै शग्ं श-म्पृ॑थि॒व्यै । 4) पृ॒थि॒व्यै शग्ं श-म्पृ॑थि॒व्यै पृ॑थि॒व्यै शम् । 5) श महो᳚भ्या॒ महो᳚भ्या॒(ग्म्॒) शग्ं श महो᳚भ्याम् । 6) अहो᳚भ्या॒ मोष॑ध॒ ओष॒धे ऽहो᳚भ्या॒ महो᳚भ्या॒ मोष॑धे । 6) अहो᳚भ्या॒मित्यहः॑ - भ्या॒म् । 7) ओष॑धे॒ त्राय॑स्व॒ त्राय॒ स्वौष॑ध॒ ओष॑धे॒ त्राय॑स्व । 8) त्राय॑ स्वैन मेन॒-न्त्राय॑स्व॒ त्राय॑ स्वैनम् । 9) ए॒न॒(ग्ग्॒) स्वधि॑ते॒ स्वधि॑त एन मेन॒(ग्ग्॒) स्वधि॑ते । 10) स्वधि॑ते॒ मा मा स्वधि॑ते॒ स्वधि॑ते॒ मा । 10) स्वधि॑त॒ इति॒ स्व - धि॒ते॒ । 11) मैन॑ मेन॒-म्मा मैन᳚म् । 12) ए॒न॒(ग्म्॒) हि॒(ग्म्॒)सी॒र्॒ हि॒(ग्म्॒)सी॒ रे॒न॒ मे॒न॒(ग्म्॒) हि॒(ग्म्॒)सीः॒ । 13) हि॒(ग्म्॒)सी॒ रक्ष॑सा॒(ग्म्॒) रक्ष॑साग्ं हिग्ंसीर्-हिग्ंसी॒ रक्ष॑साम् । 14) रक्ष॑सा-म्भा॒गो भा॒गो रक्ष॑सा॒(ग्म्॒) रक्ष॑सा-म्भा॒गः । 15) भा॒गो᳚ ऽस्यसि भा॒गो भा॒गो॑ ऽसि । 16) अ॒सी॒द मि॒द म॑स्यसी॒दम् । 17) इ॒द म॒ह म॒ह मि॒द मि॒द म॒हम् । 18) अ॒हग्ं रक्षो॒ रक्षो॒ ऽह म॒हग्ं रक्षः॑ । 19) रक्षो॑ ऽध॒म म॑ध॒मग्ं रक्षो॒ रक्षो॑ ऽध॒मम् । 20) अ॒ध॒म-न्तम॒ स्तमो॑ ऽध॒म म॑ध॒म-न्तमः॑ । 21) तमो॑ नयामि नयामि॒ तम॒ स्तमो॑ नयामि । 22) न॒या॒मि॒ यो यो न॑यामि नयामि॒ यः । 23) यो᳚ ऽस्मा न॒स्मान्. यो यो᳚ ऽस्मान् । 24) अ॒स्मा-न्द्वेष्टि॒ द्वे ष्ट्य॒स्मा न॒स्मा-न्द्वेष्टि॑ । 25) द्वेष्टि॒ यं-यँ-न्द्वेष्टि॒ द्वेष्टि॒ यम् । 26) य-ञ्च॑ च॒ यं-यँ-ञ्च॑ । 27) च॒ व॒यं-वँ॒य-ञ्च॑ च व॒यम् । 28) व॒य-न्द्वि॒ष्मो द्वि॒ष्मो व॒यं-वँ॒य-न्द्वि॒ष्मः । 29) द्वि॒ष्म इ॒द मि॒द-न्द्वि॒ष्मो द्वि॒ष्म इ॒दम् । 30) इ॒द मे॑न मेन मि॒द मि॒द मे॑नम् । 31) ए॒न॒ म॒ध॒म म॑ध॒म मे॑न मेन मध॒मम् । 32) अ॒ध॒म-न्तम॒ स्तमो॑ ऽध॒म म॑ध॒म-न्तमः॑ । 33) तमो॑ नयामि नयामि॒ तम॒ स्तमो॑ नयामि । 34) न॒या॒ मी॒ष इ॒षे न॑यामि नया मी॒षे । 35) इ॒षे त्वा᳚ त्वे॒ष इ॒षे त्वा᳚ । 36) त्वा॒ घृ॒तेन॑ घृ॒तेन॑ त्वा त्वा घृ॒तेन॑ । 37) घृ॒तेन॑ द्यावापृथिवी द्यावापृथिवी घृ॒तेन॑ घृ॒तेन॑ द्यावापृथिवी । 38) द्या॒वा॒पृ॒थि॒वी॒ प्र प्र द्या॑वापृथिवी द्यावापृथिवी॒ प्र । 38) द्या॒वा॒पृ॒थि॒वी॒ इति॑ द्यावा - पृ॒थि॒वी॒ । 39) प्रोर्ण्वा॑था मूर्ण्वाथा॒-म्प्र प्रोर्ण्वा॑थाम् । 40) ऊ॒र्ण्वा॒था॒ मच्छि॒न्नो ऽच्छि॑न्न ऊर्ण्वाथा मूर्ण्वाथा॒ मच्छि॑न्नः । 41) अच्छि॑न्नो॒ रायो॒ रायो ऽच्छि॒न्नो ऽच्छि॑न्नो॒ रायः॑ । 42) राय॑-स्सु॒वीर॑-स्सु॒वीरो॒ रायो॒ राय॑-स्सु॒वीरः॑ । 43) सु॒वीर॑ उ॒रू॑रु सु॒वीर॑-स्सु॒वीर॑ उ॒रु । 43) सु॒वीर॒ इति॑ सु - वीरः॑ । 44) उ॒र्व॑न्तरि॑क्ष म॒न्तरि॑क्ष मु॒रू᳚(1॒)र्व॑न्तरि॑क्षम् । 45) अ॒न्तरि॑क्ष॒ मन्व न्व॒न्तरि॑क्ष म॒न्तरि॑क्ष॒ मनु॑ । 46) अन्वि॑ ही॒ह्य न्वन्वि॑ हि । 47) इ॒हि॒ वायो॒ वायो॑ इहीहि॒ वायो᳚ । 48) वायो॒ वि वि वायो॒ वायो॒ वि । 48) वायो॒ इति॒ वायो᳚ । 49) वीही॑हि॒ वि वीहि॑ । 50) इ॒हि॒ स्तो॒काना(ग्ग्॑) स्तो॒काना॑ मिहीहि स्तो॒काना᳚म् । 51) स्तो॒काना॒(ग्ग्॒) स्वाहा॒ स्वाहा᳚ स्तो॒काना(ग्ग्॑) स्तो॒काना॒(ग्ग्॒) स्वाहा᳚ । 52) स्वा हो॒र्ध्वन॑भस मू॒र्ध्वन॑भस॒(ग्ग्॒) स्वाहा॒ स्वा हो॒र्ध्वन॑भसम् । 53) ऊ॒र्ध्वन॑भस-म्मारु॒त-म्मा॑रु॒त मू॒र्ध्वन॑भस मू॒र्ध्वन॑भस-म्मारु॒तम् । 53) ऊ॒र्ध्वन॑भस॒मित्यु॒र्ध्व - न॒भ॒स॒म् । 54) मा॒रु॒त-ङ्ग॑च्छत-ङ्गच्छत-म्मारु॒त-म्मा॑रु॒त-ङ्ग॑च्छतम् । 55) ग॒च्छ॒त॒मिति॑ गच्छतम् । ॥ 17 ॥ (55/62) ॥ अ. 9 ॥
1) स-न्ते॑ ते॒ सग्ं स-न्ते᳚ । 2) ते॒ मन॑सा॒ मन॑सा ते ते॒ मन॑सा । 3) मन॑सा॒ मनो॒ मनो॒ मन॑सा॒ मन॑सा॒ मनः॑ । 4) मन॒-स्सग्ं स-म्मनो॒ मन॒-स्सम् । 5) स-म्प्रा॒णेन॑ प्रा॒णेन॒ सग्ं स-म्प्रा॒णेन॑ । 6) प्रा॒णेन॑ प्रा॒णः प्रा॒णः प्रा॒णेन॑ प्रा॒णेन॑ प्रा॒णः । 6) प्रा॒णेनेति॑ प्र - अ॒नेन॑ । 7) प्रा॒णो जुष्ट॒-ञ्जुष्ट॑-म्प्रा॒णः प्रा॒णो जुष्ट᳚म् । 7) प्रा॒ण इति॑ प्र - अ॒नः । 8) जुष्ट॑-न्दे॒वेभ्यो॑ दे॒वेभ्यो॒ जुष्ट॒-ञ्जुष्ट॑-न्दे॒वेभ्यः॑ । 9) दे॒वेभ्यो॑ ह॒व्यग्ं ह॒व्य-न्दे॒वेभ्यो॑ दे॒वेभ्यो॑ ह॒व्यम् । 10) ह॒व्य-ङ्घृ॒तव॑-द्घृ॒तव॑ द्ध॒व्यग्ं ह॒व्य-ङ्घृ॒तव॑त् । 11) घृ॒तव॒-थ्स्वाहा॒ स्वाहा॑ घृ॒तव॑-द्घृ॒तव॒-थ्स्वाहा᳚ । 11) घृ॒तव॒दिति॑ घृ॒त - व॒त् । 12) स्वाहै॒न्द्र ऐ॒न्द्र-स्स्वाहा॒ स्वाहै॒न्द्रः । 13) ऐ॒न्द्रः प्रा॒णः प्रा॒ण ऐ॒न्द्र ऐ॒न्द्रः प्रा॒णः । 14) प्रा॒णो अङ्गे॑अङ्गे॒ अङ्गे॑अङ्गे प्रा॒णः प्रा॒णो अङ्गे॑अङ्गे । 14) प्रा॒ण इति॑ प्र - अ॒नः । 15) अङ्गे॑अङ्गे॒ नि न्यङ्गे॑अङ्गे॒ अङ्गे॑अङ्गे॒ नि । 15) अङ्गे॑अङ्ग॒ इत्यङ्गे᳚ - अ॒ङ्गे॒ । 16) नि दे᳚द्ध्य-द्देद्ध्य॒-न्नि नि दे᳚द्ध्यत् । 17) दे॒द्ध्य॒दै॒न्द्र ऐ॒न्द्रो दे᳚द्ध्य-द्देद्ध्यदै॒न्द्रः । 18) ऐ॒न्द्रो॑ ऽपा॒नो॑ ऽपा॒न ऐ॒न्द्र ऐ॒न्द्रो॑ ऽपा॒नः । 19) अ॒पा॒नो अङ्गे॑अङ्गे॒ अङ्गे॑अङ्गे ऽपा॒नो॑ ऽपा॒नो अङ्गे॑अङ्गे । 19) अ॒पा॒न इत्य॑प - अ॒नः । 20) अङ्गे॑अङ्गे॒ वि व्यङ्गे॑अङ्गे॒ अङ्गे॑अङ्गे॒ वि । 20) अङ्गे॑अङ्ग॒ इत्यङ्गे᳚ - अ॒ङ्गे॒ । 21) वि बो॑भुव-द्बोभुव॒-द्वि वि बो॑भुवत् । 22) बो॒भु॒व॒-द्देव॒ देव॑ बोभुव-द्बोभुव॒-द्देव॑ । 23) देव॑ त्वष्टस् त्वष्ट॒-र्देव॒ देव॑ त्वष्टः । 24) त्व॒ष्ट॒-र्भूरि॒ भूरि॑ त्वष्ट स्त्वष्ट॒-र्भूरि॑ । 25) भूरि॑ ते ते॒ भूरि॒ भूरि॑ ते । 26) ते॒ सग्ंस॒(ग्म्॒) सग्ंस॑-न्ते ते॒ सग्ंस᳚म् । 27) सग्ंस॑ मेत्वेतु॒ सग्ंस॒(ग्म्॒) सग्ंस॑ मेतु । 27) सग्ंस॒मिति॒ सं - स॒म् । 28) ए॒तु॒ विषु॑रूपा॒ विषु॑रूपा एत्वेतु॒ विषु॑रूपाः । 29) विषु॑रूपा॒ य-द्य-द्विषु॑रूपा॒ विषु॑रूपा॒ यत् । 29) विषु॑रूपा॒ इति॒ विषु॑ - रू॒पाः॒ । 30) य-थ्सल॑क्ष्माण॒-स्सल॑क्ष्माणो॒ य-द्य-थ्सल॑क्ष्माणः । 31) सल॑क्ष्माणो॒ भव॑थ॒ भव॑थ॒ सल॑क्ष्माण॒-स्सल॑क्ष्माणो॒ भव॑थ । 31) सल॑क्ष्माण॒ इति॒ स - ल॒क्ष्मा॒णः॒ । 32) भव॑थ देव॒त्रा दे॑व॒त्रा भव॑थ॒ भव॑थ देव॒त्रा । 33) दे॒व॒त्रा यन्तं॒-यँन्त॑-न्देव॒त्रा दे॑व॒त्रा यन्त᳚म् । 33) दे॒व॒त्रेति॑ देव - त्रा । 34) यन्त॒ मव॒से ऽव॑से॒ यन्तं॒-यँन्त॒ मव॑से । 35) अव॑से॒ सखा॑य॒-स्सखा॒यो ऽव॒से ऽव॑से॒ सखा॑यः । 36) सखा॒यो ऽन्वनु॒ सखा॑य॒-स्सखा॒यो ऽनु॑ । 37) अनु॑ त्वा॒ त्वा ऽन्वनु॑ त्वा । 38) त्वा॒ मा॒ता मा॒ता त्वा᳚ त्वा मा॒ता । 39) मा॒ता पि॒तरः॑ पि॒तरो॑ मा॒ता मा॒ता पि॒तरः॑ । 40) पि॒तरो॑ मदन्तु मदन्तु पि॒तरः॑ पि॒तरो॑ मदन्तु । 41) म॒द॒न्तु॒ श्री-श्श्री-र्म॑दन्तु मदन्तु॒ श्रीः । 42) श्रीर॑स्यसि॒ श्री-श्श्रीर॑सि । 43) अ॒स्य॒ग्नि र॒ग्नि र॑स्य स्य॒ग्निः । 44) अ॒ग्नि स्त्वा᳚ त्वा॒ ऽग्नि र॒ग्नि स्त्वा᳚ । 45) त्वा॒ श्री॒णा॒तु॒ श्री॒णा॒तु॒ त्वा॒ त्वा॒ श्री॒णा॒तु॒ । 46) श्री॒णा॒त्वाप॒ आप॑-श्श्रीणातु श्रीणा॒त्वापः॑ । 47) आप॒-स्सग्ं स माप॒ आप॒-स्सम् । 48) स म॑रिण-न्नरिण॒-न्थ्सग्ं स म॑रिणन्न् । 49) अ॒रि॒ण॒न्॒. वात॑स्य॒ वात॑स्यारिण-न्नरिण॒न्॒. वात॑स्य । 50) वात॑स्य त्वा त्वा॒ वात॑स्य॒ वात॑स्य त्वा । ॥ 18 ॥ (50/61)
1) त्वा॒ ध्रज्यै॒ ध्रज्यै᳚ त्वा त्वा॒ ध्रज्यै᳚ । 2) ध्रज्यै॑ पू॒ष्णः पू॒ष्णो ध्रज्यै॒ ध्रज्यै॑ पू॒ष्णः । 3) पू॒ष्णो रग्ग्ह्यै॒ रग्ग्ह्यै॑ पू॒ष्णः पू॒ष्णो रग्ग्ह्यै᳚ । 4) रग्ग्ह्या॑ अ॒पा म॒पाग्ं रग्ग्ह्यै॒ रग्ग्ह्या॑ अ॒पाम् । 5) अ॒पा मोष॑धीना॒ मोष॑धीना म॒पा म॒पा मोष॑धीनाम् । 6) ओष॑धीना॒(ग्म्॒) रोहि॑ष्यै॒ रोहि॑ष्या॒ ओष॑धीना॒ मोष॑धीना॒(ग्म्॒) रोहि॑ष्यै । 7) रोहि॑ष्यै घृ॒त-ङ्घृ॒तग्ं रोहि॑ष्यै॒ रोहि॑ष्यै घृ॒तम् । 8) घृ॒त-ङ्घृ॑तपावानो घृतपावानो घृ॒त-ङ्घृ॒त-ङ्घृ॑तपावानः । 9) घृ॒त॒पा॒वा॒नः॒ पि॒ब॒त॒ पि॒ब॒त॒ घृ॒त॒पा॒वा॒नो॒ घृ॒त॒पा॒वा॒नः॒ पि॒ब॒त॒ । 9) घृ॒त॒पा॒वा॒न॒ इति॑ घृत - पा॒वा॒नः॒ । 10) पि॒ब॒त॒ वसां॒-वँसा᳚-म्पिबत पिबत॒ वसा᳚म् । 11) वसां᳚-वँसापावानो वसापावानो॒ वसां॒-वँसां᳚-वँसापावानः । 12) व॒सा॒पा॒वा॒नः॒ पि॒ब॒त॒ पि॒ब॒त॒ व॒सा॒पा॒वा॒नो॒ व॒सा॒पा॒वा॒नः॒ पि॒ब॒त॒ । 12) व॒सा॒पा॒वा॒न॒ इति॑ वसा - पा॒वा॒नः॒ । 13) पि॒ब॒ ता॒न्तरि॑क्ष स्या॒न्तरि॑क्षस्य पिबत पिब ता॒न्तरि॑क्षस्य । 14) अ॒न्तरि॑क्षस्य ह॒विर्-ह॒वि र॒न्तरि॑क्ष स्या॒न्तरि॑क्षस्य ह॒विः । 15) ह॒वि र॑स्यसि ह॒विर्-ह॒वि र॑सि । 16) अ॒सि॒ स्वाहा॒ स्वाहा᳚ ऽस्यसि॒ स्वाहा᳚ । 17) स्वाहा᳚ त्वा त्वा॒ स्वाहा॒ स्वाहा᳚ त्वा । 18) त्वा॒ ऽन्तरि॑क्षा या॒न्तरि॑क्षाय त्वा त्वा॒ ऽन्तरि॑क्षाय । 19) अ॒न्तरि॑क्षाय॒ दिशो॒ दिशो॒ ऽन्तरि॑क्षा या॒न्तरि॑क्षाय॒ दिशः॑ । 20) दिशः॑ प्र॒दिशः॑ प्र॒दिशो॒ दिशो॒ दिशः॑ प्र॒दिशः॑ । 21) प्र॒दिश॑ आ॒दिश॑ आ॒दिशः॑ प्र॒दिशः॑ प्र॒दिश॑ आ॒दिशः॑ । 21) प्र॒दिश॒ इति॑ प्र - दिशः॑ । 22) आ॒दिशो॑ वि॒दिशो॑ वि॒दिश॑ आ॒दिश॑ आ॒दिशो॑ वि॒दिशः॑ । 22) आ॒दिश॒ इत्या᳚ - दिशः॑ । 23) वि॒दिश॑ उ॒द्दिश॑ उ॒द्दिशो॑ वि॒दिशो॑ वि॒दिश॑ उ॒द्दिशः॑ । 23) वि॒दिश॒ इति॑ वि - दिशः॑ । 24) उ॒द्दिश॒-स्स्वाहा॒ स्वा हो॒द्दिश॑ उ॒द्दिश॒-स्स्वाहा᳚ । 24) उ॒द्दिश॒ इत्यु॑त् - दिशः॑ । 25) स्वाहा॑ दि॒ग्भ्यो दि॒ग्भ्य-स्स्वाहा॒ स्वाहा॑ दि॒ग्भ्यः । 26) दि॒ग्भ्यो नमो॒ नमो॑ दि॒ग्भ्यो दि॒ग्भ्यो नमः॑ । 26) दि॒ग्भ्य इति॑ दिक् - भ्यः । 27) नमो॑ दि॒ग्भ्यो दि॒ग्भ्यो नमो॒ नमो॑ दि॒ग्भ्यः । 28) दि॒ग्भ्य इति॑ दिक् - भ्यः । ॥ 19 ॥ (28/35) ॥ अ. 10 ॥
1) स॒मु॒द्र-ङ्ग॑च्छ गच्छ समु॒द्रग्ं स॑मु॒द्र-ङ्ग॑च्छ । 2) ग॒च्छ॒ स्वाहा॒ स्वाहा॑ गच्छ गच्छ॒ स्वाहा᳚ । 3) स्वाहा॒ ऽन्तरि॑क्ष म॒न्तरि॑क्ष॒(ग्ग्॒) स्वाहा॒ स्वाहा॒ ऽन्तरि॑क्षम् । 4) अ॒न्तरि॑क्ष-ङ्गच्छ गच्छा॒न्तरि॑क्ष म॒न्तरि॑क्ष-ङ्गच्छ । 5) ग॒च्छ॒ स्वाहा॒ स्वाहा॑ गच्छ गच्छ॒ स्वाहा᳚ । 6) स्वाहा॑ दे॒व-न्दे॒वग्ग् स्वाहा॒ स्वाहा॑ दे॒वम् । 7) दे॒वग्ं स॑वि॒तार(ग्म्॑) सवि॒तार॑-न्दे॒व-न्दे॒वग्ं स॑वि॒तार᳚म् । 8) स॒वि॒तार॑-ङ्गच्छ गच्छ सवि॒तार(ग्म्॑) सवि॒तार॑-ङ्गच्छ । 9) ग॒च्छ॒ स्वाहा॒ स्वाहा॑ गच्छ गच्छ॒ स्वाहा᳚ । 10) स्वाहा॑ ऽहोरा॒त्रे अ॑होरा॒त्रे स्वाहा॒ स्वाहा॑ ऽहोरा॒त्रे । 11) अ॒हो॒रा॒त्रे ग॑च्छ गच्छाहोरा॒त्रे अ॑होरा॒त्रे ग॑च्छ । 11) अ॒हो॒रा॒त्रे इत्य॑हः - रा॒त्रे । 12) ग॒च्छ॒ स्वाहा॒ स्वाहा॑ गच्छ गच्छ॒ स्वाहा᳚ । 13) स्वाहा॑ मि॒त्रावरु॑णौ मि॒त्रावरु॑णौ॒ स्वाहा॒ स्वाहा॑ मि॒त्रावरु॑णौ । 14) मि॒त्रावरु॑णौ गच्छ गच्छ मि॒त्रावरु॑णौ मि॒त्रावरु॑णौ गच्छ । 14) मि॒त्रावरु॑णा॒विति॑ मि॒त्रा - वरु॑णौ । 15) ग॒च्छ॒ स्वाहा॒ स्वाहा॑ गच्छ गच्छ॒ स्वाहा᳚ । 16) स्वाहा॒ सोम॒(ग्म्॒) सोम॒(ग्ग्॒) स्वाहा॒ स्वाहा॒ सोम᳚म् । 17) सोम॑-ङ्गच्छ गच्छ॒ सोम॒(ग्म्॒) सोम॑-ङ्गच्छ । 18) ग॒च्छ॒ स्वाहा॒ स्वाहा॑ गच्छ गच्छ॒ स्वाहा᳚ । 19) स्वाहा॑ य॒ज्ञं-यँ॒ज्ञग्ग् स्वाहा॒ स्वाहा॑ य॒ज्ञम् । 20) य॒ज्ञ-ङ्ग॑च्छ गच्छ य॒ज्ञं-यँ॒ज्ञ-ङ्ग॑च्छ । 21) ग॒च्छ॒ स्वाहा॒ स्वाहा॑ गच्छ गच्छ॒ स्वाहा᳚ । 22) स्वाहा॒ छन्दा(ग्म्॑)सि॒ छन्दा(ग्म्॑)सि॒ स्वाहा॒ स्वाहा॒ छन्दा(ग्म्॑)सि । 23) छन्दा(ग्म्॑)सि गच्छ गच्छ॒ छन्दा(ग्म्॑)सि॒ छन्दा(ग्म्॑)सि गच्छ । 24) ग॒च्छ॒ स्वाहा॒ स्वाहा॑ गच्छ गच्छ॒ स्वाहा᳚ । 25) स्वाहा॒ द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी स्वाहा॒ स्वाहा॒ द्यावा॑पृथि॒वी । 26) द्यावा॑पृथि॒वी ग॑च्छ गच्छ॒ द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी ग॑च्छ । 26) द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी । 27) ग॒च्छ॒ स्वाहा॒ स्वाहा॑ गच्छ गच्छ॒ स्वाहा᳚ । 28) स्वाहा॒ नभो॒ नभ॒-स्स्वाहा॒ स्वाहा॒ नभः॑ । 29) नभो॑ दि॒व्य-न्दि॒व्य-न्नभो॒ नभो॑ दि॒व्यम् । 30) दि॒व्य-ङ्ग॑च्छ गच्छ दि॒व्य-न्दि॒व्य-ङ्ग॑च्छ । 31) ग॒च्छ॒ स्वाहा॒ स्वाहा॑ गच्छ गच्छ॒ स्वाहा᳚ । 32) स्वाहा॒ ऽग्नि म॒ग्निग्ग् स्वाहा॒ स्वाहा॒ ऽग्निम् । 33) अ॒ग्निं-वैँ᳚श्वान॒रं-वैँ᳚श्वान॒र म॒ग्नि म॒ग्निं-वैँ᳚श्वान॒रम् । 34) वै॒श्वा॒न॒र-ङ्ग॑च्छ गच्छ वैश्वान॒रं-वैँ᳚श्वान॒र-ङ्ग॑च्छ । 35) ग॒च्छ॒ स्वाहा॒ स्वाहा॑ गच्छ गच्छ॒ स्वाहा᳚ । 36) स्वाहा॒ ऽद्भ्यो᳚ ऽद्भ्य-स्स्वाहा॒ स्वाहा॒ ऽद्भ्यः । 37) अ॒द्भ्य स्त्वा᳚ त्वा॒ ऽद्भ्यो᳚ ऽद्भ्य स्त्वा᳚ । 37) अ॒द्भ्य इत्य॑त् - भ्यः । 38) त्वौष॑धीभ्य॒ ओष॑धीभ्यस्त्वा॒ त्वौष॑धीभ्यः । 39) ओष॑धीभ्यो॒ मनो॒ मन॒ ओष॑धीभ्य॒ ओष॑धीभ्यो॒ मनः॑ । 39) ओष॑धीभ्य॒ इत्योष॑धि - भ्यः॒ । 40) मनो॑ मे मे॒ मनो॒ मनो॑ मे । 41) मे॒ हार्दि॒ हार्दि॑ मे मे॒ हार्दि॑ । 42) हार्दि॑ यच्छ यच्छ॒ हार्दि॒ हार्दि॑ यच्छ । 43) य॒च्छ॒ त॒नू-न्त॒नूं-यँ॑च्छ यच्छ त॒नूम् । 44) त॒नू-न्त्वच॒-न्त्वच॑-न्त॒नू-न्त॒नू-न्त्वच᳚म् । 45) त्वच॑-म्पु॒त्र-म्पु॒त्र-न्त्वच॒-न्त्वच॑-म्पु॒त्रम् । 46) पु॒त्र-न्नप्ता॑र॒-न्नप्ता॑र-म्पु॒त्र-म्पु॒त्र-न्नप्ता॑रम् । 47) नप्ता॑र मशी याशीय॒ नप्ता॑र॒-न्नप्ता॑र मशीय । 48) अ॒शी॒य॒ शुक् छुग॑शी याशीय॒ शुक् । 49) शुग॑ स्यसि॒ शुक् छुग॑सि । 50) अ॒सि॒ त-न्त म॑स्यसि॒ तम् । 51) त म॒भ्य॑भि त-न्त म॒भि । 52) अ॒भि शो॑च शोचा॒ भ्य॑भि शो॑च । 53) शो॒च॒ यो य-श्शो॑च शोच॒ यः । 54) यो᳚ ऽस्मा न॒स्मान्. यो यो᳚ ऽस्मान् । 55) अ॒स्मा-न्द्वेष्टि॒ द्वेष्ट्य॒ स्मा न॒स्मा-न्द्वेष्टि॑ । 56) द्वेष्टि॒ यं-यँ-न्द्वेष्टि॒ द्वेष्टि॒ यम् । 57) य-ञ्च॑ च॒ यं-यँ-ञ्च॑ । 58) च॒ व॒यं-वँ॒य-ञ्च॑ च व॒यम् । 59) व॒य-न्द्वि॒ष्मो द्वि॒ष्मो व॒यं-वँ॒य-न्द्वि॒ष्मः । 60) द्वि॒ष्मो धाम्नो॑धाम्नो॒ धाम्नो॑धाम्नो द्वि॒ष्मो द्वि॒ष्मो धाम्नो॑धाम्नः । 61) धाम्नो॑धाम्नो राज-न्राज॒-न्धाम्नो॑धाम्नो॒ धाम्नो॑धाम्नो राजन्न् । 61) धाम्नो॑धाम्न॒ इति॒ धाम्नः॑ - धा॒म्नः॒ । 62) रा॒ज॒-न्नि॒त इ॒तो रा॑ज-न्राज-न्नि॒तः । 63) इ॒तो व॑रुण वरुणे॒ त इ॒तो व॑रुण । 64) व॒रु॒ण॒ नो॒ नो॒ व॒रु॒ण॒ व॒रु॒ण॒ नः॒ । 65) नो॒ मु॒ञ्च॒ मु॒ञ्च॒ नो॒ नो॒ मु॒ञ्च॒ । 66) मु॒ञ्च॒ य-द्य-न्मु॑ञ्च मुञ्च॒ यत् । 67) यदाप॒ आपो॒ य-द्यदापः॑ । 68) आपो॒ अघ्नि॑या॒ अघ्नि॑या॒ आप॒ आपो॒ अघ्नि॑याः । 69) अघ्नि॑या॒ वरु॑ण॒ वरु॒णाघ्नि॑या॒ अघ्नि॑या॒ वरु॑ण । 70) वरु॒णे तीति॒ वरु॑ण॒ वरु॒णे ति॑ । 71) इति॒ शपा॑महे॒ शपा॑मह॒ इतीति॒ शपा॑महे । 72) शपा॑महे॒ तत॒ स्तत॒-श्शपा॑महे॒ शपा॑महे॒ ततः॑ । 73) ततो॑ वरुण वरुण॒ तत॒ स्ततो॑ वरुण । 74) व॒रु॒ण॒ नो॒ नो॒ व॒रु॒ण॒ व॒रु॒ण॒ नः॒ । 75) नो॒ मु॒ञ्च॒ मु॒ञ्च॒ नो॒ नो॒ मु॒ञ्च॒ । 76) मु॒ञ्चेति॑ मुञ्च । ॥ 20 ॥ (76/82) ॥ अ. 11 ॥
1) ह॒विष्म॑ती रि॒मा इ॒मा ह॒विष्म॑तीर्-ह॒विष्म॑ती रि॒माः । 2) इ॒मा आप॒ आप॑ इ॒मा इ॒मा आपः॑ । 3) आपो॑ ह॒विष्मा॑न्. ह॒विष्मा॒ नाप॒ आपो॑ ह॒विष्मान्॑ । 4) ह॒विष्मा᳚-न्दे॒वो दे॒वो ह॒विष्मा॑न्. ह॒विष्मा᳚-न्दे॒वः । 5) दे॒वो अ॑द्ध्व॒रो अ॑द्ध्व॒रो दे॒वो दे॒वो अ॑द्ध्व॒रः । 6) अ॒द्ध्व॒रो ह॒विष्मा॑न्. ह॒विष्मा(ग्म्॑) अद्ध्व॒रो अ॑द्ध्व॒रो ह॒विष्मान्॑ । 7) ह॒विष्मा॒(ग्म्॒) आ ह॒विष्मा॑न्. ह॒विष्मा॒(ग्म्॒) आ । 8) आ वि॑वासति विवास॒त्या वि॑वासति । 9) वि॒वा॒स॒ति॒ ह॒विष्मा॑न्. ह॒विष्मा॑न्. विवासति विवासति ह॒विष्मान्॑ । 10) ह॒विष्मा(ग्म्॑) अस्त्वस्तु ह॒विष्मा॑न्. ह॒विष्मा(ग्म्॑) अस्तु । 11) अ॒स्तु॒ सूर्य॒-स्सूर्यो॑ अस्त्वस्तु॒ सूर्यः॑ । 12) सुर्य॒ इति॒ सूर्यः॑ । 13) अ॒ग्ने-र्वो॑ वो॒ ऽग्ने र॒ग्ने-र्वः॑ । 14) वो ऽप॑न्नगृह॒ स्याप॑न्नगृहस्य वो॒ वो ऽप॑न्नगृहस्य । 15) अप॑न्नगृहस्य॒ सद॑सि॒ सद॒स्यप॑न्नगृह॒ स्याप॑न्नगृहस्य॒ सद॑सि । 15) अप॑न्नगृह॒स्येत्यप॑न्न - गृ॒ह॒स्य॒ । 16) सद॑सि सादयामि सादयामि॒ सद॑सि॒ सद॑सि सादयामि । 17) सा॒द॒या॒मि॒ सु॒म्नाय॑ सु॒म्नाय॑ सादयामि सादयामि सु॒म्नाय॑ । 18) सु॒म्नाय॑ सुम्निनी-स्सुम्निनी-स्सु॒म्नाय॑ सु॒म्नाय॑ सुम्निनीः । 19) सु॒म्नि॒नी॒-स्सु॒म्ने सु॒म्ने सु॑म्निनी-स्सुम्निनी-स्सु॒म्ने । 20) सु॒म्ने मा॑ मा सु॒म्ने सु॒म्ने मा᳚ । 21) मा॒ ध॒त्त॒ ध॒त्त॒ मा॒ मा॒ ध॒त्त॒ । 22) ध॒त्ते॒ न्द्रा॒ग्नि॒यो रि॑न्द्राग्नि॒यो-र्ध॑त्त धत्ते न्द्राग्नि॒योः । 23) इ॒न्द्रा॒ग्नि॒यो-र्भा॑ग॒धेयी᳚-र्भाग॒धेयी॑ रिन्द्राग्नि॒यो रि॑न्द्राग्नि॒यो-र्भा॑ग॒धेयीः᳚ । 23) इ॒न्द्रा॒ग्नि॒योरिती᳚न्द्र - अ॒ग्नि॒योः । 24) भा॒ग॒धेयी᳚-स्स्थ स्थ भाग॒धेयी᳚-र्भाग॒धेयी᳚-स्स्थ । 24) भा॒ग॒धेयी॒रिति॑ भाग - धेयीः᳚ । 25) स्थ॒ मि॒त्रावरु॑णयो-र्मि॒त्रावरु॑णयो-स्स्थ स्थ मि॒त्रावरु॑णयोः । 26) मि॒त्रावरु॑णयो-र्भाग॒धेयी᳚-र्भाग॒धेयी᳚-र्मि॒त्रावरु॑णयो-र्मि॒त्रावरु॑णयो-र्भाग॒धेयीः᳚ । 26) मि॒त्रावरु॑णयो॒रिति॑ मि॒त्रा - वरु॑णयोः । 27) भा॒ग॒धेयी᳚-स्स्थ स्थ भाग॒धेयी᳚-र्भाग॒धेयी᳚-स्स्थ । 27) भा॒ग॒धेयी॒रिति॑ भाग - धेयीः᳚ । 28) स्थ॒ विश्वे॑षां॒-विँश्वे॑षाग् स्थ स्थ॒ विश्वे॑षाम् । 29) विश्वे॑षा-न्दे॒वाना᳚-न्दे॒वानां॒-विँश्वे॑षां॒-विँश्वे॑षा-न्दे॒वाना᳚म् । 30) दे॒वाना᳚-म्भाग॒धेयी᳚-र्भाग॒धेयी᳚-र्दे॒वाना᳚-न्दे॒वाना᳚-म्भाग॒धेयीः᳚ । 31) भा॒ग॒धेयी᳚-स्स्थ स्थ भाग॒धेयी᳚-र्भाग॒धेयी᳚-स्स्थ । 31) भा॒ग॒धेयी॒रिति॑ भाग - धेयीः᳚ । 32) स्थ॒ य॒ज्ञे य॒ज्ञे स्थ॑ स्थ य॒ज्ञे । 33) य॒ज्ञे जा॑गृत जागृत य॒ज्ञे य॒ज्ञे जा॑गृत । 34) जा॒गृ॒तेति॑ जागृत । ॥ 21 ॥ (34/40) ॥ अ. 12 ॥
1) हृ॒दे त्वा᳚ त्वा हृ॒दे हृ॒दे त्वा᳚ । 2) त्वा॒ मन॑से॒ मन॑से त्वा त्वा॒ मन॑से । 3) मन॑से त्वा त्वा॒ मन॑से॒ मन॑से त्वा । 4) त्वा॒ दि॒वे दि॒वे त्वा᳚ त्वा दि॒वे । 5) दि॒वे त्वा᳚ त्वा दि॒वे दि॒वे त्वा᳚ । 6) त्वा॒ सूर्या॑य॒ सूर्या॑य त्वा त्वा॒ सूर्या॑य । 7) सूर्या॑य त्वा त्वा॒ सूर्या॑य॒ सूर्या॑य त्वा । 8) त्वो॒र्ध्व मू॒र्ध्व-न्त्वा᳚ त्वो॒र्ध्वम् । 9) ऊ॒र्ध्व मि॒म मि॒म मू॒र्ध्व मू॒र्ध्व मि॒मम् । 10) इ॒म म॑द्ध्व॒र म॑द्ध्व॒र मि॒म मि॒म म॑द्ध्व॒रम् । 11) अ॒द्ध्व॒र-ङ्कृ॑धि कृध्यद्ध्व॒र म॑द्ध्व॒र-ङ्कृ॑धि । 12) कृ॒धि॒ दि॒वि दि॒वि कृ॑धि कृधि दि॒वि । 13) दि॒वि दे॒वेषु॑ दे॒वेषु॑ दि॒वि दि॒वि दे॒वेषु॑ । 14) दे॒वेषु॒ होत्रा॒ होत्रा॑ दे॒वेषु॑ दे॒वेषु॒ होत्राः᳚ । 15) होत्रा॑ यच्छ यच्छ॒ होत्रा॒ होत्रा॑ यच्छ । 16) य॒च्छ॒ सोम॒ सोम॑ यच्छ यच्छ॒ सोम॑ । 17) सोम॑ राज-न्राज॒-न्थ्सोम॒ सोम॑ राजन्न् । 18) रा॒ज॒-न्ना रा॑ज-न्राज॒-न्ना । 19) एही॒ह्येहि॑ । 20) इ॒ह्यवावे॑ ही॒ह्यव॑ । 21) अव॑ रोह रो॒हावाव॑ रोह । 22) रो॒ह॒ मा मा रो॑ह रोह॒ मा । 23) मा भे-र्भे-र्मा मा भेः । 24) भे-र्मा मा भे-र्भे-र्मा । 25) मा सग्ं स-म्मा मा सम् । 26) सं-विँ॑क्था विक्था॒-स्सग्ं सं-विँ॑क्थाः । 27) वि॒क्था॒ मा मा वि॑क्था विक्था॒ मा । 28) मा त्वा᳚ त्वा॒ मा मा त्वा᳚ । 29) त्वा॒ हि॒(ग्म्॒)सि॒ष॒(ग्म्॒) हि॒(ग्म्॒)सि॒ष॒-न्त्वा॒ त्वा॒ हि॒(ग्म्॒)सि॒ष॒म् । 30) हि॒(ग्म्॒)सि॒ष॒-म्प्र॒जाः प्र॒जा हि(ग्म्॑)सिषग्ं हिग्ंसिष-म्प्र॒जाः । 31) प्र॒जास्त्व-न्त्व-म्प्र॒जाः प्र॒जास्त्वम् । 31) प्र॒जा इति॑ प्र - जाः । 32) त्व मु॒पाव॑रो हो॒पाव॑रोह॒ त्व-न्त्व मु॒पाव॑रोह । 33) उ॒पाव॑रोह प्र॒जाः प्र॒जा उ॒पाव॑रो हो॒पाव॑रोह प्र॒जाः । 33) उ॒पाव॑रो॒हेत्यु॑प - अव॑रोह । 34) प्र॒जा स्त्वा-न्त्वा-म्प्र॒जाः प्र॒जा स्त्वाम् । 34) प्र॒जा इति॑ प्र - जाः । 35) त्वा मु॒पाव॑रोहन्तू॒ पाव॑रोहन्तु॒ त्वा-न्त्वा मु॒पाव॑रोहन्तु । 36) उ॒पाव॑रोहन्तु शृ॒णोतु॑ शृ॒णोतू॒ पाव॑रोहन्तू॒ पाव॑रोहन्तु शृ॒णोतु॑ । 36) उ॒पाव॑रोह॒न्त्वित्यु॑प - अव॑रोहन्तु । 37) शृ॒णो त्व॒ग्नि र॒ग्नि-श्शृ॒णोतु॑ शृ॒णो त्व॒ग्निः । 38) अ॒ग्नि-स्स॒मिधा॑ स॒मिधा॒ ऽग्नि र॒ग्नि-स्स॒मिधा᳚ । 39) स॒मिधा॒ हव॒(ग्म्॒) हव(ग्म्॑) स॒मिधा॑ स॒मिधा॒ हव᳚म् । 39) स॒मिधेति॑ सम् - इधा᳚ । 40) हव॑-म्मे मे॒ हव॒(ग्म्॒) हव॑-म्मे । 41) मे॒ शृ॒ण्वन्तु॑ शृ॒ण्वन्तु॑ मे मे शृ॒ण्वन्तु॑ । 42) शृ॒ण्वन्त्वाप॒ आप॑-श्शृ॒ण्वन्तु॑ शृ॒ण्वन्त्वापः॑ । 43) आपो॑ धि॒षणा॑ धि॒षणा॒ आप॒ आपो॑ धि॒षणाः᳚ । 44) धि॒षणा᳚ श्च च धि॒षणा॑ धि॒षणा᳚ श्च । 45) च॒ दे॒वी-र्दे॒वी श्च॑ च दे॒वीः । 46) दे॒वीरिति॑ दे॒वीः । 47) शृ॒णोत॑ ग्रावाणो ग्रावाण-श्शृ॒णोत॑ शृ॒णोत॑ ग्रावाणः । 48) ग्रा॒वा॒णो॒ वि॒दुषो॑ वि॒दुषो᳚ ग्रावाणो ग्रावाणो वि॒दुषः॑ । 49) वि॒दुषो॒ नु नु वि॒दुषो॑ वि॒दुषो॒ नु । 50) नु य॒ज्ञं-यँ॒ज्ञ-न्नु नु य॒ज्ञम् । ॥ 22 ॥ (50/55)
1) य॒ज्ञग्ं शृ॒णोतु॑ शृ॒णोतु॑ य॒ज्ञं-यँ॒ज्ञग्ं शृ॒णोतु॑ । 2) शृ॒णोतु॑ दे॒वो दे॒व-श्शृ॒णोतु॑ शृ॒णोतु॑ दे॒वः । 3) दे॒व-स्स॑वि॒ता स॑वि॒ता दे॒वो दे॒व-स्स॑वि॒ता । 4) स॒वि॒ता हव॒(ग्म्॒) हव(ग्म्॑) सवि॒ता स॑वि॒ता हव᳚म् । 5) हव॑-म्मे मे॒ हव॒(ग्म्॒) हव॑-म्मे । 6) म॒ इति॑ मे । 7) देवी॑राप आपो॒ देवी॒-र्देवी॑रापः । 8) आ॒पो॒ अ॒पा॒ म॒पा॒ मा॒प॒ आ॒पो॒ अ॒पा॒म् । 9) अ॒पा॒-न्न॒पा॒-न्न॒पा॒द॒पा॒ म॒पा॒-न्न॒पा॒त् । 10) न॒पा॒-द्यो यो न॑पा-न्नपा॒-द्यः । 11) य ऊ॒र्मि रू॒र्मि-र्यो य ऊ॒र्मिः । 12) ऊ॒र्मिर्-ह॑वि॒ष्यो॑ हवि॒ष्य॑ ऊ॒र्मि रू॒र्मिर्-ह॑वि॒ष्यः॑ । 13) ह॒वि॒ष्य॑ इन्द्रि॒यावा॑ निन्द्रि॒यावा॑न्. हवि॒ष्यो॑ हवि॒ष्य॑ इन्द्रि॒यावान्॑ । 14) इ॒न्द्रि॒यावा᳚-न्म॒दिन्त॑मो म॒दिन्त॑म इन्द्रि॒यावा॑ निन्द्रि॒यावा᳚-न्म॒दिन्त॑मः । 14) इ॒न्द्रि॒यावा॒निती᳚न्द्रि॒य - वा॒न् । 15) म॒दिन्त॑म॒ स्त-न्त-म्म॒दिन्त॑मो म॒दिन्त॑म॒ स्तम् । 16) त-न्दे॒वेभ्यो॑ दे॒वेभ्य॒ स्त-न्त-न्दे॒वेभ्यः॑ । 17) दे॒वेभ्यो॑ देव॒त्रा दे॑व॒त्रा दे॒वेभ्यो॑ दे॒वेभ्यो॑ देव॒त्रा । 18) दे॒व॒त्रा ध॑त्त धत्त देव॒त्रा दे॑व॒त्रा ध॑त्त । 18) दे॒व॒त्रेति॑ देव - त्रा । 19) ध॒त्त॒ शु॒क्रग्ं शु॒क्र-न्ध॑त्त धत्त शु॒क्रम् । 20) शु॒क्रग्ं शु॑क्र॒पेभ्य॑-श्शुक्र॒पेभ्य॑-श्शु॒क्रग्ं शु॒क्रग्ं शु॑क्र॒पेभ्यः॑ । 21) शु॒क्र॒पेभ्यो॒ येषां॒-येँषा(ग्म्॑) शुक्र॒पेभ्य॑-श्शुक्र॒पेभ्यो॒ येषा᳚म् । 21) शु॒क्र॒पेभ्य॒ इति॑ शुक्र - पेभ्यः॑ । 22) येषा᳚-म्भा॒गो भा॒गो येषां॒-येँषा᳚-म्भा॒गः । 23) भा॒ग-स्स्थ स्थ भा॒गो भा॒ग-स्स्थ । 24) स्थ स्वाहा॒ स्वाहा॒ स्थ स्थ स्वाहा᳚ । 25) स्वाहा॒ कार्षिः॒ कार्षि॒-स्स्वाहा॒ स्वाहा॒ कार्षिः॑ । 26) कार्षि॑ रस्यसि॒ कार्षिः॒ कार्षि॑ रसि । 27) अ॒स्य पापा᳚ स्य॒स्यप॑ । 28) अपा॒पा म॒पा मपापा॒ पाम् । 29) अ॒पा-म्मृ॒द्ध्र-म्मृ॒द्ध्र म॒पा म॒पा-म्मृ॒द्ध्रम् । 30) मृ॒द्ध्रग्ं स॑मु॒द्रस्य॑ समु॒द्रस्य॑ मृ॒द्ध्र-म्मृ॒द्ध्रग्ं स॑मु॒द्रस्य॑ । 31) स॒मु॒द्रस्य॑ वो व-स्समु॒द्रस्य॑ समु॒द्रस्य॑ वः । 32) वो ऽक्षि॑त्या॒ अक्षि॑त्यै वो॒ वो ऽक्षि॑त्यै । 33) अक्षि॑त्या॒ उदु दक्षि॑त्या॒ अक्षि॑त्या॒ उत् । 34) उ-न्न॑ये नय॒ उदु-न्न॑ये । 35) न॒य॒ इति॑ नये । 36) य म॑ग्ने ऽग्ने॒ यं-यँ म॑ग्ने । 37) अ॒ग्ने॒ पृ॒थ्सु पृ॒थ्स्व॑ग्ने ऽग्ने पृ॒थ्सु । 38) पृ॒थ्सु मर्त्य॒-म्मर्त्य॑-म्पृ॒थ्सु पृ॒थ्सु मर्त्य᳚म् । 38) पृ॒थ्स्विति॑ पृ॒त् - सु । 39) मर्त्य॒ माव॒ आवो॒ मर्त्य॒-म्मर्त्य॒ मावः॑ । 40) आवो॒ वाजे॑षु॒ वाजे॒ष्वाव॒ आवो॒ वाजे॑षु । 41) वाजे॑षु॒ यं-यंँ वाजे॑षु॒ वाजे॑षु॒ यम् । 42) य-ञ्जु॒ना जु॒ना यं-यँ-ञ्जु॒नाः । 43) जु॒ना इति॑ जु॒नाः । 44) स यन्ता॒ यन्ता॒ स स यन्ता᳚ । 45) यन्ता॒ शश्व॑ती॒-श्शश्व॑ती॒-र्यन्ता॒ यन्ता॒ शश्व॑तीः । 46) शश्व॑ती॒ रिष॒ इष॒-श्शश्व॑ती॒-श्शश्व॑ती॒ रिषः॑ । 47) इष॒ इतीषः॑ । ॥ 23 ॥ (47/51) ॥ अ. 13 ॥
1) त्व म॑ग्ने अग्ने॒ त्व-न्त्व म॑ग्ने । 2) अ॒ग्ने॒ रु॒द्रो रु॒द्रो अ॑ग्ने अग्ने रु॒द्रः । 3) रु॒द्रो असु॑रो॒ असु॑रो रु॒द्रो रु॒द्रो असु॑रः । 4) असु॑रो म॒हो म॒हो असु॑रो॒ असु॑रो म॒हः । 5) म॒हो दि॒वो दि॒वो म॒हो म॒हो दि॒वः । 6) दि॒व स्त्व-न्त्व-न्दि॒वो दि॒व स्त्वम् । 7) त्वग्ं शर्ध॒-श्शर्ध॒ स्त्व-न्त्वग्ं शर्धः॑ । 8) शर्धो॒ मारु॑त॒-म्मारु॑त॒(ग्म्॒) शर्ध॒-श्शर्धो॒ मारु॑तम् । 9) मारु॑त-म्पृ॒क्षः पृ॒क्षो मारु॑त॒-म्मारु॑त-म्पृ॒क्षः । 10) पृ॒क्ष ई॑शिष ईशिषे पृ॒क्षः पृ॒क्ष ई॑शिषे । 11) ई॒शि॒ष॒ इती॑शिषे । 12) त्वं-वाँतै॒-र्वातै॒ स्त्व-न्त्वं-वाँतैः᳚ । 13) वातै॑ ररु॒णै र॑रु॒णै-र्वातै॒-र्वातै॑ ररु॒णैः । 14) अ॒रु॒णै-र्या॑सि यास्य रु॒णै र॑रु॒णै-र्या॑सि । 15) या॒सि॒ श॒ङ्ग॒य-श्श॑ङ्ग॒यो या॑सि यासि शङ्ग॒यः । 16) श॒ङ्ग॒य स्त्व-न्त्वग्ं श॑ङ्ग॒य-श्श॑ङ्ग॒य स्त्वम् । 16) श॒ङ्ग॒य इति॑ शं - ग॒यः । 17) त्व-म्पू॒षा पू॒षा त्व-न्त्व-म्पू॒षा । 18) पू॒षा वि॑ध॒तो वि॑ध॒तः पू॒षा पू॒षा वि॑ध॒तः । 19) वि॒ध॒तः पा॑सि पासि विध॒तो वि॑ध॒तः पा॑सि । 19) वि॒ध॒त इति॑ वि - ध॒तः । 20) पा॒सि॒ नु नु पा॑सि पासि॒ नु । 21) नु त्मना॒ त्मना॒ नु नु त्मना᳚ । 22) त्मनेति॒ त्मना᳚ । 23) आ वो॑ व॒ आ वः॑ । 24) वो॒ राजा॑न॒(ग्म्॒) राजा॑नं-वोँ वो॒ राजा॑नम् । 25) राजा॑न मद्ध्व॒ रस्या᳚द्ध्व॒रस्य॒ राजा॑न॒(ग्म्॒) राजा॑न मद्ध्व॒रस्य॑ । 26) अ॒द्ध्व॒रस्य॑ रु॒द्रग्ं रु॒द्र म॑द्ध्व॒ रस्या᳚द्ध्व॒रस्य॑ रु॒द्रम् । 27) रु॒द्रग्ं होता॑र॒(ग्म्॒) होता॑रग्ं रु॒द्रग्ं रु॒द्रग्ं होता॑रम् । 28) होता॑रग्ं सत्य॒यज(ग्म्॑) सत्य॒यज॒(ग्म्॒) होता॑र॒(ग्म्॒) होता॑रग्ं सत्य॒यज᳚म् । 29) स॒त्य॒यज॒(ग्म्॒) रोद॑स्यो॒ रोद॑स्यो-स्सत्य॒यज(ग्म्॑) सत्य॒यज॒(ग्म्॒) रोद॑स्योः । 29) स॒त्य॒यज॒मिति॑ सत्य - यज᳚म् । 30) रोद॑स्यो॒रिति॒ रोद॑स्योः । 31) अ॒ग्नि-म्पु॒रा पु॒रा ऽग्नि म॒ग्नि-म्पु॒रा । 32) पु॒रा त॑नयि॒त्नो स्त॑नयि॒त्नोः पु॒रा पु॒रा त॑नयि॒त्नोः । 33) त॒न॒यि॒त्नो र॒चित्ता॑ द॒चित्ता᳚-त्तनयि॒त्नो स्त॑नयि॒त्नो र॒चित्ता᳚त् । 34) अ॒चित्ता॒ द्धिर॑ण्यरूप॒(ग्म्॒) हिर॑ण्यरूप म॒चित्ता॑ द॒चित्ता॒ द्धिर॑ण्यरूपम् । 35) हिर॑ण्यरूप॒ मव॒से ऽव॑से॒ हिर॑ण्यरूप॒(ग्म्॒) हिर॑ण्यरूप॒ मव॑से । 35) हिर॑ण्यरूप॒मिति॒ हिर॑ण्य - रू॒प॒म् । 36) अव॑से कृणुद्ध्व-ङ्कृणुद्ध्व॒ मव॒से ऽव॑से कृणुद्ध्वम् । 37) कृ॒णु॒द्ध्व॒मिति॑ कृणुद्ध्वम् । 38) अ॒ग्निर्-होता॒ होता॒ ऽग्नि र॒ग्निर्-होता᳚ । 39) होता॒ नि नि होता॒ होता॒ नि । 40) नि ष॑साद ससाद॒ नि नि ष॑साद । 41) स॒सा॒दा॒ यजी॑या॒न्॒. यजी॑या-न्थ्ससाद ससादा॒ यजी॑यान् । 42) यजी॑या नु॒पस्थ॑ उ॒पस्थे॒ यजी॑या॒न्॒. यजी॑या नु॒पस्थे᳚ । 43) उ॒पस्थे॑ मा॒तु-र्मा॒तु रु॒पस्थ॑ उ॒पस्थे॑ मा॒तुः । 43) उ॒पस्थ॒ इत्यु॒प - स्थे॒ । 44) मा॒तु-स्सु॑र॒भौ सु॑र॒भौ मा॒तु-र्मा॒तु-स्सु॑र॒भौ । 45) सु॒र॒भा वु॑ वु सुर॒भौ सु॑र॒भा वु॑ । 46) उ॒ लो॒के लो॒क उ॑ वु लो॒के । 47) लो॒क इति॑ लो॒के । 48) युवा॑ क॒विः क॒वि-र्युवा॒ युवा॑ क॒विः । 49) क॒विः पु॑रुनि॒ष्ठः पु॑रुनि॒ष्ठः क॒विः क॒विः पु॑रुनि॒ष्ठः । 50) पु॒रु॒नि॒ष्ठ ऋ॒ताव॒र्तावा॑ पुरुनि॒ष्ठः पु॑रुनि॒ष्ठ ऋ॒तावा᳚ । 50) पु॒रु॒नि॒ष्ठ इति॑ पुरु - नि॒ष्ठः । ॥ 24 ॥ (50/56)
1) ऋ॒तावा॑ ध॒र्ता ध॒र्तर्ताव॒र्तावा॑ ध॒र्ता । 1) ऋ॒तावेत्यृ॒ता - वा॒ । 2) ध॒र्ता कृ॑ष्टी॒ना-ङ्कृ॑ष्टी॒ना-न्ध॒र्ता ध॒र्ता कृ॑ष्टी॒नाम् । 3) कृ॒ष्टी॒ना मु॒तोत कृ॑ष्टी॒ना-ङ्कृ॑ष्टी॒ना मु॒त । 4) उ॒त मद्ध्ये॒ मद्ध्य॑ उ॒तोत मद्ध्ये᳚ । 5) मद्ध्य॑ इ॒द्ध इ॒द्धो मद्ध्ये॒ मद्ध्य॑ इ॒द्धः । 6) इ॒द्ध इती॒द्धः । 7) सा॒द्ध्वी म॑क रक-स्सा॒द्ध्वीग्ं सा॒द्ध्वी म॑कः । 8) अ॒क॒-र्दे॒ववी॑ति-न्दे॒ववी॑ति मक रक-र्दे॒ववी॑तिम् । 9) दे॒ववी॑ति-न्नो नो दे॒ववी॑ति-न्दे॒ववी॑ति-न्नः । 9) दे॒ववी॑ति॒मिति॑ दे॒व - वी॒ति॒म् । 10) नो॒ अ॒द्याद्य नो॑ नो अ॒द्य । 11) अ॒द्य य॒ज्ञस्य॑ य॒ज्ञ स्या॒द्याद्य य॒ज्ञस्य॑ । 12) य॒ज्ञस्य॑ जि॒ह्वा-ञ्जि॒ह्वां-यँ॒ज्ञस्य॑ य॒ज्ञस्य॑ जि॒ह्वाम् । 13) जि॒ह्वा म॑विदा माविदाम जि॒ह्वा-ञ्जि॒ह्वा म॑विदाम । 14) अ॒वि॒दा॒म॒ गुह्या॒-ङ्गुह्या॑ मविदा माविदाम॒ गुह्या᳚म् । 15) गुह्या॒मिति॒ गुह्या᳚म् । 16) स आयु॒ रायु॒-स्स स आयुः॑ । 17) आयु॒रा आयु॒ रायु॒रा । 18) आ ऽगा॑दगा॒दा ऽगा᳚त् । 19) अ॒गा॒-थ्सु॒र॒भि-स्सु॑र॒भि र॑गा दगा-थ्सुर॒भिः । 20) सु॒र॒भि-र्वसा॑नो॒ वसा॑न-स्सुर॒भि-स्सु॑र॒भि-र्वसा॑नः । 21) वसा॑नो भ॒द्रा-म्भ॒द्रां-वँसा॑नो॒ वसा॑नो भ॒द्राम् । 22) भ॒द्रा म॑क रक-र्भ॒द्रा-म्भ॒द्रा म॑कः । 23) अ॒क॒-र्दे॒वहू॑ति-न्दे॒वहू॑ति मक रक-र्दे॒वहू॑तिम् । 24) दे॒वहू॑ति-न्नो नो दे॒वहू॑ति-न्दे॒वहू॑ति-न्नः । 24) दे॒वहू॑ति॒मिति॑ दे॒व - हू॒ति॒म् । 25) नो॒ अ॒द्याद्य नो॑ नो अ॒द्य । 26) अ॒द्येत्य॒द्य । 27) अक्र॑न्द द॒ग्नि र॒ग्नि रक्र॑न्द॒ दक्र॑न्द द॒ग्निः । 28) अ॒ग्नि-स्स्त॒नयन्᳚ थ्स्त॒नय॑-न्न॒ग्नि र॒ग्नि-स्स्त॒नयन्न्॑ । 29) स्त॒नय॑-न्निवे व स्त॒नयन्᳚ थ्स्त॒नय॑-न्निव । 30) इ॒व॒ द्यौ-र्द्यौरि॑वे व॒ द्यौः । 31) द्यौः, क्षाम॒ क्षाम॒ द्यौ-र्द्यौः, क्षाम॑ । 32) क्षामा॒ रेरि॑ह॒-द्रेरि॑ह॒-त्क्षाम॒ क्षामा॒ रेरि॑हत् । 33) रेरि॑ह-द्वी॒रुधो॑ वी॒रुधो॒ रेरि॑ह॒-द्रेरि॑ह-द्वी॒रुधः॑ । 34) वी॒रुध॑-स्सम॒ञ्ज-न्थ्स॑म॒ञ्जन्. वी॒रुधो॑ वी॒रुध॑-स्सम॒ञ्जन्न् । 35) स॒म॒ञ्जन्निति॑ सं - अ॒ञ्जन्न् । 36) स॒द्यो ज॑ज्ञा॒नो ज॑ज्ञा॒न-स्स॒द्य-स्स॒द्यो ज॑ज्ञा॒नः । 37) ज॒ज्ञा॒नो वि वि ज॑ज्ञा॒नो ज॑ज्ञा॒नो वि । 38) वि हि हि वि वि हि । 39) ही मी॒(ग्म्॒) हि हीम् । 40) ई॒ मि॒द्ध इ॒द्ध ई॑ मी मि॒द्धः । 41) इ॒द्धो अख्य॒ दख्य॑ दि॒द्ध इ॒द्धो अख्य॑त् । 42) अख्य॒दा ऽख्य॒ दख्य॒दा । 43) आ रोद॑सी॒ रोद॑सी॒ आ रोद॑सी । 44) रोद॑सी भा॒नुना॑ भा॒नुना॒ रोद॑सी॒ रोद॑सी भा॒नुना᳚ । 44) रोद॑सी॒ इति॒ रोद॑सी । 45) भा॒नुना॑ भाति भाति भा॒नुना॑ भा॒नुना॑ भाति । 46) भा॒त्य॒न्त र॒न्त-र्भा॑ति भात्य॒न्तः । 47) अ॒न्तरित्य॒न्तः । 48) त्वे वसू॑नि॒ वसू॑नि॒ त्वे त्वे वसू॑नि । 48) त्वे इति॒ त्वे । 49) वसू॑नि पुर्वणीक पुर्वणीक॒ वसू॑नि॒ वसू॑नि पुर्वणीक । 50) पु॒र्व॒णी॒क॒ हो॒त॒र्॒ हो॒तः॒ पु॒र्व॒णी॒क॒ पु॒र्व॒णी॒क॒ हो॒तः॒ । 50) पु॒र्व॒णी॒केति॑ पुरु - अ॒नी॒क॒ । ॥ 25 ॥ (50/56)
1) हो॒त॒-र्दो॒षा दो॒षा हो॑तर्-होत-र्दो॒षा । 2) दो॒षा वस्तो॒-र्वस्तो᳚-र्दो॒षा दो॒षा वस्तोः᳚ । 3) वस्तो॒रा वस्तो॒-र्वस्तो॒रा । 4) एरि॑र ईरिर॒ एरि॑रे । 5) ई॒रि॒रे॒ य॒ज्ञिया॑सो य॒ज्ञिया॑स ईरिर ईरिरे य॒ज्ञिया॑सः । 6) य॒ज्ञिया॑स॒ इति॑ य॒ज्ञिया॑सः । 7) क्षामे॑ वे व॒ क्षाम॒ क्षामे॑ व । 8) इ॒व॒ विश्वा॒ विश्वे॑वे व॒ विश्वा᳚ । 9) विश्वा॒ भुव॑नानि॒ भुव॑नानि॒ विश्वा॒ विश्वा॒ भुव॑नानि । 10) भुव॑नानि॒ यस्मि॒न्॒. यस्मि॒-न्भुव॑नानि॒ भुव॑नानि॒ यस्मिन्न्॑ । 11) यस्मि॒-न्थ्सग्ं सं-यँस्मि॒न्॒. यस्मि॒-न्थ्सम् । 12) सग्ं सौभ॑गानि॒ सौभ॑गानि॒ सग्ं सग्ं सौभ॑गानि । 13) सौभ॑गानि दधि॒रे द॑धि॒रे सौभ॑गानि॒ सौभ॑गानि दधि॒रे । 14) द॒धि॒रे पा॑व॒के पा॑व॒के द॑धि॒रे द॑धि॒रे पा॑व॒के । 15) पा॒व॒क इति॑ पाव॒के । 16) तुभ्य॒-न्तास्ता स्तुभ्य॒-न्तुभ्य॒-न्ताः । 17) ता अ॑ङ्गिरस्त माङ्गिरस्तम॒ ता स्ता अ॑ङ्गिरस्तम । 18) अ॒ङ्गि॒र॒स्त॒म॒ विश्वा॒ विश्वा॑ अङ्गिरस्त माङ्गिरस्तम॒ विश्वाः᳚ । 18) अ॒ङ्गि॒र॒स्त॒मेत्य॑ङ्गिरः - त॒म॒ । 19) विश्वा᳚-स्सुक्षि॒तय॑-स्सुक्षि॒तयो॒ विश्वा॒ विश्वा᳚-स्सुक्षि॒तयः॑ । 20) सु॒क्षि॒तयः॒ पृथ॒-क्पृथ॑-ख्सुक्षि॒तय॑-स्सुक्षि॒तयः॒ पृथ॑क् । 20) सु॒क्षि॒तय॒ इति॑ सु - क्षि॒तयः॑ । 21) पृथ॒गिति॒ पृथ॑क् । 22) अग्ने॒ कामा॑य॒ कामा॒याग्ने ऽग्ने॒ कामा॑य । 23) कामा॑य येमिरे येमिरे॒ कामा॑य॒ कामा॑य येमिरे । 24) ये॒मि॒र॒ इति॑ येमिरे । 25) अ॒श्याम॒ त-न्त म॒श्या मा॒श्याम॒ तम् । 26) त-ङ्काम॒-ङ्काम॒-न्त-न्त-ङ्काम᳚म् । 27) काम॑ मग्ने अग्ने॒ काम॒-ङ्काम॑ मग्ने । 28) अ॒ग्ने॒ तव॒ तवा᳚ग्ने अग्ने॒ तव॑ । 29) तवो॒त्यू॑ती तव॒ तवो॒ती । 30) ऊ॒त्य॑श्या मा॒श्यामो॒ त्यू᳚(1॒)त्य॑श्याम॑ । 31) अ॒श्याम॑ र॒यिग्ं र॒यि म॒श्या मा॒श्याम॑ र॒यिम् । 32) र॒यिग्ं र॑यिवो रयिवो र॒यिग्ं र॒यिग्ं र॑यिवः । 33) र॒यि॒व॒-स्सु॒वीर(ग्म्॑) सु॒वीर(ग्म्॑) रयिवो रयिव-स्सु॒वीर᳚म् । 33) र॒यि॒व॒ इति॑ रयि - वः॒ । 34) सु॒वीर॒मिति॑ सु - वीर᳚म् । 35) अ॒श्याम॒ वाजं॒-वाँज॑ म॒श्या मा॒श्याम॒ वाज᳚म् । 36) वाज॑ म॒भ्य॑भि वाजं॒-वाँज॑ म॒भि । 37) अ॒भि वा॒जय॑न्तो वा॒जय॑न्तो अ॒भ्य॑भि वा॒जय॑न्तः । 38) वा॒जय॑न्तो॒ ऽश्यामा॒श्याम॑ वा॒जय॑न्तो वा॒जय॑न्तो॒ ऽश्याम॑ । 39) अ॒श्याम॑ द्यु॒म्न-न्द्यु॒म्न म॒श्या मा॒श्याम॑ द्यु॒म्नम् । 40) द्यु॒म्न म॑जराजर द्यु॒म्न-न्द्यु॒म्न म॑जर । 41) अ॒ज॒रा॒जर॑ म॒जर॑ मज राजरा॒जर᳚म् । 42) अ॒जर॑-न्ते ते अ॒जर॑ म॒जर॑-न्ते । 43) त॒ इति॑ ते । 44) श्रेष्ठं॑-यँविष्ठ यविष्ठ॒ श्रेष्ठ॒(ग्ग्॒) श्रेष्ठं॑-यँविष्ठ । 45) य॒वि॒ष्ठ॒ भा॒र॒त॒ भा॒र॒त॒ य॒वि॒ष्ठ॒ य॒वि॒ष्ठ॒ भा॒र॒त॒ । 46) भा॒र॒ताग्ने ऽग्ने॑ भारत भार॒ताग्ने᳚ । 47) अग्ने᳚ द्यु॒मन्त॑-न्द्यु॒मन्त॒ मग्ने ऽग्ने᳚ द्यु॒मन्त᳚म् । 48) द्यु॒मन्त॒ मा द्यु॒मन्त॑-न्द्यु॒मन्त॒ मा । 48) द्यु॒मन्त॒मिति॑ द्यु - मन्त᳚म् । 49) आ भ॑र भ॒रा भ॑र । 50) भ॒रेति॑ भर । ॥ 26 ॥ (50/54)
1) वसो॑ पुरु॒स्पृह॑-म्पुरु॒स्पृहं॒-वँसो॒ वसो॑ पुरु॒स्पृह᳚म् । 1) वसो॒ इति॒ वसो᳚ । 2) पु॒रु॒स्पृह(ग्म्॑) र॒यिग्ं र॒यि-म्पु॑रु॒स्पृह॑-म्पुरु॒स्पृह(ग्म्॑) र॒यिम् । 2) पु॒रु॒स्पृह॒मिति॑ पुरु - स्पृह᳚म् । 3) र॒यिमिति॑ रयिम् । 4) स श्वि॑ता॒न-श्श्वि॑ता॒न-स्स स श्वि॑ता॒नः । 5) श्वि॒ता॒न स्त॑न्य॒तु स्त॑न्य॒तु-श्श्वि॑ता॒न-श्श्वि॑ता॒न स्त॑न्य॒तुः । 6) त॒न्य॒तू रो॑चन॒स्था रो॑चन॒स्था स्त॑न्य॒तु स्त॑न्य॒तू रो॑चन॒स्थाः । 7) रो॒च॒न॒स्था अ॒जरे॑भि र॒जरे॑भी रोचन॒स्था रो॑चन॒स्था अ॒जरे॑भिः । 7) रो॒च॒न॒स्था इति॑ रोचन - स्थाः । 8) अ॒जरे॑भि॒-र्नान॑दद्भि॒-र्नान॑दद्भि र॒जरे॑भि र॒जरे॑भि॒-र्नान॑दद्भिः । 9) नान॑दद्भि॒-र्यवि॑ष्ठो॒ यवि॑ष्ठो॒ नान॑दद्भि॒-र्नान॑दद्भि॒-र्यवि॑ष्ठः । 9) नान॑दद्भि॒रिति॒ नान॑दत् - भिः॒ । 10) यवि॑ष्ठ॒ इति॒ यवि॑ष्ठः । 11) यः पा॑व॒कः पा॑व॒को यो यः पा॑व॒कः । 12) पा॒व॒कः पु॑रु॒तमः॑ पुरु॒तमः॑ पाव॒कः पा॑व॒कः पु॑रु॒तमः॑ । 13) पु॒रु॒तमः॑ पु॒रूणि॑ पु॒रूणि॑ पुरु॒तमः॑ पुरु॒तमः॑ पु॒रूणि॑ । 13) पु॒रु॒तम॒ इति॑ पुरु - तमः॑ । 14) पु॒रूणि॑ पृ॒थूनि॑ पृ॒थूनि॑ पु॒रूणि॑ पु॒रूणि॑ पृ॒थूनि॑ । 15) पृ॒थून्य॒ग्नि र॒ग्निः पृ॒थूनि॑ पृ॒थून्य॒ग्निः । 16) अ॒ग्नि र॑नु॒या त्य॑नु॒या त्य॒ग्नि र॒ग्नि र॑नु॒याति॑ । 17) अ॒नु॒याति॒ भर्व॒-न्भर्व॑-न्ननु॒यात्य॑नु॒याति॒ भर्वन्न्॑ । 17) अ॒नु॒यातीत्य॑नु - याति॑ । 18) भर्व॒न्निति॒ भर्वन्न्॑ । 19) आयु॑ष्टे त॒ आयु॒ रायु॑ष्टे । 20) ते॒ वि॒श्वतो॑ वि॒श्वत॑ स्ते ते वि॒श्वतः॑ । 21) वि॒श्वतो॑ दध-द्दध-द्वि॒श्वतो॑ वि॒श्वतो॑ दधत् । 22) द॒ध॒ द॒य म॒य-न्द॑ध-द्दध द॒यम् । 23) अ॒य म॒ग्नि र॒ग्नि र॒य म॒य म॒ग्निः । 24) अ॒ग्नि-र्वरे᳚ण्यो॒ वरे᳚ण्यो अ॒ग्नि र॒ग्नि-र्वरे᳚ण्यः । 25) वरे᳚ण्य॒ इति॒ वरे᳚ण्यः । 26) पुन॑ स्ते ते॒ पुनः॒ पुन॑ स्ते । 27) ते॒ प्रा॒णः प्रा॒ण स्ते॑ ते प्रा॒णः । 28) प्रा॒ण आ प्रा॒णः प्रा॒ण आ । 28) प्रा॒ण इति॑ प्र - अ॒नः । 29) आ ऽय॑त्यय॒त्या ऽय॑ति । 30) अ॒य॒ति॒ परा॒ परा॑ ऽयत्ययति॒ परा᳚ । 31) परा॒ यक्ष्मं॒-यँक्ष्म॒-म्परा॒ परा॒ यक्ष्म᳚म् । 32) यक्ष्म(ग्म्॑) सुवामि सुवामि॒ यक्ष्मं॒-यँक्ष्म(ग्म्॑) सुवामि । 33) सु॒वा॒मि॒ ते॒ ते॒ सु॒वा॒मि॒ सु॒वा॒मि॒ ते॒ । 34) त॒ इति॑ ते । 35) आ॒यु॒र्दा अ॑ग्ने अग्न आयु॒र्दा आ॑यु॒र्दा अ॑ग्ने । 35) आ॒यु॒र्दा इत्या॑युः - दाः । 36) अ॒ग्ने॒ ह॒विषो॑ ह॒विषो॑ अग्ने अग्ने ह॒विषः॑ । 37) ह॒विषो॑ जुषा॒णो जु॑षा॒णो ह॒विषो॑ ह॒विषो॑ जुषा॒णः । 38) जु॒षा॒णो घृ॒तप्र॑तीको घृ॒तप्र॑तीको जुषा॒णो जु॑षा॒णो घृ॒तप्र॑तीकः । 39) घृ॒तप्र॑तीको घृ॒तयो॑नि-र्घृ॒तयो॑नि-र्घृ॒तप्र॑तीको घृ॒तप्र॑तीको घृ॒तयो॑निः । 39) घृ॒तप्र॑तीक॒ इति॑ घृ॒त - प्र॒ती॒कः॒ । 40) घृ॒तयो॑नि रेध्येधि घृ॒तयो॑नि-र्घृ॒तयो॑नि रेधि । 40) घृ॒तयो॑नि॒रिति॑ घृ॒त - यो॒निः॒ । 41) ए॒धीत्ये॑धि । 42) घृ॒त-म्पी॒त्वा पी॒त्वा घृ॒त-ङ्घृ॒त-म्पी॒त्वा । 43) पी॒त्वा मधु॒ मधु॑ पी॒त्वा पी॒त्वा मधु॑ । 44) मधु॒ चारु॒ चारु॒ मधु॒ मधु॒ चारु॑ । 45) चारु॒ गव्य॒-ङ्गव्य॒-ञ्चारु॒ चारु॒ गव्य᳚म् । 46) गव्य॑-म्पि॒ता पि॒ता गव्य॒-ङ्गव्य॑-म्पि॒ता । 47) पि॒तेवे॑ व पि॒ता पि॒तेव॑ । 48) इ॒व॒ पु॒त्र-म्पु॒त्र मि॑वे व पु॒त्रम् । 49) पु॒त्र म॒भ्य॑भि पु॒त्र-म्पु॒त्र म॒भि । 50) अ॒भि र॑क्षता-द्रक्षता द॒भ्य॑भि र॑क्षतात् । ॥ 27 ॥ (50/60)
1) र॒क्ष॒ता॒ दि॒म मि॒मग्ं र॑क्षता-द्रक्षता दि॒मम् । 2) इ॒ममिती॒मम् । 3) तस्मै॑ ते ते॒ तस्मै॒ तस्मै॑ ते । 4) ते॒ प्र॒ति॒हर्य॑ते प्रति॒हर्य॑ते ते ते प्रति॒हर्य॑ते । 5) प्र॒ति॒हर्य॑ते॒ जात॑वेदो॒ जात॑वेदः प्रति॒हर्य॑ते प्रति॒हर्य॑ते॒ जात॑वेदः । 5) प्र॒ति॒हर्य॑त॒ इति॑ प्रति - हर्य॑ते । 6) जात॑वेदो॒ विच॑र्षणे॒ विच॑र्षणे॒ जात॑वेदो॒ जात॑वेदो॒ विच॑र्षणे । 6) जात॑वेद॒ इति॒ जात॑ - वे॒दः॒ । 7) विच॑र्षण॒ इति॒ वि - च॒र्॒ष॒णे॒ । 8) अग्ने॒ जना॑मि॒ जना॒ म्यग्ने ऽग्ने॒ जना॑मि । 9) जना॑मि सुष्टु॒तिग्ं सु॑ष्टु॒ति-ञ्जना॑मि॒ जना॑मि सुष्टु॒तिम् । 10) सु॒ष्टु॒तिमिति॑ सु - स्तु॒तिम् । 11) दि॒व स्परि॒ परि॑ दि॒वो दि॒व स्परि॑ । 12) परि॑ प्रथ॒म-म्प्र॑थ॒म-म्परि॒ परि॑ प्रथ॒मम् । 13) प्र॒थ॒म-ञ्ज॑ज्ञे जज्ञे प्रथ॒म-म्प्र॑थ॒म-ञ्ज॑ज्ञे । 14) ज॒ज्ञे॒ अ॒ग्निर॒ग्नि-र्ज॑ज्ञे जज्ञे अ॒ग्निः । 15) अ॒ग्नि र॒स्म द॒स्म द॒ग्नि र॒ग्नि र॒स्मत् । 16) अ॒स्म-द्द्वि॒तीय॑-न्द्वि॒तीय॑ म॒स्म द॒स्म-द्द्वि॒तीय᳚म् । 17) द्वि॒तीय॒-म्परि॒ परि॑ द्वि॒तीय॑-न्द्वि॒तीय॒-म्परि॑ । 18) परि॑ जा॒तवे॑दा जा॒तवे॑दाः॒ परि॒ परि॑ जा॒तवे॑दाः । 19) जा॒तवे॑दा॒ इति॑ जा॒त - वे॒दाः॒ । 20) तृ॒तीय॑ म॒फ्स्व॑फ्सु तृ॒तीय॑-न्तृ॒तीय॑ म॒फ्सु । 21) अ॒फ्सु नृ॒मणा॑ नृ॒मणा॑ अ॒फ्स्व॑फ्सु नृ॒मणाः᳚ । 21) अ॒फ्स्वित्य॑प् - सु । 22) नृ॒मणा॒ अज॑स्र॒ मज॑स्र-न्नृ॒मणा॑ नृ॒मणा॒ अज॑स्रम् । 22) नृ॒मणा॒ इति॑ नृ - मनाः᳚ । 23) अज॑स्र॒ मिन्धा॑न॒ इन्धा॒नो ऽज॑स्र॒ मज॑स्र॒ मिन्धा॑नः । 24) इन्धा॑न एन मेन॒ मिन्धा॑न॒ इन्धा॑न एनम् । 25) ए॒न॒-ञ्ज॒र॒ते॒ ज॒र॒त॒ ए॒न॒ मे॒न॒-ञ्ज॒र॒ते॒ । 26) ज॒र॒ते॒ स्वा॒धी-स्स्वा॒धी-र्ज॑रते जरते स्वा॒धीः । 27) स्वा॒धीरिति॑ स्व - धीः । 28) शुचिः॑ पावक पावक॒ शुचि॒-श्शुचिः॑ पावक । 29) पा॒व॒क॒ वन्द्यो॒ वन्द्यः॑ पावक पावक॒ वन्द्यः॑ । 30) वन्द्यो ऽग्ने ऽग्ने॒ वन्द्यो॒ वन्द्यो ऽग्ने᳚ । 31) अग्ने॑ बृ॒ह-द्बृ॒हदग्ने ऽग्ने॑ बृ॒हत् । 32) बृ॒ह-द्वि वि बृ॒ह-द्बृ॒ह-द्वि । 33) वि रो॑चसे रोचसे॒ वि वि रो॑चसे । 34) रो॒च॒स॒ इति॑ रोचसे । 35) त्व-ङ्घृ॒तेभि॑-र्घृ॒तेभि॒ स्त्व-न्त्व-ङ्घृ॒तेभिः॑ । 36) घृ॒तेभि॒ राहु॑त॒ आहु॑तो घृ॒तेभि॑-र्घृ॒तेभि॒ राहु॑तः । 37) आहु॑त॒ इत्या - हु॒तः॒ । 38) दृ॒शा॒नो रु॒क्मो रु॒क्मो दृ॑शा॒नो दृ॑शा॒नो रु॒क्मः । 39) रु॒क्म उ॒र्व्यो-र्व्या रु॒क्मो रु॒क्म उ॒र्व्या । 40) उ॒र्व्या वि व्यु॑र्व्यो-र्व्या वि । 41) व्य॑द्यौ दद्यौ॒-द्वि व्य॑द्यौत् । 42) अ॒द्यौ॒-द्दु॒र्मर्ष॑-न्दु॒र्मर्ष॑ मद्यौ दद्यौ-द्दु॒र्मर्ष᳚म् । 43) दु॒र्मर्ष॒ मायु॒ रायु॑-र्दु॒र्मर्ष॑-न्दु॒र्मर्ष॒ मायुः॑ । 43) दु॒र्मर्ष॒मिति॑ दुः - मर्ष᳚म् । 44) आयु॑-श्श्रि॒ये श्रि॒य आयु॒ रायु॑-श्श्रि॒ये । 45) श्रि॒ये रु॑चा॒नो रु॑चा॒न-श्श्रि॒ये श्रि॒ये रु॑चा॒नः । 46) रु॒चा॒न इति॑ रुचा॒नः । 47) अ॒ग्नि र॒मृतो॑ अ॒मृतो॑ अ॒ग्नि र॒ग्नि र॒मृतः॑ । 48) अ॒मृतो॑ अभव दभव द॒मृतो॑ अ॒मृतो॑ अभवत् । 49) अ॒भ॒व॒-द्वयो॑भि॒-र्वयो॑भि रभव दभव॒-द्वयो॑भिः । 50) वयो॑भि॒-र्य-द्य-द्वयो॑भि॒-र्वयो॑भि॒-र्यत् । 50) वयो॑भि॒रिति॒ वयः॑ - भिः॒ । ॥ 28 ॥ (50/56)
1) यदे॑न मेनं॒-यँ-द्यदे॑नम् । 2) ए॒न॒-न्द्यौ-र्द्यौरे॑न मेन॒-न्द्यौः । 3) द्यौ रज॑नय॒ दज॑नय॒-द्द्यौ-र्द्यौ रज॑नयत् । 4) अज॑नय-थ्सु॒रेता᳚-स्सु॒रेता॒ अज॑नय॒ दज॑नय-थ्सु॒रेताः᳚ । 5) सु॒रेता॒ इति॑ सु - रेताः᳚ । 6) आ य-द्यदा यत् । 7) यदि॒ष इ॒षे य-द्यदि॒षे । 8) इ॒षे नृ॒पति॑-न्नृ॒पति॑ मि॒ष इ॒षे नृ॒पति᳚म् । 9) नृ॒पति॒-न्तेज॒ स्तेजो॑ नृ॒पति॑-न्नृ॒पति॒-न्तेजः॑ । 9) नृ॒पति॒मिति॑ नृ - पति᳚म् । 10) तेज॒ आन॒डान॒-ट्तेज॒ स्तेज॒ आन॑ट् । 11) आन॒ट् छुचि॒ शुच्या न॒डान॒ट् छुचि॑ । 12) शुचि॒ रेतो॒ रेत॒-श्शुचि॒ शुचि॒ रेतः॑ । 13) रेतो॒ निषि॑क्त॒-न्निषि॑क्त॒(ग्म्॒) रेतो॒ रेतो॒ निषि॑क्तम् । 14) निषि॑क्त॒-न्द्यौ-र्द्यौ-र्निषि॑क्त॒-न्निषि॑क्त॒-न्द्यौः । 14) निषि॑क्त॒मिति॒ नि - सि॒क्त॒म् । 15) द्यौर॒भीके॑ अ॒भीके॒ द्यौ-र्द्यौ र॒भीके᳚ । 16) अ॒भीक॒ इत्य॒भीके᳚ । 17) अ॒ग्नि-श्शर्ध॒(ग्म्॒) शर्ध॑ म॒ग्नि र॒ग्नि-श्शर्ध᳚म् । 18) शर्ध॑ मनव॒द्य म॑नव॒द्यग्ं शर्ध॒(ग्म्॒) शर्ध॑ मनव॒द्यम् । 19) अ॒न॒व॒द्यं-युँवा॑नं॒-युँवा॑न मनव॒द्य म॑नव॒द्यं-युँवा॑नम् । 20) युवा॑नग्ग् स्वा॒धिय(ग्ग्॑) स्वा॒धियं॒-युँवा॑नं॒-युँवा॑नग्ग् स्वा॒धिय᳚म् । 21) स्वा॒धिय॑-ञ्जनयज् जनय-थ्स्वा॒धिय(ग्ग्॑) स्वा॒धिय॑-ञ्जनयत् । 21) स्वा॒धिय॒मिति॑ स्व - धिय᳚म् । 22) ज॒न॒य॒-थ्सू॒दय॑-थ्सू॒दय॑ज् जनयज् जनय-थ्सू॒दय॑त् । 23) सू॒दय॑च् च च सू॒दय॑-थ्सू॒दय॑च् च । 24) चेति॑ च । 25) स तेजी॑यसा॒ तेजी॑यसा॒ स स तेजी॑यसा । 26) तेजी॑यसा॒ मन॑सा॒ मन॑सा॒ तेजी॑यसा॒ तेजी॑यसा॒ मन॑सा । 27) मन॑सा॒ त्वोत॒ स्त्वोतो॒ मन॑सा॒ मन॑सा॒ त्वोतः॑ । 28) त्वोत॑ उ॒तोत त्वोत॒ स्त्वोत॑ उ॒त । 29) उ॒त शि॑क्ष शिक्षो॒तोत शि॑क्ष । 30) शि॒क्ष॒ स्व॒प॒त्यस्य॑ स्वप॒त्यस्य॑ शिक्ष शिक्ष स्वप॒त्यस्य॑ । 31) स्व॒प॒त्यस्य॑ शि॒क्षो-श्शि॒क्षो-स्स्व॑प॒त्यस्य॑ स्वप॒त्यस्य॑ शि॒क्षोः । 31) स्व॒प॒त्यस्येति॑ सु - अ॒प॒त्यस्य॑ । 32) शि॒क्षोरिति॑ शि॒क्षोः । 33) अग्ने॑ रा॒यो रा॒यो ऽग्ने ऽग्ने॑ रा॒यः । 34) रा॒यो नृत॑मस्य॒ नृत॑मस्य रा॒यो रा॒यो नृत॑मस्य । 35) नृत॑मस्य॒ प्रभू॑तौ॒ प्रभू॑तौ॒ नृत॑मस्य॒ नृत॑मस्य॒ प्रभू॑तौ । 35) नृत॑म॒स्येति॒ नृ - त॒म॒स्य॒ । 36) प्रभू॑तौ भू॒याम॑ भू॒याम॒ प्रभू॑तौ॒ प्रभू॑तौ भू॒याम॑ । 36) प्रभू॑ता॒विति॒ प्र - भू॒तौ॒ । 37) भू॒याम॑ ते ते भू॒याम॑ भू॒याम॑ ते । 38) ते॒ सु॒ष्टु॒तय॑-स्सुष्टु॒तय॑ स्ते ते सुष्टु॒तयः॑ । 39) सु॒ष्टु॒तय॑ श्च च सुष्टु॒तय॑-स्सुष्टु॒तय॑ श्च । 39) सु॒ष्टु॒तय॒ इति॑ सु - स्तु॒तयः॑ । 40) च॒ वस्वो॒ वस्व॑ श्च च॒ वस्वः॑ । 41) वस्व॒ इति॒ वस्वः॑ । 42) अग्ने॒ सह॑न्त॒(ग्म्॒) सह॑न्त॒ मग्ने ऽग्ने॒ सह॑न्तम् । 43) सह॑न्त॒ मा सह॑न्त॒(ग्म्॒) सह॑न्त॒ मा । 44) आ भ॑र भ॒रा भ॑र । 45) भ॒र॒ द्यु॒म्नस्य॑ द्यु॒म्नस्य॑ भर भर द्यु॒म्नस्य॑ । 46) द्यु॒म्नस्य॑ प्रा॒सहा᳚ प्रा॒सहा᳚ द्यु॒म्नस्य॑ द्यु॒म्नस्य॑ प्रा॒सहा᳚ । 47) प्रा॒सहा॑ र॒यिग्ं र॒यि-म्प्रा॒सहा᳚ प्रा॒सहा॑ र॒यिम् । 47) प्रा॒सहेति॑ प्र - सहा᳚ । 48) र॒यिमिति॑ र॒यिम् । 49) विश्वा॒ यो यो विश्वा॒ विश्वा॒ यः । 50) यश्च॑र्ष॒णी श्च॑र्ष॒णी-र्यो यश्च॑र्ष॒णीः । ॥ 29 ॥ (50/58)
1) च॒र्॒ष॒णी र॒भ्य॑भि च॑र्ष॒णी श्च॑र्ष॒णी र॒भि । 2) अ॒भ्या॑सा ऽऽसा ऽभ्या᳚(1॒)भ्या॑सा । 3) आ॒सा वाजे॑षु॒ वाजे᳚ष्वा॒सा ऽऽसा वाजे॑षु । 4) वाजे॑षु सा॒सह॑-थ्सा॒सह॒-द्वाजे॑षु॒ वाजे॑षु सा॒सह॑त् । 5) सा॒सह॒दिति॑ सा॒सह॑त् । 6) त म॑ग्ने अग्ने॒ त-न्त म॑ग्ने । 7) अ॒ग्ने॒ पृ॒त॒ना॒सह॑-म्पृतना॒सह॑ मग्ने अग्ने पृतना॒सह᳚म् । 8) पृ॒त॒ना॒सह(ग्म्॑) र॒यिग्ं र॒यि-म्पृ॑तना॒सह॑-म्पृतना॒सह(ग्म्॑) र॒यिम् । 8) पृ॒त॒ना॒सह॒मिति॑ पृतना - सह᳚म् । 9) र॒यिग्ं स॑हस्व-स्सहस्वो र॒यिग्ं र॒यिग्ं स॑हस्वः । 10) स॒ह॒स्व॒ आ स॑हस्व-स्सहस्व॒ आ । 11) आ भ॑र भ॒रा भ॑र । 12) भ॒रेति॑ भर । 13) त्वग्ं हि हि त्व-न्त्वग्ं हि । 14) हि स॒त्य-स्स॒त्यो हि हि स॒त्यः । 15) स॒त्यो अद्भु॑तो॒ अद्भु॑त-स्स॒त्य-स्स॒त्यो अद्भु॑तः । 16) अद्भु॑तो दा॒ता दा॒ता ऽद्भु॑तो॒ अद्भु॑तो दा॒ता । 17) दा॒ता वाज॑स्य॒ वाज॑स्य दा॒ता दा॒ता वाज॑स्य । 18) वाज॑स्य॒ गोम॑तो॒ गोम॑तो॒ वाज॑स्य॒ वाज॑स्य॒ गोम॑तः । 19) गोम॑त॒ इति॒ गो - म॒तः॒ । 20) उ॒क्षान्ना॑य व॒शान्ना॑य व॒शान्ना॑ यो॒क्षान्ना॑ यो॒क्षान्ना॑य व॒शान्ना॑य । 20) उ॒क्षान्ना॒येत्यु॒क्ष - अ॒न्ना॒य॒ । 21) व॒शान्ना॑य॒ सोम॑पृष्ठाय॒ सोम॑पृष्ठाय व॒शान्ना॑य व॒शान्ना॑य॒ सोम॑पृष्ठाय । 21) व॒शान्ना॒येति॑ व॒शा - अ॒न्ना॒य॒ । 22) सोम॑पृष्ठाय वे॒धसे॑ वे॒धसे॒ सोम॑पृष्ठाय॒ सोम॑पृष्ठाय वे॒धसे᳚ । 22) सोम॑पृष्ठा॒येति॒ सोम॑ - पृ॒ष्ठा॒य॒ । 23) वे॒धस॒ इति॑ वे॒धसे᳚ । 24) स्तोमै᳚-र्विधेम विधेम॒ स्तोमै॒-स्स्तोमै᳚-र्विधेम । 25) वि॒धे॒मा॒ग्नये॑ अ॒ग्नये॑ विधेम विधेमा॒ग्नये᳚ । 26) अ॒ग्नय॒ इत्य॒ग्नये᳚ । 27) व॒द्मा हि हि व॒द्मा व॒द्मा हि । 28) हि सू॑नो सूनो॒ हि हि सू॑नो । 29) सू॒नो॒ अस्यसि॑ सूनो सूनो॒ असि॑ । 29) सू॒नो॒ इति॑ सूनो । 30) अस्य॑द्म॒सद्वा᳚ ऽद्म॒सद्वा ऽस्य स्य॑द्म॒सद्वा᳚ । 31) अ॒द्म॒सद्वा॑ च॒क्रे च॒क्रे अ॑द्म॒सद्वा᳚ ऽद्म॒सद्वा॑ च॒क्रे । 31) अ॒द्म॒सद्वेत्य॑द्म - सद्वा᳚ । 32) च॒क्रे अ॒ग्नि र॒ग्नि श्च॒क्रे च॒क्रे अ॒ग्निः । 33) अ॒ग्नि-र्ज॒नुषा॑ ज॒नुषा॒ ऽग्नि र॒ग्नि-र्ज॒नुषा᳚ । 34) ज॒नुषा ऽज्माज्म॑ ज॒नुषा॑ ज॒नुषा ऽज्म॑ । 35) अज्मान्न॒ मन्न॒ मज्मा ज्मान्न᳚म् । 36) अन्न॒मित्यन्न᳚म् । 37) स त्व-न्त्वग्ं स स त्वम् । 38) त्व-न्नो॑ न॒स्त्व-न्त्व-न्नः॑ । 39) न॒ ऊ॒र्ज॒स॒न॒ ऊ॒र्ज॒स॒ने॒ नो॒ न॒ ऊ॒र्ज॒स॒ने॒ । 40) ऊ॒र्ज॒स॒न॒ ऊर्ज॒ मूर्ज॑ मूर्जसन ऊर्जसन॒ ऊर्ज᳚म् । 40) ऊ॒र्ज॒स॒न॒ इत्यू᳚र्ज - स॒ने॒ । 41) ऊर्ज॑-न्धा धा॒ ऊर्ज॒ मूर्ज॑-न्धाः । 42) धा॒ राजा॒ राजा॑ धा धा॒ राजा᳚ । 43) राजे॑वे व॒ राजा॒ राजे॑व । 44) इ॒व॒ जे॒-र्जे॒रि॒वे॒ व॒ जेः॒ । 45) जे॒र॒वृ॒के॑ ऽवृ॒के जे᳚-र्जेरवृ॒के । 46) अ॒वृ॒के क्षे॑षि क्षेष्यवृ॒के॑ ऽवृ॒के क्षे॑षि । 47) क्षे॒ष्य॒न्त र॒न्तः, क्षे॑षि क्षेष्य॒न्तः । 48) अ॒न्तरित्य॒न्तः । 49) अग्न॒ आयू॒(ग्ग्॒) ष्यायू॒(ग्ग्॒)ष्यग्ने ऽग्न॒ आयू(ग्म्॑)षि । 50) आयू(ग्म्॑)षि पवसे पवस॒ आयू॒(ग्ग्॒) ष्यायू(ग्म्॑)षि पवसे । ॥ 30 ॥ (50/57)
1) प॒व॒स॒ आ प॑वसे पवस॒ आ । 2) आ सु॑व सु॒वा सु॑व । 3) सु॒वोर्ज॒ मूर्ज(ग्म्॑) सुव सु॒वोर्ज᳚म् । 4) ऊर्ज॒ मिष॒ मिष॒ मूर्ज॒ मूर्ज॒ मिष᳚म् । 5) इष॑-ञ्च॒ चे ष॒ मिष॑-ञ्च । 6) च॒ नो॒ न॒श्च॒ च॒ नः॒ । 7) न॒ इति॑ नः । 8) आ॒रे बा॑धस्व बाधस्वा॒र आ॒रे बा॑धस्व । 9) बा॒ध॒स्व॒ दु॒च्छुना᳚-न्दु॒च्छुना᳚-म्बाधस्व बाधस्व दु॒च्छुना᳚म् । 10) दु॒च्छुना॒मिति॑ दु॒च्छुना᳚म् । 11) अग्ने॒ पव॑स्व॒ पव॒स्वाग्ने ऽग्ने॒ पव॑स्व । 12) पव॑स्व॒ स्वपा॒-स्स्वपाः॒ पव॑स्व॒ पव॑स्व॒ स्वपाः᳚ । 13) स्वपा॑ अ॒स्मे अ॒स्मे स्वपा॒-स्स्वपा॑ अ॒स्मे । 13) स्वपा॒ इति॑ सु - अपाः᳚ । 14) अ॒स्मे वर्चो॒ वर्चो॑ अ॒स्मे अ॒स्मे वर्चः॑ । 14) अ॒स्मे इत्य॒स्मे । 15) वर्च॑-स्सु॒वीर्य(ग्म्॑) सु॒वीर्यं॒-वँर्चो॒ वर्च॑-स्सु॒वीर्य᳚म् । 16) सु॒वीर्य॒मिति॑ सु - वीर्य᳚म् । 17) दध॒-त्पोष॒-म्पोष॒-न्दध॒-द्दध॒-त्पोष᳚म् । 18) पोष(ग्म्॑) र॒यिग्ं र॒यि-म्पोष॒-म्पोष(ग्म्॑) र॒यिम् । 19) र॒यि-म्मयि॒ मयि॑ र॒यिग्ं र॒यि-म्मयि॑ । 20) मयीति॒ मयि॑ । 21) अग्ने॑ पावक पाव॒काग्ने ऽग्ने॑ पावक । 22) पा॒व॒क॒ रो॒चिषा॑ रो॒चिषा॑ पावक पावक रो॒चिषा᳚ । 23) रो॒चिषा॑ म॒न्द्रया॑ म॒न्द्रया॑ रो॒चिषा॑ रो॒चिषा॑ म॒न्द्रया᳚ । 24) म॒न्द्रया॑ देव देव म॒न्द्रया॑ म॒न्द्रया॑ देव । 25) दे॒व॒ जि॒ह्वया॑ जि॒ह्वया॑ देव देव जि॒ह्वया᳚ । 26) जि॒ह्वयेति॑ जि॒ह्वया᳚ । 27) आ दे॒वा-न्दे॒वा ना दे॒वान् । 28) दे॒वान्. व॑क्षि वक्षि दे॒वा-न्दे॒वान्. व॑क्षि । 29) व॒क्षि॒ यक्षि॒ यक्षि॑ वक्षि वक्षि॒ यक्षि॑ । 30) यक्षि॑ च च॒ यक्षि॒ यक्षि॑ च । 31) चेति॑ च । 32) स नो॑ न॒-स्स स नः॑ । 33) नः॒ पा॒व॒क॒ पा॒व॒क॒ नो॒ नः॒ पा॒व॒क॒ । 34) पा॒व॒क॒ दी॒दि॒वो॒ दी॒दि॒वः॒ पा॒व॒क॒ पा॒व॒क॒ दी॒दि॒वः॒ । 35) दी॒दि॒वो ऽग्ने ऽग्ने॑ दीदिवो दीदि॒वो ऽग्ने᳚ । 36) अग्ने॑ दे॒वा-न्दे॒वाग्ं अग्ने ऽग्ने॑ दे॒वान् । 37) दे॒वाग्ं इ॒हे ह दे॒वा-न्दे॒वाग्ं इ॒ह । 38) इ॒हेहे हा । 39) आ व॑ह व॒हा व॑ह । 40) व॒हेति॑ वह । 41) उप॑ य॒ज्ञं-यँ॒ज्ञ मुपोप॑ य॒ज्ञम् । 42) य॒ज्ञग्ं ह॒विर्-ह॒वि-र्य॒ज्ञं-यँ॒ज्ञग्ं ह॒विः । 43) ह॒विश्च॑ च ह॒विर्-ह॒विश्च॑ । 44) च॒ नो॒ न॒श्च॒ च॒ नः॒ । 45) न॒ इति॑ नः । 46) अ॒ग्नि-श्शुचि॑व्रततम॒-श्शुचि॑व्रततमो॒ ऽग्नि र॒ग्नि-श्शुचि॑व्रततमः । 47) शुचि॑व्रततम॒-श्शुचि॒-श्शुचि॒-श्शुचि॑व्रततम॒-श्शुचि॑व्रततम॒-श्शुचिः॑ । 47) शुचि॑व्रततम॒ इति॒ शुचि॑व्रत - त॒मः॒ । 48) शुचि॒-र्विप्रो॒ विप्र॒-श्शुचि॒-श्शुचि॒-र्विप्रः॑ । 49) विप्र॒-श्शुचि॒-श्शुचि॒-र्विप्रो॒ विप्र॒-श्शुचिः॑ । 50) शुचिः॑ क॒विः क॒वि-श्शुचि॒-श्शुचिः॑ क॒विः । 51) क॒विरिति॑ क॒विः । 52) शुची॑ रोचते रोचते॒ शुचि॒-श्शुची॑ रोचते । 53) रो॒च॒त॒ आहु॑त॒ आहु॑तो रोचते रोचत॒ आहु॑तः । 54) आहु॑त॒ इत्या - हु॒तः॒ । 55) उद॑ग्ने अग्न॒ उदुद॑ग्ने । 56) अ॒ग्ने॒ शुच॑य॒-श्शुच॑यो अग्ने अग्ने॒ शुच॑यः । 57) शुच॑य॒ स्तव॒ तव॒ शुच॑य॒-श्शुच॑य॒ स्तव॑ । 58) तव॑ शु॒क्रा-श्शु॒क्रा स्तव॒ तव॑ शु॒क्राः । 59) शु॒क्रा भ्राज॑न्तो॒ भ्राज॑न्त-श्शु॒क्रा-श्शु॒क्रा भ्राज॑न्तः । 60) भ्राज॑न्त ईरत ईरते॒ भ्राज॑न्तो॒ भ्राज॑न्त ईरते । 61) ई॒र॒त॒ इती॑रते । 62) तव॒ ज्योती(ग्म्॑)षि॒ ज्योती(ग्म्॑)षि॒ तव॒ तव॒ ज्योती(ग्म्॑)षि । 63) ज्योती(ग्ग्॑)ष्य॒र्चयो॑ अ॒र्चयो॒ ज्योती(ग्म्॑)षि॒ ज्योती(ग्ग्॑)ष्य॒र्चयः॑ । 64) अ॒र्चय॒ इत्य॒र्चयः॑ । ॥ 31 ॥ (64, 67)
॥ अ. 14 ॥
Browse Related Categories: