Kanda 1 - Krishna Yajurveda Taittiriya Samhita · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
1) आ द॑दे दद॒ आ द॑दे । 2) द॒दे॒ ग्रावा॒ ग्रावा॑ ददे ददे॒ ग्रावा᳚ । 3) ग्रावा᳚ ऽस्यसि॒ ग्रावा॒ ग्रावा॑ ऽसि । 4) अ॒स्य॒ द्ध्व॒र॒कृ द॑द्ध्वर॒कृ द॑स्य स्यद्ध्वर॒कृत् । 5) अ॒द्ध्व॒र॒कृ-द्दे॒वेभ्यो॑ दे॒वेभ्यो॑ अद्ध्वर॒कृद॑ द्ध्वर॒कृ-द्दे॒वेभ्यः॑ । 5) अ॒द्ध्व॒र॒कृदित्य॑द्ध्वर - कृत् । 6) दे॒वेभ्यो॑ गम्भी॒र-ङ्ग॑म्भी॒र-न्दे॒वेभ्यो॑ दे॒वेभ्यो॑ गम्भी॒रम् । 7) ग॒म्भी॒र मि॒म मि॒म-ङ्ग॑म्भी॒र-ङ्ग॑म्भी॒र मि॒मम् । 8) इ॒म म॑द्ध्व॒र म॑द्ध्व॒र मि॒म मि॒म म॑द्ध्व॒रम् । 9) अ॒द्ध्व॒र-ङ्कृ॑धि कृध्यद्ध्व॒र म॑द्ध्व॒र-ङ्कृ॑धि । 10) कृ॒ध्यु॒त्त॒ मेनो᳚त्त॒मेन॑ कृधि कृध्युत्त॒मेन॑ । 11) उ॒त्त॒मेन॑ प॒विना॑ प॒वि नो᳚त्त॒मेनो᳚त्त॒मेन॑ प॒विना᳚ । 11) उ॒त्त॒मेनेत्यु॑त् - त॒मेन॑ । 12) प॒विनेन्द्रा॒ये न्द्रा॑य प॒विना॑ प॒विनेन्द्रा॑य । 13) इन्द्रा॑य॒ सोम॒(ग्म्॒) सोम॒ मिन्द्रा॒ये न्द्रा॑य॒ सोम᳚म् । 14) सोम॒(ग्म्॒) सुषु॑त॒(ग्म्॒) सुषु॑त॒(ग्म्॒) सोम॒(ग्म्॒) सोम॒(ग्म्॒) सुषु॑तम् । 15) सुषु॑त॒-म्मधु॑मन्त॒-म्मधु॑मन्त॒(ग्म्॒) सुषु॑त॒(ग्म्॒) सुषु॑त॒-म्मधु॑मन्तम् । 15) सुषु॑त॒मिति॒ सु - सु॒त॒म् । 16) मधु॑मन्त॒-म्पय॑स्वन्त॒-म्पय॑स्वन्त॒-म्मधु॑मन्त॒-म्मधु॑मन्त॒-म्पय॑स्वन्तम् । 16) मधु॑मन्त॒मिति॒ मधु॑ - म॒न्त॒म् । 17) पय॑स्वन्तं-वृँष्टि॒वनिं॑-वृँष्टि॒वनि॒-म्पय॑स्वन्त॒-म्पय॑स्वन्तं-वृँष्टि॒वनि᳚म् । 18) वृ॒ष्टि॒वनि॒ मिन्द्रा॒ये न्द्रा॑य वृष्टि॒वनिं॑-वृँष्टि॒वनि॒ मिन्द्रा॑य । 18) वृ॒ष्टि॒वनि॒मिति॑ वृष्टि - वनि᳚म् । 19) इन्द्रा॑य त्वा॒ त्वेन्द्रा॒ये न्द्रा॑य त्वा । 20) त्वा॒ वृ॒त्र॒घ्ने वृ॑त्र॒घ्ने त्वा᳚ त्वा वृत्र॒घ्ने । 21) वृ॒त्र॒घ्न इन्द्रा॒ये न्द्रा॑य वृत्र॒घ्ने वृ॑त्र॒घ्न इन्द्रा॑य । 21) वृ॒त्र॒घ्न इति॑ वृत्र - घ्ने । 22) इन्द्रा॑य त्वा॒ त्वेन्द्रा॒ये न्द्रा॑य त्वा । 23) त्वा॒ वृ॒त्र॒तुरे॑ वृत्र॒तुरे᳚ त्वा त्वा वृत्र॒तुरे᳚ । 24) वृ॒त्र॒तुर॒ इन्द्रा॒ये न्द्रा॑य वृत्र॒तुरे॑ वृत्र॒तुर॒ इन्द्रा॑य । 24) वृ॒त्र॒तुर॒ इति॑ वृत्र - तुरे᳚ । 25) इन्द्रा॑य त्वा॒ त्वेन्द्रा॒ये न्द्रा॑य त्वा । 26) त्वा॒ ऽभि॒मा॒ति॒घ्ने॑ ऽभिमाति॒घ्ने त्वा᳚ त्वा ऽभिमाति॒घ्ने । 27) अ॒भि॒मा॒ति॒घ्न इन्द्रा॒ये न्द्रा॑याभिमाति॒घ्ने॑ ऽभिमाति॒घ्न इन्द्रा॑य । 27) अ॒भि॒मा॒ति॒घ्न इत्य॑भिमाति - घ्ने । 28) इन्द्रा॑य त्वा॒ त्वेन्द्रा॒ये न्द्रा॑य त्वा । 29) त्वा॒ ऽऽदि॒त्यव॑त आदि॒त्यव॑ते त्वा त्वा ऽऽदि॒त्यव॑ते । 30) आ॒दि॒त्यव॑त॒ इन्द्रा॒ये न्द्रा॑यादि॒त्यव॑त आदि॒त्यव॑त॒ इन्द्रा॑य । 30) आ॒दि॒त्यव॑त॒ इत्या॑दि॒त्य - व॒ते॒ । 31) इन्द्रा॑य त्वा॒ त्वेन्द्रा॒ये न्द्रा॑य त्वा । 32) त्वा॒ वि॒श्वदे᳚व्यावते वि॒श्वदे᳚व्यावते त्वा त्वा वि॒श्वदे᳚व्यावते । 33) वि॒श्वदे᳚व्यावते श्वा॒त्रा-श्श्वा॒त्रा वि॒श्वदे᳚व्यावते वि॒श्वदे᳚व्यावते श्वा॒त्राः । 33) वि॒श्वदे᳚व्यावत॒ इति॑ वि॒श्वदे᳚व्य - व॒ते॒ । 34) श्वा॒त्रा-स्स्थ॑ स्थ श्वा॒त्रा-श्श्वा॒त्रा-स्स्थ॑ । 35) स्थ॒ वृ॒त्र॒तुरो॑ वृत्र॒तुर॑-स्स्थ स्थ वृत्र॒तुरः॑ । 36) वृ॒त्र॒तुरो॒ राधो॑गूर्ता॒ राधो॑गूर्ता वृत्र॒तुरो॑ वृत्र॒तुरो॒ राधो॑गूर्ताः । 36) वृ॒त्र॒तुर॒ इति॑ वृत्र - तुरः॑ । 37) राधो॑गूर्ता अ॒मृत॑स्या॒मृत॑स्य॒ राधो॑गूर्ता॒ राधो॑गूर्ता अ॒मृत॑स्य । 37) राधो॑गूर्ता॒ इति॒ राधः॑ - गू॒र्ताः॒ । 38) अ॒मृत॑स्य॒ पत्नीः॒ पत्नी॑ र॒मृत॑स्या॒मृत॑स्य॒ पत्नीः᳚ । 39) पत्नी॒ स्ता स्ताः पत्नीः॒ पत्नी॒ स्ताः । 40) ता दे॑वी-र्देवी॒ स्ता स्ता दे॑वीः । 41) दे॒वी॒-र्दे॒व॒त्रा दे॑व॒त्रा दे॑वी-र्देवी-र्देव॒त्रा । 42) दे॒व॒त्रेम मि॒म-न्दे॑व॒त्रा दे॑व॒त्रेमम् । 42) दे॒व॒त्रेति॑ देव - त्रा । 43) इ॒मं-यँ॒ज्ञं-यँ॒ज्ञ मि॒म मि॒मं-यँ॒ज्ञम् । 44) य॒ज्ञ-न्ध॑त्त धत्त य॒ज्ञं-यँ॒ज्ञ-न्ध॑त्त । 45) ध॒त्तोप॑हूता॒ उप॑हूता धत्त ध॒त्तोप॑हूताः । 46) उप॑हूता॒-स्सोम॑स्य॒ सोम॒स्योप॑हूता॒ उप॑हूता॒-स्सोम॑स्य । 46) उप॑हूता॒ इत्युप॑ - हू॒ताः॒ । 47) सोम॑स्य पिबत पिबत॒ सोम॑स्य॒ सोम॑स्य पिबत । 48) पि॒ब॒तोप॑हूत॒ उप॑हूतः पिबत पिब॒तोप॑हूतः । 49) उप॑हूतो यु॒ष्माकं॑-युँ॒ष्माक॒ मुप॑हूत॒ उप॑हूतो यु॒ष्माक᳚म् । 49) उप॑हूत॒ इत्युप॑ - हू॒तः॒ । 50) यु॒ष्माक॒(ग्म्॒) सोम॒-स्सोमो॑ यु॒ष्माकं॑-युँ॒ष्माक॒(ग्म्॒) सोमः॑ । ॥ 1 ॥ (50/65)
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
1) सोमः॑ पिबतु पिबतु॒ सोम॒-स्सोमः॑ पिबतु । 2) पि॒ब॒तु॒ य-द्य-त्पि॑बतु पिबतु॒ यत् । 3) य-त्ते॑ ते॒ य-द्य-त्ते᳚ । 4) ते॒ सो॒म॒ सो॒म॒ ते॒ ते॒ सो॒म॒ । 5) सो॒म॒ दि॒वि दि॒वि सो॑म सोम दि॒वि । 6) दि॒वि ज्योति॒-र्ज्योति॑-र्दि॒वि दि॒वि ज्योतिः॑ । 7) ज्योति॒-र्य-द्यज् ज्योति॒-र्ज्योति॒-र्यत् । 8) य-त्पृ॑थि॒व्या-म्पृ॑थि॒व्यां-यँ-द्य-त्पृ॑थि॒व्याम् । 9) पृ॒थि॒व्यां-यँ-द्य-त्पृ॑थि॒व्या-म्पृ॑थि॒व्यां-यँत् । 10) यदु॒रा वु॒रौ य-द्यदु॒रौ । 11) उ॒रा व॒न्तरि॑क्षे॒ ऽन्तरि॑क्ष उ॒रा वु॒रा व॒न्तरि॑क्षे । 12) अ॒न्तरि॑क्षे॒ तेन॒ तेना॒न्तरि॑क्षे॒ ऽन्तरि॑क्षे॒ तेन॑ । 13) तेना॒स्मा अ॒स्मै तेन॒ तेना॒स्मै । 14) अ॒स्मै यज॑मानाय॒ यज॑मानाया॒स्मा अ॒स्मै यज॑मानाय । 15) यज॑मानायो॒रू॑रु यज॑मानाय॒ यज॑मानायो॒रु । 16) उ॒रु रा॒या रा॒योरू॑रु रा॒या । 17) रा॒या कृ॑धि कृधि रा॒या रा॒या कृ॑धि । 18) कृ॒ध्यध्यधि॑ कृधि कृ॒ध्यधि॑ । 19) अधि॑ दा॒त्रे दा॒त्रे ऽध्यधि॑ दा॒त्रे । 20) दा॒त्रे वो॑चो वोचो दा॒त्रे दा॒त्रे वो॑चः । 21) वो॒चो॒ धिष॑णे॒ धिष॑णे वोचो वोचो॒ धिष॑णे । 22) धिष॑णे वी॒डू वी॒डू धिष॑णे॒ धिष॑णे वी॒डू । 22) धिष॑णे॒ इति॒ धिष॑णे । 23) वी॒डू स॒ती स॒ती वी॒डू वी॒डू स॒ती । 23) वी॒डू इति॑ वी॒डू । 24) स॒ती वी॑डयेथां-वीँडयेथाग्ं स॒ती स॒ती वी॑डयेथाम् । 24) स॒ती इति॑ स॒ती । 25) वी॒ड॒ये॒था॒ मूर्ज॒ मूर्जं॑-वीँडयेथां-वीँडयेथा॒ मूर्ज᳚म् । 26) ऊर्ज॑-न्दधाथा-न्दधाथा॒ मूर्ज॒ मूर्ज॑-न्दधाथाम् । 27) द॒धा॒था॒ मूर्ज॒ मूर्ज॑-न्दधाथा-न्दधाथा॒ मूर्ज᳚म् । 28) ऊर्ज॑-म्मे म॒ ऊर्ज॒ मूर्ज॑-म्मे । 29) मे॒ ध॒त्त॒-न्ध॒त्त॒-म्मे॒ मे॒ ध॒त्त॒म् । 30) ध॒त्त॒-म्मा मा ध॑त्त-न्धत्त॒-म्मा । 31) मा वां᳚-वाँ॒-म्मा मा वा᳚म् । 32) वा॒(ग्म्॒) हि॒(ग्म्॒)सि॒ष॒(ग्म्॒) हि॒(ग्म्॒)सि॒षं॒-वाँं॒-वाँ॒(ग्म्॒) हि॒(ग्म्॒)सि॒ष॒म् । 33) हि॒(ग्म्॒)सि॒ष॒-म्मा मा हि(ग्म्॑)सिषग्ं हिग्ंसिष॒-म्मा । 34) मा मा॑ मा॒ मा मा मा᳚ । 35) मा॒ हि॒(ग्म्॒)सि॒ष्ट॒(ग्म्॒) हि॒(ग्म्॒)सि॒ष्ट॒-म्मा॒ मा॒ हि॒(ग्म्॒)सि॒ष्ट॒म् । 36) हि॒(ग्म्॒)सि॒ष्ट॒-म्प्रा-क्प्राघि(ग्म्॑)सिष्टग्ं हिग्ंसिष्ट॒-म्प्राक् । 37) प्रागपा॒गपा॒-क्प्रा-क्प्रागपा᳚क् । 38) अपा॒ गुद॒ गुद॒ गपा॒ गपा॒ गुद॑क् । 39) उद॑ गध॒रा ग॑ध॒रा गुद॒ गुद॑ गध॒राक् । 40) अ॒ध॒रा-क्तास्ता अ॑ध॒रा ग॑ध॒रा-क्ताः । 41) ता स्त्वा᳚ त्वा॒ ता स्ता स्त्वा᳚ । 42) त्वा॒ दिशो॒ दिश॑ स्त्वा त्वा॒ दिशः॑ । 43) दिश॒ आ दिशो॒ दिश॒ आ । 44) आ धा॑वन्तु धाव॒न्त्वा धा॑वन्तु । 45) धा॒व॒न्त्वम्बाम्ब॑ धावन्तु धाव॒न्त्वम्ब॑ । 46) अम्ब॒ नि न्यम्बाम्ब॒ नि । 47) नि ष्व॑र स्वर॒ नि नि ष्व॑र । 48) स्व॒रेति॑ स्वर । 49) य-त्ते॑ ते॒ य-द्य-त्ते᳚ । 50) ते॒ सो॒म॒ सो॒म॒ ते॒ ते॒ सो॒म॒ । 51) सो॒मादा᳚भ्य॒ मदा᳚भ्यग्ं सोम सो॒मादा᳚भ्यम् । 52) अदा᳚भ्य॒ न्नाम॒ नामादा᳚भ्य॒ मदा᳚भ्य॒ न्नाम॑ । 53) नाम॒ जागृ॑वि॒ जागृ॑वि॒ नाम॒ नाम॒ जागृ॑वि । 54) जागृ॑वि॒ तस्मै॒ तस्मै॒ जागृ॑वि॒ जागृ॑वि॒ तस्मै᳚ । 55) तस्मै॑ ते ते॒ तस्मै॒ तस्मै॑ ते । 56) ते॒ सो॒म॒ सो॒म॒ ते॒ ते॒ सो॒म॒ । 57) सो॒म॒ सोमा॑य॒ सोमा॑य सोम सोम॒ सोमा॑य । 58) सोमा॑य॒ स्वाहा॒ स्वाहा॒ सोमा॑य॒ सोमा॑य॒ स्वाहा᳚ । 59) स्वाहेति॒ स्वाहा᳚ । ॥ 2 ॥ (59/62) ॥ अ. 1 ॥
1) वा॒च स्पत॑ये॒ पत॑ये वा॒चो वा॒च स्पत॑ये । 2) पत॑ये पवस्व पवस्व॒ पत॑ये॒ पत॑ये पवस्व । 3) प॒व॒स्व॒ वा॒जि॒न्॒. वा॒जि॒-न्प॒व॒स्व॒ प॒व॒स्व॒ वा॒जि॒न्न् । 4) वा॒जि॒न् वृषा॒ वृषा॑ वाजिन्. वाजि॒न् वृषा᳚ । 5) वृषा॒ वृष्णो॒ वृष्णो॒ वृषा॒ वृषा॒ वृष्णः॑ । 6) वृष्णो॑ अ॒(ग्म्॒)शुभ्या॑ म॒(ग्म्॒)शुभ्यां॒-वृँष्णो॒ वृष्णो॑ अ॒(ग्म्॒)शुभ्या᳚म् । 7) अ॒(ग्म्॒)शुभ्या॒-ङ्गभ॑स्तिपूतो॒ गभ॑स्तिपूतो॒(ग्म्॒) शुभ्या॑ म॒(ग्म्॒)शुभ्या॒-ङ्गभ॑स्तिपूतः । 7) अ॒(ग्म्॒)शुभ्या॒मित्य॒(ग्म्॒)शु - भ्या॒म् । 8) गभ॑स्तिपूतो दे॒वो दे॒वो गभ॑स्तिपूतो॒ गभ॑स्तिपूतो दे॒वः । 8) गभ॑स्तिपूत॒ इति॒ गभ॑स्ति - पू॒तः॒ । 9) दे॒वो दे॒वाना᳚-न्दे॒वाना᳚-न्दे॒वो दे॒वो दे॒वाना᳚म् । 10) दे॒वाना᳚-म्प॒वित्र॑-म्प॒वित्र॑-न्दे॒वाना᳚-न्दे॒वाना᳚-म्प॒वित्र᳚म् । 11) प॒वित्र॑ मस्यसि प॒वित्र॑-म्प॒वित्र॑ मसि । 12) अ॒सि॒ येषां॒-येँषा॑ मस्यसि॒ येषा᳚म् । 13) येषा᳚-म्भा॒गो भा॒गो येषां॒-येँषा᳚-म्भा॒गः । 14) भा॒गो ऽस्यसि॑ भा॒गो भा॒गो ऽसि॑ । 15) असि॒ तेभ्य॒ स्तेभ्यो ऽस्यसि॒ तेभ्यः॑ । 16) तेभ्य॑ स्त्वा त्वा॒ तेभ्य॒ स्तेभ्य॑ स्त्वा । 17) त्वा॒ स्वाङ्कृ॑त॒-स्स्वाङ्कृ॑त स्त्वा त्वा॒ स्वाङ्कृ॑तः । 18) स्वाङ्कृ॑तो ऽस्यसि॒ स्वाङ्कृ॑त॒-स्स्वाङ्कृ॑तो ऽसि । 19) अ॒सि॒ मधु॑मती॒-र्मधु॑मती रस्यसि॒ मधु॑मतीः । 20) मधु॑मती-र्नो नो॒ मधु॑मती॒-र्मधु॑मती-र्नः । 20) मधु॑मती॒रिति॒ मधु॑ - म॒तीः॒ । 21) न॒ इष॒ इषो॑ नो न॒ इषः॑ । 22) इष॑स्कृधि कृ॒धीष॒ इष॑स्कृधि । 23) कृ॒धि॒ विश्वे᳚भ्यो॒ विश्वे᳚भ्य स्कृधि कृधि॒ विश्वे᳚भ्यः । 24) विश्वे᳚भ्य स्त्वा त्वा॒ विश्वे᳚भ्यो॒ विश्वे᳚भ्य स्त्वा । 25) त्वे॒न्द्रि॒येभ्य॑ इन्द्रि॒येभ्य॑ स्त्वा त्वेन्द्रि॒येभ्यः॑ । 26) इ॒न्द्रि॒येभ्यो॑ दि॒व्येभ्यो॑ दि॒व्येभ्य॑ इन्द्रि॒येभ्य॑ इन्द्रि॒येभ्यो॑ दि॒व्येभ्यः॑ । 27) दि॒व्येभ्यः॒ पार्थि॑वेभ्यः॒ पार्थि॑वेभ्यो दि॒व्येभ्यो॑ दि॒व्येभ्यः॒ पार्थि॑वेभ्यः । 28) पार्थि॑वेभ्यो॒ मनो॒ मनः॒ पार्थि॑वेभ्यः॒ पार्थि॑वेभ्यो॒ मनः॑ । 29) मन॑ स्त्वा त्वा॒ मनो॒ मन॑ स्त्वा । 30) त्वा॒ ऽष्ट्व॒ष्टु॒ त्वा॒ त्वा॒ ऽष्टु॒ । 31) अ॒ष्टू॒रू᳚(1॒)र्व॑ष्ट्वष्टू॑रु । 32) उ॒र्व॑न्तरि॑क्ष म॒न्तरि॑क्ष मु॒रू᳚(1॒)र्व॑न्तरि॑क्षम् । 33) अ॒न्तरि॑क्ष॒ मन्वन्व॒न्तरि॑क्ष म॒न्तरि॑क्ष॒ मनु॑ । 34) अन्वि॑ही॒ह्यन्वन्वि॑हि । 35) इ॒हि॒ स्वाहा॒ स्वाहे॑हीहि॒ स्वाहा᳚ । 36) स्वाहा᳚ त्वा त्वा॒ स्वाहा॒ स्वाहा᳚ त्वा । 37) त्वा॒ सु॒भ॒व॒-स्सु॒भ॒व॒ स्त्वा॒ त्वा॒ सु॒भ॒वः॒ । 38) सु॒भ॒व॒-स्सूर्या॑य॒ सूर्या॑य सुभव-स्सुभव॒-स्सूर्या॑य । 38) सु॒भ॒व॒ इति॑ सु - भ॒वः॒ । 39) सूर्या॑य दे॒वेभ्यो॑ दे॒वेभ्य॒-स्सूर्या॑य॒ सूर्या॑य दे॒वेभ्यः॑ । 40) दे॒वेभ्य॑ स्त्वा त्वा दे॒वेभ्यो॑ दे॒वेभ्य॑ स्त्वा । 41) त्वा॒ म॒री॒चि॒पेभ्यो॑ मरीचि॒पेभ्य॑ स्त्वा त्वा मरीचि॒पेभ्यः॑ । 42) म॒री॒चि॒पेभ्य॑ ए॒ष ए॒ष म॑रीचि॒पेभ्यो॑ मरीचि॒पेभ्य॑ ए॒षः । 42) म॒री॒चि॒पेभ्य॒ इति॑ मरीचि - पेभ्यः॑ । 43) ए॒ष ते॑ त ए॒ष ए॒ष ते᳚ । 44) ते॒ योनि॒-र्योनि॑ स्ते ते॒ योनिः॑ । 45) योनिः॑ प्रा॒णाय॑ प्रा॒णाय॒ योनि॒-र्योनिः॑ प्रा॒णाय॑ । 46) प्रा॒णाय॑ त्वा त्वा प्रा॒णाय॑ प्रा॒णाय॑ त्वा । 46) प्रा॒णायेति॑ प्र - अ॒नाय॑ । 47) त्वेति॑ त्वा । ॥ 3 ॥ (47/53) ॥ अ. 2 ॥
1) उ॒प॒या॒मगृ॑हीतो ऽस्यस्युपया॒मगृ॑हीत उपया॒मगृ॑हीतो ऽसि । 1) उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । 2) अ॒स्य॒न्त र॒न्त र॑स्यस्य॒न्तः । 3) अ॒न्त-र्य॑च्छ यच्छा॒न्त र॒न्त-र्य॑च्छ । 4) य॒च्छ॒ म॒घ॒व॒-न्म॒घ॒व॒न्॒. य॒च्छ॒ य॒च्छ॒ म॒घ॒व॒न्न् । 5) म॒घ॒व॒-न्पा॒हि पा॒हि म॑घव-न्मघव-न्पा॒हि । 5) म॒घ॒व॒न्निति॑ मघ - व॒न्न् । 6) पा॒हि सोम॒(ग्म्॒) सोम॑-म्पा॒हि पा॒हि सोम᳚म् । 7) सोम॑ मुरु॒ष्योरु॒ष्य सोम॒(ग्म्॒) सोम॑ मुरु॒ष्य । 8) उ॒रु॒ष्य रायो॒ राय॑ उरु॒ष्योरु॒ष्य रायः॑ । 9) राय॒-स्सग्ं सग्ं रायो॒ राय॒-स्सम् । 10) स मिष॒ इष॒-स्सग्ं स मिषः॑ । 11) इषो॑ यजस्व यज॒स्वेष॒ इषो॑ यजस्व । 12) य॒ज॒स्वा॒न्त र॒न्त-र्य॑जस्व यजस्वा॒न्तः । 13) अ॒न्त स्ते॑ ते॒ ऽन्त र॒न्त स्ते᳚ । 14) ते॒ द॒धा॒मि॒ द॒धा॒मि॒ ते॒ ते॒ द॒धा॒मि॒ । 15) द॒धा॒मि॒ द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी द॑धामि दधामि॒ द्यावा॑पृथि॒वी । 16) द्यावा॑पृथि॒वी अ॒न्त र॒न्त-र्द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी अ॒न्तः । 16) द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी । 17) अ॒न्त रु॒रू᳚(1॒)र्व॑न्त र॒न्त रु॒रु । 18) उ॒र्व॑न्तरि॑क्ष म॒न्तरि॑क्ष मु॒रू᳚(1॒)र्व॑न्तरि॑क्षम् । 19) अ॒न्तरि॑क्षग्ं स॒जोषा᳚-स्स॒जोषा॑ अ॒न्तरि॑क्ष म॒न्तरि॑क्षग्ं स॒जोषाः᳚ । 20) स॒जोषा॑ दे॒वै-र्दे॒वै-स्स॒जोषा᳚-स्स॒जोषा॑ दे॒वैः । 20) स॒जोषा॒ इति॑ स - जोषाः᳚ । 21) दे॒वै रव॑रै॒ रव॑रै-र्दे॒वै-र्दे॒वैरव॑रैः । 22) अव॑रैः॒ परैः॒ परै॒ रव॑रै॒ रव॑रैः॒ परैः᳚ । 23) परै᳚श्च च॒ परैः॒ परै᳚श्च । 24) चा॒न्त॒र्या॒मे᳚ ऽन्तर्या॒मे च॑ चान्तर्या॒मे । 25) अ॒न्त॒र्या॒मे म॑घव-न्मघव-न्नन्तर्या॒मे᳚ ऽन्तर्या॒मे म॑घवन्न् । 25) अ॒न्त॒र्या॒म इत्य॑न्तः - या॒मे । 26) म॒घ॒व॒-न्मा॒द॒य॒स्व॒ मा॒द॒य॒स्व॒ म॒घ॒व॒-न्म॒घ॒व॒-न्मा॒द॒य॒स्व॒ । 26) म॒घ॒व॒न्निति॑ मघ - व॒न्न् । 27) मा॒द॒य॒स्व॒ स्वाङ्कृ॑त॒-स्स्वाङ्कृ॑तो मादयस्व मादयस्व॒ स्वाङ्कृ॑तः । 28) स्वाङ्कृ॑तो ऽस्यसि॒ स्वाङ्कृ॑त॒-स्स्वाङ्कृ॑तो ऽसि । 29) अ॒सि॒ मधु॑मती॒-र्मधु॑मती रस्यसि॒ मधु॑मतीः । 30) मधु॑मती-र्नो नो॒ मधु॑मती॒-र्मधु॑मती-र्नः । 30) मधु॑मती॒रिति॒ मधु॑ - म॒तीः॒ । 31) न॒ इष॒ इषो॑ नो न॒ इषः॑ । 32) इष॑स्कृधि कृ॒धीष॒ इष॑स्कृधि । 33) कृ॒धि॒ विश्वे᳚भ्यो॒ विश्वे᳚भ्यस्कृधि कृधि॒ विश्वे᳚भ्यः । 34) विश्वे᳚भ्य स्त्वा त्वा॒ विश्वे᳚भ्यो॒ विश्वे᳚भ्य स्त्वा । 35) त्वे॒न्द्रि॒येभ्य॑ इन्द्रि॒येभ्य॑ स्त्वा त्वेन्द्रि॒येभ्यः॑ । 36) इ॒न्द्रि॒येभ्यो॑ दि॒व्येभ्यो॑ दि॒व्येभ्य॑ इन्द्रि॒येभ्य॑ इन्द्रि॒येभ्यो॑ दि॒व्येभ्यः॑ । 37) दि॒व्येभ्यः॒ पार्थि॑वेभ्यः॒ पार्थि॑वेभ्यो दि॒व्येभ्यो॑ दि॒व्येभ्यः॒ पार्थि॑वेभ्यः । 38) पार्थि॑वेभ्यो॒ मनो॒ मनः॒ पार्थि॑वेभ्यः॒ पार्थि॑वेभ्यो॒ मनः॑ । 39) मन॑ स्त्वा त्वा॒ मनो॒ मन॑ स्त्वा । 40) त्वा॒ ऽष्ट्व॒ष्टु॒ त्वा॒ त्वा॒ ऽष्टु॒ । 41) अ॒ष्टू॒रू᳚(1॒)र्व॑ष्ट्वष्टू॑रु । 42) उ॒र्व॑न्तरि॑क्ष म॒न्तरि॑क्ष मु॒रू᳚(1॒)र्व॑न्तरि॑क्षम् । 43) अ॒न्तरि॑क्ष॒ मन्वन्व॒न्तरि॑क्ष म॒न्तरि॑क्ष॒ मनु॑ । 44) अन्वि॑ ही॒ह्यन्वन् वि॑हि । 45) इ॒हि॒ स्वाहा॒ स्वाहे॑हीहि॒ स्वाहा᳚ । 46) स्वाहा᳚ त्वा त्वा॒ स्वाहा॒ स्वाहा᳚ त्वा । 47) त्वा॒ सु॒भ॒व॒-स्सु॒भ॒व॒ स्त्वा॒ त्वा॒ सु॒भ॒वः॒ । 48) सु॒भ॒व॒-स्सूर्या॑य॒ सूर्या॑य सुभव-स्सुभव॒-स्सूर्या॑य । 48) सु॒भ॒व॒ इति॑ सु - भ॒वः॒ । 49) सूर्या॑य दे॒वेभ्यो॑ दे॒वेभ्य॒-स्सूर्या॑य॒ सूर्या॑य दे॒वेभ्यः॑ । 50) दे॒वेभ्य॑ स्त्वा त्वा दे॒वेभ्यो॑ दे॒वेभ्य॑ स्त्वा । 51) त्वा॒ म॒री॒चि॒पेभ्यो॑ मरीचि॒पेभ्य॑ स्त्वा त्वा मरीचि॒पेभ्यः॑ । 52) म॒री॒चि॒पेभ्य॑ ए॒ष ए॒ष म॑रीचि॒पेभ्यो॑ मरीचि॒पेभ्य॑ ए॒षः । 52) म॒री॒चि॒पेभ्य॒ इति॑ मरीचि - पेभ्यः॑ । 53) ए॒ष ते॑ त ए॒ष ए॒ष ते᳚ । 54) ते॒ योनि॒-र्योनि॑ स्ते ते॒ योनिः॑ । 55) योनि॑ रपा॒नाया॑पा॒नाय॒ योनि॒-र्योनि॑ रपा॒नाय॑ । 56) अ॒पा॒नाय॑ त्वा त्वा ऽपा॒नाया॑पा॒नाय॑ त्वा । 56) अ॒पा॒नायेत्य॑प - अ॒नाय॑ । 57) त्वेति॑ त्वा । ॥ 4 ॥ (57/67) ॥ अ. 3 ॥
1) आ वा॑यो वायो॒ आ वा॑यो । 2) वा॒यो॒ भू॒ष॒ भू॒ष॒ वा॒यो॒ वा॒यो॒ भू॒ष॒ । 2) वा॒यो॒ इति॑ वायो । 3) भू॒ष॒ शु॒चि॒पा॒-श्शु॒चि॒पा॒ भू॒ष॒ भू॒ष॒ शु॒चि॒पाः॒ । 4) शु॒चि॒पा॒ उपोप॑ शुचिपा-श्शुचिपा॒ उप॑ । 4) शु॒चि॒पा॒ इति॑ शुचि - पाः॒ । 5) उप॑ नो न॒ उपोप॑ नः । 6) न॒-स्स॒हस्र(ग्म्॑) स॒हस्र॑न्नो न-स्स॒हस्र᳚म् । 7) स॒हस्र॑-न्ते ते स॒हस्र(ग्म्॑) स॒हस्र॑-न्ते । 8) ते॒ नि॒युतो॑ नि॒युत॑ स्ते ते नि॒युतः॑ । 9) नि॒युतो॑ विश्ववार विश्ववार नि॒युतो॑ नि॒युतो॑ विश्ववार । 9) नि॒युत॒ इति॑ नि - युतः॑ । 10) वि॒श्व॒वा॒रेति॑ विश्व - वा॒र॒ । 11) उपो॑ ते त॒ उपो॒ उपो॑ ते । 11) उपो॒ इत्युपो᳚ । 12) ते॒ अन्धो ऽन्ध॑ स्ते ते॒ अन्धः॑ । 13) अन्धो॒ मद्य॒-म्मद्य॒ मन्धो ऽन्धो॒ मद्य᳚म् । 14) मद्य॑ मयाम्ययामि॒ मद्य॒-म्मद्य॑ मयामि । 15) अ॒या॒मि॒ यस्य॒ यस्या॑या म्ययामि॒ यस्य॑ । 16) यस्य॑ देव देव॒ यस्य॒ यस्य॑ देव । 17) दे॒व॒ द॒धि॒षे द॑धि॒षे दे॑व देव दधि॒षे । 18) द॒धि॒षे पू᳚र्व॒पेय॑-म्पूर्व॒पेय॑-न्दधि॒षे द॑धि॒षे पू᳚र्व॒पेय᳚म् । 19) पू॒र्व॒पेय॒मिति॑ पूर्व - पेय᳚म् । 20) उ॒प॒या॒मगृ॑हीतो ऽस्यस्युपया॒मगृ॑हीत उपया॒मगृ॑हीतो ऽसि । 20) उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । 21) अ॒सि॒ वा॒यवे॑ वा॒यवे᳚ ऽस्यसि वा॒यवे᳚ । 22) वा॒यवे᳚ त्वा त्वा वा॒यवे॑ वा॒यवे᳚ त्वा । 23) त्वेन्द्र॑वायू॒ इन्द्र॑वायू त्वा॒ त्वेन्द्र॑वायू । 24) इन्द्र॑वायू इ॒म इ॒म इन्द्र॑वायू॒ इन्द्र॑वायू इ॒मे । 24) इन्द्र॑वायू॒ इतीन्द्र॑ - वा॒यू॒ । 25) इ॒मे सु॒ता-स्सु॒ता इ॒म इ॒मे सु॒ताः । 26) सु॒ता इति॑ सु॒ताः । 27) उप॒ प्रयो॑भिः॒ प्रयो॑भि॒ रुपोप॒ प्रयो॑भिः । 28) प्रयो॑भि॒रा प्रयो॑भिः॒ प्रयो॑भि॒रा । 28) प्रयो॑भि॒रिति॒ प्रयः॑ - भिः॒ । 29) आ ग॑त-ङ्गत॒ मा ग॑तम् । 30) ग॒त॒ मिन्द॑व॒ इन्द॑वो गत-ङ्गत॒ मिन्द॑वः । 31) इन्द॑वो वां-वाँ॒ मिन्द॑व॒ इन्द॑वो वाम् । 32) वा॒ मु॒शन्त्यु॒शन्ति॑ वां-वाँ मु॒शन्ति॑ । 33) उ॒शन्ति॒ हि ह्यु॑शन्त्यु॒शन्ति॒ हि । 34) हीति॒ हि । 35) उ॒प॒या॒मगृ॑हीतो ऽस्यस्युपया॒मगृ॑हीत उपया॒मगृ॑हीतो ऽसि । 35) उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । 36) अ॒सी॒न्द्र॒वा॒युभ्या॑ मिन्द्रवा॒युभ्या॑ मस्यसीन्द्रवा॒युभ्या᳚म् । 37) इ॒न्द्र॒वा॒युभ्या᳚-न्त्वा त्वेन्द्रवा॒युभ्या॑ मिन्द्रवा॒युभ्या᳚-न्त्वा । 37) इ॒न्द्र॒वा॒युभ्या॒मिती᳚न्द्रवा॒यु - भ्या॒म् । 38) त्वै॒ष ए॒ष त्वा᳚ त्वै॒षः । 39) ए॒ष ते॑ त ए॒ष ए॒ष ते᳚ । 40) ते॒ योनि॒-र्योनि॑ स्ते ते॒ योनिः॑ । 41) योनि॑-स्स॒जोषा᳚भ्याग्ं स॒जोषा᳚भ्यां॒-योँनि॒-र्योनि॑-स्स॒जोषा᳚भ्याम् । 42) स॒जोषा᳚भ्या-न्त्वा त्वा स॒जोषा᳚भ्याग्ं स॒जोषा᳚भ्या-न्त्वा । 42) स॒जोषा᳚भ्या॒मिति॑ स - जोषा᳚भ्याम् । 43) त्वेति॑ त्वा । ॥ 5 ॥ (43/53) ॥ अ. 4 ॥
1) अ॒यं-वाँं᳚-वाँ म॒य म॒यं-वाँ᳚म् । 2) वा॒-म्मि॒त्रा॒व॒रु॒णा॒ मि॒त्रा॒व॒रु॒णा॒ वां॒-वाँ॒-म्मि॒त्रा॒व॒रु॒णा॒ । 3) मि॒त्रा॒व॒रु॒णा॒ सु॒त-स्सु॒तो मि॑त्रावरुणा मित्रावरुणा सु॒तः । 3) मि॒त्रा॒व॒रु॒णेति॑ मित्रा - व॒रु॒णा॒ । 4) सु॒त-स्सोम॒-स्सोम॑-स्सु॒त-स्सु॒त-स्सोमः॑ । 5) सोम॑ ऋतावृधर्तावृधा॒ सोम॒-स्सोम॑ ऋतावृधा । 6) ऋ॒ता॒वृ॒धेत्यृ॑त - वृ॒धा॒ । 7) ममे दि-न्मम॒ ममे त् । 8) इदि॒हे हे दिदि॒ह । 9) इ॒ह श्रु॑तग्ग् श्रुत मि॒हेह श्रु॑तम् । 10) श्रु॒त॒(ग्म्॒) हव॒(ग्म्॒) हव(ग्ग्॑) श्रुतग्ग् श्रुत॒(ग्म्॒) हव᳚म् । 11) हव॒मिति॒ हव᳚म् । 12) उ॒प॒या॒मगृ॑हीतो ऽस्यस्युपया॒मगृ॑हीत उपया॒मगृ॑हीतो ऽसि । 12) उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । 13) अ॒सि॒ मि॒त्रावरु॑णाभ्या-म्मि॒त्रावरु॑णाभ्या मस्यसि मि॒त्रावरु॑णाभ्याम् । 14) मि॒त्रावरु॑णाभ्या-न्त्वा त्वा मि॒त्रावरु॑णाभ्या-म्मि॒त्रावरु॑णाभ्या-न्त्वा । 14) मि॒त्रावरु॑णाभ्या॒मिति॑ मि॒त्रा - वरु॑णाभ्याम् । 15) त्वै॒ष ए॒ष त्वा᳚ त्वै॒षः । 16) ए॒ष ते॑ त ए॒ष ए॒ष ते᳚ । 17) ते॒ योनि॒-र्योनि॑ स्ते ते॒ योनिः॑ । 18) योनि॑र्-ऋता॒युभ्या॑ मृता॒युभ्यां॒-योँनि॒-र्योनि॑र्-ऋता॒युभ्या᳚म् । 19) ऋ॒ता॒युभ्या᳚-न्त्वा त्वर्ता॒युभ्या॑ मृता॒युभ्या᳚-न्त्वा । 19) ऋ॒ता॒युभ्या॒मित्यृ॑ता॒यु - भ्या॒म् । 20) त्वेति॑ त्वा । ॥ 6 ॥ (20/24) ॥ अ. 5 ॥
1) या वां᳚-वाँं॒-याँ या वा᳚म् । 2) वा॒-ङ्कशा॒ कशा॑ वां-वाँ॒-ङ्कशा᳚ । 3) कशा॒ मधु॑मती॒ मधु॑मती॒ कशा॒ कशा॒ मधु॑मती । 4) मधु॑म॒त्यश्वि॒ना ऽश्वि॑ना॒ मधु॑मती॒ मधु॑म॒त्यश्वि॑ना । 4) मधु॑म॒तीति॒ मधु॑ - म॒ती॒ । 5) अश्वि॑ना सू॒नृता॑वती सू॒नृता॑व॒त्यश्वि॒ना ऽश्वि॑ना सू॒नृता॑वती । 6) सू॒नृता॑व॒तीति॑ सू॒नृता᳚ - व॒ती॒ । 7) तया॑ य॒ज्ञं-यँ॒ज्ञ-न्तया॒ तया॑ य॒ज्ञम् । 8) य॒ज्ञ-म्मि॑मिक्षत-म्मिमिक्षतं-यँ॒ज्ञं-यँ॒ज्ञ-म्मि॑मिक्षतम् । 9) मि॒मि॒क्ष॒त॒मिति॑ मिमिक्षतम् । 10) उ॒प॒या॒मगृ॑हीतो ऽस्यस्युपया॒मगृ॑हीत उपया॒मगृ॑हीतो ऽसि । 10) उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । 11) अ॒स्य॒श्विभ्या॑ म॒श्विभ्या॑ मस्यस्य॒श्विभ्या᳚म् । 12) अ॒श्विभ्या᳚-न्त्वा त्वा॒ ऽश्विभ्या॑ म॒श्विभ्या᳚-न्त्वा । 12) अ॒श्विभ्या॒मित्य॒श्वि - भ्या॒म् । 13) त्वै॒ष ए॒ष त्वा᳚ त्वै॒षः । 14) ए॒ष ते॑ त ए॒ष ए॒ष ते᳚ । 15) ते॒ योनि॒-र्योनि॑ स्ते ते॒ योनिः॑ । 16) योनि॒-र्माद्ध्वी᳚भ्या॒-म्माद्ध्वी᳚भ्यां॒-योँनि॒-र्योनि॒-र्माद्ध्वी᳚भ्याम् । 17) माद्ध्वी᳚भ्या-न्त्वा त्वा॒ माद्ध्वी᳚भ्या॒-म्माद्ध्वी᳚भ्या-न्त्वा । 18) त्वेति॑ त्वा । ॥ 7 ॥ (18/21) ॥ अ. 6 ॥
1) प्रा॒त॒र्युजौ॒ वि वि प्रा॑त॒र्युजौ᳚ प्रात॒र्युजौ॒ वि । 1) प्रा॒त॒र्युजा॒विति॑ प्रातः - युजौ᳚ । 2) वि मु॑च्येथा-म्मुच्येथां॒-विँ वि मु॑च्येथाम् । 3) मु॒च्ये॒था॒ मश्वि॑ना॒ वश्वि॑नौ मुच्येथा-म्मुच्येथा॒ मश्वि॑नौ । 4) अश्वि॑ना॒ वा ऽश्वि॑ना॒ वश्वि॑ना॒ वा । 5) एहे हेह । 6) इ॒ह ग॑च्छत-ङ्गच्छत मि॒हे ह ग॑च्छतम् । 7) ग॒च्छ॒त॒मिति॑ गच्छतम् । 8) अ॒स्य सोम॑स्य॒ सोम॑स्या॒स्यास्य सोम॑स्य । 9) सोम॑स्य पी॒तये॑ पी॒तये॒ सोम॑स्य॒ सोम॑स्य पी॒तये᳚ । 10) पी॒तय॒ इति॑ पी॒तये᳚ । 11) उ॒प॒या॒मगृ॑हीतो ऽस्यस्युपया॒मगृ॑हीत उपया॒मगृ॑हीतो ऽसि । 11) उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ह॒तः॒ । 12) अ॒स्य॒श्विभ्या॑ म॒श्विभ्या॑ मस्यस्य॒श्विभ्या᳚म् । 13) अ॒श्विभ्या᳚-न्त्वा त्वा॒ ऽश्विभ्या॑ म॒श्विभ्या᳚-न्त्वा । 13) अ॒श्विभ्या॒मित्य॒श्वि - भ्या॒म् । 14) त्वै॒ष ए॒ष त्वा᳚ त्वै॒षः । 15) ए॒ष ते॑ त ए॒ष ए॒ष ते᳚ । 16) ते॒ योनि॒-र्योनि॑ स्ते ते॒ योनिः॑ । 17) योनि॑ र॒श्विभ्या॑ म॒श्विभ्यां॒-योँनि॒-र्योनि॑ र॒श्विभ्या᳚म् । 18) अ॒श्विभ्या᳚-न्त्वा त्वा॒ ऽश्विभ्या॑ म॒श्विभ्या᳚-न्त्वा । 18) अ॒श्विभ्या॒मित्य॒श्वि - भ्या॒म् । 19) त्वेति॑ त्वा । ॥ 8 ॥ (19/23) ॥ अ. 7 ॥
1) अ॒यं-वेँ॒नो वे॒नो॑ ऽय म॒यं-वेँ॒नः । 2) वे॒न श्चो॑दयच् चोदय-द्वे॒नो वे॒न श्चो॑दयत् । 3) चो॒द॒य॒-त्पृश्ञि॑गर्भाः॒ पृश्ञि॑गर्भा श्चोदयच् चोदय॒-त्पृश्ञि॑गर्भाः । 4) पृश्ञि॑गर्भा॒ ज्योति॑र्जरायु॒-र्ज्योति॑र्जरायुः॒ पृश्ञि॑गर्भाः॒ पृश्ञि॑गर्भा॒ ज्योति॑र्जरायुः । 4) पृश्ञि॑गर्भा॒ इति॒ पृश्ञि॑ - ग॒र्भाः॒ । 5) ज्योति॑र्जरायू॒ रज॑सो॒ रज॑सो॒ ज्योति॑र्जरायु॒-र्ज्योति॑र्जरायू॒ रज॑सः । 5) ज्योति॑र्जरायु॒रिति॒ ज्योतिः॑ - ज॒रा॒युः॒ । 6) रज॑सो वि॒माने॑ वि॒माने॒ रज॑सो॒ रज॑सो वि॒माने᳚ । 7) वि॒मान॒ इति॑ वि - माने᳚ । 8) इ॒म म॒पा म॒पा मि॒म मि॒म म॒पाम् । 9) अ॒पाग्ं स॑ङ्ग॒मे स॑ङ्ग॒मे॑ ऽपा म॒पाग्ं स॑ङ्ग॒मे । 10) स॒ङ्ग॒मे सूर्य॑स्य॒ सूर्य॑स्य सङ्ग॒मे स॑ङ्ग॒मे सूर्य॑स्य । 10) स॒ङ्ग॒म इति॑ सं - ग॒मे । 11) सूर्य॑स्य॒ शिशु॒(ग्म्॒) शिशु॒(ग्म्॒) सूर्य॑स्य॒ सूर्य॑स्य॒ शिशु᳚म् । 12) शिशु॒न्न न शिशु॒(ग्म्॒) शिशु॒न्न । 13) न विप्रा॒ विप्रा॒ न न विप्राः᳚ । 14) विप्रा॑ म॒तिभि॑-र्म॒तिभि॒-र्विप्रा॒ विप्रा॑ म॒तिभिः॑ । 15) म॒तिभी॑ रिहन्ति रिहन्ति म॒तिभि॑-र्म॒तिभी॑ रिहन्ति । 15) म॒तिभि॒रिति॑ म॒ति - भिः॒ । 16) रि॒ह॒न्तीति॑ रिहन्ति । 17) उ॒प॒या॒मगृ॑हीतो ऽस्यस्युपया॒मगृ॑हीत उपया॒मगृ॑हीतो ऽसि । 17) उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । 18) अ॒सि॒ शण्डा॑य॒ शण्डा॑यास्यसि॒ शण्डा॑य । 19) शण्डा॑य त्वा त्वा॒ शण्डा॑य॒ शण्डा॑य त्वा । 20) त्वै॒ष ए॒ष त्वा᳚ त्वै॒षः । 21) ए॒ष ते॑ त ए॒ष ए॒ष ते᳚ । 22) ते॒ योनि॒-र्योनि॑ स्ते ते॒ योनिः॑ । 23) योनि॑-र्वी॒रतां᳚-वीँ॒रतां॒-योँनि॒-र्योनि॑-र्वी॒रता᳚म् । 24) वी॒रता᳚-म्पाहि पाहि वी॒रतां᳚-वीँ॒रता᳚-म्पाहि । 25) पा॒हीति॑ पाहि । ॥ 9 ॥ (25/30) ॥ अ. 8 ॥
1) त-म्प्र॒त्नथा᳚ प्र॒त्नथा॒ त-न्त-म्प्र॒त्नथा᳚ । 2) प्र॒त्नथा॑ पू॒र्वथा॑ पू॒र्वथा᳚ प्र॒त्नथा᳚ प्र॒त्नथा॑ पू॒र्वथा᳚ । 3) पू॒र्वथा॑ वि॒श्वथा॑ वि॒श्वथा॑ पू॒र्वथा॑ पू॒र्वथा॑ वि॒श्वथा᳚ । 4) वि॒श्वथे॒मथे॒मथा॑ वि॒श्वथा॑ वि॒श्वथे॒मथा᳚ । 5) इ॒मथा᳚ ज्ये॒ष्ठता॑ति-ञ्ज्ये॒ष्ठता॑ति मि॒मथे॒मथा᳚ ज्ये॒ष्ठता॑तिम् । 6) ज्ये॒ष्ठता॑ति-म्बर्हि॒षद॑-म्बर्हि॒षद॑-ञ्ज्ये॒ष्ठता॑ति-ञ्ज्ये॒ष्ठता॑ति-म्बर्हि॒षद᳚म् । 6) ज्ये॒ष्ठता॑ति॒मिति॑ ज्ये॒ष्ठ - ता॒ति॒म् । 7) ब॒र्॒हि॒षद(ग्म्॑) सुव॒र्विद(ग्म्॑) सुव॒र्विद॑-म्बर्हि॒षद॑-म्बर्हि॒षद(ग्म्॑) सुव॒र्विद᳚म् । 7) ब॒र्॒हि॒षद॒मिति॑ बर्हि - सद᳚म् । 8) सु॒व॒र्विद॑-म्प्रतीची॒न-म्प्र॑तीची॒नग्ं सु॑व॒र्विद(ग्म्॑) सुव॒र्विद॑-म्प्रतीची॒नम् । 8) सु॒व॒र्विद॒मिति॑ सुवः - विद᳚म् । 9) प्र॒ती॒ची॒नं-वृँ॒जनं॑-वृँ॒जन॑-म्प्रतीची॒न-म्प्र॑तीची॒नं-वृँ॒जन᳚म् । 10) वृ॒जन॑-न्दोहसे दोहसे वृ॒जनं॑-वृँ॒जन॑-न्दोहसे । 11) दो॒ह॒से॒ गि॒रा गि॒रा दो॑हसे दोहसे गि॒रा । 12) गि॒रा ऽऽशु मा॒शु-ङ्गि॒रा गि॒रा ऽऽशुम् । 13) आ॒शु-ञ्जय॑न्त॒-ञ्जय॑न्त मा॒शु मा॒शु-ञ्जय॑न्तम् । 14) जय॑न्त॒ मन्वनु॒ जय॑न्त॒-ञ्जय॑न्त॒ मनु॑ । 15) अनु॒ यासु॒ यास्वन्वनु॒ यासु॑ । 16) यासु॒ वर्ध॑से॒ वर्ध॑से॒ यासु॒ यासु॒ वर्ध॑से । 17) वर्ध॑स॒ इति॒ वर्ध॑से । 18) उ॒प॒या॒मगृ॑हीतो ऽस्यस्युपया॒मगृ॑हीत उपया॒मगृ॑हीतो ऽसि । 18) उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । 19) अ॒सि॒ मर्का॑य॒ मर्का॑यास्यसि॒ मर्का॑य । 20) मर्का॑य त्वा त्वा॒ मर्का॑य॒ मर्का॑य त्वा । 21) त्वै॒ष ए॒ष त्वा᳚ त्वै॒षः । 22) ए॒ष ते॑ त ए॒ष ए॒ष ते᳚ । 23) ते॒ योनि॒-र्योनि॑ स्ते ते॒ योनिः॑ । 24) योनिः॑ प्र॒जाः प्र॒जा योनि॒-र्योनिः॑ प्र॒जाः । 25) प्र॒जाः पा॑हि पाहि प्र॒जाः प्र॒जाः पा॑हि । 25) प्र॒जा इति॑ प्र - जाः । 26) पा॒हीति॑ पाहि । ॥ 10 ॥ (26/31) ॥ अ. 9 ॥
1) ये दे॑वा देवा॒ ये ये दे॑वाः । 2) दे॒वा॒ दि॒वि दि॒वि दे॑वा देवा दि॒वि । 3) दि॒व्येका॑ द॒शैका॑दश दि॒वि दि॒व्येका॑दश । 4) एका॑दश॒ स्थ स्थैका॑ द॒शैका॑दश॒ स्थ । 5) स्थ पृ॑थि॒व्या-म्पृ॑थि॒व्याग् स्थ स्थ पृ॑थि॒व्याम् । 6) पृ॒थि॒व्या मध्यधि॑ पृथि॒व्या-म्पृ॑थि॒व्या मधि॑ । 7) अध्येका॑ द॒शैका॑द॒शाध्य ध्येका॑दश । 8) एका॑दश॒ स्थ स्थैका॑ द॒शैका॑दश॒ स्थ । 9) स्थाफ्सु॒षदो᳚ ऽफ्सु॒षद॒-स्स्थ स्थाफ्सु॒षदः॑ । 10) अ॒फ्सु॒षदो॑ महि॒ना म॑हि॒ना ऽफ्सु॒षदो᳚ ऽफ्सु॒षदो॑ महि॒ना । 10) अ॒फ्सु॒षद॒ इत्य॑फ्सु - सदः॑ । 11) म॒हि॒ नैका॑ द॒शैका॑दश महि॒ना म॑हि॒नैका॑दश । 12) एका॑दश॒ स्थ स्थैका॑ द॒शैका॑दश॒ स्थ । 13) स्थ ते ते स्थ स्थ ते । 14) ते दे॑वा देवा॒स्ते ते दे॑वाः । 15) दे॒वा॒ य॒ज्ञं-यँ॒ज्ञ-न्दे॑वा देवा य॒ज्ञम् । 16) य॒ज्ञ मि॒म मि॒मं-यँ॒ज्ञं-यँ॒ज्ञ मि॒मम् । 17) इ॒म-ञ्जु॑षद्ध्व-ञ्जुषद्ध्व मि॒म मि॒म-ञ्जु॑षद्ध्वम् । 18) जु॒ष॒द्ध्व॒ मु॒प॒या॒मगृ॑हीत उपया॒मगृ॑हीतो जुषद्ध्व-ञ्जुषद्ध्व मुपया॒मगृ॑हीतः । 19) उ॒प॒या॒मगृ॑हीतो ऽस्यस्युपया॒मगृ॑हीत उपया॒मगृ॑हीतो ऽसि । 19) उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । 20) अ॒स्या॒ग्र॒य॒ण आ᳚ग्रय॒णो᳚ ऽस्यस्याग्रय॒णः । 21) आ॒ग्र॒य॒णो᳚ ऽस्यस्याग्रय॒ण आ᳚ग्रय॒णो॑ ऽसि । 22) अ॒सि॒ स्वा᳚ग्रयण॒-स्स्वा᳚ग्रयणो ऽस्यसि॒ स्वा᳚ग्रयणः । 23) स्वा᳚ग्रयणो॒ जिन्व॒ जिन्व॒ स्वा᳚ग्रयण॒-स्स्वा᳚ग्रयणो॒ जिन्व॑ । 23) स्वा᳚ग्रयण॒ इति॒ सु - आ॒ग्र॒य॒णः॒ । 24) जिन्व॑ य॒ज्ञं-यँ॒ज्ञ-ञ्जिन्व॒ जिन्व॑ य॒ज्ञम् । 25) य॒ज्ञ-ञ्जिन्व॒ जिन्व॑ य॒ज्ञं-यँ॒ज्ञ-ञ्जिन्व॑ । 26) जिन्व॑ य॒ज्ञप॑तिं-यँ॒ज्ञप॑ति॒-ञ्जिन्व॒ जिन्व॑ य॒ज्ञप॑तिम् । 27) य॒ज्ञप॑ति म॒भ्य॑भि य॒ज्ञप॑तिं-यँ॒ज्ञप॑ति म॒भि । 27) य॒ज्ञप॑ति॒मिति॑ य॒ज्ञ - प॒ति॒म् । 28) अ॒भि सव॑ना॒ सव॑ना॒ ऽभ्य॑भि सव॑ना । 29) सव॑ना पाहि पाहि॒ सव॑ना॒ सव॑ना पाहि । 30) पा॒हि॒ विष्णु॒-र्विष्णुः॑ पाहि पाहि॒ विष्णुः॑ । 31) विष्णु॒ स्त्वा-न्त्वां-विँष्णु॒-र्विष्णु॒ स्त्वाम् । 32) त्वा-म्पा॑तु पातु॒ त्वा-न्त्वा-म्पा॑तु । 33) पा॒तु॒ विशं॒-विँश॑-म्पातु पातु॒ विश᳚म् । 34) विश॒-न्त्व-न्त्वं-विँशं॒-विँश॒-न्त्वम् । 35) त्व-म्पा॑हि पाहि॒ त्व-न्त्व-म्पा॑हि । 36) पा॒ही॒न्द्रि॒येणे᳚ न्द्रि॒येण॑ पाहि पाहीन्द्रि॒येण॑ । 37) इ॒न्द्रि॒येणै॒ष ए॒ष इ॑न्द्रि॒येणे᳚ न्द्रि॒येणै॒षः । 38) ए॒ष ते॑ त ए॒ष ए॒ष ते᳚ । 39) ते॒ योनि॒-र्योनि॑ स्ते ते॒ योनिः॑ । 40) योनि॒-र्विश्वे᳚भ्यो॒ विश्वे᳚भ्यो॒ योनि॒-र्योनि॒-र्विश्वे᳚भ्यः । 41) विश्वे᳚भ्य स्त्वा त्वा॒ विश्वे᳚भ्यो॒ विश्वे᳚भ्य स्त्वा । 42) त्वा॒ दे॒वेभ्यो॑ दे॒वेभ्य॑ स्त्वा त्वा दे॒वेभ्यः॑ । 43) दे॒वेभ्य॒ इति॑ दे॒वेभ्यः॑ । ॥ 11 ॥ (43/47) ॥ अ. 10 ॥
1) त्रि॒(ग्म्॒)श-त्त्रय॒ स्त्रय॑ स्त्रि॒(ग्म्॒)श-त्त्रि॒(ग्म्॒)श-त्त्रयः॑ । 2) त्रय॑श्च च॒ त्रय॒ स्त्रय॑श्च । 3) च॒ ग॒णिनो॑ ग॒णिन॑श्च च ग॒णिनः॑ । 4) ग॒णिनो॑ रु॒जन्तो॑ रु॒जन्तो॑ ग॒णिनो॑ ग॒णिनो॑ रु॒जन्तः॑ । 5) रु॒जन्तो॒ दिव॒-न्दिव(ग्म्॑) रु॒जन्तो॑ रु॒जन्तो॒ दिव᳚म् । 6) दिव(ग्म्॑) रु॒द्रा रु॒द्रा दिव॒-न्दिव(ग्म्॑) रु॒द्राः । 7) रु॒द्राः पृ॑थि॒वी-म्पृ॑थि॒वीग्ं रु॒द्रा रु॒द्राः पृ॑थि॒वीम् । 8) पृ॒थि॒वी-ञ्च॑ च पृथि॒वी-म्पृ॑थि॒वी-ञ्च॑ । 9) च॒ स॒च॒न्ते॒ स॒च॒न्ते॒ च॒ च॒ स॒च॒न्ते॒ । 10) स॒च॒न्त॒ इति॑ सचन्ते । 11) ए॒का॒द॒शासो॑ अफ्सु॒षदो᳚ ऽफ्सु॒षद॑ एकाद॒शास॑ एकाद॒शासो॑ अफ्सु॒षदः॑ । 12) अ॒फ्सु॒षद॑-स्सु॒तग्ं सु॒त म॑फ्सु॒षदो᳚ ऽफ्सु॒षद॑-स्सु॒तम् । 12) अ॒फ्सु॒षद॒ इत्य॑फ्सु - सदः॑ । 13) सु॒तग्ं सोम॒(ग्म्॒) सोम(ग्म्॑) सु॒तग्ं सु॒तग्ं सोम᳚म् । 14) सोम॑-ञ्जुषन्ता-ञ्जुषन्ता॒(ग्म्॒) सोम॒(ग्म्॒) सोम॑-ञ्जुषन्ताम् । 15) जु॒ष॒न्ता॒(ग्म्॒) सव॑नाय॒ सव॑नाय जुषन्ता-ञ्जुषन्ता॒(ग्म्॒) सव॑नाय । 16) सव॑नाय॒ विश्वे॒ विश्वे॒ सव॑नाय॒ सव॑नाय॒ विश्वे᳚ । 17) विश्व॒ इति॒ विश्वे᳚ । 18) उ॒प॒या॒मगृ॑हीतो ऽस्यस्युपया॒मगृ॑हीत उपया॒मगृ॑हीतो ऽसि । 18) उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । 19) अ॒स्या॒ग्र॒य॒ण आ᳚ग्रय॒णो᳚ ऽस्यस्याग्रय॒णः । 20) आ॒ग्र॒य॒णो᳚ ऽस्यस्याग्रय॒ण आ᳚ग्रय॒णो॑ ऽसि । 21) अ॒सि॒ स्वा᳚ग्रयण॒-स्स्वा᳚ग्रयणो ऽस्यसि॒ स्वा᳚ग्रयणः । 22) स्वा᳚ग्रयणो॒ जिन्व॒ जिन्व॒ स्वा᳚ग्रयण॒-स्स्वा᳚ग्रयणो॒ जिन्व॑ । 22) स्वा᳚ग्रयण॒ इति॒ सु - आ॒ग्र॒य॒णः॒ । 23) जिन्व॑ य॒ज्ञं-यँ॒ज्ञ-ञ्जिन्व॒ जिन्व॑ य॒ज्ञम् । 24) य॒ज्ञ-ञ्जिन्व॒ जिन्व॑ य॒ज्ञं-यँ॒ज्ञ-ञ्जिन्व॑ । 25) जिन्व॑ य॒ज्ञप॑तिं-यँ॒ज्ञप॑ति॒-ञ्जिन्व॒ जिन्व॑ य॒ज्ञप॑तिम् । 26) य॒ज्ञप॑ति म॒भ्य॑भि य॒ज्ञप॑तिं-यँ॒ज्ञप॑ति म॒भि । 26) य॒ज्ञप॑ति॒मिति॑ य॒ज्ञ - प॒ति॒म् । 27) अ॒भि सव॑ना॒ सव॑ना॒ ऽभ्य॑भि सव॑ना । 28) सव॑ना पाहि पाहि॒ सव॑ना॒ सव॑ना पाहि । 29) पा॒हि॒ विष्णु॒-र्विष्णुः॑ पाहि पाहि॒ विष्णुः॑ । 30) विष्णु॒ स्त्वा-न्त्वां-विँष्णु॒-र्विष्णु॒ स्त्वाम् । 31) त्वा-म्पा॑तु पातु॒ त्वा-न्त्वा-म्पा॑तु । 32) पा॒तु॒ विशं॒-विँश॑-म्पातु पातु॒ विश᳚म् । 33) विश॒-न्त्व-न्त्वं-विँशं॒-विँश॒-न्त्वम् । 34) त्व-म्पा॑हि पाहि॒ त्व-न्त्व-म्पा॑हि । 35) पा॒ही॒न्द्रि॒येणे᳚ न्द्रि॒येण॑ पाहि पाहीन्द्रि॒येण॑ । 36) इ॒न्द्रि॒येणै॒ष ए॒ष इ॑न्द्रि॒येणे᳚ न्द्रि॒येणै॒षः । 37) ए॒ष ते॑ त ए॒ष ए॒ष ते᳚ । 38) ते॒ योनि॒-र्योनि॑ स्ते ते॒ योनिः॑ । 39) योनि॒-र्विश्वे᳚भ्यो॒ विश्वे᳚भ्यो॒ योनि॒-र्योनि॒-र्विश्वे᳚भ्यः । 40) विश्वे᳚भ्य स्त्वा त्वा॒ विश्वे᳚भ्यो॒ विश्वे᳚भ्य स्त्वा । 41) त्वा॒ दे॒वेभ्यो॑ दे॒वेभ्य॑ स्त्वा त्वा दे॒वेभ्यः॑ । 42) दे॒वेभ्य॒ इति॑ दे॒वेभ्यः॑ । ॥ 12 ॥ (42/46) ॥ अ. 11 ॥
1) उ॒प॒या॒मगृ॑हीतो ऽस्यस्युपया॒मगृ॑हीत उपया॒मगृ॑हीतो ऽसि । 1) उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । 2) अ॒सीन्द्रा॒ये न्द्रा॑यास्य॒सीन्द्रा॑य । 3) इन्द्रा॑य त्वा॒ त्वेन्द्रा॒ये न्द्रा॑य त्वा । 4) त्वा॒ बृ॒हद्व॑ते बृ॒हद्व॑ते त्वा त्वा बृ॒हद्व॑ते । 5) बृ॒हद्व॑ते॒ वय॑स्वते॒ वय॑स्वते बृ॒हद्व॑ते बृ॒हद्व॑ते॒ वय॑स्वते । 5) बृ॒हद्व॑त॒ इति॑ बृ॒हत् - व॒ते॒ । 6) वय॑स्वत उक्था॒युव॑ उक्था॒युवे॒ वय॑स्वते॒ वय॑स्वत उक्था॒युवे᳚ । 7) उ॒क्था॒युवे॒ य-द्यदु॑क्था॒युव॑ उक्था॒युवे॒ यत् । 7) उ॒क्था॒युव॒ इत्यु॑क्थ - युवे᳚ । 8) य-त्ते॑ ते॒ य-द्य-त्ते᳚ । 9) त॒ इ॒न्द्रे॒ न्द्र॒ ते॒ त॒ इ॒न्द्र॒ । 10) इ॒न्द्र॒ बृ॒ह-द्बृ॒हदि॑न्द्रे न्द्र बृ॒हत् । 11) बृ॒ह-द्वयो॒ वयो॑ बृ॒ह-द्बृ॒ह-द्वयः॑ । 12) वय॒ स्तस्मै॒ तस्मै॒ वयो॒ वय॒ स्तस्मै᳚ । 13) तस्मै᳚ त्वा त्वा॒ तस्मै॒ तस्मै᳚ त्वा । 14) त्वा॒ विष्ण॑वे॒ विष्ण॑वे त्वा त्वा॒ विष्ण॑वे । 15) विष्ण॑वे त्वा त्वा॒ विष्ण॑वे॒ विष्ण॑वे त्वा । 16) त्वै॒ष ए॒ष त्वा᳚ त्वै॒षः । 17) ए॒ष ते॑ त ए॒ष ए॒ष ते᳚ । 18) ते॒ योनि॒-र्योनि॑ स्ते ते॒ योनिः॑ । 19) योनि॒ रिन्द्रा॒ये न्द्रा॑य॒ योनि॒-र्योनि॒ रिन्द्रा॑य । 20) इन्द्रा॑य त्वा॒ त्वेन्द्रा॒ये न्द्रा॑य त्वा । 21) त्वो॒क्था॒युव॑ उक्था॒युवे᳚ त्वा त्वोक्था॒युवे᳚ । 22) उ॒क्था॒युव॒ इत्यु॑क्थ - युवे᳚ । ॥ 13 ॥ (22/25) ॥ अ. 12 ॥
1) मू॒र्धान॑-न्दि॒वो दि॒वो मू॒र्धान॑-म्मू॒र्धान॑-न्दि॒वः । 2) दि॒वो अ॑र॒ति म॑र॒ति-न्दि॒वो दि॒वो अ॑र॒तिम् । 3) अ॒र॒ति-म्पृ॑थि॒व्याः पृ॑थि॒व्या अ॑र॒ति म॑र॒ति-म्पृ॑थि॒व्याः । 4) पृ॒थि॒व्या वै᳚श्वान॒रं-वैँ᳚श्वान॒र-म्पृ॑थि॒व्याः पृ॑थि॒व्या वै᳚श्वान॒रम् । 5) वै॒श्वा॒न॒र मृ॒ताय॒ र्ताय॑ वैश्वान॒रं-वैँ᳚श्वान॒र मृ॒ताय॑ । 6) ऋ॒ताय॑ जा॒त-ञ्जा॒त मृ॒ताय॒ र्ताय॑ जा॒तम् । 7) जा॒त म॒ग्नि म॒ग्नि-ञ्जा॒त-ञ्जा॒त म॒ग्निम् । 8) अ॒ग्निमित्य॒ग्निम् । 9) क॒विग्ं स॒म्राज(ग्म्॑) स॒म्राज॑-ङ्क॒वि-ङ्क॒विग्ं स॒म्राज᳚म् । 10) स॒म्राज॒ मति॑थि॒ मति॑थिग्ं स॒म्राज(ग्म्॑) स॒म्राज॒ मति॑थिम् । 10) स॒म्राज॒मिति॑ सं - राज᳚म् । 11) अति॑थि॒-ञ्जना॑ना॒-ञ्जना॑ना॒ मति॑थि॒ मति॑थि॒-ञ्जना॑नाम् । 12) जना॑ना मा॒स-न्ना॒सन् जना॑ना॒-ञ्जना॑ना मा॒सन्न् । 13) आ॒स-न्ना ऽऽस-न्ना॒स-न्ना । 14) आ पात्र॒-म्पात्र॒ मा पात्र᳚म् । 15) पात्र॑-ञ्जनयन्त जनयन्त॒ पात्र॒-म्पात्र॑-ञ्जनयन्त । 16) ज॒न॒य॒न्त॒ दे॒वा दे॒वा ज॑नयन्त जनयन्त दे॒वाः । 17) दे॒वा इति॑ दे॒वाः । 18) उ॒प॒या॒मगृ॑हीतो ऽस्यस्युपया॒मगृ॑हीत उपया॒मगृ॑हीतो ऽसि । 18) उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । 19) अ॒स्य॒ग्नये॒ ऽग्नये᳚ ऽस्यस्य॒ग्नये᳚ । 20) अ॒ग्नये᳚ त्वा त्वा॒ ऽग्नये॒ ऽग्नये᳚ त्वा । 21) त्वा॒ वै॒श्वा॒न॒राय॑ वैश्वान॒राय॑ त्वा त्वा वैश्वान॒राय॑ । 22) वै॒श्वा॒न॒राय॑ ध्रु॒वो ध्रु॒वो वै᳚श्वान॒राय॑ वैश्वान॒राय॑ ध्रु॒वः । 23) ध्रु॒वो᳚ ऽस्यसि ध्रु॒वो ध्रु॒वो॑ ऽसि । 24) अ॒सि॒ ध्रु॒वक्षि॑ति-र्ध्रु॒वक्षि॑ति रस्यसि ध्रु॒वक्षि॑तिः । 25) ध्रु॒वक्षि॑ति-र्ध्रु॒वाणा᳚-न्ध्रु॒वाणा᳚-न्ध्रु॒वक्षि॑ति-र्ध्रु॒वक्षि॑ति-र्ध्रु॒वाणा᳚म् । 25) ध्रु॒वक्षि॑ति॒रिति॑ ध्रु॒व - क्षि॒तिः॒ । 26) ध्रु॒वाणा᳚-न्ध्रु॒वत॑मो ध्रु॒वत॑मो ध्रु॒वाणा᳚-न्ध्रु॒वाणा᳚-न्ध्रु॒वत॑मः । 27) ध्रु॒वत॒मो ऽच्यु॑ताना॒ मच्यु॑ताना-न्ध्रु॒वत॑मो ध्रु॒वत॒मो ऽच्यु॑तानाम् । 27) ध्रु॒वत॑म॒ इति॑ ध्रु॒व - त॒मः॒ । 28) अच्यु॑ताना मच्युत॒क्षित्त॑मो ऽच्युत॒क्षित्त॒मो ऽच्यु॑ताना॒ मच्यु॑ताना मच्युत॒क्षित्त॑मः । 29) अ॒च्यु॒त॒क्षित्त॑म ए॒ष ए॒षो᳚च्युत॒क्षित्त॑मो ऽच्युत॒क्षित्त॑म ए॒षः । 29) अ॒च्यु॒त॒क्षित्त॑म॒ इत्य॑च्युत॒क्षित् - त॒मः॒ । 30) ए॒ष ते॑ त ए॒ष ए॒ष ते᳚ । 31) ते॒ योनि॒-र्योनि॑ स्ते ते॒ योनिः॑ । 32) योनि॑ र॒ग्नये॒ ऽग्नये॒ योनि॒-र्योनि॑ र॒ग्नये᳚ । 33) अ॒ग्नये᳚ त्वा त्वा॒ ऽग्नये॒ ऽग्नये᳚ त्वा । 34) त्वा॒ वै॒श्वा॒न॒राय॑ वैश्वान॒राय॑ त्वा त्वा वैश्वान॒राय॑ । 35) वै॒श्वा॒न॒रायेति॑ वैश्वान॒राय॑ । ॥ 14 ॥ (35/40) ॥ अ. 13 ॥
1) मधु॑श्च च॒ मधु॒-र्मधु॑श्च । 2) च॒ माध॑वो॒ माध॑वश्च च॒ माध॑वः । 3) माध॑वश्च च॒ माध॑वो॒ माध॑वश्च । 4) च॒ शु॒क्र-श्शु॒क्रश्च॑ च शु॒क्रः । 5) शु॒क्रश्च॑ च शु॒क्र-श्शु॒क्रश्च॑ । 6) च॒ शुचि॒-श्शुचि॑श्च च॒ शुचिः॑ । 7) शुचि॑श्च च॒ शुचि॒-श्शुचि॑श्च । 8) च॒ नभो॒ नभ॑श्च च॒ नभः॑ । 9) नभ॑श्च च॒ नभो॒ नभ॑श्च । 10) च॒ न॒भ॒स्यो॑ नभ॒स्य॑श्च च नभ॒स्यः॑ । 11) न॒भ॒स्य॑श्च च नभ॒स्यो॑ नभ॒स्य॑श्च । 12) चे॒ ष इ॒षश्च॑ चे॒ षः । 13) इ॒षश्च॑ चे॒ ष इ॒षश्च॑ । 14) चो॒र्ज ऊ॒र्जश्च॑ चो॒र्जः । 15) ऊ॒र्जश्च॑ चो॒र्ज ऊ॒र्जश्च॑ । 16) च॒ सह॒-स्सह॑श्च च॒ सहः॑ । 17) सह॑श्च च॒ सह॒-स्सह॑श्च । 18) च॒ स॒ह॒स्य॑-स्सह॒स्य॑श्च च सह॒स्यः॑ । 19) स॒ह॒स्य॑श्च च सह॒स्य॑-स्सह॒स्य॑श्च । 20) च॒ तप॒ स्तप॑श्च च॒ तपः॑ । 21) तप॑श्च च॒ तप॒ स्तप॑श्च । 22) च॒ त॒प॒स्य॑ स्तप॒स्य॑श्च च तप॒स्यः॑ । 23) त॒प॒स्य॑श्च च तप॒स्य॑ स्तप॒स्य॑श्च । 24) चो॒प॒या॒मगृ॑हीत उपया॒मगृ॑हीतश्च चोपया॒मगृ॑हीतः । 25) उ॒प॒या॒मगृ॑हीतो ऽस्यस्युपया॒मगृ॑हीत उपया॒मगृ॑हीतो ऽसि । 25) उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । 26) अ॒सि॒ स॒(ग्म्॒)सर्प॑-स्स॒(ग्म्॒)सर्पो᳚ ऽस्यसि स॒(ग्म्॒)सर्पः॑ । 27) स॒(ग्म्॒)सर्पो᳚ ऽस्यसि स॒(ग्म्॒)सर्प॑-स्स॒(ग्म्॒)सर्पो॑ ऽसि । 27) स॒(ग्म्॒)सर्प॒ इति॑ सं - सर्पः॑ । 28) अ॒स्य॒(ग्म्॒)ह॒स्प॒ त्याया(ग्म्॑)हस्प॒ त्याया᳚ स्यस्यग्ंहस्प॒त्याय॑ । 29) अ॒(ग्म्॒)ह॒स्प॒त्याय॑ त्वा त्वा-ऽ ग्ंहस्प॒त्या या(ग्म्॑)हस्प॒त्याय॑ त्वा । 29) अ॒(ग्म्॒)ह॒स्प॒त्यायेत्य(ग्म्॑)हः - प॒त्याय॑ । 30) त्वेति॑ त्वा । ॥ 15 ॥ (30/33) ॥ अ. 14 ॥
1) इन्द्रा᳚ग्नी॒ एन्द्रा᳚ग्नी॒ इन्द्रा᳚ग्नी॒ आ । 1) इन्द्रा᳚ग्नी॒ इतीन्द्र॑ - अ॒ग्नी॒ । 2) आ ग॑त-ङ्गत॒ मा ग॑तम् । 3) ग॒त॒(ग्म्॒) सु॒तग्ं सु॒त-ङ्ग॑त-ङ्गतग्ं सु॒तम् । 4) सु॒त-ङ्गी॒र्भि-र्गी॒र्भि-स्सु॒तग्ं सु॒त-ङ्गी॒र्भिः । 5) गी॒र्भि-र्नभो॒ नभो॑ गी॒र्भि-र्गी॒र्भि-र्नभः॑ । 6) नभो॒ वरे᳚ण्यं॒-वँरे᳚ण्य॒-न्नभो॒ नभो॒ वरे᳚ण्यम् । 7) वरे᳚ण्य॒मिति॒ वरे᳚ण्यम् । 8) अ॒स्य पा॑त-म्पात म॒स्यास्य पा॑तम् । 9) पा॒त॒-न्धि॒या धि॒या पा॑त-म्पात-न्धि॒या । 10) धि॒येषि॒तेषि॒ता धि॒या धि॒येषि॒ता । 11) इ॒षि॒तेती॑षि॒ता । 12) उ॒प॒या॒मगृ॑हीतो ऽस्यस्युपया॒मगृ॑हीत उपया॒मगृ॑हीतो ऽसि । 12) उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । 13) अ॒सी॒न्द्रा॒ग्निभ्या॑ मिन्द्रा॒ग्निभ्या॑ मस्यसीन्द्रा॒ग्निभ्या᳚म् । 14) इ॒न्द्रा॒ग्निभ्या᳚-न्त्वा त्वेन्द्रा॒ग्निभ्या॑ मिन्द्रा॒ग्निभ्या᳚-न्त्वा । 14) इ॒न्द्रा॒ग्निभ्या॒मिती᳚न्द्रा॒ग्नि - भ्या॒म् । 15) त्वै॒ष ए॒ष त्वा᳚ त्वै॒षः । 16) ए॒ष ते॑ त ए॒ष ए॒ष ते᳚ । 17) ते॒ योनि॒-र्योनि॑ स्ते ते॒ योनिः॑ । 18) योनि॑रिन्द्रा॒ग्निभ्या॑ मिन्द्रा॒ग्निभ्यां॒-योँनि॒-र्योनि॑रिन्द्रा॒ग्निभ्या᳚म् । 19) इ॒न्द्रा॒ग्निभ्या᳚-न्त्वा त्वेन्द्रा॒ग्निभ्या॑ मिन्द्रा॒ग्निभ्या᳚-न्त्वा । 19) इ॒न्द्रा॒ग्निभ्या॒मिती᳚न्द्रा॒ग्नि - भ्या॒म् । 20) त्वेति॑ त्वा । ॥ 16 ॥ (20/24) ॥ अ. 15 ॥
1) ओमा॑स श्चर्षणीधृत श्चर्षणीधृत॒ ओमा॑स॒ ओमा॑स श्चर्षणीधृतः । 2) च॒र्॒ष॒णी॒धृ॒तो॒ विश्वे॒ विश्वे॑ चर्षणीधृत श्चर्षणीधृतो॒ विश्वे᳚ । 2) च॒र्॒ष॒णी॒धृ॒त॒ इति॑ चर्षणि - धृ॒तः॒ । 3) विश्वे॑ देवासो देवासो॒ विश्वे॒ विश्वे॑ देवासः । 4) दे॒वा॒स॒ आ दे॑वासो देवास॒ आ । 5) आ ग॑त ग॒ता ग॑त । 6) ग॒तेति॑ गत । 7) दा॒श्वाग्ंसो॑ दा॒शुषो॑ दा॒शुषो॑ दा॒श्वाग्ंसो॑ दा॒श्वाग्ंसो॑ दा॒शुषः॑ । 8) दा॒शुष॑-स्सु॒तग्ं सु॒त-न्दा॒शुषो॑ दा॒शुष॑-स्सु॒तम् । 9) सु॒तमिति॑ सु॒तम् । 10) उ॒प॒या॒मगृ॑हीतो ऽस्यस्युपया॒मगृ॑हीत उपया॒मगृ॑हीतो ऽसि । 10) उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । 11) अ॒सि॒ विश्वे᳚भ्यो॒ विश्वे᳚भ्यो ऽस्यसि॒ विश्वे᳚भ्यः । 12) विश्वे᳚भ्य स्त्वा त्वा॒ विश्वे᳚भ्यो॒ विश्वे᳚भ्य स्त्वा । 13) त्वा॒ दे॒वेभ्यो॑ दे॒वेभ्य॑ स्त्वा त्वा दे॒वेभ्यः॑ । 14) दे॒वेभ्य॑ ए॒ष ए॒ष दे॒वेभ्यो॑ दे॒वेभ्य॑ ए॒षः । 15) ए॒ष ते॑ त ए॒ष ए॒ष ते᳚ । 16) ते॒ योनि॒-र्योनि॑ स्ते ते॒ योनिः॑ । 17) योनि॒-र्विश्वे᳚भ्यो॒ विश्वे᳚भ्यो॒ योनि॒-र्योनि॒-र्विश्वे᳚भ्यः । 18) विश्वे᳚भ्य स्त्वा त्वा॒ विश्वे᳚भ्यो॒ विश्वे᳚भ्य स्त्वा । 19) त्वा॒ दे॒वेभ्यो॑ दे॒वेभ्य॑ स्त्वा त्वा दे॒वेभ्यः॑ । 20) दे॒वेभ्य॒ इति॑ दे॒वेभ्यः॑ । ॥ 17 ॥ (20/22) ॥ अ. 16 ॥
1) म॒रुत्व॑न्तं-वृँष॒भं-वृँ॑ष॒भ-म्म॒रुत्व॑न्त-म्म॒रुत्व॑न्तं-वृँष॒भम् । 2) वृ॒ष॒भं-वाँ॑वृधा॒नं-वाँ॑वृधा॒नं-वृँ॑ष॒भं-वृँ॑ष॒भं-वाँ॑वृधा॒नम् । 3) वा॒वृ॒धा॒न मक॑वारि॒ मक॑वारिं-वाँवृधा॒नं-वाँ॑वृधा॒न मक॑वारिम् । 4) अक॑वारि-न्दि॒व्य-न्दि॒व्य मक॑वारि॒ मक॑वारि-न्दि॒व्यम् । 4) अक॑वारि॒मित्यक॑वा - अ॒रि॒म् । 5) दि॒व्यग्ं शा॒सग्ं शा॒स-न्दि॒व्य-न्दि॒व्यग्ं शा॒सम् । 6) शा॒स मिन्द्र॒ मिन्द्र(ग्म्॑) शा॒सग्ं शा॒स मिन्द्र᳚म् । 7) इन्द्र॒मितीन्द्र᳚म् । 8) वि॒श्वा॒साह॒ मव॒से ऽव॑से विश्वा॒साहं॑-विँश्वा॒साह॒ मव॑से । 8) वि॒श्वा॒साह॒मिति॑ विश्व - साह᳚म् । 9) अव॑से॒ नूत॑नाय॒ नूत॑ना॒याव॒से ऽव॑से॒ नूत॑नाय । 10) नूत॑नायो॒ग्र मु॒ग्र-न्नूत॑नाय॒ नूत॑नायो॒ग्रम् । 11) उ॒ग्रग्ं स॑हो॒दाग्ं स॑हो॒दा मु॒ग्र मु॒ग्रग्ं स॑हो॒दाम् । 12) स॒हो॒दा मि॒हे ह स॑हो॒दाग्ं स॑हो॒दा मि॒ह । 12) स॒हो॒दामिति॑ सहः - दाम् । 13) इ॒ह त-न्त मि॒हे ह तम् । 14) तग्ं हु॑वेम हुवेम॒ त-न्तग्ं हु॑वेम । 15) हु॒वे॒मेति॑ हुवेम । 16) उ॒प॒या॒मगृ॑हीतो ऽस्यस्युपया॒मगृ॑हीत उपया॒मगृ॑हीतो ऽसि । 16) उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । 17) अ॒सीन्द्रा॒ये न्द्रा॑यास्य॒सीन्द्रा॑य । 18) इन्द्रा॑य त्वा॒ त्वेन्द्रा॒ये न्द्रा॑य त्वा । 19) त्वा॒ म॒रुत्व॑ते म॒रुत्व॑ते त्वा त्वा म॒रुत्व॑ते । 20) म॒रुत्व॑त ए॒ष ए॒ष म॒रुत्व॑ते म॒रुत्व॑त ए॒षः । 21) ए॒ष ते॑ त ए॒ष ए॒ष ते᳚ । 22) ते॒ योनि॒-र्योनि॑ स्ते ते॒ योनिः॑ । 23) योनि॒ रिन्द्रा॒ये न्द्रा॑य॒ योनि॒-र्योनि॒ रिन्द्रा॑य । 24) इन्द्रा॑य त्वा॒ त्वेन्द्रा॒ये न्द्रा॑य त्वा । 25) त्वा॒ म॒रुत्व॑ते म॒रुत्व॑ते त्वा त्वा म॒रुत्व॑ते । 26) म॒रुत्व॑त॒ इति॑ म॒रुत्व॑ते । ॥ 18 ॥ (26/30) ॥ अ. 17 ॥
1) इन्द्र॑ मरुत्वो मरुत्व॒ इन्द्रे न्द्र॑ मरुत्वः । 2) म॒रु॒त्व॒ इ॒हे ह म॑रुत्वो मरुत्व इ॒ह । 3) इ॒ह पा॑हि पाही॒हे ह पा॑हि । 4) पा॒हि॒ सोम॒(ग्म्॒) सोम॑-म्पाहि पाहि॒ सोम᳚म् । 5) सोमं॒-यँथा॒ यथा॒ सोम॒(ग्म्॒) सोमं॒-यँथा᳚ । 6) यथा॑ शार्या॒ते शा᳚र्या॒ते यथा॒ यथा॑ शार्या॒ते । 7) शा॒र्या॒ते अपि॒बो ऽपि॑ब-श्शार्या॒ते शा᳚र्या॒ते अपि॑बः । 8) अपि॑ब-स्सु॒तस्य॑ सु॒तस्यापि॒बो ऽपि॑ब-स्सु॒तस्य॑ । 9) सु॒तस्येति॑ सु॒तस्य॑ । 10) तव॒ प्रणी॑ती॒ प्रणी॑ती॒ तव॒ तव॒ प्रणी॑ती । 11) प्रणी॑ती॒ तव॒ तव॒ प्रणी॑ती॒ प्रणी॑ती॒ तव॑ । 11) प्रणी॒तीति॒ प्र - नी॒ती॒ । 12) तव॑ शूर शूर॒ तव॒ तव॑ शूर । 13) शू॒र॒ शर्म॒-ञ्छर्म॑-ञ्छूर शूर॒ शर्मन्न्॑ । 14) शर्म॒-न्ना शर्म॒-ञ्छर्म॒-न्ना । 15) आ वि॑वासन्ति विवास॒न्त्या वि॑वासन्ति । 16) वि॒वा॒स॒न्ति॒ क॒वयः॑ क॒वयो॑ विवासन्ति विवासन्ति क॒वयः॑ । 17) क॒वय॑-स्सुय॒ज्ञा-स्सु॑य॒ज्ञाः क॒वयः॑ क॒वय॑-स्सुय॒ज्ञाः । 18) सु॒य॒ज्ञा इति॑ सु - य॒ज्ञाः । 19) उ॒प॒या॒मगृ॑हीतो ऽस्यस्युपया॒मगृ॑हीत उपया॒मगृ॑हीतो ऽसि । 19) उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । 20) अ॒सीन्द्रा॒ये न्द्रा॑यास्य॒सीन्द्रा॑य । 21) इन्द्रा॑य त्वा॒ त्वेन्द्रा॒ये न्द्रा॑य त्वा । 22) त्वा॒ म॒रुत्व॑ते म॒रुत्व॑ते त्वा त्वा म॒रुत्व॑ते । 23) म॒रुत्व॑त ए॒ष ए॒ष म॒रुत्व॑ते म॒रुत्व॑त ए॒षः । 24) ए॒ष ते॑ त ए॒ष ए॒ष ते᳚ । 25) ते॒ योनि॒-र्योनि॑ स्ते ते॒ योनिः॑ । 26) योनि॒ रिन्द्रा॒ये न्द्रा॑य॒ योनि॒-र्योनि॒ रिन्द्रा॑य । 27) इन्द्रा॑य त्वा॒ त्वेन्द्रा॒ये न्द्रा॑य त्वा । 28) त्वा॒ म॒रुत्व॑ते म॒रुत्व॑ते त्वा त्वा म॒रुत्व॑ते । 29) म॒रुत्व॑त॒ इति॑ म॒रुत्व॑ते । ॥ 19 ॥ (29/31) ॥ अ. 18 ॥
1) म॒रुत्वा(ग्म्॑) इन्द्रेन्द्र म॒रुत्वा᳚-न्म॒रुत्वा(ग्म्॑) इन्द्र । 2) इ॒न्द्र॒ वृ॒ष॒भो वृ॑ष॒भ इ॑न्द्रेन्द्र वृष॒भः । 3) वृ॒ष॒भो रणा॑य॒ रणा॑य वृष॒भो वृ॑ष॒भो रणा॑य । 4) रणा॑य॒ पिब॒ पिब॒ रणा॑य॒ रणा॑य॒ पिब॑ । 5) पिबा॒ सोम॒(ग्म्॒) सोम॒-म्पिब॒ पिबा॒ सोम᳚म् । 6) सोम॑ मनुष्व॒ध म॑नुष्व॒धग्ं सोम॒(ग्म्॒) सोम॑ मनुष्व॒धम् । 7) अ॒नु॒ष्व॒ध-म्मदा॑य॒ मदा॑यानुष्व॒ध म॑नुष्व॒ध-म्मदा॑य । 7) अ॒नु॒ष्व॒धमित्य॑नु - स्व॒धम् । 8) मदा॒येति॒ मदा॑य । 9) आ सि॑ञ्चस्व सिञ्च॒स्वा सि॑ञ्चस्व । 10) सि॒ञ्च॒स्व॒ ज॒ठरे॑ ज॒ठरे॑ सिञ्चस्व सिञ्चस्व ज॒ठरे᳚ । 11) ज॒ठरे॒ मद्ध्वो॒ मद्ध्वो॑ ज॒ठरे॑ ज॒ठरे॒ मद्ध्वः॑ । 12) मद्ध्व॑ ऊ॒र्मि मू॒र्मि-म्मद्ध्वो॒ मद्ध्व॑ ऊ॒र्मिम् । 13) ऊ॒र्मि-न्त्व-न्त्व मू॒र्मि मू॒र्मि-न्त्वम् । 14) त्वग्ं राजा॒ राजा॒ त्व-न्त्वग्ं राजा᳚ । 15) राजा᳚ ऽस्यसि॒ राजा॒ राजा॑ ऽसि । 16) अ॒सि॒ प्र॒दिवः॑ प्र॒दिवो᳚ ऽस्यसि प्र॒दिवः॑ । 17) प्र॒दिव॑-स्सु॒ताना(ग्म्॑) सु॒ताना᳚-म्प्र॒दिवः॑ प्र॒दिव॑-स्सु॒ताना᳚म् । 17) प्र॒दिव॒ इति॑ प्र - दिवः॑ । 18) सु॒ताना॒मिति॑ सु॒ताना᳚म् । 19) उ॒प॒या॒मगृ॑हीतो ऽस्यस्युपया॒मगृ॑हीत उपया॒मगृ॑हीतो ऽसि । 19) उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । 20) अ॒सीन्द्रा॒ये न्द्रा॑यास्य॒सीन्द्रा॑य । 21) इन्द्रा॑य त्वा॒ त्वेन्द्रा॒ये न्द्रा॑य त्वा । 22) त्वा॒ म॒रुत्व॑ते म॒रुत्व॑ते त्वा त्वा म॒रुत्व॑ते । 23) म॒रुत्व॑त ए॒ष ए॒ष म॒रुत्व॑ते म॒रुत्व॑त ए॒षः । 24) ए॒ष ते॑ त ए॒ष ए॒ष ते᳚ । 25) ते॒ योनि॒-र्योनि॑ स्ते ते॒ योनिः॑ । 26) योनि॒ रिन्द्रा॒ये न्द्रा॑य॒ योनि॒-र्योनि॒ रिन्द्रा॑य । 27) इन्द्रा॑य त्वा॒ त्वेन्द्रा॒ये न्द्रा॑य त्वा । 28) त्वा॒ म॒रुत्व॑ते म॒रुत्व॑ते त्वा त्वा म॒रुत्व॑ते । 29) म॒रुत्व॑त॒ इति॑ म॒रुत्व॑ते । ॥ 20 ॥ (29/32) ॥ अ. 19 ॥
1) म॒हाग्ं इन्द्र॒ इन्द्रो॑ म॒हा-न्म॒हाग्ं इन्द्रः॑ । 2) इन्द्रो॒ यो य इन्द्र॒ इन्द्रो॒ यः । 3) य ओज॒सौज॑सा॒ यो य ओज॑सा । 4) ओज॑सा प॒र्जन्यः॑ प॒र्जन्य॒ ओज॒सौज॑सा प॒र्जन्यः॑ । 5) प॒र्जन्यो॑ वृष्टि॒मान् वृ॑ष्टि॒मा-न्प॒र्जन्यः॑ प॒र्जन्यो॑ वृष्टि॒मान् । 6) वृ॒ष्टि॒माग्ं इ॑वे व वृष्टि॒मान् वृ॑ष्टि॒माग्ं इ॑व । 6) वृ॒ष्टि॒मानिति॑ वृष्टि - मान् । 7) इ॒वेती॑व । 8) स्तोमै᳚-र्व॒थ्सस्य॑ व॒थ्सस्य॒ स्तोमै॒-स्स्तोमै᳚-र्व॒थ्सस्य॑ । 9) व॒थ्सस्य॑ वावृधे वावृधे व॒थ्सस्य॑ व॒थ्सस्य॑ वावृधे । 10) वा॒वृ॒ध॒ इति॑ वावृधे । 11) उ॒प॒या॒मगृ॑हीतो ऽस्यस्युपया॒मगृ॑हीत उपया॒मगृ॑हीतो ऽसि । 11) उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । 12) अ॒सि॒ म॒हे॒न्द्राय॑ महे॒न्द्राया᳚स्यसि महे॒न्द्राय॑ । 13) म॒हे॒न्द्राय॑ त्वा त्वा महे॒न्द्राय॑ महे॒न्द्राय॑ त्वा । 13) म॒हे॒न्द्रायेति॑ महा - इ॒न्द्राय॑ । 14) त्वै॒ष ए॒ष त्वा᳚ त्वै॒षः । 15) ए॒ष ते॑ त ए॒ष ए॒ष ते᳚ । 16) ते॒ योनि॒-र्योनि॑ स्ते ते॒ योनिः॑ । 17) योनि॑-र्महे॒न्द्राय॑ महे॒न्द्राय॒ योनि॒-र्योनि॑-र्महे॒न्द्राय॑ । 18) म॒हे॒न्द्राय॑ त्वा त्वा महे॒न्द्राय॑ महे॒न्द्राय॑ त्वा । 18) म॒हे॒न्द्रायेति॑ महा - इ॒न्द्राय॑ । 19) त्वेति॑ त्वा । ॥ 21 ॥ (19/23) ॥ अ. 20 ॥
1) म॒हाग्ं इन्द्र॒ इन्द्रो॑ म॒हा-न्म॒हाग्ं इन्द्रः॑ । 2) इन्द्रो॑ नृ॒व-न्नृ॒वदिन्द्र॒ इन्द्रो॑ नृ॒वत् । 3) नृ॒वदा नृ॒व-न्नृ॒वदा । 3) नृ॒वदिति॑ नृ - वत् । 4) आ च॑र्षणि॒प्रा श्च॑र्षणि॒प्रा आ च॑र्षणि॒प्राः । 5) च॒र्॒ष॒णि॒प्रा उ॒तोत च॑र्षणि॒प्रा श्च॑र्षणि॒प्रा उ॒त । 5) च॒र्॒ष॒णि॒प्रा इति॑ चर्षणि - प्राः । 6) उ॒त द्वि॒बर्हा᳚ द्वि॒बर्हा॑ उ॒तोत द्वि॒बर्हाः᳚ । 7) द्वि॒बर्हा॑ अमि॒नो॑ ऽमि॒नो द्वि॒बर्हा᳚ द्वि॒बर्हा॑ अमि॒नः । 7) द्वि॒बर्हा॒ इति॑ द्वि - बर्हाः᳚ । 8) अ॒मि॒न-स्सहो॑भि॒-स्सहो॑भि रमि॒नो॑ ऽमि॒न-स्सहो॑भिः । 9) सहो॑भि॒रिति॒ सहः॑ - भिः॒ । 10) अ॒स्म॒द्रिय॑ग् वावृधे वावृधे ऽस्म॒द्रिय॑गस्म॒द्रिय॑ग् वावृधे । 10) अ॒स्म॒द्रिय॒गित्य॑स्म - द्रिय॑क् । 11) वा॒वृ॒धे॒ वी॒र्या॑य वी॒र्या॑य वावृधे वावृधे वी॒र्या॑य । 12) वी॒र्या॑यो॒ रुरु॒रु-र्वी॒र्या॑य वी॒र्या॑यो॒रुः । 13) उ॒रुः पृ॒थुः पृ॒थु रु॒रु रु॒रुः पृ॒थुः । 14) पृ॒थु-स्सुकृ॑त॒-स्सुकृ॑तः पृ॒थुः पृ॒थु-स्सुकृ॑तः । 15) सुकृ॑तः क॒र्तृभिः॑ क॒र्तृभि॒-स्सुकृ॑त॒-स्सुकृ॑तः क॒र्तृभिः॑ । 15) सुकृ॑त॒ इति॒ सु - कृ॒तः॒ । 16) क॒र्तृभि॑-र्भू-द्भू-त्क॒र्तृभिः॑ क॒र्तृभि॑-र्भूत् । 16) क॒र्तृभि॒रिति॑ क॒र्तृ - भिः॒ । 17) भू॒दिति॑ भूत् । 18) उ॒प॒या॒मगृ॑हीतो ऽस्यस्युपया॒मगृ॑हीत उपया॒मगृ॑हीतो ऽसि । 18) उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । 19) अ॒सि॒ म॒हे॒न्द्राय॑ महे॒न्द्राया᳚स्यसि महे॒न्द्राय॑ । 20) म॒हे॒न्द्राय॑ त्वा त्वा महे॒न्द्राय॑ महे॒न्द्राय॑ त्वा । 20) म॒हे॒न्द्रायेति॑ महा - इ॒न्द्राय॑ । 21) त्वै॒ष ए॒ष त्वा᳚ त्वै॒षः । 22) ए॒ष ते॑ त ए॒ष ए॒ष ते᳚ । 23) ते॒ योनि॒-र्योनि॑ स्ते ते॒ योनिः॑ । 24) योनि॑-र्महे॒न्द्राय॑ महे॒न्द्राय॒ योनि॒-र्योनि॑-र्महे॒न्द्राय॑ । 25) म॒हे॒न्द्राय॑ त्वा त्वा महे॒न्द्राय॑ महे॒न्द्राय॑ त्वा । 25) म॒हे॒न्द्रायेति॑ महा - इ॒न्द्राय॑ । 26) त्वेति॑ त्वा । ॥ 22 ॥ (26/35) ॥ अ. 21 ॥
1) क॒दा च॒न च॒न क॒दा क॒दा च॒न । 2) च॒न स्त॒री-स्स्त॒री श्च॒न च॒न स्त॒रीः । 3) स्त॒री र॑स्यसि स्त॒री-स्स्त॒री र॑सि । 4) अ॒सि॒ न नास्य॑सि॒ न । 5) ने न्द्रे᳚ न्द्र॒ न ने न्द्र॑ । 6) इ॒न्द्र॒ स॒श्च॒सि॒ स॒श्च॒सी॒न्द्रे॒न्द्र॒ स॒श्च॒सि॒ । 7) स॒श्च॒सि॒ दा॒शुषे॑ दा॒शुषे॑ सश्चसि सश्चसि दा॒शुषे᳚ । 8) दा॒शुष॒ इति॑ दा॒शुषे᳚ । 9) उपो॒पे दिदुपो॒पो पो॒पेत् । 9) उपो॒पेत्युप॑ - उ॒प॒ । 10) इन्नु न्विदिन्नु । 11) नु म॑घव-न्मघव॒-न्नु नु म॑घवन्न् । 12) म॒घ॒व॒-न्भूयो॒ भूयो॑ मघव-न्मघव॒-न्भूयः॑ । 12) म॒घ॒व॒न्निति॑ मघ - व॒न्न्॒ । 13) भूय॒ इदि-द्भूयो॒ भूय॒ इत् । 14) इ-न्नु न्विदि-न्नु । 15) नु ते॑ ते॒ नु नु ते᳚ । 16) ते॒ दान॒-न्दान॑-न्ते ते॒ दान᳚म् । 17) दान॑-न्दे॒वस्य॑ दे॒वस्य॒ दान॒-न्दान॑-न्दे॒वस्य॑ । 18) दे॒वस्य॑ पृच्यते पृच्यते दे॒वस्य॑ दे॒वस्य॑ पृच्यते । 19) पृ॒च्य॒त॒ इति॑ पृच्यते । 20) उ॒प॒या॒मगृ॑हीतो ऽस्यस्युपया॒मगृ॑हीत उपया॒मगृ॑हीतो ऽसि । 20) उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । 21) अ॒स्या॒दि॒त्येभ्य॑ आदि॒त्येभ्यो᳚ ऽस्यस्यादि॒त्येभ्यः॑ । 22) आ॒दि॒त्येभ्य॑ स्त्वा त्वा ऽऽदि॒त्येभ्य॑ आदि॒त्येभ्य॑ स्त्वा । 23) त्वेति॑ त्वा । 24) क॒दा च॒न च॒न क॒दा क॒दा च॒न । 25) च॒न प्र प्र च॒न च॒न प्र । 26) प्र यु॑च्छसि युच्छसि॒ प्र प्र यु॑च्छसि । 27) यु॒च्छ॒स्यु॒भे उ॒भे यु॑च्छसि युच्छस्यु॒भे । 28) उ॒भे निन्यु॑भे उ॒भे नि । 28) उ॒भे इत्यु॒भे । 29) नि पा॑सि पासि॒ नि नि पा॑सि । 30) पा॒सि॒ जन्म॑नी॒ जन्म॑नी पासि पासि॒ जन्म॑नी । 31) जन्म॑नी॒ इति॒ जन्म॑नी । 32) तुरी॑यादित्यादित्य॒ तुरी॑य॒ तुरी॑यादित्य । 33) आ॒दि॒त्य॒ सव॑न॒(ग्म्॒) सव॑न मादित्यादित्य॒ सव॑नम् । 34) सव॑न-न्ते ते॒ सव॑न॒(ग्म्॒) सव॑न-न्ते । 35) त॒ इ॒न्द्रि॒य मि॑न्द्रि॒य-न्ते॑ त इन्द्रि॒यम् । 36) इ॒न्द्रि॒य मेन्द्रि॒य मि॑न्द्रि॒य मा । 37) आ त॑स्थौ तस्था॒ वा त॑स्थौ । 38) त॒स्था॒ व॒मृत॑ म॒मृत॑-न्तस्थौ तस्था व॒मृत᳚म् । 39) अ॒मृत॑-न्दि॒वि दि॒व्य॑मृत॑ म॒मृत॑-न्दि॒वि । 40) दि॒वीति॑ दि॒वि । 41) य॒ज्ञो दे॒वाना᳚-न्दे॒वानां᳚-यँ॒ज्ञो य॒ज्ञो दे॒वाना᳚म् । 42) दे॒वाना॒-म्प्रति॒ प्रति॑ दे॒वाना᳚-न्दे॒वाना॒-म्प्रति॑ । 43) प्रत्ये᳚त्येति॒ प्रति॒ प्रत्ये॑ति । 44) ए॒ति॒ सु॒म्नग्ं सु॒म्न मे᳚त्येति सु॒म्नम् । 45) सु॒म्न मादि॑त्यास॒ आदि॑त्यास-स्सु॒म्नग्ं सु॒म्न मादि॑त्यासः । 46) आदि॑त्यासो॒ भव॑त॒ भव॒तादि॑त्यास॒ आदि॑त्यासो॒ भव॑त । 47) भव॑ता मृड॒यन्तो॑ मृड॒यन्तो॒ भव॑त॒ भव॑ता मृड॒यन्तः॑ । 48) मृ॒ड॒यन्त॒ इति॑ मृड॒यन्तः॑ । 49) आ वो॑ व॒ आ वः॑ । 50) वो॒ ऽर्वाच्य॒र्वाची॑ वो वो॒ ऽर्वाची᳚ । 51) अ॒र्वाची॑ सुम॒ति-स्सु॑म॒ति र॒र्वाच्य॒र्वाची॑ सुम॒तिः । 52) सु॒म॒ति-र्व॑वृत्या-द्ववृत्या-थ्सु॑म॒ति-स्सु॑म॒ति-र्व॑वृत्यात् । 52) सु॒म॒तिरिति॑ सु - म॒तिः । 53) व॒वृ॒त्या॒ द॒(ग्म्॒)हो र॒(ग्म्॒)हो-र्व॑वृत्या-द्ववृत्या द॒(ग्म्॒)होः । 54) अ॒(ग्म्॒)हो श्चि॑च् चिद॒(ग्म्॒)हो र॒(ग्म्॒)हो श्चि॑त् । 55) चि॒-द्या या चि॑च् चि॒-द्या । 56) या व॑रिवो॒वित्त॑रा वरिवो॒वित्त॑रा॒ या या व॑रिवो॒वित्त॑रा । 57) व॒रि॒वो॒वित्त॒रा ऽस॒दस॑-द्वरिवो॒वित्त॑रा वरिवो॒वित्त॒रा ऽस॑त् । 57) व॒रि॒वो॒वित्त॒रेति॑ वरिवो॒वित् - त॒रा॒ । 58) अस॒दित्यस॑त् । 59) विव॑स्व आदित्यादित्य॒ विव॑स्वो॒ विव॑स्व आदित्य । 60) आ॒दि॒त्यै॒ष ए॒ष आ॑दित्यादित्यै॒षः । 61) ए॒ष ते॑ त ए॒ष ए॒ष ते᳚ । 62) ते॒ सो॒म॒पी॒थ-स्सो॑मपी॒थ स्ते॑ ते सोमपी॒थः । 63) सो॒म॒पी॒थ स्तेन॒ तेन॑ सोमपी॒थ-स्सो॑मपी॒थ स्तेन॑ । 63) सो॒म॒पी॒थ इति॑ सोम - पी॒थः । 64) तेन॑ मन्दस्व मन्दस्व॒ तेन॒ तेन॑ मन्दस्व । 65) म॒न्द॒स्व॒ तेन॒ तेन॑ मन्दस्व मन्दस्व॒ तेन॑ । 66) तेन॑ तृप्य तृप्य॒ तेन॒ तेन॑ तृप्य । 67) तृ॒प्य॒ तृ॒प्यास्म॑ तृ॒प्यास्म॑ तृप्य तृप्य तृ॒प्यास्म॑ । 68) तृ॒प्यास्म॑ ते ते तृ॒प्यास्म॑ तृ॒प्यास्म॑ ते । 69) ते॒ व॒यं-वँ॒य-न्ते॑ ते व॒यम् । 70) व॒य-न्त॑र्पयि॒तार॑ स्तर्पयि॒तारो॑ व॒यं-वँ॒य-न्त॑र्पयि॒तारः॑ । 71) त॒र्प॒यि॒तारो॒ या या त॑र्पयि॒तार॑ स्तर्पयि॒तारो॒ या । 72) या दि॒व्या दि॒व्या या या दि॒व्या । 73) दि॒व्या वृष्टि॒-र्वृष्टि॑-र्दि॒व्या दि॒व्या वृष्टिः॑ । 74) वृष्टि॒ स्तया॒ तया॒ वृष्टि॒-र्वृष्टि॒ स्तया᳚ । 75) तया᳚ त्वा त्वा॒ तया॒ तया᳚ त्वा । 76) त्वा॒ श्री॒णा॒मि॒ श्री॒णा॒मि॒ त्वा॒ त्वा॒ श्री॒णा॒मि॒ । 77) श्री॒णा॒मीति॑ श्रीणामि । ॥ 23 ॥ (77/84) ॥ अ. 22 ॥
1) वा॒म म॒द्याद्य वा॒मं-वाँ॒म म॒द्य । 2) अ॒द्य स॑वित-स्सवित र॒द्याद्य स॑वितः । 3) स॒वि॒त॒-र्वा॒मं-वाँ॒मग्ं स॑वित-स्सवित-र्वा॒मम् । 4) वा॒म मु॑ वु वा॒मं-वाँ॒म मु॑ । 5) उ॒ श्व-श्श्व उ॑ वु॒ श्वः । 6) श्वो दि॒वेदि॑वे दि॒वेदि॑वे॒ श्व-श्श्वो दि॒वेदि॑वे । 7) दि॒वेदि॑वे वा॒मं-वाँ॒म-न्दि॒वेदि॑वे दि॒वेदि॑वे वा॒मम् । 7) दि॒वेदि॑व॒ इति॑ दि॒वे - दि॒वे॒ । 8) वा॒म म॒स्मभ्य॑ म॒स्मभ्यं॑-वाँ॒मं-वाँ॒म म॒स्मभ्य᳚म् । 9) अ॒स्मभ्य(ग्म्॑) सावी-स्सावी र॒स्मभ्य॑ म॒स्मभ्य(ग्म्॑) सावीः । 9) अ॒स्मभ्य॒मित्य॒स्म - भ्य॒म् । 10) सा॒वी॒रिति॑ सावीः । 11) वा॒मस्य॒ हि हि वा॒मस्य॑ वा॒मस्य॒ हि । 12) हि क्षय॑स्य॒ क्षय॑स्य॒ हि हि क्षय॑स्य । 13) क्षय॑स्य देव देव॒ क्षय॑स्य॒ क्षय॑स्य देव । 14) दे॒व॒ भूरे॒-र्भूरे᳚-र्देव देव॒ भूरेः᳚ । 15) भूरे॑र॒या ऽया भूरे॒-र्भूरे॑र॒या । 16) अ॒या धि॒या धि॒या ऽया ऽया धि॒या । 17) धि॒या वा॑म॒भाजो॑ वाम॒भाजो॑ धि॒या धि॒या वा॑म॒भाजः॑ । 18) वा॒म॒भाज॑-स्स्याम स्याम वाम॒भाजो॑ वाम॒भाज॑-स्स्याम । 18) वा॒म॒भाज॒ इति॑ वाम - भाजः॑ । 19) स्या॒मेति॑ स्याम । 20) उ॒प॒या॒मगृ॑हीतो ऽस्यस्युपया॒मगृ॑हीत उपया॒मगृ॑हीतो ऽसि । 20) उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । 21) अ॒सि॒ दे॒वाय॑ दे॒वाया᳚स्यसि दे॒वाय॑ । 22) दे॒वाय॑ त्वा त्वा दे॒वाय॑ दे॒वाय॑ त्वा । 23) त्वा॒ स॒वि॒त्रे स॑वि॒त्रे त्वा᳚ त्वा सवि॒त्रे । 24) स॒वि॒त्र इति॑ सवि॒त्रे । ॥ 24 ॥ (24/28) ॥ अ. 23 ॥
1) अद॑ब्धेभि-स्सवित-स्सवित॒ रद॑ब्धेभि॒ रद॑ब्धेभि-स्सवितः । 2) स॒वि॒तः॒ पा॒युभिः॑ पा॒युभि॑-स्सवित-स्सवितः पा॒युभिः॑ । 3) पा॒युभि॒ ष्ट्व-न्त्व-म्पा॒युभिः॑ पा॒युभि॒ ष्ट्वम् । 3) पा॒युभि॒रिति॑ पा॒यु - भिः॒ । 4) त्वग्ं शि॒वेभि॑-श्शि॒वेभि॒ स्त्व-न्त्वग्ं शि॒वेभिः॑ । 5) शि॒वेभि॑र॒द्याद्य शि॒वेभि॑-श्शि॒वेभि॑र॒द्य । 6) अ॒द्य परि॒ पर्य॒द्याद्य परि॑ । 7) परि॑ पाहि पाहि॒ परि॒ परि॑ पाहि । 8) पा॒हि॒ नो॒ नः॒ पा॒हि॒ पा॒हि॒ नः॒ । 9) नो॒ गय॒-ङ्गय॑न्नो नो॒ गय᳚म् । 10) गय॒मिति॒ गय᳚म् । 11) हिर॑ण्यजिह्व-स्सुवि॒ताय॑ सुवि॒ताय॒ हिर॑ण्यजिह्वो॒ हिर॑ण्यजिह्व-स्सुवि॒ताय॑ । 11) हिर॑ण्यजिह्व॒ इति॒ हिर॑ण्य - जि॒ह्वः॒ । 12) सु॒वि॒ताय॒ नव्य॑से॒ नव्य॑से सुवि॒ताय॑ सुवि॒ताय॒ नव्य॑से । 13) नव्य॑से॒ रक्ष॒ रक्ष॒ नव्य॑से॒ नव्य॑से॒ रक्ष॑ । 14) रक्षा॒ माकि॒-र्माकी॒ रक्ष॒ रक्षा॒ माकिः॑ । 15) माकि॑-र्नो नो॒ माकि॒-र्माकि॑-र्नः । 16) नो॒ अ॒घश(ग्म्॑)सो॒ ऽघश(ग्म्॑)सो नो नो अ॒घश(ग्म्॑)सः । 17) अ॒घश(ग्म्॑)स ईशतेशता॒घश(ग्म्॑)सो॒ ऽघश(ग्म्॑)स ईशत । 17) अ॒घश(ग्म्॑)स॒ इत्य॒घ - श॒(ग्म्॒)सः॒ । 18) ई॒श॒तेती॑शत । 19) उ॒प॒या॒मगृ॑हीतो ऽस्यस्युपया॒मगृ॑हीत उपया॒मगृ॑हीतो ऽसि । 19) उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । 20) अ॒सि॒ दे॒वाय॑ दे॒वाया᳚स्यसि दे॒वाय॑ । 21) दे॒वाय॑ त्वा त्वा दे॒वाय॑ दे॒वाय॑ त्वा । 22) त्वा॒ स॒वि॒त्रे स॑वि॒त्रे त्वा᳚ त्वा सवि॒त्रे । 23) स॒वि॒त्र इति॑ सवि॒त्रे । ॥ 25 ॥ (23/27) ॥ अ. 24 ॥
1) हिर॑ण्यपाणि मू॒तय॑ ऊ॒तये॒ हिर॑ण्यपाणि॒(ग्म्॒) हिर॑ण्यपाणि मू॒तये᳚ । 1) हिर॑ण्यपाणि॒मिति॒ हिर॑ण्य - पा॒णि॒म् । 2) ऊ॒तये॑ सवि॒तार(ग्म्॑) सवि॒तार॑ मू॒तय॑ ऊ॒तये॑ सवि॒तार᳚म् । 3) स॒वि॒तार॒ मुपोप॑ सवि॒तार(ग्म्॑) सवि॒तार॒ मुप॑ । 4) उप॑ ह्वये ह्वय॒ उपोप॑ ह्वये । 5) ह्व॒य॒ इति॑ ह्वये । 6) स चेत्ता॒ चेत्ता॒ स स चेत्ता᳚ । 7) चेत्ता॑ दे॒वता॑ दे॒वता॒ चेत्ता॒ चेत्ता॑ दे॒वता᳚ । 8) दे॒वता॑ प॒द-म्प॒द-न्दे॒वता॑ दे॒वता॑ प॒दम् । 9) प॒दमिति॑ प॒दम् । 10) उ॒प॒या॒मगृ॑हीतो ऽस्यस्युपया॒मगृ॑हीत उपया॒मगृ॑हीतो ऽसि । 10) उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । 11) अ॒सि॒ दे॒वाय॑ दे॒वाया᳚स्यसि दे॒वाय॑ । 12) दे॒वाय॑ त्वा त्वा दे॒वाय॑ दे॒वाय॑ त्वा । 13) त्वा॒ स॒वि॒त्रे स॑वि॒त्रे त्वा᳚ त्वा सवि॒त्रे । 14) स॒वि॒त्र इति॑ सवि॒त्रे । ॥ 26 ॥ (14/16) ॥ अ. 25 ॥
1) सु॒शर्मा᳚ ऽस्यसि सु॒शर्मा॑ सु॒शर्मा॑ ऽसि । 1) सु॒शर्मेति॑ सु - शर्मा᳚ । 2) अ॒सि॒ सु॒प्र॒ति॒ष्ठा॒न-स्सु॑प्रतिष्ठा॒नो᳚ ऽस्यसि सुप्रतिष्ठा॒नः । 3) सु॒प्र॒ति॒ष्ठा॒नो बृ॒ह-द्बृ॒ह-थ्सु॑प्रतिष्ठा॒न-स्सु॑प्रतिष्ठा॒नो बृ॒हत् । 3) सु॒प्र॒ति॒ष्ठा॒न इति॑ सु - प्र॒ति॒ष्ठा॒नः । 4) बृ॒हदु॒क्ष उ॒क्षे बृ॒ह-द्बृ॒हदु॒क्षे । 5) उ॒क्षे नमो॒ नम॑ उ॒क्ष उ॒क्षे नमः॑ । 6) नम॑ ए॒ष ए॒ष नमो॒ नम॑ ए॒षः । 7) ए॒ष ते॑ त ए॒ष ए॒ष ते᳚ । 8) ते॒ योनि॒-र्योनि॑ स्ते ते॒ योनिः॑ । 9) योनि॒-र्विश्वे᳚भ्यो॒ विश्वे᳚भ्यो॒ योनि॒-र्योनि॒-र्विश्वे᳚भ्यः । 10) विश्वे᳚भ्य स्त्वा त्वा॒ विश्वे᳚भ्यो॒ विश्वे᳚भ्य स्त्वा । 11) त्वा॒ दे॒वेभ्यो॑ दे॒वेभ्य॑ स्त्वा त्वा दे॒वेभ्यः॑ । 12) दे॒वेभ्य॒ इति॑ दे॒वेभ्यः॑ । ॥ 27 ॥ (12/14) ॥ अ. 26 ॥
1) बृह॒स्पति॑सुतस्य ते ते॒ बृह॒स्पति॑सुतस्य॒ बृह॒स्पति॑सुतस्य ते । 1) बृह॒स्पति॑सुत॒स्येति॒ बृह॒स्पति॑ - सु॒त॒स्य॒ । 2) त॒ इ॒न्दो॒ इ॒न्दो॒ ते॒ त॒ इ॒न्दो॒ । 3) इ॒न्दो॒ इ॒न्द्रि॒याव॑त इन्द्रि॒याव॑त इन्दो इन्दो इन्द्रि॒याव॑तः । 3) इ॒न्दो॒ इती᳚न्दो । 4) इ॒न्द्रि॒याव॑तः॒ पत्नी॑वन्त॒-म्पत्नी॑वन्त मिन्द्रि॒याव॑त इन्द्रि॒याव॑तः॒ पत्नी॑वन्तम् । 4) इ॒न्द्रि॒याव॑त॒ इती᳚न्द्रि॒य - व॒तः॒ । 5) पत्नी॑वन्त॒-ङ्ग्रह॒-ङ्ग्रह॒-म्पत्नी॑वन्त॒-म्पत्नी॑वन्त॒-ङ्ग्रह᳚म् । 5) पत्नी॑वन्त॒मिति॒ पत्नी᳚ - व॒न्त॒म् । 6) ग्रह॑-ङ्गृह्णामि गृह्णामि॒ ग्रह॒-ङ्ग्रह॑-ङ्गृह्णामि । 7) गृ॒ह्णा॒म्यग्ना(3) अग्ना(3)इ गृ॑ह्णामि गृह्णा॒म्यग्ना(3)इ । 8) अग्ना(3)इ पत्नी॒वा(3)ः पत्नी॒वा(3) अग्ना(3) अग्ना(3)इ पत्नी॒वा(3)ः । 9) पत्नी॒वा(3)-स्स॒जू-स्स॒जूः पत्नी॒वा(3)ः पत्नी॒वा(3)-स्स॒जूः । 9) पत्नी॒वा(3) इति॒ पत्नी᳚ - वा(3)ः । 10) स॒जू-र्दे॒वेन॑ दे॒वेन॑ स॒जू-स्स॒जू-र्दे॒वेन॑ । 10) स॒जूरिति॑ स - जूः । 11) दे॒वेन॒ त्वष्ट्रा॒ त्वष्ट्रा॑ दे॒वेन॑ दे॒वेन॒ त्वष्ट्रा᳚ । 12) त्वष्ट्रा॒ सोम॒(ग्म्॒) सोम॒-न्त्वष्ट्रा॒ त्वष्ट्रा॒ सोम᳚म् । 13) सोम॑-म्पिब पिब॒ सोम॒(ग्म्॒) सोम॑-म्पिब । 14) पि॒ब॒ स्वाहा॒ स्वाहा॑ पिब पिब॒ स्वाहा᳚ । 15) स्वाहेति॒ स्वाहा᳚ । ॥ 28 ॥ (15/21) ॥ अ. 27 ॥
1) हरि॑ रस्यसि॒ हरि॒र्॒ हरि॑रसि । 2) अ॒सि॒ हा॒रि॒यो॒ज॒नो हा॑रियोज॒नो᳚ ऽस्यसि हारियोज॒नः । 3) हा॒रि॒यो॒ज॒नो हर्यो॒र्॒ हर्योर्॑. हारियोज॒नो हा॑रियोज॒नो हर्योः᳚ । 3) हा॒रि॒यो॒ज॒न इति॑ हारि - यो॒ज॒नः । 4) हर्यो᳚-स्स्था॒ता स्था॒ता हर्यो॒र्॒ हर्यो᳚-स्स्था॒ता । 5) स्था॒ता वज्र॑स्य॒ वज्र॑स्य स्था॒ता स्था॒ता वज्र॑स्य । 6) वज्र॑स्य भ॒र्ता भ॒र्ता वज्र॑स्य॒ वज्र॑स्य भ॒र्ता । 7) भ॒र्ता पृश्ञेः॒ पृश्ञे᳚-र्भ॒र्ता भ॒र्ता पृश्ञेः᳚ । 8) पृश्ञेः᳚ प्रे॒ता प्रे॒ता पृश्ञेः॒ पृश्ञेः᳚ प्रे॒ता । 9) प्रे॒ता तस्य॒ तस्य॑ प्रे॒ता प्रे॒ता तस्य॑ । 10) तस्य॑ ते ते॒ तस्य॒ तस्य॑ ते । 11) ते॒ दे॒व॒ दे॒व॒ ते॒ ते॒ दे॒व॒ । 12) दे॒व॒ सो॒म॒ सो॒म॒ दे॒व॒ दे॒व॒ सो॒म॒ । 13) सो॒मे॒ ष्टय॑जुष इ॒ष्टय॑जुष-स्सोम सोमे॒ ष्टय॑जुषः । 14) इ॒ष्टय॑जुष-स्स्तु॒तस्तो॑मस्य स्तु॒तस्तो॑मस्ये॒ ष्टय॑जुष इ॒ष्टय॑जुष-स्स्तु॒तस्तो॑मस्य । 14) इ॒ष्टय॑जुष॒ इती॒ष्ट - य॒जु॒षः॒ । 15) स्तु॒तस्तो॑मस्य श॒स्तोक्थ॑स्य श॒स्तोक्थ॑स्य स्तु॒तस्तो॑मस्य स्तु॒तस्तो॑मस्य श॒स्तोक्थ॑स्य । 15) स्तु॒तस्तो॑म॒स्येति॑ स्तु॒त - स्तो॒म॒स्य॒ । 16) श॒स्तोक्थ॑स्य॒ हरि॑वन्त॒(ग्म्॒) हरि॑वन्तग्ं श॒स्तोक्थ॑स्य श॒स्तोक्थ॑स्य॒ हरि॑वन्तम् । 16) श॒स्तोक्थ॒स्येति॑ श॒स्त - उ॒क्थ॒स्य॒ । 17) हरि॑वन्त॒-ङ्ग्रह॒-ङ्ग्रह॒(ग्म्॒) हरि॑वन्त॒(ग्म्॒) हरि॑वन्त॒-ङ्ग्रह᳚म् । 17) हरि॑वन्त॒मिति॒ हरि॑ - व॒न्त॒म् । 18) ग्रह॑-ङ्गृह्णामि गृह्णामि॒ ग्रह॒-ङ्ग्रह॑-ङ्गृह्णामि । 19) गृ॒ह्णा॒मि॒ ह॒रीर्-ह॒री-र्गृ॑ह्णामि गृह्णामि ह॒रीः । 20) ह॒री-स्स्थ॑ स्थ ह॒रीर्-ह॒री-स्स्थ॑ । 21) स्थ॒ हर्यो॒र्॒ हर्यो᳚-स्स्थ स्थ॒ हर्योः᳚ । 22) हर्यो᳚-र्धा॒ना धा॒ना हर्यो॒र्॒ हर्यो᳚-र्धा॒नाः । 23) धा॒ना-स्स॒हसो॑मा-स्स॒हसो॑मा धा॒ना धा॒ना-स्स॒हसो॑माः । 24) स॒हसो॑मा॒ इन्द्रा॒ये न्द्रा॑य स॒हसो॑मा-स्स॒हसो॑मा॒ इन्द्रा॑य । 24) स॒हसो॑मा॒ इति॑ स॒ह - सो॒माः॒ । 25) इन्द्रा॑य॒ स्वाहा॒ स्वाहेन्द्रा॒ये न्द्रा॑य॒ स्वाहा᳚ । 26) स्वाहेति॒ स्वाहा᳚ । ॥ 29 ॥ (26/32) ॥ अ. 28 ॥
1) अग्न॒ आयू॒(ग्ग्॒) ष्यायू॒(ग्ग्॒) ष्यग्ने ऽग्न॒ आयू(ग्म्॑)षि । 2) आयू(ग्म्॑)षि पवसे पवस॒ आयू॒(ग्ग्॒) ष्यायू(ग्म्॑)षि पवसे । 3) प॒व॒स॒ आ प॑वसे पवस॒ आ । 4) आ सु॑व सु॒वा सु॑व । 5) सु॒वोर्ज॒ मूर्ज(ग्म्॑) सुव सु॒वोर्ज᳚म् । 6) ऊर्ज॒ मिष॒ मिष॒ मूर्ज॒ मूर्ज॒ मिष᳚म् । 7) इष॑-ञ्च॒ चेष॒ मिष॑-ञ्च । 8) च॒ नो॒ न॒श्च॒ च॒ नः॒ । 9) न॒ इति॑ नः । 10) आ॒रे बा॑धस्व बाधस्वा॒र आ॒रे बा॑धस्व । 11) बा॒ध॒स्व॒ दु॒च्छुना᳚-न्दु॒च्छुना᳚-म्बाधस्व बाधस्व दु॒च्छुना᳚म् । 12) दु॒च्छुना॒मिति॑ दु॒च्छुना᳚म् । 13) उ॒प॒या॒मगृ॑हीतो ऽस्यस्युपया॒मगृ॑हीत उपया॒मगृ॑हीतो ऽसि । 13) उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । 14) अ॒स्य॒ग्नये॒ ऽग्नये᳚ ऽस्यस्य॒ग्नये᳚ । 15) अ॒ग्नये᳚ त्वा त्वा॒ ऽग्नये॒ ऽग्नये᳚ त्वा । 16) त्वा॒ तेज॑स्वते॒ तेज॑स्वते त्वा त्वा॒ तेज॑स्वते । 17) तेज॑स्वत ए॒ष ए॒ष तेज॑स्वते॒ तेज॑स्वत ए॒षः । 18) ए॒ष ते॑ त ए॒ष ए॒ष ते᳚ । 19) ते॒ योनि॒-र्योनि॑ स्ते ते॒ योनिः॑ । 20) योनि॑ र॒ग्नये॒ ऽग्नये॒ योनि॒-र्योनि॑ र॒ग्नये᳚ । 21) अ॒ग्नये᳚ त्वा त्वा॒ ऽग्नये॒ ऽग्नये᳚ त्वा । 22) त्वा॒ तेज॑स्वते॒ तेज॑स्वते त्वा त्वा॒ तेज॑स्वते । 23) तेज॑स्वत॒ इति॒ तेज॑स्वते । ॥ 30 ॥ (23/24) ॥ अ. 29 ॥
1) उ॒त्तिष्ठ॒-न्नोज॒सौज॑सो॒त्तिष्ठ॑-न्नु॒त्तिष्ठ॒-न्नोज॑सा । 1) उ॒त्तिष्ठ॒न्नित्यु॑त् - तिष्ठन्न्॑ । 2) ओज॑सा स॒ह स॒हौज॒सौज॑सा स॒ह । 3) स॒ह पी॒त्वा पी॒त्वा स॒ह स॒ह पी॒त्वा । 4) पी॒त्वा शिप्रे॒ शिप्रे॑ पी॒त्वा पी॒त्वा शिप्रे᳚ । 5) शिप्रे॑ अवेपयो ऽवेपय॒-श्शिप्रे॒ शिप्रे॑ अवेपयः । 5) शिप्रे॒ इति॒ शिप्रे᳚ । 6) अ॒वे॒प॒य॒ इत्य॑वेपयः । 7) सोम॑ मिन्द्रेन्द्र॒ सोम॒(ग्म्॒) सोम॑ मिन्द्र । 8) इ॒न्द्र॒ च॒मू च॒मू इ॑न्द्रेन्द्र च॒मू । 9) च॒मू सु॒तग्ं सु॒त-ञ्च॒मू च॒मू सु॒तम् । 9) च॒मू इति॑ च॒मू । 10) सु॒तमिति॑ सु॒तम् । 11) उ॒प॒या॒मगृ॑हीतो ऽस्यस्युपया॒मगृ॑हीत उपया॒मगृ॑हीतो ऽसि । 11) उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । 12) अ॒सीन्द्रा॒ये न्द्रा॑यास्य॒सीन्द्रा॑य । 13) इन्द्रा॑य त्वा॒ त्वेन्द्रा॒ये न्द्रा॑य त्वा । 14) त्वौज॑स्वत॒ ओज॑स्वते त्वा॒ त्वौज॑स्वते । 15) ओज॑स्वत ए॒ष ए॒ष ओज॑स्वत॒ ओज॑स्वत ए॒षः । 16) ए॒ष ते॑ त ए॒ष ए॒ष ते᳚ । 17) ते॒ योनि॒-र्योनि॑ स्ते ते॒ योनिः॑ । 18) योनि॒ रिन्द्रा॒ये न्द्रा॑य॒ योनि॒-र्योनि॒ रिन्द्रा॑य । 19) इन्द्रा॑य त्वा॒ त्वेन्द्रा॒ये न्द्रा॑य त्वा । 20) त्वौज॑स्वत॒ ओज॑स्वते त्वा॒ त्वौज॑स्वते । 21) ओज॑स्वत॒ इत्योज॑स्वते । ॥ 31 ॥ (21/25) ॥ अ. 30 ॥
1) त॒रणि॑-र्वि॒श्वद॑र्शतो वि॒श्वद॑र्शत स्त॒रणि॑ स्त॒रणि॑-र्वि॒श्वद॑र्शतः । 2) वि॒श्वद॑र्शतो ज्योति॒ष्कृज् ज्यो॑ति॒ष्कृ-द्वि॒श्वद॑र्शतो वि॒श्वद॑र्शतो ज्योति॒ष्कृत् । 2) वि॒श्वद॑र्शत॒ इति॑ वि॒श्व - द॒र्॒श॒तः॒ । 3) ज्यो॒ति॒ष्कृ द॑स्यसि ज्योति॒ष्कृज् ज्यो॑ति॒ष्कृद॑सि । 3) ज्यो॒ति॒ष्कृदिति॑ ज्योतिः - कृत् । 4) अ॒सि॒ सू॒र्य॒ सू॒र्या॒स्य॒सि॒ सू॒र्य॒ । 5) सू॒र्येति॑ सूर्य । 6) विश्व॒ मा विश्वं॒-विँश्व॒ मा । 7) आ भा॑सि भा॒स्या भा॑सि । 8) भा॒सि॒ रो॒च॒नग्ं रो॑च॒न-म्भा॑सि भासि रोच॒नम् । 9) रो॒च॒नमिति॑ रोच॒नम् । 10) उ॒प॒या॒मगृ॑हीतो ऽस्यस्युपया॒मगृ॑हीत उपया॒मगृ॑हीतो ऽसि । 10) उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । 11) अ॒सि॒ सूर्या॑य॒ सूर्या॑यास्यसि॒ सूर्या॑य । 12) सूर्या॑य त्वा त्वा॒ सूर्या॑य॒ सूर्या॑य त्वा । 13) त्वा॒ भ्राज॑स्वते॒ भ्राज॑स्वते त्वा त्वा॒ भ्राज॑स्वते । 14) भ्राज॑स्वत ए॒ष ए॒ष भ्राज॑स्वते॒ भ्राज॑स्वत ए॒षः । 15) ए॒ष ते॑ त ए॒ष ए॒ष ते᳚ । 16) ते॒ योनि॒-र्योनि॑ स्ते ते॒ योनिः॑ । 17) योनि॒-स्सूर्या॑य॒ सूर्या॑य॒ योनि॒-र्योनि॒-स्सूर्या॑य । 18) सूर्या॑य त्वा त्वा॒ सूर्या॑य॒ सूर्या॑य त्वा । 19) त्वा॒ भ्राज॑स्वते॒ भ्राज॑स्वते त्वा त्वा॒ भ्राज॑स्वते । 20) भ्राज॑स्वत॒ इति॒ भ्राज॑स्वते । ॥ 32 ॥ (20/23) ॥ अ. 31 ॥
1) आ प्या॑यस्व प्याय॒स्वा प्या॑यस्व । 2) प्या॒य॒स्व॒ म॒दि॒न्त॒म॒ म॒दि॒न्त॒म॒ प्या॒य॒स्व॒ प्या॒य॒स्व॒ म॒दि॒न्त॒म॒ । 3) म॒दि॒न्त॒म॒ सोम॒ सोम॑ मदिन्तम मदिन्तम॒ सोम॑ । 4) सोम॒ विश्वा॑भि॒-र्विश्वा॑भि॒-स्सोम॒ सोम॒ विश्वा॑भिः । 5) विश्वा॑भि रू॒तिभि॑ रू॒तिभि॒-र्विश्वा॑भि॒-र्विश्वा॑भि रू॒तिभिः॑ । 6) ऊ॒तिभि॒रित्यू॒ति - भिः॒ । 7) भवा॑ नो नो॒ भव॒ भवा॑ नः । 8) न॒-स्स॒प्रथ॑स्तम-स्स॒प्रथ॑स्तमो नो न-स्स॒प्रथ॑स्तमः । 9) स॒प्रथ॑स्तम॒ इति॑ स॒प्रथः॑ - त॒मः॒ । ॥ 33 ॥ (9/9) ॥ अ. 32 ॥
1) ई॒युष्टे त ई॒यु री॒युष्टे । 2) ते ये ये ते ते ये । 3) ये पूर्व॑तरा॒-म्पूर्व॑तरां॒-येँ ये पूर्व॑तराम् । 4) पूर्व॑तरा॒ मप॑श्य॒-न्नप॑श्य॒-न्पूर्व॑तरा॒-म्पूर्व॑तरा॒ मप॑श्यन्न् । 4) पूर्व॑तरा॒मिति॒ पूर्व॑ - त॒रा॒म् । 5) अप॑श्यन् व्यु॒च्छन्तीं᳚-व्युँ॒च्छन्ती॒ मप॑श्य॒-न्नप॑श्यन् व्यु॒च्छन्ती᳚म् । 6) व्यु॒च्छन्ती॑ मु॒षस॑ मु॒षसं॑-व्युँ॒च्छन्तीं᳚-व्युँ॒च्छन्ती॑ मु॒षस᳚म् । 6) व्यु॒च्छन्ती॒मिति॑ वि - उ॒च्छन्ती᳚म् । 7) उ॒षस॒-म्मर्त्या॑सो॒ मर्त्या॑स उ॒षस॑ मु॒षस॒-म्मर्त्या॑सः । 8) मर्त्या॑स॒ इति॒ मर्त्या॑सः । 9) अ॒स्माभि॑रु वु व॒स्माभि॑र॒स्माभि॑रु । 10) ऊ॒ नु नू नु । 11) नु प्र॑ति॒चक्ष्या᳚ प्रति॒चक्ष्या॒ नु नु प्र॑ति॒चक्ष्या᳚ । 12) प्र॒ति॒चक्ष्या॑ ऽभूदभू-त्प्रति॒चक्ष्या᳚ प्रति॒चक्ष्या॑ ऽभूत् । 12) प्र॒ति॒चक्ष्येति॑ प्रति - चक्ष्या᳚ । 13) अ॒भू॒दो ओ अ॑भूदभू॒दो । 14) ओ ते त ओ ओ ते । 14) ओ इत्यो । 15) ते य॑न्ति यन्ति॒ ते ते य॑न्ति । 16) य॒न्ति॒ ये ये य॑न्ति यन्ति॒ ये । 17) ये अ॑प॒री ष्व॑प॒रीषु॒ ये ये अ॑प॒रीषु॑ । 18) अ॒प॒रीषु॒ पश्या॒-न्पश्या॑ नप॒री ष्व॑प॒रीषु॒ पश्यान्॑ । 19) पश्या॒निति॒ पश्यान्॑ । ॥ 34 ॥ (19/23) ॥ अ. 33 ॥
1) ज्योति॑ष्मती-न्त्वा त्वा॒ ज्योति॑ष्मती॒-ञ्ज्योति॑ष्मती-न्त्वा । 2) त्वा॒ सा॒द॒या॒मि॒ सा॒द॒या॒मि॒ त्वा॒ त्वा॒ सा॒द॒या॒मि॒ । 3) सा॒द॒या॒मि॒ ज्यो॒ति॒ष्कृत॑-ञ्ज्योति॒ष्कृत(ग्म्॑) सादयामि सादयामि ज्योति॒ष्कृत᳚म् । 4) ज्यो॒ति॒ष्कृत॑-न्त्वा त्वा ज्योति॒ष्कृत॑-ञ्ज्योति॒ष्कृत॑-न्त्वा । 4) ज्यो॒ति॒ष्कृत॒मिति॑ ज्योतिः - कृत᳚म् । 5) त्वा॒ सा॒द॒या॒मि॒ सा॒द॒या॒मि॒ त्वा॒ त्वा॒ सा॒द॒या॒मि॒ । 6) सा॒द॒या॒मि॒ ज्यो॒ति॒र्विद॑-ञ्ज्योति॒र्विद(ग्म्॑) सादयामि सादयामि ज्योति॒र्विद᳚म् । 7) ज्यो॒ति॒र्विद॑-न्त्वा त्वा ज्योति॒र्विद॑-ञ्ज्योति॒र्विद॑-न्त्वा । 7) ज्यो॒ति॒र्विद॒मिति॑ ज्योतिः - विद᳚म् । 8) त्वा॒ सा॒द॒या॒मि॒ सा॒द॒या॒मि॒ त्वा॒ त्वा॒ सा॒द॒या॒मि॒ । 9) सा॒द॒या॒मि॒ भास्व॑ती॒-म्भास्व॑तीग्ं सादयामि सादयामि॒ भास्व॑तीम् । 10) भास्व॑ती-न्त्वा त्वा॒ भास्व॑ती॒-म्भास्व॑ती-न्त्वा । 11) त्वा॒ सा॒द॒या॒मि॒ सा॒द॒या॒मि॒ त्वा॒ त्वा॒ सा॒द॒या॒मि॒ । 12) सा॒द॒या॒मि॒ ज्वल॑न्ती॒-ञ्ज्वल॑न्तीग्ं सादयामि सादयामि॒ ज्वल॑न्तीम् । 13) ज्वल॑न्ती-न्त्वा त्वा॒ ज्वल॑न्ती॒-ञ्ज्वल॑न्ती-न्त्वा । 14) त्वा॒ सा॒द॒या॒मि॒ सा॒द॒या॒मि॒ त्वा॒ त्वा॒ सा॒द॒या॒मि॒ । 15) सा॒द॒या॒मि॒ म॒ल्म॒ला॒भव॑न्ती-म्मल्मला॒भव॑न्तीग्ं सादयामि सादयामि मल्मला॒भव॑न्तीम् । 16) म॒ल्म॒ला॒भव॑न्ती-न्त्वा त्वा मल्मला॒भव॑न्ती-म्मल्मला॒भव॑न्ती-न्त्वा । 16) म॒ल्म॒ला॒भव॑न्ती॒मिति॑ मल्मला - भव॑न्तीम् । 17) त्वा॒ सा॒द॒या॒मि॒ सा॒द॒या॒मि॒ त्वा॒ त्वा॒ सा॒द॒या॒मि॒ । 18) सा॒द॒या॒मि॒ दीप्य॑माना॒-न्दीप्य॑मानाग्ं सादयामि सादयामि॒ दीप्य॑मानाम् । 19) दीप्य॑माना-न्त्वा त्वा॒ दीप्य॑माना॒-न्दीप्य॑माना-न्त्वा । 20) त्वा॒ सा॒द॒या॒मि॒ सा॒द॒या॒मि॒ त्वा॒ त्वा॒ सा॒द॒या॒मि॒ । 21) सा॒द॒या॒मि॒ रोच॑माना॒(ग्म्॒) रोच॑मानाग्ं सादयामि सादयामि॒ रोच॑मानाम् । 22) रोच॑माना-न्त्वा त्वा॒ रोच॑माना॒(ग्म्॒) रोच॑माना-न्त्वा । 23) त्वा॒ सा॒द॒या॒मि॒ सा॒द॒या॒मि॒ त्वा॒ त्वा॒ सा॒द॒या॒मि॒ । 24) सा॒द॒या॒म्यज॑स्रा॒ मज॑स्राग्ं सादयामि सादया॒म्यज॑स्राम् । 25) अज॑स्रा-न्त्वा॒ त्वा ऽज॑स्रा॒ मज॑स्रा-न्त्वा । 26) त्वा॒ सा॒द॒या॒मि॒ सा॒द॒या॒मि॒ त्वा॒ त्वा॒ सा॒द॒या॒मि॒ । 27) सा॒द॒या॒मि॒ बृ॒हज्ज्यो॑तिष-म्बृ॒हज्ज्यो॑तिषग्ं सादयामि सादयामि बृ॒हज्ज्यो॑तिषम् । 28) बृ॒हज्ज्यो॑तिष-न्त्वा त्वा बृ॒हज्ज्यो॑तिष-म्बृ॒हज्ज्यो॑तिष-न्त्वा । 28) बृ॒हज्ज्यो॑तिष॒मिति॑ बृ॒हत् - ज्यो॒ति॒ष॒म् । 29) त्वा॒ सा॒द॒या॒मि॒ सा॒द॒या॒मि॒ त्वा॒ त्वा॒ सा॒द॒या॒मि॒ । 30) सा॒द॒या॒मि॒ बो॒धय॑न्ती-म्बो॒धय॑न्तीग्ं सादयामि सादयामि बो॒धय॑न्तीम् । 31) बो॒धय॑न्ती-न्त्वा त्वा बो॒धय॑न्ती-म्बो॒धय॑न्ती-न्त्वा । 32) त्वा॒ सा॒द॒या॒मि॒ सा॒द॒या॒मि॒ त्वा॒ त्वा॒ सा॒द॒या॒मि॒ । 33) सा॒द॒या॒मि॒ जाग्र॑ती॒-ञ्जाग्र॑तीग्ं सादयामि सादयामि॒ जाग्र॑तीम् । 34) जाग्र॑ती-न्त्वा त्वा॒ जाग्र॑ती॒-ञ्जाग्र॑ती-न्त्वा । 35) त्वा॒ सा॒द॒या॒मि॒ सा॒द॒या॒मि॒ त्वा॒ त्वा॒ सा॒द॒या॒मि॒ । 36) सा॒द॒या॒मीति॑ सादयामि । ॥ 35 ॥ (36/40) ॥ अ. 34 ॥
1) प्र॒या॒साय॒ स्वाहा॒ स्वाहा᳚ प्रया॒साय॑ प्रया॒साय॒ स्वाहा᳚ । 1) प्र॒या॒सायेति॑ प्र - या॒साय॑ । 2) स्वाहा॑ ऽऽया॒साया॑या॒साय॒ स्वाहा॒ स्वाहा॑ ऽऽया॒साय॑ । 3) आ॒या॒साय॒ स्वाहा॒ स्वाहा॑ ऽऽया॒साया॑या॒साय॒ स्वाहा᳚ । 3) आ॒या॒सायेत्या᳚ - या॒साय॑ । 4) स्वाहा॑ विया॒साय॑ विया॒साय॒ स्वाहा॒ स्वाहा॑ विया॒साय॑ । 5) वि॒या॒साय॒ स्वाहा॒ स्वाहा॑ विया॒साय॑ विया॒साय॒ स्वाहा᳚ । 5) वि॒या॒सायेति॑ वि - या॒साय॑ । 6) स्वाहा॑ संयाँ॒साय॑ संयाँ॒साय॒ स्वाहा॒ स्वाहा॑ संयाँ॒साय॑ । 7) सं॒याँ॒साय॒ स्वाहा॒ स्वाहा॑ संयाँ॒साय॑ संयाँ॒साय॒ स्वाहा᳚ । 7) सं॒याँ॒सायेति॑ सं - या॒साय॑ । 8) स्वाहो᳚द्या॒ सायो᳚द्या॒साय॒ स्वाहा॒ स्वाहो᳚द्या॒साय॑ । 9) उ॒द्या॒साय॒ स्वाहा॒ स्वाहो᳚द्या॒ सायो᳚द्या॒साय॒ स्वाहा᳚ । 9) उ॒द्या॒सायेत्यु॑त् - या॒साय॑ । 10) स्वाहा॑ ऽवया॒सा या॑वया॒साय॒ स्वाहा॒ स्वाहा॑ ऽवया॒साय॑ । 11) अ॒व॒या॒साय॒ स्वाहा॒ स्वाहा॑ ऽवया॒सा या॑वया॒साय॒ स्वाहा᳚ । 11) अ॒व॒या॒सायेत्य॑व - या॒साय॑ । 12) स्वाहा॑ शु॒चे शु॒चे स्वाहा॒ स्वाहा॑ शु॒चे । 13) शु॒चे स्वाहा॒ स्वाहा॑ शु॒चे शु॒चे स्वाहा᳚ । 14) स्वाहा॒ शोका॑य॒ शोका॑य॒ स्वाहा॒ स्वाहा॒ शोका॑य । 15) शोका॑य॒ स्वाहा॒ स्वाहा॒ शोका॑य॒ शोका॑य॒ स्वाहा᳚ । 16) स्वाहा॑ तप्य॒त्वै त॑प्य॒त्वै स्वाहा॒ स्वाहा॑ तप्य॒त्वै । 17) त॒प्य॒त्वै स्वाहा॒ स्वाहा॑ तप्य॒त्वै त॑प्य॒त्वै स्वाहा᳚ । 18) स्वाहा॒ तप॑ते॒ तप॑ते॒ स्वाहा॒ स्वाहा॒ तप॑ते । 19) तप॑ते॒ स्वाहा॒ स्वाहा॒ तप॑ते॒ तप॑ते॒ स्वाहा᳚ । 20) स्वाहा᳚ ब्रह्मह॒त्यायै᳚ ब्रह्मह॒त्यायै॒ स्वाहा॒ स्वाहा᳚ ब्रह्मह॒त्यायै᳚ । 21) ब्र॒ह्म॒ह॒त्यायै॒ स्वाहा॒ स्वाहा᳚ ब्रह्मह॒त्यायै᳚ ब्रह्मह॒त्यायै॒ स्वाहा᳚ । 21) ब्र॒ह्म॒ह॒त्याया॒ इति॑ ब्रह्म - ह॒त्यायै᳚ । 22) स्वाहा॒ सर्व॑स्मै॒ सर्व॑स्मै॒ स्वाहा॒ स्वाहा॒ सर्व॑स्मै । 23) सर्व॑स्मै॒ स्वाहा॒ स्वाहा॒ सर्व॑स्मै॒ सर्व॑स्मै॒ स्वाहा᳚ । 24) स्वाहेति॒ स्वाहा᳚ । ॥ 36 ॥ (24/31) ॥ अ. 35 ॥
1) चि॒त्तग्ं स॑न्ता॒नेन॑ सन्ता॒नेन॑ चि॒त्त-ञ्चि॒त्तग्ं स॑न्ता॒नेन॑ । 2) स॒न्ता॒नेन॑ भ॒व-म्भ॒वग्ं स॑न्ता॒नेन॑ सन्ता॒नेन॑ भ॒वम् । 2) स॒न्ता॒नेनेति॑ सं - ता॒नेन॑ । 3) भ॒वं-यँ॒क्ना य॒क्ना भ॒व-म्भ॒वं-यँ॒क्ना । 4) य॒क्ना रु॒द्रग्ं रु॒द्रं-यँ॒क्ना य॒क्ना रु॒द्रम् । 5) रु॒द्र-न्तनि॑म्ना॒ तनि॑म्ना रु॒द्रग्ं रु॒द्र-न्तनि॑म्ना । 6) तनि॑म्ना पशु॒पति॑-म्पशु॒पति॒-न्तनि॑म्ना॒ तनि॑म्ना पशु॒पति᳚म् । 7) प॒शु॒पति(ग्ग्॑) स्थूलहृद॒येन॑ स्थूलहृद॒येन॑ पशु॒पति॑-म्पशु॒पति(ग्ग्॑) स्थूलहृद॒येन॑ । 7) प॒शु॒पति॒मिति॑ पशु - पति᳚म् । 8) स्थू॒ल॒हृ॒द॒येना॒ग्नि म॒ग्निग्ग् स्थू॑लहृद॒येन॑ स्थूलहृद॒येना॒ग्निम् । 8) स्थू॒ल॒हृ॒द॒येनेति॑ स्थूल - हृ॒द॒येन॑ । 9) अ॒ग्निग्ं हृद॑येन॒ हृद॑येना॒ग्नि म॒ग्निग्ं हृद॑येन । 10) हृद॑येन रु॒द्रग्ं रु॒द्रग्ं हृद॑येन॒ हृद॑येन रु॒द्रम् । 11) रु॒द्रम् ँलोहि॑तेन॒ लोहि॑तेन रु॒द्रग्ं रु॒द्रम् ँलोहि॑तेन । 12) लोहि॑तेन श॒र्वग्ं श॒र्वम् ँलोहि॑तेन॒ लोहि॑तेन श॒र्वम् । 13) श॒र्व-म्मत॑स्नाभ्या॒-म्मत॑स्नाभ्याग्ं श॒र्वग्ं श॒र्व-म्मत॑स्नाभ्याम् । 14) मत॑स्नाभ्या-म्महादे॒व-म्म॑हादे॒व-म्मत॑स्नाभ्या॒-म्मत॑स्नाभ्या-म्महादे॒वम् । 15) म॒हा॒दे॒व म॒न्तःपा᳚र्श्वे ना॒न्तःपा᳚र्श्वेन महादे॒व-म्म॑हादे॒व म॒न्तःपा᳚र्श्वेन । 15) म॒हा॒दे॒वमिति॑ महा - दे॒वम् । 16) अ॒न्तःपा᳚र्श्वे नौषिष्ठ॒हन॑ मोषिष्ठ॒हन॑ म॒न्तःपा᳚र्श्वे ना॒न्तःपा᳚र्श्वे नौषिष्ठ॒हन᳚म् । 16) अ॒न्तःपा᳚र्श्वे॒नेत्य॒न्तः - पा॒र्श्वे॒न॒ । 17) ओ॒षि॒ष्ठ॒हन(ग्म्॑) शिङ्गीनिको॒श्या᳚भ्याग्ं शिङ्गीनिको॒श्या᳚भ्या मोषिष्ठ॒हन॑ मोषिष्ठ॒हन(ग्म्॑) शिङ्गीनिको॒श्या᳚भ्याम् । 17) ओ॒षि॒ष्ठ॒हन॒मित्यो॑षिष्ठ - हन᳚म् । 18) शि॒ङ्गी॒नि॒को॒श्या᳚भ्या॒मिति॑ शिङ्गी - नि॒को॒श्या᳚भ्याम् । ॥ 37 ॥ (18/24) ॥ अ. 36 ॥
1) आ ति॑ष्ठ ति॒ष्ठा ति॑ष्ठ । 2) ति॒ष्ठ॒ वृ॒त्र॒ह॒न्॒ वृ॒त्र॒ह॒-न्ति॒ष्ठ॒ ति॒ष्ठ॒ वृ॒त्र॒ह॒न्न् । 3) वृ॒त्र॒ह॒-न्रथ॒(ग्म्॒) रथं॑-वृँत्रहन् वृत्रह॒-न्रथ᳚म् । 3) वृ॒त्र॒ह॒न्निति॑ वृत्र - ह॒न्न् । 4) रथं॑-युँ॒क्ता यु॒क्ता रथ॒(ग्म्॒) रथं॑-युँ॒क्ता । 5) यु॒क्ता ते॑ ते यु॒क्ता यु॒क्ता ते᳚ । 6) ते॒ ब्रह्म॑णा॒ ब्रह्म॑णा ते ते॒ ब्रह्म॑णा । 7) ब्रह्म॑णा॒ हरी॒ हरी॒ ब्रह्म॑णा॒ ब्रह्म॑णा॒ हरी᳚ । 8) हरी॒ इति॒ हरी᳚ । 9) अ॒र्वा॒चीन॒(ग्म्॒) सु स्व॑र्वा॒चीन॑ मर्वा॒चीन॒(ग्म्॒) सु । 10) सु ते॑ ते॒ सु सु ते᳚ । 11) ते॒ मनो॒ मन॑ स्ते ते॒ मनः॑ । 12) मनो॒ ग्रावा॒ ग्रावा॒ मनो॒ मनो॒ ग्रावा᳚ । 13) ग्रावा॑ कृणोतु कृणोतु॒ ग्रावा॒ ग्रावा॑ कृणोतु । 14) कृ॒णो॒तु॒ व॒ग्नुना॑ व॒ग्नुना॑ कृणोतु कृणोतु व॒ग्नुना᳚ । 15) व॒ग्नुनेति॑ व॒ग्नुना᳚ । 16) उ॒प॒या॒मगृ॑हीतो ऽस्यस्युपया॒मगृ॑हीत उपया॒मगृ॑हीतो ऽसि । 16) उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । 17) अ॒सीन्द्रा॒ये न्द्रा॑यास्य॒सीन्द्रा॑य । 18) इन्द्रा॑य त्वा॒ त्वेन्द्रा॒ये न्द्रा॑य त्वा । 19) त्वा॒ षो॒ड॒शिने॑ षोड॒शिने᳚ त्वा त्वा षोड॒शिने᳚ । 20) षो॒ड॒शिन॑ ए॒ष ए॒ष षो॑ड॒शिने॑ षोड॒शिन॑ ए॒षः । 21) ए॒ष ते॑ त ए॒ष ए॒ष ते᳚ । 22) ते॒ योनि॒-र्योनि॑ स्ते ते॒ योनिः॑ । 23) योनि॒ रिन्द्रा॒ये न्द्रा॑य॒ योनि॒-र्योनि॒ रिन्द्रा॑य । 24) इन्द्रा॑य त्वा॒ त्वेन्द्रा॒ये न्द्रा॑य त्वा । 25) त्वा॒ षो॒ड॒शिने॑ षोड॒शिने᳚ त्वा त्वा षोड॒शिने᳚ । 26) षो॒ड॒शिन॒ इति॑ षोड॒शिने᳚ । ॥ 38 ॥ (26/28) ॥ अ. 37 ॥
1) इन्द्र॒ मिदिदिन्द्र॒ मिन्द्र॒ मित् । 2) इद्धरी॒ हरी॒ इदिद्धरी᳚ । 3) हरी॑ वहतो वहतो॒ हरी॒ हरी॑ वहतः । 3) हरी॒ इति॒ हरी᳚ । 4) व॒ह॒तो ऽप्र॑तिधृष्टशवस॒ मप्र॑तिधृष्टशवसं-वँहतो वह॒तो ऽप्र॑तिधृष्टशवसम् । 5) अप्र॑तिधृष्टशवस॒ मृषी॑णा॒ मृषी॑णा॒ मप्र॑तिधृष्टशवस॒ मप्र॑तिधृष्टशवस॒ मृषी॑णाम् । 5) अप्र॑तिधृष्टशवस॒मित्यप्र॑तिधृष्ट - श॒व॒स॒म् । 6) ऋषी॑णा-ञ्च॒ चर्षी॑णा॒ मृषी॑णा-ञ्च । 7) च॒ स्तु॒ती-स्स्तु॒तीश्च॑ च स्तु॒तीः । 8) स्तु॒ती रुपोप॑ स्तु॒ती-स्स्तु॒तीरुप॑ । 9) उप॑ य॒ज्ञं-यँ॒ज्ञ मुपोप॑ य॒ज्ञम् । 10) य॒ज्ञ-ञ्च॑ च य॒ज्ञं-यँ॒ज्ञ-ञ्च॑ । 11) च॒ मानु॑षाणा॒-म्मानु॑षाणा-ञ्च च॒ मानु॑षाणाम् । 12) मानु॑षाणा॒मिति॒ मानु॑षाणाम् । 13) उ॒प॒या॒मगृ॑हीतो ऽस्यस्युपया॒मगृ॑हीत उपया॒मगृ॑हीतो ऽसि । 13) उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । 14) अ॒सीन्द्रा॒ये न्द्रा॑यास्य॒सीन्द्रा॑य । 15) इन्द्रा॑य त्वा॒ त्वेन्द्रा॒ये न्द्रा॑य त्वा । 16) त्वा॒ षो॒ड॒शिने॑ षोड॒शिने᳚ त्वा त्वा षोड॒शिने᳚ । 17) षो॒ड॒शिन॑ ए॒ष ए॒ष षो॑ड॒शिने॑ षोड॒शिन॑ ए॒षः । 18) ए॒ष ते॑ त ए॒ष ए॒ष ते᳚ । 19) ते॒ योनि॒-र्योनि॑ स्ते ते॒ योनिः॑ । 20) योनि॒ रिन्द्रा॒ये न्द्रा॑य॒ योनि॒-र्योनि॒ रिन्द्रा॑य । 21) इन्द्रा॑य त्वा॒ त्वेन्द्रा॒ये न्द्रा॑य त्वा । 22) त्वा॒ षो॒ड॒शिने॑ षोड॒शिने᳚ त्वा त्वा षोड॒शिने᳚ । 23) षो॒ड॒शिन॒ इति॑ षोड॒शिने᳚ । ॥ 39 ॥ (23/26) ॥ अ. 38 ॥
1) असा॑वि॒ सोम॒-स्सोमो ऽसा॒व्यसा॑वि॒ सोमः॑ । 2) सोम॑ इन्द्रे न्द्र॒ सोम॒-स्सोम॑ इन्द्र । 3) इ॒न्द्र॒ ते॒ त॒ इ॒न्द्रे॒ न्द्र॒ ते॒ । 4) ते॒ शवि॑ष्ठ॒ शवि॑ष्ठ ते ते॒ शवि॑ष्ठ । 5) शवि॑ष्ठ धृष्णो धृष्णो॒ शवि॑ष्ठ॒ शवि॑ष्ठ धृष्णो । 6) धृ॒ष्णवा धृ॑ष्णो धृ॒ष्णवा । 7) आ ग॑हि ग॒ह्या ग॑हि । 8) ग॒हीति॑ गहि । 9) आ त्वा॒ त्वा ऽऽत्वा᳚ । 10) त्वा॒ पृ॒ण॒क्तु॒ पृ॒ण॒क्तु॒ त्वा॒ त्वा॒ पृ॒ण॒क्तु॒ । 11) पृ॒ण॒क्त्वि॒न्द्रि॒य मि॑न्द्रि॒य-म्पृ॑णक्तु पृणक्त्विन्द्रि॒यम् । 12) इ॒न्द्रि॒यग्ं रजो॒ रज॑ इन्द्रि॒य मि॑न्द्रि॒यग्ं रजः॑ । 13) रज॒-स्सूर्य॒(ग्म्॒) सूर्य॒(ग्म्॒) रजो॒ रज॒-स्सूर्य᳚म् । 14) सूर्य॒न्न न सूर्य॒(ग्म्॒) सूर्य॒न्न । 15) न र॒श्मिभी॑ र॒श्मिभि॒-र्न न र॒श्मिभिः॑ । 16) र॒श्मिभि॒रिति॑ र॒श्मि - भिः॒ । 17) उ॒प॒या॒मगृ॑हीतो ऽस्यस्युपया॒मगृ॑हीत उपया॒मगृ॑हीतो ऽसि । 17) उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । 18) अ॒सीन्द्रा॒ये न्द्रा॑यास्य॒सीन्द्रा॑य । 19) इन्द्रा॑य त्वा॒ त्वेन्द्रा॒ये न्द्रा॑य त्वा । 20) त्वा॒ षो॒ड॒शिने॑ षोड॒शिने᳚ त्वा त्वा षोड॒शिने᳚ । 21) षो॒ड॒शिन॑ ए॒ष ए॒ष षो॑ड॒शिने॑ षोड॒शिन॑ ए॒षः । 22) ए॒ष ते॑ त ए॒ष ए॒ष ते᳚ । 23) ते॒ योनि॒-र्योनि॑ स्ते ते॒ योनिः॑ । 24) योनि॒ रिन्द्रा॒ये न्द्रा॑य॒ योनि॒-र्योनि॒ रिन्द्रा॑य । 25) इन्द्रा॑य त्वा॒ त्वेन्द्रा॒ये न्द्रा॑य त्वा । 26) त्वा॒ षो॒ड॒शिने॑ षोड॒शिने᳚ त्वा त्वा षोड॒शिने᳚ । 27) षो॒ड॒शिन॒ इति॑ षोड॒शिने᳚ । ॥ 40 ॥ (27/28) ॥ अ. 39 ॥
1) सर्व॑स्य प्रति॒शीव॑री प्रति॒शीव॑री॒ सर्व॑स्य॒ सर्व॑स्य प्रति॒शीव॑री । 2) प्र॒ति॒शीव॑री॒ भूमि॒-र्भूमिः॑ प्रति॒शीव॑री प्रति॒शीव॑री॒ भूमिः॑ । 2) प्र॒ति॒शीव॒रीति॑ प्रति - शीव॑री । 3) भूमि॑ स्त्वा त्वा॒ भूमि॒-र्भूमि॑ स्त्वा । 4) त्वो॒पस्थ॑ उ॒पस्थे᳚ त्वा त्वो॒पस्थे᳚ । 5) उ॒पस्थ॒ ओपस्थ॑ उ॒पस्थ॒ आ । 5) उ॒पस्थ॒ इत्यु॒प - स्थे॒ । 6) आ ऽधि॑ताधि॒ता ऽधि॑त । 7) अ॒धि॒तेत्य॑धित । 8) स्यो॒ना ऽस्मा॑ अस्मै स्यो॒ना स्यो॒ना ऽस्मै᳚ । 9) अ॒स्मै॒ सु॒षदा॑ सु॒षदा᳚ ऽस्मा अस्मै सु॒षदा᳚ । 10) सु॒षदा॑ भव भव सु॒षदा॑ सु॒षदा॑ भव । 10) सु॒षदेति॑ सु - सदा᳚ । 11) भ॒व॒ यच्छ॒ यच्छ॑ भव भव॒ यच्छ॑ । 12) यच्छा᳚स्मा अस्मै॒ यच्छ॒ यच्छा᳚स्मै । 13) अ॒स्मै॒ शर्म॒ शर्मा᳚स्मा अस्मै॒ शर्म॑ । 14) शर्म॑ स॒प्रथा᳚-स्स॒प्रथा॒-श्शर्म॒ शर्म॑ स॒प्रथाः᳚ । 15) स॒प्रथा॒ इति॑ स - प्रथाः᳚ । 16) उ॒प॒या॒मगृ॑हीतो ऽस्यस्युपया॒मगृ॑हीत उपया॒मगृ॑हीतो ऽसि । 16) उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । 17) अ॒सीन्द्रा॒ये न्द्रा॑यास्य॒सीन्द्रा॑य । 18) इन्द्रा॑य त्वा॒ त्वेन्द्रा॒ये न्द्रा॑य त्वा । 19) त्वा॒ षो॒ड॒शिने॑ षोड॒शिने᳚ त्वा त्वा षोड॒शिने᳚ । 20) षो॒ड॒शिन॑ ए॒ष ए॒ष षो॑ड॒शिने॑ षोड॒शिन॑ ए॒षः । 21) ए॒ष ते॑ त ए॒ष ए॒ष ते᳚ । 22) ते॒ योनि॒-र्योनि॑ स्ते ते॒ योनिः॑ । 23) योनि॒ रिन्द्रा॒ये न्द्रा॑य॒ योनि॒-र्योनि॒ रिन्द्रा॑य । 24) इन्द्रा॑य त्वा॒ त्वेन्द्रा॒ये न्द्रा॑य त्वा । 25) त्वा॒ षो॒ड॒शिने॑ षोड॒शिने᳚ त्वा त्वा षोड॒शिने᳚ । 26) षो॒ड॒शिन॒ इति॑ षोड॒शिने᳚ । ॥ 41 ॥ (26/30) ॥ अ. 40 ॥
1) म॒हाग्ं इन्द्र॒ इन्द्रो॑ म॒हा-न्म॒हाग्ं इन्द्रः॑ । 2) इन्द्रो॒ वज्र॑बाहु॒-र्वज्र॑बाहु॒ रिन्द्र॒ इन्द्रो॒ वज्र॑बाहुः । 3) वज्र॑बाहु ष्षोड॒शी षो॑ड॒शी वज्र॑बाहु॒-र्वज्र॑बाहु ष्षोड॒शी । 3) वज्र॑बाहु॒रिति॒ वज्र॑ - बा॒हुः॒ । 4) षो॒ड॒शी शर्म॒ शर्म॑ षोड॒शी षो॑ड॒शी शर्म॑ । 5) शर्म॑ यच्छतु यच्छतु॒ शर्म॒ शर्म॑ यच्छतु । 6) य॒च्छ॒त्विति॑ यच्छतु । 7) स्व॒स्ति नो॑ न-स्स्व॒स्ति स्व॒स्ति नः॑ । 8) नो॒ म॒घवा॑ म॒घवा॑ नो नो म॒घवा᳚ । 9) म॒घवा॑ करोतु करोतु म॒घवा॑ म॒घवा॑ करोतु । 9) म॒घवेति॑ म॒घ - वा॒ । 10) क॒रो॒तु॒ हन्तु॒ हन्तु॑ करोतु करोतु॒ हन्तु॑ । 11) हन्तु॑ पा॒प्मान॑-म्पा॒प्मान॒(ग्म्॒) हन्तु॒ हन्तु॑ पा॒प्मान᳚म् । 12) पा॒प्मानं॒-योँ यः पा॒प्मान॑-म्पा॒प्मानं॒-यः ँ। 13) यो᳚ ऽस्मा न॒स्मान्. यो यो᳚ ऽस्मान् । 14) अ॒स्मा-न्द्वेष्टि॒ द्वेष्ट्य॒स्मा न॒स्मा-न्द्वेष्टि॑ । 15) द्वेष्टीति॒ द्वेष्टि॑ । 16) उ॒प॒या॒मगृ॑हीतो ऽस्यस्युपया॒मगृ॑हीत उपया॒मगृ॑हीतो ऽसि । 16) उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । 17) अ॒सीन्द्रा॒ये न्द्रा॑यास्य॒सीन्द्रा॑य । 18) इन्द्रा॑य त्वा॒ त्वेन्द्रा॒ये न्द्रा॑य त्वा । 19) त्वा॒ षो॒ड॒शिने॑ षोड॒शिने᳚ त्वा त्वा षोड॒शिने᳚ । 20) षो॒ड॒शिन॑ ए॒ष ए॒ष षो॑ड॒शिने॑ षोड॒शिन॑ ए॒षः । 21) ए॒ष ते॑ त ए॒ष ए॒ष ते᳚ । 22) ते॒ योनि॒-र्योनि॑ स्ते ते॒ योनिः॑ । 23) योनि॒ रिन्द्रा॒ये न्द्रा॑य॒ योनि॒-र्योनि॒ रिन्द्रा॑य । 24) इन्द्रा॑य त्वा॒ त्वेन्द्रा॒ये न्द्रा॑य त्वा । 25) त्वा॒ षो॒ड॒शिने॑ षोड॒शिने᳚ त्वा त्वा षोड॒शिने᳚ । 26) षो॒ड॒शिन॒ इति॑ षोड॒शिने᳚ । ॥ 42 ॥ (26/29) ॥ अ. 41 ॥
1) स॒जोषा॑ इन्द्रेन्द्र स॒जोषा᳚-स्स॒जोषा॑ इन्द्र । 1) स॒जोषा॒ इति॑ स - जोषाः᳚ । 2) इ॒न्द्र॒ सग॑ण॒-स्सग॑ण इन्द्रेन्द्र॒ सग॑णः । 3) सग॑णो म॒रुद्भि॑-र्म॒रुद्भि॒-स्सग॑ण॒-स्सग॑णो म॒रुद्भिः॑ । 3) सग॑ण॒ इति॒ स - ग॒णः॒ । 4) म॒रुद्भि॒-स्सोम॒(ग्म्॒) सोम॑-म्म॒रुद्भि॑-र्म॒रुद्भि॒-स्सोम᳚म् । 4) म॒रुद्भि॒रिति॑ म॒रुत् - भिः॒ । 5) सोम॑-म्पिब पिब॒ सोम॒(ग्म्॒) सोम॑-म्पिब । 6) पि॒ब॒ वृ॒त्र॒ह॒न्॒ वृ॒त्र॒ह॒-न्पि॒ब॒ पि॒ब॒ वृ॒त्र॒ह॒न्न् । 7) वृ॒त्र॒ह॒-ञ्छू॒र॒ शू॒र॒ वृ॒त्र॒ह॒न्॒ वृ॒त्र॒ह॒-ञ्छू॒र॒ । 7) वृ॒त्र॒ह॒न्निति॑ वृत्र - ह॒न्न् । 8) शू॒र॒ वि॒द्वान्. वि॒द्वा-ञ्छू॑र शूर वि॒द्वान् । 9) वि॒द्वानिति॑ वि॒द्वान् । 10) ज॒हि शत्रू॒-ञ्छत्रू᳚न् ज॒हि ज॒हि शत्रून्॑ । 11) शत्रू॒(ग्म्॒) रपाप॒ शत्रू॒-ञ्छत्रू॒ग्ं रप॑ । 12) अप॒ मृधो॒ मृधो ऽपाप॒ मृधः॑ । 13) मृधो॑ नुदस्व नुदस्व॒ मृधो॒ मृधो॑ नुदस्व । 14) नु॒द॒स्वाथाथ॑ नुदस्व नुद॒स्वाथ॑ । 15) अथाभ॑य॒ मभ॑य॒ मथाथाभ॑यम् । 16) अभ॑य-ङ्कृणुहि कृणु॒ह्यभ॑य॒ मभ॑य-ङ्कृणुहि । 17) कृ॒णु॒हि॒ वि॒श्वतो॑ वि॒श्वत॑स्कृणुहि कृणुहि वि॒श्वतः॑ । 18) वि॒श्वतो॑ नो नो वि॒श्वतो॑ वि॒श्वतो॑ नः । 19) न॒ इति॑ नः॒ । 20) उ॒प॒या॒मगृ॑हीतो ऽस्यस्युपया॒मगृ॑हीत उपया॒मगृ॑हीतो ऽसि । 20) उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । 21) अ॒सीन्द्रा॒ये न्द्रा॑यास्य॒सीन्द्रा॑य । 22) इन्द्रा॑य त्वा॒ त्वेन्द्रा॒ये न्द्रा॑य त्वा । 23) त्वा॒ षो॒ड॒शिने॑ षोड॒शिने᳚ त्वा त्वा षोड॒शिने᳚ । 24) षो॒ड॒शिन॑ ए॒ष ए॒ष षो॑ड॒शिने॑ षोड॒शिन॑ ए॒षः । 25) ए॒ष ते॑ त ए॒ष ए॒ष ते᳚ । 26) ते॒ योनि॒-र्योनि॑ स्ते ते॒ योनिः॑ । 27) योनि॒ रिन्द्रा॒ये न्द्रा॑य॒ योनि॒-र्योनि॒ रिन्द्रा॑य । 28) इन्द्रा॑य त्वा॒ त्वेन्द्रा॒ये न्द्रा॑य त्वा । 29) त्वा॒ षो॒ड॒शिने॑ षोड॒शिने᳚ त्वा त्वा षोड॒शिने᳚ । 30) षो॒ड॒शिन॒ इति॑ षोड॒शिने᳚ । ॥ 43 ॥ (30/35) ॥ अ. 42 ॥
1) उदु॑ वु॒ वुदुदु॑ । 2) उ॒ त्य-न्त्यमु॑वु॒ त्यम् । 3) त्य-ञ्जा॒तवे॑दस-ञ्जा॒तवे॑दस॒-न्त्य-न्त्य-ञ्जा॒तवे॑दसम् । 4) जा॒तवे॑दस-न्दे॒व-न्दे॒व-ञ्जा॒तवे॑दस-ञ्जा॒तवे॑दस-न्दे॒वम् । 4) जा॒तवे॑दस॒मिति॑ जा॒त - वे॒द॒स॒म् । 5) दे॒वं-वँ॑हन्ति वहन्ति दे॒व-न्दे॒वं-वँ॑हन्ति । 6) व॒ह॒न्ति॒ के॒तवः॑ के॒तवो॑ वहन्ति वहन्ति के॒तवः॑ । 7) के॒तव॒ इति॑ के॒तवः॑ । 8) दृ॒शे विश्वा॑य॒ विश्वा॑य दृ॒शे दृ॒शे विश्वा॑य । 9) विश्वा॑य॒ सूर्य॒(ग्म्॒) सूर्यं॒-विँश्वा॑य॒ विश्वा॑य॒ सूर्य᳚म् । 10) सूर्य॒मिति॒ सूर्य᳚म् । 11) चि॒त्र-न्दे॒वाना᳚-न्दे॒वाना᳚-ञ्चि॒त्र-ञ्चि॒त्र-न्दे॒वाना᳚म् । 12) दे॒वाना॒ मुदु-द्दे॒वाना᳚-न्दे॒वाना॒ मुत् । 13) उद॑गा दगा॒ दुदु द॑गात् । 14) अ॒गा॒दनी॑क॒ मनी॑क मगादगा॒ दनी॑कम् । 15) अनी॑क॒-ञ्चक्षु॒ श्चक्षु॒ रनी॑क॒ मनी॑क॒-ञ्चक्षुः॑ । 16) चक्षु॑-र्मि॒त्रस्य॑ मि॒त्रस्य॒ चक्षु॒ श्चक्षु॑-र्मि॒त्रस्य॑ । 17) मि॒त्रस्य॒ वरु॑णस्य॒ वरु॑णस्य मि॒त्रस्य॑ मि॒त्रस्य॒ वरु॑णस्य । 18) वरु॑णस्या॒ग्ने र॒ग्ने-र्वरु॑णस्य॒ वरु॑णस्या॒ग्नेः । 19) अ॒ग्नेरित्य॒ग्नेः । 20) आ ऽप्रा॑ अप्रा॒ आ ऽप्राः᳚ । 21) अ॒प्रा॒ द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी अ॑प्रा अप्रा॒ द्यावा॑पृथि॒वी । 22) द्यावा॑पृथि॒वी अ॒न्तरि॑क्ष म॒न्तरि॑क्ष॒-न्द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी अ॒न्तरि॑क्षम् । 22) द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी । 23) अ॒न्तरि॑क्ष॒(ग्म्॒) सूर्य॒-स्सूर्यो॒ ऽन्तरि॑क्ष म॒न्तरि॑क्ष॒(ग्म्॒) सूर्यः॑ । 24) सूर्य॑ आ॒त्मा ऽऽत्मा सूर्य॒-स्सूर्य॑ आ॒त्मा । 25) आ॒त्मा जग॑तो॒ जग॑त आ॒त्मा ऽऽत्मा जग॑तः । 26) जग॑त स्त॒स्थुष॑ स्त॒स्थुषो॒ जग॑तो॒ जग॑त स्त॒स्थुषः॑ । 27) त॒स्थुष॑श्च च त॒स्थुष॑ स्त॒स्थुष॑श्च । 28) चेति॑ च । 29) अग्ने॒ नय॒ नयाग्ने ऽग्ने॒ नय॑ । 30) नय॑ सु॒पथा॑ सु॒पथा॒ नय॒ नय॑ सु॒पथा᳚ । 31) सु॒पथा॑ रा॒ये रा॒ये सु॒पथा॑ सु॒पथा॑ रा॒ये । 31) सु॒पथेति॑ सु - पथा᳚ । 32) रा॒ये अ॒स्मा न॒स्मा-न्रा॒ये रा॒ये अ॒स्मान् । 33) अ॒स्मान्. विश्वा॑नि॒ विश्वा᳚न्य॒स्मा न॒स्मान्. विश्वा॑नि । 34) विश्वा॑नि देव देव॒ विश्वा॑नि॒ विश्वा॑नि देव । 35) दे॒व॒ व॒युना॑नि व॒युना॑नि देव देव व॒युना॑नि । 36) व॒युना॑नि वि॒द्वान्. वि॒द्वान्. व॒युना॑नि व॒युना॑नि वि॒द्वान् । 37) वि॒द्वानिति॑ वि॒द्वान् । 38) यु॒यो॒ध्य॑स्म द॒स्म-द्यु॑यो॒धि यु॑यो॒ध्य॑स्मत् । 39) अ॒स्मज् जु॑हुरा॒ण-ञ्जु॑हुरा॒ण म॒स्मद॒स्मज् जु॑हुरा॒णम् । 40) जु॒हु॒रा॒ण मेन॒ एनो॑ जुहुरा॒ण-ञ्जु॑हुरा॒ण मेनः॑ । 41) एनो॒ भूयि॑ष्ठा॒-म्भूयि॑ष्ठा॒ मेन॒ एनो॒ भूयि॑ष्ठाम् । 42) भूयि॑ष्ठा-न्ते ते॒ भूयि॑ष्ठा॒-म्भूयि॑ष्ठा-न्ते । 43) ते॒ नम॑उक्ति॒ न्नम॑उक्ति-न्ते ते॒ नम॑उक्तिम् । 44) नम॑उक्तिं-विँधेम विधेम॒ नम॑उक्ति॒ न्नम॑उक्तिं-विँधेम । 44) नम॑उक्ति॒मिति॒ नमः॑ - उ॒क्ति॒म् । 45) वि॒धे॒मेति॑ विधेम । 46) दिव॑-ङ्गच्छ गच्छ॒ दिव॒-न्दिव॑-ङ्गच्छ । 47) ग॒च्छ॒ सुव॒-स्सुव॑-र्गच्छ गच्छ॒ सुवः॑ । 48) सुवः॑ पत पत॒ सुव॒-स्सुवः॑ पत । 49) प॒त॒ रू॒पेण॑ रू॒पेण॑ पत पत रू॒पेण॑ । 50) रू॒पेण॑ वो वो रू॒पेण॑ रू॒पेण॑ वः । ॥ 44 ॥ (50/54)
1) वो॒ रू॒पग्ं रू॒पं-वोँ॑ वो रू॒पम् । 2) रू॒प म॒भ्य॑भि रू॒पग्ं रू॒प म॒भि । 3) अ॒भ्या ऽभ्य॑भ्या । 4) ऐम्ये॒म्यैमि॑ । 5) ए॒मि॒ वय॑सा॒ वय॑सैम्येमि॒ वय॑सा । 6) वय॑सा॒ वयो॒ वयो॒ वय॑सा॒ वय॑सा॒ वयः॑ । 7) वय॒ इति॒ वयः॑ । 8) तु॒थो वो॑ व स्तु॒थ स्तु॒थो वः॑ । 9) वो॒ वि॒श्ववे॑दा वि॒श्ववे॑दा वो वो वि॒श्ववे॑दाः । 10) वि॒श्ववे॑दा॒ वि वि वि॒श्ववे॑दा वि॒श्ववे॑दा॒ वि । 10) वि॒श्ववे॑दा॒ इति॑ वि॒श्व - वे॒दाः॒ । 11) वि भ॑जतु भजतु॒ वि वि भ॑जतु । 12) भ॒ज॒तु॒ वर्षि॑ष्ठे॒ वर्षि॑ष्ठे भजतु भजतु॒ वर्षि॑ष्ठे । 13) वर्षि॑ष्ठे॒ अध्यधि॒ वर्षि॑ष्ठे॒ वर्षि॑ष्ठे॒ अधि॑ । 14) अधि॒ नाके॒ नाके ऽध्यधि॒ नाके᳚ । 15) नाक॒ इति॒ नाके᳚ । 16) ए॒त-त्ते॑ त ए॒तदे॒त-त्ते᳚ । 17) ते॒ अ॒ग्ने॒ ऽग्ने॒ ते॒ ते॒ अ॒ग्ने॒ । 18) अ॒ग्ने॒ राधो॒ राधो᳚ ऽग्ने ऽग्ने॒ राधः॑ । 19) राध॒ आ राधो॒ राध॒ आ । 20) ऐत्ये॒त्यैति॑ । 21) ए॒ति॒ सोम॑च्युत॒(ग्म्॒) सोम॑च्युत मेत्येति॒ सोम॑च्युतम् । 22) सोम॑च्युत॒-न्त-त्त-थ्सोम॑च्युत॒(ग्म्॒) सोम॑च्युत॒-न्तत् । 22) सोम॑च्युत॒मिति॒ सोम॑ - च्यु॒त॒म् । 23) त-न्मि॒त्रस्य॑ मि॒त्रस्य॒ त-त्त-न्मि॒त्रस्य॑ । 24) मि॒त्रस्य॑ प॒था प॒था मि॒त्रस्य॑ मि॒त्रस्य॑ प॒था । 25) प॒था न॑य नय प॒था प॒था न॑य । 26) न॒य॒ र्तस्य॒ र्तस्य॑ नय नय॒ र्तस्य॑ । 27) ऋ॒तस्य॑ प॒था प॒थर्तस्य॒ र्तस्य॑ प॒था । 28) प॒था प्र प्र प॒था प॒था प्र । 29) प्रे ते॑ त॒ प्र प्रे त॑ । 30) इ॒त॒ च॒न्द्रद॑क्षिणा श्च॒न्द्रद॑क्षिणा इते त च॒न्द्रद॑क्षिणाः । 31) च॒न्द्रद॑क्षिणा य॒ज्ञस्य॑ य॒ज्ञस्य॑ च॒न्द्रद॑क्षिणा श्च॒न्द्रद॑क्षिणा य॒ज्ञस्य॑ । 31) च॒न्द्रद॑क्षिणा॒ इति॑ च॒न्द्र - द॒क्षि॒णाः॒ । 32) य॒ज्ञस्य॑ प॒था प॒था य॒ज्ञस्य॑ य॒ज्ञस्य॑ प॒था । 33) प॒था सु॑वि॒ता सु॑वि॒ता प॒था प॒था सु॑वि॒ता । 34) सु॒वि॒ता नय॑न्ती॒-र्नय॑न्ती-स्सुवि॒ता सु॑वि॒ता नय॑न्तीः । 35) नय॑न्ती-र्ब्राह्म॒ण-म्ब्रा᳚ह्म॒ण न्नय॑न्ती॒-र्नय॑न्ती-र्ब्राह्म॒णम् । 36) ब्रा॒ह्म॒ण म॒द्याद्य ब्रा᳚ह्म॒ण-म्ब्रा᳚ह्म॒ण म॒द्य । 37) अ॒द्य रा᳚द्ध्यासग्ं राद्ध्यास म॒द्याद्य रा᳚द्ध्यासम् । 38) रा॒द्ध्या॒स॒ मृषि॒ मृषि(ग्म्॑) राद्ध्यासग्ं राद्ध्यास॒ मृषि᳚म् । 39) ऋषि॑ मार्षे॒य मा॑र्षे॒य मृषि॒ मृषि॑ मार्षे॒यम् । 40) आ॒र्॒षे॒य-म्पि॑तृ॒मन्त॑-म्पितृ॒मन्त॑ मार्षे॒य मा॑र्षे॒य-म्पि॑तृ॒मन्त᳚म् । 41) पि॒तृ॒मन्त॑-म्पैतृम॒त्य-म्पै॑तृम॒त्य-म्पि॑तृ॒मन्त॑-म्पितृ॒मन्त॑-म्पैतृम॒त्यम् । 41) पि॒तृ॒मन्त॒मिति॑ पितृ - मन्त᳚म् । 42) पै॒तृ॒म॒त्यग्ं सु॒धातु॑दक्षिणग्ं सु॒धातु॑दक्षिण-म्पैतृम॒त्य-म्पै॑तृम॒त्यग्ं सु॒धातु॑दक्षिणम् । 42) पै॒तृ॒म॒त्यमिति॑ पैतृ - म॒त्यम् । 43) सु॒धातु॑दक्षिणं॒-विँ वि सु॒धातु॑दक्षिणग्ं सु॒धातु॑दक्षिणं॒-विँ । 43) सु॒धातु॑दक्षिण॒मिति॑ सु॒धातु॑ - द॒क्षि॒ण॒म् । 44) वि सुव॒-स्सुव॒-र्वि वि सुवः॑ । 45) सुवः॒ पश्य॒ पश्य॒ सुव॒-स्सुवः॒ पश्य॑ । 46) पश्य॒ वि वि पश्य॒ पश्य॒ वि । 47) व्य॑न्तरि॑क्ष म॒न्तरि॑क्षं॒-विँ व्य॑न्तरि॑क्षम् । 48) अ॒न्तरि॑क्षं॒-यँत॑स्व॒ यत॑स्वा॒न्तरि॑क्ष म॒न्तरि॑क्षं॒-यँत॑स्व । 49) यत॑स्व सद॒स्यै᳚-स्सद॒स्यै᳚-र्यत॑स्व॒ यत॑स्व सद॒स्यैः᳚ । 50) स॒द॒स्यै॑ र॒स्मद्दा᳚त्रा अ॒स्मद्दा᳚त्रा-स्सद॒स्यै᳚-स्सद॒स्यै॑ र॒स्मद्दा᳚त्राः । 51) अ॒स्मद्दा᳚त्रा देव॒त्रा दे॑व॒त्रा ऽस्मद्दा᳚त्रा अ॒स्मद्दा᳚त्रा देव॒त्रा । 51) अ॒स्मद्दा᳚त्रा॒ इत्य॒स्मत् - दा॒त्राः॒ । 52) दे॒व॒त्रा ग॑च्छत गच्छत देव॒त्रा दे॑व॒त्रा ग॑च्छत । 52) दे॒व॒त्रेति॑ देव - त्रा । 53) ग॒च्छ॒त॒ मधु॑मती॒-र्मधु॑मती-र्गच्छत गच्छत॒ मधु॑मतीः । 54) मधु॑मतीः प्रदा॒तार॑-म्प्रदा॒तार॒-म्मधु॑मती॒-र्मधु॑मतीः प्रदा॒तार᳚म् । 54) मधु॑मती॒रिति॒ मधु॑ - म॒तीः॒ । 55) प्र॒दा॒तार॒ मा प्र॑दा॒तार॑-म्प्रदा॒तार॒ मा । 55) प्र॒दा॒तार॒मिति॑ प्र - दा॒तार᳚म् । 56) आ वि॑शत विश॒ता वि॑शत । 57) वि॒श॒तान॑वहा॒यान॑वहाय विशत विश॒तान॑वहाय । 58) अन॑वहाया॒स्मा न॒स्मा नन॑वहा॒यान॑वहाया॒स्मान् । 58) अन॑वहा॒येत्यन॑व - हा॒य॒ । 59) अ॒स्मा-न्दे॑व॒याने॑न देव॒या ने॑ना॒स्मा न॒स्मा-न्दे॑व॒याने॑न । 60) दे॒व॒याने॑न प॒था प॒था दे॑व॒याने॑न देव॒याने॑न प॒था । 60) दे॒व॒याने॒नेति॑ देव - याने॑न । 61) प॒थेते॑ त प॒था प॒थेत॑ । 62) इ॒त॒ सु॒कृता(ग्म्॑) सु॒कृता॑ मिते त सु॒कृता᳚म् । 63) सु॒कृता᳚म् ँलो॒के लो॒के सु॒कृता(ग्म्॑) सु॒कृता᳚म् ँलो॒के । 63) सु॒कृता॒मिति॑ सु - कृता᳚म् । 64) लो॒के सी॑दत सीदत लो॒के लो॒के सी॑दत । 65) सी॒द॒त॒ त-त्त-थ्सी॑दत सीदत॒ तत् । 66) त-न्नो॑ न॒ स्त-त्त-न्नः॑ । 67) न॒-स्स॒(ग्ग्॒)स्कृ॒तग्ं स(ग्ग्॑)स्कृ॒तन्नो॑ न-स्सग्ग्स्कृ॒तम् । 68) स॒(ग्ग्॒)स्कृ॒तमिति॑ सग्ग्स्कृ॒तम् । ॥ 45 ॥ (68/81) ॥ अ. 43 ॥
1) धा॒ता रा॒ती रा॒ति-र्धा॒ता धा॒ता रा॒तिः । 2) रा॒ति-स्स॑वि॒ता स॑वि॒ता रा॒ती रा॒ति-स्स॑वि॒ता । 3) स॒वि॒तेद मि॒दग्ं स॑वि॒ता स॑वि॒तेदम् । 4) इ॒द-ञ्जु॑षन्ता-ञ्जुषन्ता मि॒द मि॒द-ञ्जु॑षन्ताम् । 5) जु॒ष॒न्ता॒-म्प्र॒जाप॑तिः प्र॒जाप॑ति-र्जुषन्ता-ञ्जुषन्ता-म्प्र॒जाप॑तिः । 6) प्र॒जाप॑ति-र्निधि॒पति॑-र्निधि॒पतिः॑ प्र॒जाप॑तिः प्र॒जाप॑ति-र्निधि॒पतिः॑ । 6) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 7) नि॒धि॒पति॑-र्नो नो निधि॒पति॑-र्निधि॒पति॑-र्नः । 7) नि॒धि॒पति॒रिति॑ निधि - पतिः॑ । 8) नो॒ अ॒ग्नि र॒ग्नि-र्नो॑ नो अ॒ग्निः । 9) अ॒ग्निरित्य॒ग्निः । 10) त्वष्टा॒ विष्णु॒-र्विष्णु॒ स्त्वष्टा॒ त्वष्टा॒ विष्णुः॑ । 11) विष्णुः॑ प्र॒जया᳚ प्र॒जया॒ विष्णु॒-र्विष्णुः॑ प्र॒जया᳚ । 12) प्र॒जया॑ सग्ंररा॒ण-स्स(ग्म्॑)ररा॒णः प्र॒जया᳚ प्र॒जया॑ सग्ंररा॒णः । 12) प्र॒जयेति॑ प्र - जया᳚ । 13) स॒(ग्म्॒)र॒रा॒णो यज॑मानाय॒ यज॑मानाय सग्ंररा॒ण-स्स(ग्म्॑)ररा॒णो यज॑मानाय । 13) स॒(ग्म्॒)र॒रा॒ण इति॑ सं - र॒रा॒णः । 14) यज॑मानाय॒ द्रवि॑ण॒-न्द्रवि॑णं॒-यँज॑मानाय॒ यज॑मानाय॒ द्रवि॑णम् । 15) द्रवि॑ण-न्दधातु दधातु॒ द्रवि॑ण॒-न्द्रवि॑ण-न्दधातु । 16) द॒धा॒त्विति॑ दधातु । 17) समि॑न्द्रेन्द्र॒ सग्ं समि॑न्द्र । 18) इ॒न्द्र॒ णो॒ न॒ इ॒न्द्रे॒न्द्र॒ णः॒ । 19) नो॒ मन॑सा॒ मन॑सा नो नो॒ मन॑सा । 20) मन॑सा नेषि नेषि॒ मन॑सा॒ मन॑सा नेषि । 21) ने॒षि॒ गोभि॒-र्गोभि॑-र्नेषि नेषि॒ गोभिः॑ । 22) गोभि॒-स्सग्ं स-ङ्गोभि॒-र्गोभि॒-स्सम् । 23) सग्ं सू॒रिभि॑-स्सू॒रिभि॒-स्सग्ं सग्ं सू॒रिभिः॑ । 24) सू॒रिभि॑-र्मघव-न्मघव-न्थ्सू॒रिभि॑-स्सू॒रिभि॑-र्मघवन्न् । 24) सू॒रिभि॒रिति॑ सू॒रि - भिः॒ । 25) म॒घ॒व॒-न्थ्सग्ं स-म्म॑घव-न्मघव॒-न्थ्सम् । 25) म॒घ॒व॒न्निति॑ मघ - व॒न्न् । 26) सग्ग् स्व॒स्त्या स्व॒स्त्या सग्ं सग्ग् स्व॒स्त्या । 27) स्व॒स्त्येति॑ स्व॒स्त्या । 28) स-म्ब्रह्म॑णा॒ ब्रह्म॑णा॒ सग्ं स-म्ब्रह्म॑णा । 29) ब्रह्म॑णा दे॒वकृ॑त-न्दे॒वकृ॑त॒-म्ब्रह्म॑णा॒ ब्रह्म॑णा दे॒वकृ॑तम् । 30) दे॒वकृ॑तं॒-यँ-द्य-द्दे॒वकृ॑त-न्दे॒वकृ॑तं॒-यँत् । 30) दे॒वकृ॑त॒मिति॑ दे॒व - कृ॒त॒म् । 31) यदस्त्यस्ति॒ य-द्यदस्ति॑ । 32) अस्ति॒ सग्ं स मस्त्यस्ति॒ सम् । 33) स-न्दे॒वाना᳚-न्दे॒वाना॒(ग्म्॒) सग्ं स-न्दे॒वाना᳚म् । 34) दे॒वाना(ग्म्॑) सुम॒त्या सु॑म॒त्या दे॒वाना᳚-न्दे॒वाना(ग्म्॑) सुम॒त्या । 35) सु॒म॒त्या य॒ज्ञिया॑नां-यँ॒ज्ञिया॑नाग्ं सुम॒त्या सु॑म॒त्या य॒ज्ञिया॑नाम् । 35) सु॒म॒त्येति॑ सु - म॒त्या । 36) य॒ज्ञिया॑ना॒मिति॑ य॒ज्ञिया॑नाम् । 37) सं-वँर्च॑सा॒ वर्च॑सा॒ सग्ं सं-वँर्च॑सा । 38) वर्च॑सा॒ पय॑सा॒ पय॑सा॒ वर्च॑सा॒ वर्च॑सा॒ पय॑सा । 39) पय॑सा॒ सग्ं स-म्पय॑सा॒ पय॑सा॒ सम् । 40) स-न्त॒नूभि॑ स्त॒नूभि॒-स्सग्ं स-न्त॒नूभिः॑ । 41) त॒नूभि॒ रग॑न्म॒ह्यग॑न्महि त॒नूभि॑ स्त॒नूभि॒ रग॑न्महि । 42) अग॑न्महि॒ मन॑सा॒ मन॒सा ऽग॑न्म॒ह्यग॑न्महि॒ मन॑सा । 43) मन॑सा॒ सग्ं स-म्मन॑सा॒ मन॑सा॒ सम् । 44) सग्ंशि॒वेन॑ शि॒वेन॒ सग्ं सग्ं शि॒वेन॑ । 45) शि॒वेनेति॑ शि॒वेन॑ । 46) त्वष्टा॑ नो न॒ स्त्वष्टा॒ त्वष्टा॑ नः । 47) नो॒ अत्रात्र॑ नो नो॒ अत्र॑ । 48) अत्र॒ वरि॑वो॒ वरि॑वो॒ अत्रात्र॒ वरि॑वः । 49) वरि॑वः कृणोतु कृणोतु॒ वरि॑वो॒ वरि॑वः कृणोतु । 50) कृ॒णो॒त्वन्वनु॑ कृणोतु कृणो॒त्वनु॑ । ॥ 46 ॥ (50/58)
1) अनु॑ मार्ष्टु मा॒र्ष्ट्वन्वनु॑ मार्ष्टु । 2) मा॒र्ष्टु॒ त॒नुव॑ स्त॒नुवो॑ मार्ष्टु मार्ष्टु त॒नुवः॑ । 3) त॒नुवो॒ य-द्य-त्त॒नुव॑ स्त॒नुवो॒ यत् । 4) य-द्विलि॑ष्टं॒-विँलि॑ष्टं॒-यँ-द्य-द्विलि॑ष्टम् । 5) विलि॑ष्ट॒मिति॒ वि - लि॒ष्ट॒म् । 6) यद॒द्याद्य य-द्यद॒द्य । 7) अ॒द्य त्वा᳚ त्वा॒ ऽद्याद्य त्वा᳚ । 8) त्वा॒ प्र॒य॒ति प्र॑य॒ति त्वा᳚ त्वा प्रय॒ति । 9) प्र॒य॒ति य॒ज्ञे य॒ज्ञे प्र॑य॒ति प्र॑य॒ति य॒ज्ञे । 9) प्र॒यतीति॑ प्र - य॒ति । 10) य॒ज्ञे अ॒स्मि-न्न॒स्मिन्. य॒ज्ञे य॒ज्ञे अ॒स्मिन्न् । 11) अ॒स्मि-न्नग्ने ऽग्ने॑ अ॒स्मि-न्न॒स्मि-न्नग्ने᳚ । 12) अग्ने॒ होता॑र॒(ग्म्॒) होता॑र॒ मग्ने ऽग्ने॒ होता॑रम् । 13) होता॑र॒ मवृ॑णीम॒ह्यवृ॑णीमहि॒ होता॑र॒(ग्म्॒) होता॑र॒ मवृ॑णीमहि । 14) अवृ॑णीमही॒हे हावृ॑णी म॒ह्यवृ॑णीमही॒ह । 15) इ॒हेती॒ह । 16) ऋध॑ गयाडया॒ डृध॒ गृध॑गयाट् । 17) अ॒या॒ डृध॒ गृध॑ गया डया॒डृध॑क् । 18) ऋध॑गु॒तोत र्ध॒गृध॑गु॒त । 19) उ॒ताश॑मिष्ठा॒ अश॑मिष्ठा उ॒तोताश॑मिष्ठाः । 20) अश॑मिष्ठाः प्रजा॒न-न्प्र॑जा॒न-न्नश॑मिष्ठा॒ अश॑मिष्ठाः प्रजा॒नन्न् । 21) प्र॒जा॒नन्. य॒ज्ञं-यँ॒ज्ञ-म्प्र॑जा॒न-न्प्र॑जा॒नन्. य॒ज्ञम् । 21) प्र॒जा॒नन्निति॑ प्र - जा॒नन्न् । 22) य॒ज्ञ मुपोप॑ य॒ज्ञं-यँ॒ज्ञ मुप॑ । 23) उप॑ याहि या॒ह्युपोप॑ याहि । 24) या॒हि॒ वि॒द्वान्. वि॒द्वान्. या॑हि याहि वि॒द्वान् । 25) वि॒द्वानिति॑ वि॒द्वान् । 26) स्व॒गा वो॑ व-स्स्व॒गा स्व॒गा वः॑ । 26) स्व॒गेति॑ स्व - गा । 27) वो॒ दे॒वा॒ दे॒वा॒ वो॒ वो॒ दे॒वाः॒ । 28) दे॒वा॒-स्सद॑न॒(ग्म्॒) सद॑न-न्देवा देवा॒-स्सद॑नम् । 29) सद॑न मकर्माकर्म॒ सद॑न॒(ग्म्॒) सद॑न मकर्म । 30) अ॒क॒र्म॒ ये ये अ॑कर्माकर्म॒ ये । 31) य आ॑ज॒ग्माज॒ग्म ये य आ॑ज॒ग्म । 32) आ॒ज॒ग्म सव॑ना॒ सव॑ना ऽऽज॒ग्माज॒ग्म सव॑ना । 32) आ॒ज॒ग्मेत्या᳚ - ज॒ग्म । 33) सव॑ने॒द मि॒दग्ं सव॑ना॒ सव॑ने॒दम् । 34) इ॒द-ञ्जु॑षा॒णा जु॑षा॒णा इ॒द मि॒द-ञ्जु॑षा॒णाः । 35) जु॒षा॒णा इति॑ जुषा॒णाः । 36) ज॒क्षि॒वाग्ंसः॑ पपि॒वाग्ंसः॑ पपि॒वाग्ंसो॑ जक्षि॒वाग्ंसो॑ जक्षि॒वाग्ंसः॑ पपि॒वाग्ंसः॑ । 37) प॒पि॒वाग्ंस॑श्च च पपि॒वाग्ंसः॑ पपि॒वाग्ंस॑श्च । 38) च॒ विश्वे॒ विश्वे॑ च च॒ विश्वे᳚ । 39) विश्वे॒ ऽस्मे अ॒स्मे विश्वे॒ विश्वे॒ ऽस्मे । 40) अ॒स्मे ध॑त्त धत्ता॒स्मे अ॒स्मे ध॑त्त । 40) अ॒स्मे इत्य॒स्मे । 41) ध॒त्त॒ व॒स॒वो॒ व॒स॒वो॒ ध॒त्त॒ ध॒त्त॒ व॒स॒वः॒ । 42) व॒स॒वो॒ वसू॑नि॒ वसू॑नि वसवो वसवो॒ वसू॑नि । 43) वसू॒नीति॒ वसू॑नि । 44) या ना यान्. या ना । 45) आ ऽव॒हो ऽव॑ह॒ आ ऽव॑हः । 46) अव॑ह उश॒त उ॑श॒तो ऽव॒हो ऽव॑ह उश॒तः । 47) उ॒श॒तो दे॑व देवोश॒त उ॑श॒तो दे॑व । 48) दे॒व॒ दे॒वा-न्दे॒वा-न्दे॑व देव दे॒वान् । 49) दे॒वा-न्ताग्स् ता-न्दे॒वा-न्दे॒वा-न्तान् । 50) ता-न्प्र प्र ताग् स्ता-न्प्र । ॥ 47 ॥ (50/55)
1) प्रेर॑येरय॒ प्र प्रेर॑य । 2) ई॒र॒य॒ स्वे स्व ई॑रयेरय॒ स्वे । 3) स्वे अ॑ग्ने अग्ने॒ स्वे स्वे अ॑ग्ने । 4) अ॒ग्ने॒ स॒धस्थे॑ स॒धस्थे᳚ ऽग्ने अग्ने स॒धस्थे᳚ । 5) स॒धस्थ॒ इति॑ स॒ध - स्थे॒ । 6) वह॑माना॒ भर॑माणा॒ भर॑माणा॒ वह॑माना॒ वह॑माना॒ भर॑माणाः । 7) भर॑माणा ह॒वीग्ंषि॑ ह॒वीग्ंषि॒ भर॑माणा॒ भर॑माणा ह॒वीग्ंषि॑ । 8) ह॒वीग्ंषि॒ वसुं॒-वँसु(ग्म्॑) ह॒वीग्ंषि॑ ह॒वीग्ंषि॒ वसु᳚म् । 9) वसु॑-ङ्घ॒र्म-ङ्घ॒र्मं-वँसुं॒-वँसु॑-ङ्घ॒र्मम् । 10) घ॒र्म-न्दिव॒-न्दिव॑-ङ्घ॒र्म-ङ्घ॒र्म-न्दिव᳚म् । 11) दिव॒ मा दिव॒-न्दिव॒ मा । 12) आ ति॑ष्ठत तिष्ठ॒ता ति॑ष्ठत । 13) ति॒ष्ठ॒तान्वनु॑ तिष्ठत तिष्ठ॒तानु॑ । 14) अन्वित्यनु॑ । 15) यज्ञ॑ य॒ज्ञं-यँ॒ज्ञं-यँज्ञ॒ यज्ञ॑ य॒ज्ञम् । 16) य॒ज्ञ-ङ्ग॑च्छ गच्छ य॒ज्ञं-यँ॒ज्ञ-ङ्ग॑च्छ । 17) ग॒च्छ॒ य॒ज्ञप॑तिं-यँ॒ज्ञप॑ति-ङ्गच्छ गच्छ य॒ज्ञप॑तिम् । 18) य॒ज्ञप॑ति-ङ्गच्छ गच्छ य॒ज्ञप॑तिं-यँ॒ज्ञप॑ति-ङ्गच्छ । 18) य॒ज्ञप॑ति॒मिति॑ य॒ज्ञ - प॒ति॒म् । 19) ग॒च्छ॒ स्वाग् स्वा-ङ्ग॑च्छ गच्छ॒ स्वाम् । 20) स्वां-योँनिं॒-योँनि॒(ग्ग्॒) स्वाग् स्वां-योँनि᳚म् । 21) योनि॑-ङ्गच्छ गच्छ॒ योनिं॒-योँनि॑-ङ्गच्छ । 22) ग॒च्छ॒ स्वाहा॒ स्वाहा॑ गच्छ गच्छ॒ स्वाहा᳚ । 23) स्वाहै॒ष ए॒ष स्वाहा॒ स्वाहै॒षः । 24) ए॒ष ते॑ त ए॒ष ए॒ष ते᳚ । 25) ते॒ य॒ज्ञो य॒ज्ञ स्ते॑ ते य॒ज्ञः । 26) य॒ज्ञो य॑ज्ञपते यज्ञपते य॒ज्ञो य॒ज्ञो य॑ज्ञपते । 27) य॒ज्ञ॒प॒ते॒ स॒हसू᳚क्तवाक-स्स॒हसू᳚क्तवाको यज्ञपते यज्ञपते स॒हसू᳚क्तवाकः । 27) य॒ज्ञ॒प॒त॒ इति॑ यज्ञ - प॒ते॒ । 28) स॒हसू᳚क्तवाक-स्सु॒वीर॑-स्सु॒वीर॑-स्स॒हसू᳚क्तवाक-स्स॒हसू᳚क्तवाक-स्सु॒वीरः॑ । 28) स॒हसू᳚क्तवाक॒ इति॑ स॒हसू᳚क्त - वा॒कः॒ । 29) सु॒वीर॒-स्स्वाहा॒ स्वाहा॑ सु॒वीर॑-स्सु॒वीर॒-स्स्वाहा᳚ । 29) सु॒वीर॒ इति॑ सु - वीरः॑ । 30) स्वाहा॒ देवा॒ देवा॒-स्स्वाहा॒ स्वाहा॒ देवाः᳚ । 31) देवा॑ गातुविदो गातुविदो॒ देवा॒ देवा॑ गातुविदः । 32) गा॒तु॒वि॒दो॒ गा॒तु-ङ्गा॒तु-ङ्गा॑तुविदो गातुविदो गा॒तुम् । 32) गा॒तु॒वि॒द॒ इति॑ गातु - वि॒दः॒ । 33) गा॒तुं-विँ॒त्त्वा वि॒त्त्वा गा॒तु-ङ्गा॒तुं-विँ॒त्त्वा । 34) वि॒त्त्वा गा॒तु-ङ्गा॒तुं-विँ॒त्त्वा वि॒त्त्वा गा॒तुम् । 35) गा॒तु मि॑ते त गा॒तु-ङ्गा॒तु मि॑त । 36) इ॒त॒ मन॑सो॒ मन॑स इते त॒ मन॑सः । 37) मन॑स स्पते पते॒ मन॑सो॒ मन॑स स्पते । 38) प॒त॒ इ॒म मि॒म-म्प॑ते पत इ॒मम् । 39) इ॒मन्नो॑ न इ॒म मि॒मन्नः॑ । 40) नो॒ दे॒व॒ दे॒व॒ नो॒ नो॒ दे॒व॒ । 41) दे॒व॒ दे॒वेषु॑ दे॒वेषु॑ देव देव दे॒वेषु॑ । 42) दे॒वेषु॑ य॒ज्ञं-यँ॒ज्ञ-न्दे॒वेषु॑ दे॒वेषु॑ य॒ज्ञम् । 43) य॒ज्ञग्ग् स्वाहा॒ स्वाहा॑ य॒ज्ञं-यँ॒ज्ञग्ग् स्वाहा᳚ । 44) स्वाहा॑ वा॒चि वा॒चि स्वाहा॒ स्वाहा॑ वा॒चि । 45) वा॒चि स्वाहा॒ स्वाहा॑ वा॒चि वा॒चि स्वाहा᳚ । 46) स्वाहा॒ वाते॒ वाते॒ स्वाहा॒ स्वाहा॒ वाते᳚ । 47) वाते॑ धा धा॒ वाते॒ वाते॑ धाः । 48) धा॒ इति॑ धाः । ॥ 48 ॥ (48/53) ॥ अ. 44 ॥
1) उ॒रुग्ं हि ह्यु॑रु मु॒रुग्ं हि । 2) हि राजा॒ राजा॒ हि हि राजा᳚ । 3) राजा॒ वरु॑णो॒ वरु॑णो॒ राजा॒ राजा॒ वरु॑णः । 4) वरु॑ण श्च॒कार॑ च॒कार॒ वरु॑णो॒ वरु॑ण श्च॒कार॑ । 5) च॒कार॒ सूर्या॑य॒ सूर्या॑य च॒कार॑ च॒कार॒ सूर्या॑य । 6) सूर्या॑य॒ पन्था॒-म्पन्था॒(ग्म्॒) सूर्या॑य॒ सूर्या॑य॒ पन्था᳚म् । 7) पन्था॒ मन्वे॑त॒वा अन्वे॑त॒वै पन्था॒-म्पन्था॒ मन्वे॑त॒वै । 8) अन्वे॑त॒वा उ॑ वु॒ वन्वे॑त॒वा अन्वे॑त॒वा उ॑ । 8) अन्वे॑त॒वा इत्यनु॑ - ए॒त॒वै । 9) उ॒वित्यु॑ । 10) अ॒पदे॒ पादा॒ पादा॒ ऽपदे॒ ऽपदे॒ पादा᳚ । 11) पादा॒ प्रति॑धातवे॒ प्रति॑धातवे॒ पादा॒ पादा॒ प्रति॑धातवे । 12) प्रति॑धातवे ऽक रकः॒ प्रति॑धातवे॒ प्रति॑धातवे ऽकः । 12) प्रति॑धातव॒ इति॒ प्रति॑ - धा॒त॒वे॒ । 13) अ॒क॒ रु॒तोताक॑ रक रु॒त । 14) उ॒ताप॑व॒क्ता ऽप॑व॒क्तो तोताप॑व॒क्ता । 15) अ॒प॒व॒क्ता हृ॑दया॒विधो॑ हृदया॒विधो॑ ऽपव॒क्ता ऽप॑व॒क्ता हृ॑दया॒विधः॑ । 15) अ॒प॒व॒क्तेत्य॑प - व॒क्ता । 16) हृ॒द॒या॒विध॑श्चिच् चिद्धृदया॒विधो॑ हृदया॒विध॑श्चित् । 16) हृ॒द॒या॒विध॒ इति॑ हृदय - विधः॑ । 17) चि॒दिति॑ चित् । 18) श॒त-न्ते॑ ते श॒तग्ं श॒त-न्ते᳚ । 19) ते॒ रा॒ज॒-न्रा॒ज॒-न्ते॒ ते॒ रा॒ज॒न्न् । 20) रा॒ज॒-न्भि॒षजो॑ भि॒षजो॑ राज-न्राज-न्भि॒षजः॑ । 21) भि॒षज॑-स्स॒हस्र(ग्म्॑) स॒हस्र॑-म्भि॒षजो॑ भि॒षज॑-स्स॒हस्र᳚म् । 22) स॒हस्र॑ मु॒र्व्यु॑र्वी स॒हस्र(ग्म्॑) स॒हस्र॑ मु॒र्वी । 23) उ॒र्वी ग॑म्भी॒रा ग॑म्भी॒रोर्व्यु॑र्वी ग॑म्भी॒रा । 24) ग॒म्भी॒रा सु॑म॒ति-स्सु॑म॒ति-र्ग॑म्भी॒रा ग॑म्भी॒रा सु॑म॒तिः । 25) सु॒म॒तिष्टे॑ ते सुम॒ति-स्सु॑म॒तिष्टे᳚ । 25) सु॒म॒तिरिति॑ सु - म॒तिः । 26) ते॒ अ॒स्त्व॒स्तु॒ ते॒ ते॒ अ॒स्तु॒ । 27) अ॒स्त्वित्य॑स्तु । 28) बाध॑स्व॒ द्वेषो॒ द्वेषो॒ बाध॑स्व॒ बाध॑स्व॒ द्वेषः॑ । 29) द्वेषो॒ निर्-ऋ॑ति॒ न्निर्-ऋ॑ति॒-न्द्वेषो॒ द्वेषो॒ निर्-ऋ॑तिम् । 30) निर्-ऋ॑ति-म्परा॒चैः प॑रा॒चै-र्निर्-ऋ॑ति॒ न्निर्-ऋ॑ति-म्परा॒चैः । 30) निर्-ऋ॑ति॒मिति॒ निः - ऋ॒ति॒म् । 31) प॒रा॒चैः कृ॒त-ङ्कृ॒त-म्प॑रा॒चैः प॑रा॒चैः कृ॒तम् । 32) कृ॒त-ञ्चि॑च् चि-त्कृ॒त-ङ्कृ॒त-ञ्चि॑त् । 33) चि॒देन॒ एन॑श्चिच् चि॒देनः॑ । 34) एनः॒ प्र प्रैन॒ एनः॒ प्र । 35) प्र मु॑मुग्धि मुमुग्धि॒ प्र प्र मु॑मुग्धि । 36) मु॒मु॒ग्ध्य॒स्म द॒स्म-न्मु॑मुग्धि मुमुग्ध्य॒स्मत् । 37) अ॒स्मदित्य॒स्मत् । 38) अ॒भिष्ठि॑तो॒ वरु॑णस्य॒ वरु॑णस्या॒भिष्ठि॑तो॒ ऽभिष्ठि॑तो॒ वरु॑णस्य । 38) अ॒भिष्ठि॑त॒ इत्य॒भि - स्थि॒तः॒ । 39) वरु॑णस्य॒ पाशः॒ पाशो॒ वरु॑णस्य॒ वरु॑णस्य॒ पाशः॑ । 40) पाशो॒ ऽग्नेर॒ग्नेः पाशः॒ पाशो॒ ऽग्नेः । 41) अ॒ग्ने रनी॑क॒ मनी॑क म॒ग्ने र॒ग्ने रनी॑कम् । 42) अनी॑क म॒पो॑ ऽपो ऽनी॑क॒ मनी॑क म॒पः । 43) अ॒प आ ऽपो॑ ऽप आ । 44) आ वि॑वेश विवे॒शा वि॑वेश । 45) वि॒वे॒शेति॑ विवेश । 46) अपा᳚न्नपा-न्नपा॒दपा॒ मपा᳚न्नपात् । 47) न॒पा॒-त्प्र॒ति॒रक्ष॑-न्प्रति॒रक्ष॑-न्नपा-न्नपा-त्प्रति॒रक्षन्न्॑ । 48) प्र॒ति॒रक्ष॑-न्नसु॒र्य॑ मसु॒र्य॑-म्प्रति॒रक्ष॑-न्प्रति॒रक्ष॑-न्नसु॒र्य᳚म् । 48) प्र॒ति॒रक्ष॒न्निति॑ प्रति - रक्षन्न्॑ । 49) अ॒सु॒र्य॑-न्दमे॑दमे॒ दमे॑दमे ऽसु॒र्य॑ मसु॒र्य॑-न्दमे॑दमे । 50) दमे॑दमे स॒मिध(ग्म्॑) स॒मिध॒-न्दमे॑दमे॒ दमे॑दमे स॒मिध᳚म् । 50) दमे॑दम॒ इति॒ दमे᳚ - द॒मे॒ । ॥ 49 ॥ (50/59)
1) स॒मिधं॑-यँक्षि यक्षि स॒मिध(ग्म्॑) स॒मिधं॑-यँक्षि । 1) स॒मिध॒मिति॑ सं - इध᳚म् । 2) य॒क्ष्य॒ग्ने॒ ऽग्ने॒ य॒क्षि॒ य॒क्ष्य॒ग्ने॒ । 3) अ॒ग्न॒ इत्य॑ग्ने । 4) प्रति॑ ते ते॒ प्रति॒ प्रति॑ ते । 5) ते॒ जि॒ह्वा जि॒ह्वा ते॑ ते जि॒ह्वा । 6) जि॒ह्वा घृ॒त-ङ्घृ॒त-ञ्जि॒ह्वा जि॒ह्वा घृ॒तम् । 7) घृ॒त मुदु-द्घृ॒त-ङ्घृ॒त मुत् । 8) उच् च॑रण्येच् चरण्ये॒दुदुच् च॑रण्येत् । 9) च॒र॒ण्ये॒-थ्स॒मु॒द्रे स॑मु॒द्रे च॑रण्येच् चरण्ये-थ्समु॒द्रे । 10) स॒मु॒द्रे ते॑ ते समु॒द्रे स॑मु॒द्रे ते᳚ । 11) ते॒ हृद॑य॒(ग्म्॒) हृद॑य-न्ते ते॒ हृद॑यम् । 12) हृद॑य म॒फ्स्व॑फ्सु हृद॑य॒(ग्म्॒) हृद॑य म॒फ्सु । 13) अ॒फ्स्व॑न्त र॒न्त र॒फ्स्वा᳚(1॒)फ्स्व॑न्तः । 13) अ॒फ्स्वित्य॑प् - सु । 14) अ॒न्तरित्य॒न्तः । 15) स-न्त्वा᳚ त्वा॒ सग्ं स-न्त्वा᳚ । 16) त्वा॒ वि॒श॒न्तु॒ वि॒श॒न्तु॒ त्वा॒ त्वा॒ वि॒श॒न्तु॒ । 17) वि॒श॒न्त्वोष॑धी॒रोष॑धी-र्विशन्तु विश॒न्त्वोष॑धीः । 18) ओष॑धी रु॒तो तौष॑धी॒ रोष॑धीरु॒त । 19) उ॒ताप॒ आप॑ उ॒तोतापः॑ । 20) आपो॑ य॒ज्ञस्य॑ य॒ज्ञस्याप॒ आपो॑ य॒ज्ञस्य॑ । 21) य॒ज्ञस्य॑ त्वा त्वा य॒ज्ञस्य॑ य॒ज्ञस्य॑ त्वा । 22) त्वा॒ य॒ज्ञ॒प॒ते॒ य॒ज्ञ॒प॒ते॒ त्वा॒ त्वा॒ य॒ज्ञ॒प॒ते॒ । 23) य॒ज्ञ॒प॒ते॒ ह॒विर्भि॑र्-ह॒विर्भि॑-र्यज्ञपते यज्ञपते ह॒विर्भिः॑ । 23) य॒ज्ञ॒प॒त॒ इति॑ यज्ञ - प॒ते॒ । 24) ह॒विर्भि॒रिति॑ ह॒विः - भिः॒ । 25) सू॒क्त॒वा॒के न॑मोवा॒के न॑मोवा॒के सू᳚क्तवा॒के सू᳚क्तवा॒के न॑मोवा॒के । 25) सू॒क्त॒वा॒क इति॑ सूक्त - वा॒के । 26) न॒मो॒वा॒के वि॑धेम विधेम नमोवा॒के न॑मोवा॒के वि॑धेम । 26) न॒मो॒वा॒क इति॑ नमः - वा॒के । 27) वि॒धे॒माव॑भृ॒थाव॑भृथ विधेम विधे॒माव॑भृथ । 28) अव॑भृथ निचङ्कुण निचङ्कु॒णा व॑भृ॒थाव॑भृथ निचङ्कुण । 28) अव॑भृ॒थेत्यव॑ - भृ॒थ॒ । 29) नि॒च॒ङ्कु॒ण॒ नि॒चे॒रु-र्नि॑चे॒रु-र्नि॑चङ्कुण निचङ्कुण निचे॒रुः । 29) नि॒च॒ङ्कु॒णेति॑ नि - च॒ङ्कु॒ण॒ । 30) नि॒चे॒रु र॑स्यसि निचे॒रु-र्नि॑चे॒रुर॑सि । 30) नि॒चे॒रुरिति॑ नि - चे॒रुः । 31) अ॒सि॒ नि॒च॒ङ्कु॒ण॒ नि॒च॒ङ्कु॒णा॒स्य॒सि॒ नि॒च॒ङ्कु॒ण॒ । 32) नि॒च॒ङ्कु॒णावाव॑ निचङ्कुण निचङ्कु॒णाव॑ । 32) नि॒च॒ङ्कु॒णेति॑ नि - च॒ङ्कु॒ण॒ । 33) अव॑ दे॒वै-र्दे॒वै रवाव॑ दे॒वैः । 34) दे॒वै-र्दे॒वकृ॑त-न्दे॒वकृ॑त-न्दे॒वै-र्दे॒वै-र्दे॒वकृ॑तम् । 35) दे॒वकृ॑त॒ मेन॒ एनो॑ दे॒वकृ॑त-न्दे॒वकृ॑त॒ मेनः॑ । 35) दे॒वकृ॑त॒मिति॑ दे॒व - कृ॒त॒म् । 36) एनो॑ ऽयाडया॒डेन॒ एनो॑ ऽयाट् । 37) अ॒या॒ डवावा॑ याडया॒ डव॑ । 38) अव॒ मर्त्यै॒-र्मर्त्यै॒ रवाव॒ मर्त्यैः᳚ । 39) मर्त्यै॒-र्मर्त्य॑कृत॒-म्मर्त्य॑कृत॒-म्मर्त्यै॒-र्मर्त्यै॒-र्मर्त्य॑कृतम् । 40) मर्त्य॑कृत मु॒रोरु॒रो-र्मर्त्य॑कृत॒-म्मर्त्य॑कृत मु॒रोः । 40) मर्त्य॑कृत॒मिति॒ मर्त्य॑ - कृ॒त॒म् । 41) उ॒रो रोरो रु॒रोरा । 42) आ नो॑ न॒ आ नः॑ । 43) नो॒ दे॒व॒ दे॒व॒ नो॒ नो॒ दे॒व॒ । 44) दे॒व॒ रि॒षो रि॒षो दे॑व देव रि॒षः । 45) रि॒षश्पा॑हि पाहि रि॒षो रि॒षश्पा॑हि । 46) पा॒हि॒ सु॒मि॒त्रा-स्सु॑मि॒त्राः पा॑हि पाहि सुमि॒त्राः । 47) सु॒मि॒त्रा नो॑ न-स्सुमि॒त्रा-स्सु॑मि॒त्रा नः॑ । 47) सु॒मि॒त्रा इति॑ सु - मि॒त्राः । 48) न॒ आप॒ आपो॑ नो न॒ आपः॑ । 49) आप॒ ओष॑धय॒ ओष॑धय॒ आप॒ आप॒ ओष॑धयः । 50) ओष॑धय-स्सन्तु स॒न्त्वोष॑धय॒ ओष॑धय-स्सन्तु । ॥ 50 ॥ (50/62)
1) स॒न्तु॒ दु॒र्मि॒त्रा दु॑र्मि॒त्रा-स्स॑न्तु सन्तु दुर्मि॒त्राः । 2) दु॒र्मि॒त्रा स्तस्मै॒ तस्मै॑ दुर्मि॒त्रा दु॑र्मि॒त्रा स्तस्मै᳚ । 2) दु॒र्मि॒त्रा इति॑ दुः - मि॒त्राः । 3) तस्मै॑ भूयासु-र्भूयासु॒ स्तस्मै॒ तस्मै॑ भूयासुः । 4) भू॒या॒सु॒-र्यो यो भू॑यासु-र्भूयासु॒-र्यः । 5) यो᳚ ऽस्मा न॒स्मान्. यो यो᳚ ऽस्मान् । 6) अ॒स्मा-न्द्वेष्टि॒ द्वेष्ट्य॒स्मा न॒स्मा-न्द्वेष्टि॑ । 7) द्वेष्टि॒ यं-यँ-न्द्वेष्टि॒ द्वेष्टि॒ यम् । 8) य-ञ्च॑ च॒ यं-यँ-ञ्च॑ । 9) च॒ व॒यं-वँ॒य-ञ्च॑ च व॒यम् । 10) व॒य-न्द्वि॒ष्मो द्वि॒ष्मो व॒यं-वँ॒य-न्द्वि॒ष्मः । 11) द्वि॒ष्मो देवी॒-र्देवी᳚-र्द्वि॒ष्मो द्वि॒ष्मो देवीः᳚ । 12) देवी॑राप आपो॒ देवी॒-र्देवी॑रापः । 13) आ॒प॒ ए॒ष ए॒ष आ॑प आप ए॒षः । 14) ए॒ष वो॑ व ए॒ष ए॒ष वः॑ । 15) वो॒ गर्भो॒ गर्भो॑ वो वो॒ गर्भः॑ । 16) गर्भ॒ स्त-न्त-ङ्गर्भो॒ गर्भ॒ स्तम् । 17) तं-वोँ॑ व॒ स्त-न्तं-वँः॑ । 18) व॒-स्सुप्री॑त॒(ग्म्॒) सुप्री॑तं-वोँ व॒-स्सुप्री॑तम् । 19) सुप्री॑त॒(ग्म्॒) सुभृ॑त॒(ग्म्॒) सुभृ॑त॒(ग्म्॒) सुप्री॑त॒(ग्म्॒) सुप्री॑त॒(ग्म्॒) सुभृ॑तम् । 19) सुप्री॑त॒मिति॒ सु - प्री॒त॒म् । 20) सुभृ॑त मकर्माकर्म॒ सुभृ॑त॒(ग्म्॒) सुभृ॑त मकर्म । 20) सुभृ॑त॒मिति॒ सु - भृ॒त॒म् । 21) अ॒क॒र्म॒ दे॒वेषु॑ दे॒वेष्व॑कर्माकर्म दे॒वेषु॑ । 22) दे॒वेषु॑ नो नो दे॒वेषु॑ दे॒वेषु॑ नः । 23) न॒-स्सु॒कृत॑-स्सु॒कृतो॑ नो न-स्सु॒कृतः॑ । 24) सु॒कृतो᳚ ब्रूता-द्ब्रूता-थ्सु॒कृत॑-स्सु॒कृतो᳚ ब्रूतात् । 24) सु॒कृत॒ इति॑ सु - कृतः॑ । 25) ब्रू॒ता॒-त्प्रति॑युतः॒ प्रति॑युतो ब्रूता-द्ब्रूता॒-त्प्रति॑युतः । 26) प्रति॑युतो॒ वरु॑णस्य॒ वरु॑णस्य॒ प्रति॑युतः॒ प्रति॑युतो॒ वरु॑णस्य । 26) प्रति॑युत॒ इति॒ प्रति॑ - यु॒तः॒ । 27) वरु॑णस्य॒ पाशः॒ पाशो॒ वरु॑णस्य॒ वरु॑णस्य॒ पाशः॑ । 28) पाशः॒ प्रत्य॑स्तः॒ प्रत्य॑स्तः॒ पाशः॒ पाशः॒ प्रत्य॑स्तः । 29) प्रत्य॑स्तो॒ वरु॑णस्य॒ वरु॑णस्य॒ प्रत्य॑स्तः॒ प्रत्य॑स्तो॒ वरु॑णस्य । 29) प्रत्य॑स्त॒ इति॒ प्रति॑ - अ॒स्तः॒ । 30) वरु॑णस्य॒ पाशः॒ पाशो॒ वरु॑णस्य॒ वरु॑णस्य॒ पाशः॑ । 31) पाश॒ एध॒ एधः॒ पाशः॒ पाश॒ एधः॑ । 32) एधो᳚ ऽस्य॒स्येध॒ एधो॑ ऽसि । 33) अ॒स्ये॒धि॒षी॒ मह्ये॑धिषी॒ मह्य॑स्य स्येधिषी॒महि॑ । 34) ए॒धि॒षी॒महि॑ स॒मि-थ्स॒मिदे॑धिषी॒ मह्ये॑धिषी॒महि॑ स॒मित् । 35) स॒मि द॑स्यसि स॒मि-थ्स॒मिद॑सि । 35) स॒मिदिति॑ सम् - इत् । 36) अ॒सि॒ तेज॒ स्तेजो᳚ ऽस्यसि॒ तेजः॑ । 37) तेजो᳚ ऽस्यसि॒ तेज॒ स्तेजो॑ ऽसि । 38) अ॒सि॒ तेज॒ स्तेजो᳚ ऽस्यसि॒ तेजः॑ । 39) तेजो॒ मयि॒ मयि॒ तेज॒ स्तेजो॒ मयि॑ । 40) मयि॑ धेहि धेहि॒ मयि॒ मयि॑ धेहि । 41) धे॒ह्य॒पो॑ ऽपो धे॑हि धेह्य॒पः । 42) अ॒पो अन्वन्व॒पो॑ ऽपो अनु॑ । 43) अन्व॑चारिष मचारिष॒ मन्वन्व॑चारिषम् । 44) अ॒चा॒रि॒ष॒(ग्म्॒) रसे॑न॒ रसे॑नाचारिष मचारिष॒(ग्म्॒) रसे॑न । 45) रसे॑न॒ सग्ं सग्ं रसे॑न॒ रसे॑न॒ सम् । 46) स म॑सृक्ष्मह्यसृक्ष्महि॒ सग्ं स म॑सृक्ष्महि । 47) अ॒सृ॒क्ष्म॒हीत्य॑सृक्ष्महि । 48) पय॑स्वाग्ं अग्ने ऽग्ने॒ पय॑स्वा॒-न्पय॑स्वाग्ं अग्ने । 49) अ॒ग्न॒ आ ऽग्ने᳚ ऽग्न॒ आ । 50) आ ऽग॑म मगम॒ मा ऽग॑मम् । 51) अ॒ग॒म॒-न्त-न्त म॑गम मगम॒-न्तम् । 52) त-म्मा॑ मा॒ त-न्त-म्मा᳚ । 53) मा॒ सग्ं स-म्मा॑ मा॒ सम् । 54) सग्ं सृ॑ज सृज॒ सग्ं सग्ं सृ॑ज । 55) सृ॒ज॒ वर्च॑सा॒ वर्च॑सा सृज सृज॒ वर्च॑सा । 56) वर्च॒सेति॒ वर्च॑सा । ॥ 51 ॥ (56/63) ॥ अ. 45 ॥
1) य स्त्वा᳚ त्वा॒ यो य स्त्वा᳚ । 2) त्वा॒ हृ॒दा हृ॒दा त्वा᳚ त्वा हृ॒दा । 3) हृ॒दा की॒रिणा॑ की॒रिणा॑ हृ॒दा हृ॒दा की॒रिणा᳚ । 4) की॒रिणा॒ मन्य॑मानो॒ मन्य॑मानः की॒रिणा॑ की॒रिणा॒ मन्य॑मानः । 5) मन्य॑मा॒नो ऽम॑र्त्य॒ मम॑र्त्य॒-म्मन्य॑मानो॒ मन्य॑मा॒नो ऽम॑र्त्यम् । 6) अम॑र्त्य॒-म्मर्त्यो॒ मर्त्यो॒ अम॑र्त्य॒ मम॑र्त्य॒-म्मर्त्यः॑ । 7) मर्त्यो॒ जोह॑वीमि॒ जोह॑वीमि॒ मर्त्यो॒ मर्त्यो॒ जोह॑वीमि । 8) जोह॑वी॒मीति॒ जोह॑वीमि । 9) जात॑वेदो॒ यशो॒ यशो॒ जात॑वेदो॒ जात॑वेदो॒ यशः॑ । 9) जात॑वेद॒ इति॒ जात॑ - वे॒दः॒ । 10) यशो॑ अ॒स्मास्व॒स्मासु॒ यशो॒ यशो॑ अ॒स्मासु॑ । 11) अ॒स्मासु॑ धेहि धेह्य॒स्मास्व॒स्मासु॑ धेहि । 12) धे॒हि॒ प्र॒जाभिः॑ प्र॒जाभि॑-र्धेहि धेहि प्र॒जाभिः॑ । 13) प्र॒जाभि॑रग्ने अग्ने प्र॒जाभिः॑ प्र॒जाभि॑रग्ने । 13) प्र॒जाभि॒रिति॑ प्र - जाभिः॑ । 14) अ॒ग्ने॒ अ॒मृ॒त॒त्व म॑मृत॒त्व म॑ग्ने अग्ने अमृत॒त्वम् । 15) अ॒मृ॒त॒त्व म॑श्या मश्या ममृत॒त्व म॑मृत॒त्व म॑श्याम् । 15) अ॒मृ॒त॒त्वमित्य॑मृत - त्वम् । 16) अ॒श्या॒मित्य॑श्याम् । 17) यस्मै॒ त्व-न्त्वं-यँस्मै॒ यस्मै॒ त्वम् । 18) त्वग्ं सु॒कृते॑ सु॒कृते॒ त्व-न्त्वग्ं सु॒कृते᳚ । 19) सु॒कृते॑ जातवेदो जातवेद-स्सु॒कृते॑ सु॒कृते॑ जातवेदः । 19) सु॒कृत॒ इति॑ सु - कृते᳚ । 20) जा॒त॒वे॒द॒ उ वु जा॑तवेदो जातवेद॒ उ । 20) जा॒त॒वे॒द॒ इति॑ जात - वे॒दः॒ । 21) उ लो॒कम् ँलो॒क मु वु लो॒कम् । 22) लो॒क म॑ग्ने अग्ने लो॒कम् ँलो॒क म॑ग्ने । 23) अ॒ग्ने॒ कृ॒णवः॑ कृ॒णवो॑ अग्ने अग्ने कृ॒णवः॑ । 24) कृ॒णव॑-स्स्यो॒नग्ग् स्यो॒न-ङ्कृ॒णवः॑ कृ॒णव॑-स्स्यो॒नम् । 25) स्यो॒नमिति॑ स्यो॒नम् । 26) अ॒श्विन॒(ग्म्॒) स सो अ॒श्विन॑ म॒श्विन॒(ग्म्॒) सः । 27) स पु॒त्रिण॑-म्पु॒त्रिण॒(ग्म्॒) स स पु॒त्रिण᳚म् । 28) पु॒त्रिणं॑-वीँ॒रव॑न्तं-वीँ॒रव॑न्त-म्पु॒त्रिण॑-म्पु॒त्रिणं॑-वीँ॒रव॑न्तम् । 29) वी॒रव॑न्त॒-ङ्गोम॑न्त॒-ङ्गोम॑न्तं-वीँ॒रव॑न्तं-वीँ॒रव॑न्त॒-ङ्गोम॑न्तम् । 29) वी॒रव॑न्त॒मिति॑ वी॒र - व॒न्त॒म् । 30) गोम॑न्तग्ं र॒यिग्ं र॒यि-ङ्गोम॑न्त॒-ङ्गोम॑न्तग्ं र॒यिम् । 30) गोम॑न्त॒मिति॒ गो - म॒न्त॒म् । 31) र॒यिन्न॑शते नशते र॒यिग्ं र॒यिन्न॑शते । 32) न॒श॒ते॒ स्व॒स्ति स्व॒स्ति न॑शते नशते स्व॒स्ति । 33) स्व॒स्तीति॑ स्व॒स्ति । 34) त्वे सु सु त्वे त्वे सु । 34) त्वे इति॒ त्वे । 35) सु पु॑त्र पुत्र॒ सु सु पु॑त्र । 36) पु॒त्र॒ श॒व॒स॒-श्श॒व॒सः॒ पु॒त्र॒ पु॒त्र॒ श॒व॒सः॒ । 37) श॒व॒सो ऽवृ॑त्र॒-न्नवृ॑त्र-ञ्छवस-श्शव॒सो ऽवृ॑त्रन्न् । 38) अवृ॑त्र॒न् काम॑कातयः॒ काम॑कात॒यो ऽवृ॑त्र॒-न्नवृ॑त्र॒न् काम॑कातयः । 39) काम॑कातय॒ इति॒ काम॑ - का॒त॒यः॒ । 40) न त्वा-न्त्वान्न न त्वाम् । 41) त्वा मि॑न्द्रे न्द्र॒ त्वा-न्त्वा मि॑न्द्र । 42) इ॒न्द्रात्यती᳚न्द्रे॒ न्द्राति॑ । 43) अति॑ रिच्यते रिच्यते॒ अत्यति॑ रिच्यते । 44) रि॒च्य॒त॒ इति॑ रिच्यते । 45) उ॒क्थउ॑क्थे॒ सोम॒-स्सोम॑ उ॒क्थउ॑क्थ उ॒क्थउ॑क्थे॒ सोमः॑ । 45) उ॒क्थउ॑क्थ॒ इत्यु॒क्थे - उ॒क्थे॒ । 46) सोम॒ इन्द्र॒ मिन्द्र॒(ग्म्॒) सोम॒-स्सोम॒ इन्द्र᳚म् । 47) इन्द्र॑-म्ममाद ममा॒देन्द्र॒ मिन्द्र॑-म्ममाद । 48) म॒मा॒द॒ नी॒थेनी॑थे नी॒थेनी॑थे ममाद ममाद नी॒थेनी॑थे । 49) नी॒थेनी॑थे म॒घवा॑न-म्म॒घवा॑न-न्नी॒थेनी॑थे नी॒थेनी॑थे म॒घवा॑नम् । 49) नी॒थेनी॑थ॒ इति॑ नी॒थे - नी॒थे॒ । 50) म॒घवा॑नग्ं सु॒तास॑-स्सु॒तासो॑ म॒घवा॑न-म्म॒घवा॑नग्ं सु॒तासः॑ । 50) म॒घवा॑न॒मिति॑ म॒घ - वा॒न॒म् । ॥ 52 ॥ (50/61)
1) सु॒तास॒ इति॑ सु॒तासः॑ । 2) यदी॑ मीं॒-यँ-द्यदी᳚म् । 3) ई॒(ग्म्॒) स॒बाध॑-स्स॒बाध॑ ईमीग्ं स॒बाधः॑ । 4) स॒बाधः॑ पि॒तर॑-म्पि॒तर(ग्म्॑) स॒बाध॑-स्स॒बाधः॑ पि॒तर᳚म् । 4) स॒बाध॒ इति॑ स - बाधः॑ । 5) पि॒तर॒-न्न न पि॒तर॑-म्पि॒तर॒-न्न । 6) न पु॒त्राः पु॒त्रा न न पु॒त्राः । 7) पु॒त्रा-स्स॑मा॒नद॑क्षा-स्समा॒नद॑क्षाः पु॒त्राः पु॒त्रा-स्स॑मा॒नद॑क्षाः । 8) स॒मा॒नद॑क्षा॒ अव॒से ऽव॑से समा॒नद॑क्षा-स्समा॒नद॑क्षा॒ अव॑से । 8) स॒मा॒नद॑क्षा॒ इति॑ समा॒न - द॒क्षाः॒ । 9) अव॑से॒ हव॑न्ते॒ हव॒न्ते ऽव॒से ऽव॑से॒ हव॑न्ते । 10) हव॑न्त॒ इति॒ हव॑न्ते । 11) अग्ने॒ रसे॑न॒ रसे॒नाग्ने ऽग्ने॒ रसे॑न । 12) रसे॑न॒ तेज॑सा॒ तेज॑सा॒ रसे॑न॒ रसे॑न॒ तेज॑सा । 13) तेज॑सा॒ जात॑वेदो॒ जात॑वेद॒ स्तेज॑सा॒ तेज॑सा॒ जात॑वेदः । 14) जात॑वेदो॒ वि वि जात॑वेदो॒ जात॑वेदो॒ वि । 14) जात॑वेद॒ इति॒ जात॑ - वे॒दः॒ । 15) वि रो॑चसे रोचसे॒ वि वि रो॑चसे । 16) रो॒च॒स॒ इति॑ रोचसे । 17) र॒क्षो॒हा ऽमी॑व॒चात॑नो अमीव॒चात॑नो रक्षो॒हा र॑क्षो॒हा ऽमी॑व॒चात॑नः । 17) र॒क्षो॒हेति॑ रक्षः - हा । 18) अ॒मी॒व॒चात॑न॒ इत्य॑मीव - चात॑नः । 19) अ॒पो अन्वन्व॒पो॑ ऽपो अनु॑ । 20) अन्व॑चारिष मचारिष॒ मन्वन्व॑चारिषम् । 21) अ॒चा॒रि॒ष॒(ग्म्॒) रसे॑न॒ रसे॑नाचारिष मचारिष॒(ग्म्॒) रसे॑न । 22) रसे॑न॒ सग्ं सग्ं रसे॑न॒ रसे॑न॒ सम् । 23) स म॑सृक्ष्मह्यसृक्ष्महि॒ सग्ं स म॑सृक्ष्महि । 24) अ॒सृ॒क्ष्म॒हीत्य॑सृक्ष्महि । 25) पय॑स्वाग्ं अग्ने ऽग्ने॒ पय॑स्वा॒-न्पय॑स्वाग्ं अग्ने । 26) अ॒ग्न॒ आ ऽग्ने᳚ ऽग्न॒ आ । 27) आ ऽग॑म मगम॒ मा ऽग॑मम् । 28) अ॒ग॒म॒-न्त-न्त म॑गम मगम॒-न्तम् । 29) त-म्मा॑ मा॒ त-न्त-म्मा᳚ । 30) मा॒ सग्ं स-म्मा॑ मा॒ सम् । 31) सग्ं सृ॑ज सृज॒ सग्ं सग्ं सृ॑ज । 32) सृ॒ज॒ वर्च॑सा॒ वर्च॑सा सृज सृज॒ वर्च॑सा । 33) वर्च॒सेति॒ वर्च॑सा । 34) वसु॒-र्वसु॑पति॒-र्वसु॑पति॒-र्वसु॒-र्वसु॒-र्वसु॑पतिः । 35) वसु॑पति॒र्॒ हिक॒(ग्म्॒) हिकं॒-वँसु॑पति॒-र्वसु॑पति॒र्॒ हिक᳚म् । 35) वसु॑पति॒रिति॒ वसु॑ - प॒तिः॒ । 36) हिक॒ मस्यसि॒ हिक॒(ग्म्॒) हिक॒ मसि॑ । 37) अस्य॑ग्ने अ॒ग्ने ऽस्यस्य॑ग्ने । 38) अ॒ग्ने॒ वि॒भाव॑सु-र्वि॒भाव॑सु रग्ने अग्ने वि॒भाव॑सुः । 39) वि॒भाव॑सु॒रिति॑ वि॒भा - व॒सुः॒ । 40) स्याम॑ ते ते॒ स्याम॒ स्याम॑ ते । 41) ते॒ सु॒म॒तौ सु॑म॒तौ ते॑ ते सुम॒तौ । 42) सु॒म॒ता वप्यपि॑ सुम॒तौ सु॑म॒ता वपि॑ । 42) सु॒म॒ताविति॑ सु - म॒तौ । 43) अपीत्यपि॑ । 44) त्वा म॑ग्ने अग्ने॒ त्वा-न्त्वा म॑ग्ने । 45) अ॒ग्ने॒ वसु॑पतिं॒-वँसु॑पति मग्ने अग्ने॒ वसु॑पतिम् । 46) वसु॑पतिं॒-वँसू॑नां॒-वँसू॑नां॒-वँसु॑पतिं॒-वँसु॑पतिं॒-वँसू॑नाम् । 46) वसु॑पति॒मिति॒ वसु॑ - प॒ति॒म् । 47) वसू॑ना म॒भ्य॑भि वसू॑नां॒-वँसू॑ना म॒भि । 48) अ॒भि प्र प्राभ्य॑भि प्र । 49) प्र म॑न्दे मन्दे॒ प्र प्र म॑न्दे । 50) म॒न्दे॒ अ॒द्ध्व॒रे ष्व॑द्ध्व॒रेषु॑ मन्दे मन्दे अद्ध्व॒रेषु॑ । ॥ 53 ॥ (50/57)
1) अ॒द्ध्व॒रेषु॑ राज-न्राज-न्नद्ध्व॒रे ष्व॑द्ध्व॒रेषु॑ राजन्न् । 2) रा॒ज॒न्निति॑ राजन्न् । 3) त्वया॒ वाजं॒-वाँज॒-न्त्वया॒ त्वया॒ वाज᳚म् । 4) वाजं॑-वाँज॒यन्तो॑ वाज॒यन्तो॒ वाजं॒-वाँजं॑-वाँज॒यन्तः॑ । 5) वा॒ज॒यन्तो॑ जयेम जयेम वाज॒यन्तो॑ वाज॒यन्तो॑ जयेम । 5) वा॒ज॒यन्त॒ इति॑ वाज - यन्तः॑ । 6) ज॒ये॒मा॒भ्य॑भि ज॑येम जयेमा॒भि । 7) अ॒भि ष्या॑म स्यामा॒भ्य॑भि ष्या॑म । 8) स्या॒म॒ पृ॒थ्सु॒तीः पृ॑थ्सु॒ती-स्स्या॑म स्याम पृथ्सु॒तीः । 9) पृ॒थ्सु॒ती-र्मर्त्या॑ना॒-म्मर्त्या॑ना-म्पृथ्सु॒तीः पृ॑थ्सु॒ती-र्मर्त्या॑नाम् । 10) मर्त्या॑ना॒मिति॒ मर्त्या॑नाम् । 11) त्वा म॑ग्ने अग्ने॒ त्वा-न्त्वा म॑ग्ने । 12) अ॒ग्ने॒ वा॒ज॒सात॑मं-वाँज॒सात॑म मग्ने अग्ने वाज॒सात॑मम् । 13) वा॒ज॒सात॑मं॒-विँप्रा॒ विप्रा॑ वाज॒सात॑मं-वाँज॒सात॑मं॒-विँप्राः᳚ । 13) वा॒ज॒सात॑म॒मिति॑ वाज - सात॑मम् । 14) विप्रा॑ वर्धन्ति वर्धन्ति॒ विप्रा॒ विप्रा॑ वर्धन्ति । 15) व॒र्ध॒न्ति॒ सुष्टु॑त॒(ग्म्॒) सुष्टु॑तं-वँर्धन्ति वर्धन्ति॒ सुष्टु॑तम् । 16) सुष्टु॑त॒मिति॒ सु - स्तु॒त॒म् । 17) स नो॑ न॒-स्स स नः॑ । 18) नो॒ रा॒स्व॒ रा॒स्व॒ नो॒ नो॒ रा॒स्व॒ । 19) रा॒स्व॒ सु॒वीर्य(ग्म्॑) सु॒वीर्य(ग्म्॑) रास्व रास्व सु॒वीर्य᳚म् । 20) सु॒वीर्य॒मिति॑ सु - वीर्य᳚म् । 21) अ॒यन्नो॑ नो॒ ऽय म॒यन्नः॑ । 22) नो॒ अ॒ग्नि र॒ग्नि-र्नो॑ नो अ॒ग्निः । 23) अ॒ग्नि-र्वरि॑वो॒ वरि॑वो॒ ऽग्निर॒ग्नि-र्वरि॑वः । 24) वरि॑वः कृणोतु कृणोतु॒ वरि॑वो॒ वरि॑वः कृणोतु । 25) कृ॒णो॒त्व॒य म॒य-ङ्कृ॑णोतु कृणोत्व॒यम् । 26) अ॒य-म्मृधो॒ मृधो॒ ऽय म॒य-म्मृधः॑ । 27) मृधः॑ पु॒रः पु॒रो मृधो॒ मृधः॑ पु॒रः । 28) पु॒र ए᳚त्वेतु पु॒रः पु॒र ए॑तु । 29) ए॒तु॒ प्र॒भि॒न्द-न्प्र॑भि॒न्द-न्ने᳚त्वेतु प्रभि॒न्दन्न् । 30) प्र॒भि॒न्दन्निति॑ प्र - भि॒न्दन्न् । 31) अ॒यग्ं शत्रू॒-ञ्छत्रू॑ न॒य म॒यग्ं शत्रून्॑ । 32) शत्रू᳚न् जयतु जयतु॒ शत्रू॒-ञ्छत्रू᳚न् जयतु । 33) ज॒य॒तु॒ जर्हृ॑षाणो॒ जर्हृ॑षाणो जयतु जयतु॒ जर्हृ॑षाणः । 34) जर्हृ॑षाणो॒ ऽय म॒य-ञ्जर्हृ॑षाणो॒ जर्हृ॑षाणो॒ ऽयम् । 35) अ॒यं-वाँजं॒-वाँज॑ म॒य म॒यं-वाँज᳚म् । 36) वाज॑-ञ्जयतु जयतु॒ वाजं॒-वाँज॑-ञ्जयतु । 37) ज॒य॒तु॒ वाज॑सातौ॒ वाज॑सातौ जयतु जयतु॒ वाज॑सातौ । 38) वाज॑सात॒विति॒ वाज॑ - सा॒तौ॒ । 39) अ॒ग्निना॒ ऽग्निर॒ग्नि र॒ग्निना॒ ऽग्निना॒ ऽग्निः । 40) अ॒ग्नि-स्सग्ं स म॒ग्निर॒ग्नि-स्सम् । 41) स मि॑द्ध्यत इद्ध्यते॒ सग्ं स मि॑द्ध्यते । 42) इ॒द्ध्य॒ते॒ क॒विः क॒वि रि॑द्ध्यत इद्ध्यते क॒विः । 43) क॒वि-र्गृ॒हप॑ति-र्गृ॒हप॑तिः क॒विः क॒वि-र्गृ॒हप॑तिः । 44) गृ॒हप॑ति॒-र्युवा॒ युवा॑ गृ॒हप॑ति-र्गृ॒हप॑ति॒-र्युवा᳚ । 44) गृ॒हप॑ति॒रिति॑ गृ॒ह - प॒तिः॒ । 45) युवेति॒ युवा᳚ । 46) ह॒व्य॒वा-ड्जु॒ह्वा᳚स्यो जु॒ह्वा᳚स्यो हव्य॒वाड्ढ॑व्य॒वा-ड्जु॒ह्वा᳚स्यः । 46) ह॒व्य॒वाडिति॑ हव्य - वाट् । 47) जु॒ह्वा᳚स्य॒ इति॑ जु॒हु - आ॒स्यः॒ । 48) त्वग्ंहि हि त्व-न्त्वग्ंहि । 49) ह्य॑ग्ने अग्ने॒ हि ह्य॑ग्ने । 50) अ॒ग्ने॒ अ॒ग्निना॒ ऽग्निना᳚ ऽग्ने अग्ने अ॒ग्निना᳚ । 51) अ॒ग्निना॒ विप्रो॒ विप्रो॑ अ॒ग्निना॒ ऽग्निना॒ विप्रः॑ । 52) विप्रो॒ विप्रे॑ण॒ विप्रे॑ण॒ विप्रो॒ विप्रो॒ विप्रे॑ण । 53) विप्रे॑ण॒ स-न्थ्सन्. विप्रे॑ण॒ विप्रे॑ण॒ सन्न् । 54) स-न्थ्स॒ता स॒ता स-न्थ्स-न्थ्स॒ता । 55) स॒तेति॑ स॒ता । 56) सखा॒ सख्या॒ सख्या॒ सखा॒ सखा॒ सख्या᳚ । 57) सख्या॑ समि॒द्ध्यसे॑ समि॒द्ध्यसे॒ सख्या॒ सख्या॑ समि॒द्ध्यसे᳚ । 58) स॒मि॒द्ध्यस॒ इति॑ सम् - इ॒द्ध्यसे᳚ । 59) उद॑ग्ने अग्न॒ उदुद॑ग्ने । 60) अ॒ग्ने॒ शुच॑य॒-श्शुच॑यो अग्ने अग्ने॒ शुच॑यः । 61) शुच॑य॒ स्तव॒ तव॒ शुच॑य॒-श्शुच॑य॒ स्तव॑ । 62) तव॒ वि वि तव॒ तव॒ वि । 63) वि ज्योति॑षा॒ ज्योति॑षा॒ वि वि ज्योति॑षा । 64) ज्योति॒षेति॒ ज्योति॑षा । ॥ 54 ॥ (64, 68)
॥ अ. 46 ॥
Browse Related Categories: