Kavacha Stotras · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
श्रीदेव्युवाच-
भगवन् देवदेवेश सर्वज्ञ त्रिपुरांतक । प्राप्ते कलियुगे घोरे महाभूतैः समावृते ॥ 1
महाव्याधि महाव्याल घोरराजैः समावृते । दुःस्वप्नशोकसंतापैः दुर्विनीतैः समावृते ॥ 2
स्वधर्मविरतेमार्गे प्रवृत्ते हृदि सर्वदा । तेषां सिद्धिं च मुक्तिं च त्वं मे ब्रूहि वृषद्वज ॥ 3
ईश्वर उवाच-
शृणु देवि महाभागे सर्वकल्याणकारणे । महाशास्तुश्च देवेशि कवचं पुण्यवर्धनम् ॥ 4
अग्निस्तंभ जलस्तंभ सेनास्तंभ विधायकम् । महाभूतप्रशमनं महाव्याधिनिवारणम् ॥ 5
महाज्ञानप्रदं पुण्यं विशेषात् कलितापहम् । सर्वरक्षोत्तमं पुंसां आयुरारोग्यवर्धनम् ॥ 6
किमतो बहुनोक्तेन यं यं कामयते द्विजः । तं तमाप्नोत्यसंदेहो महाशास्तुः प्रसादनात् ॥ 7
कवचस्य ऋषिर्ब्रह्मा गायत्रीः छंद उच्यते । देवता श्रीमहाशास्ता देवो हरिहरात्मजः ॥ 8
Offered for worship and study, not as prediction. Non-commercial.
षडंगमाचरेद्भक्त्या मात्रया जातियुक्तया । ध्यानमस्य प्रवक्ष्यामि शृणुष्वावहिता प्रिये ॥ 9
अस्य श्री महाशास्तुः कवचमंत्रस्य । ब्रह्मा ऋषिः । गायत्रीः छंदः । महाशास्ता देवता । ह्रां बीजम् । ह्रीं शक्तिः । ह्रूं कीलकम् । श्री महाशास्तुः प्रसाद सिद्ध्यर्थे जपे विनियोगः ॥
ह्रां इत्यादि षडंगन्यासः ॥
ध्यानम्- तेजोमंडलमध्यगं त्रिनयनं दिव्यांबरालंकृतं देवं पुष्पशरेक्षुकार्मुक लसन्माणिक्यपात्राऽभयम् । बिभ्राणं करपंकजैः मदगज स्कंधाधिरूढं विभुं शास्तारं शरणं भजामि सततं त्रैलोक्य संमोहनम् ॥
महाशास्ता शिरः पातु फालं हरिहरात्मजः । कामरूपी दृशं पातु सर्वज्ञो मे श्रुतिं सदा ॥ 1
घ्राणं पातु कृपाध्यक्षः मुखं गौरीप्रियः सदा । वेदाध्यायी च मे जिह्वां पातु मे चिबुकं गुरुः ॥ 2
कंठं पातु विशुद्धात्मा स्कंधौ पातु सुरार्चितः । बाहू पातु विरूपाक्षः करौ तु कमलाप्रियः ॥ 3
भूताधिपो मे हृदयं मध्यं पातु महाबलः । नाभिं पातु महावीरः कमलाक्षोऽवतु कटिम् ॥ 4
सनीपं पातु विश्वेशः गुह्यं गुह्यार्थवित्सदा । ऊरू पातु गजारूढः वज्रधारी च जानुनी ॥ 5
जंघे पात्वंकुशधरः पादौ पातु महामतिः । सर्वांगं पातु मे नित्यं महामायाविशारदः ॥ 6
इतीदं कवचं पुण्यं सर्वाघौघनिकृंतनम् । महाव्याधिप्रशमनं महापातकनाशनम् ॥ 7
ज्ञानवैराग्यदं दिव्यमणिमादिविभूषितम् । आयुरारोग्यजननं महावश्यकरं परम् ॥ 8
यं यं कामयते कामं तं तमाप्नोत्यसंशयः । त्रिसंध्यं यः पठेद्विद्वान् स याति परमां गतिम् ॥
इति श्री महाशास्ता अनुग्रह कवचम् ।
Browse Related Categories: