Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
मध्योद्भवे भुव इलावृतनाम्नि वर्षे गौरीप्रधानवनिताजनमात्रभाजि । शर्वेण मंत्रनुतिभिः समुपास्यमानं संकर्षणात्मकमधीश्वर संश्रये त्वाम् ॥1॥
भद्राश्वनामक इलावृतपूर्ववर्षे भद्रश्रवोभिः ऋषिभिः परिणूयमानम् । कल्पांतगूढनिगमोद्धरणप्रवीणं ध्यायामि देव हयशीर्षतनुं भवंतम् ॥2॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
ध्यायामि दक्षिणगते हरिवर्षवर्षे प्रह्लादमुख्यपुरुषैः परिषेव्यमाणम् । उत्तुंगशांतधवलाकृतिमेकशुद्ध- ज्ञानप्रदं नरहरिं भगवन् भवंतम् ॥3॥
वर्षे प्रतीचि ललितात्मनि केतुमाले लीलाविशेषललितस्मितशोभनांगम् । लक्ष्म्या प्रजापतिसुतैश्च निषेव्यमाणं तस्याः प्रियाय धृतकामतनुं भजे त्वाम् ॥4॥
रम्ये ह्युदीचि खलु रम्यकनाम्नि वर्षे तद्वर्षनाथमनुवर्यसपर्यमाणम् । भक्तैकवत्सलममत्सरहृत्सु भांतं मत्स्याकृतिं भुवननाथ भजे भवंतम् ॥5॥
वर्षं हिरण्मयसमाह्वयमौत्तराह- मासीनमद्रिधृतिकर्मठकामठांगम् । संसेवते पितृगणप्रवरोऽर्यमा यं तं त्वां भजामि भगवन् परचिन्मयात्मन् ॥6॥
किंचोत्तरेषु कुरुषु प्रियया धरण्या संसेवितो महितमंत्रनुतिप्रभेदैः । दंष्ट्राग्रघृष्टघनपृष्ठगरिष्ठवर्ष्मा त्वं पाहि बिज्ञनुत यज्ञवराहमूर्ते ॥7॥
याम्यां दिशं भजति किंपुरुषाख्यवर्षे संसेवितो हनुमता दृढभक्तिभाजा । सीताभिरामपरमाद्भुतरूपशाली रामात्मकः परिलसन् परिपाहि विष्णो ॥8॥
श्रीनारदेन सह भारतखंडमुख्यै- स्त्वं सांख्ययोगनुतिभिः समुपास्यमानः । आकल्पकालमिह साधुजनाभिरक्षी नारायणो नरसखः परिपाहि भूमन् ॥9॥
प्लाक्षेऽर्करूपमयि शाल्मल इंदुरूपं द्वीपे भजंति कुशनामनि वह्निरूपम् । क्रौंचेऽंबुरूपमथ वायुमयं च शाके त्वां ब्रह्मरूपमपि पुष्करनाम्नि लोकाः ॥10॥
सर्वैर्ध्रुवादिभिरुडुप्रकरैर्ग्रहैश्च पुच्छादिकेष्ववयवेष्वभिकल्प्यमानैः । त्वं शिंशुमारवपुषा महतामुपास्यः संध्यासु रुंधि नरकं मम सिंधुशायिन् ॥11॥
पातालमूलभुवि शेषतनुं भवंतं लोलैककुंडलविराजिसहस्रशीर्षम् । नीलांबरं धृतहलं भुजगांगनाभि- र्जुष्टं भजे हर गदान् गुरुगेहनाथ ॥12॥
Browse Related Categories: