Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
अथ वारिणि घोरतरं फणिनं प्रतिवारयितुं कृतधीर्भगवन् । द्रुतमारिथ तीरगनीपतरुं विषमारुतशोषितपर्णचयम् ॥1॥
अधिरुह्य पदांबुरुहेण च तं नवपल्लवतुल्यमनोज्ञरुचा । ह्रदवारिणि दूरतरं न्यपतः परिघूर्णितघोरतरंग्गणे ॥2॥
भुवनत्रयभारभृतो भवतो गुरुभारविकंपिविजृंभिजला । परिमज्जयति स्म धनुश्शतकं तटिनी झटिति स्फुटघोषवती ॥3॥
अथ दिक्षु विदिक्षु परिक्षुभित- भ्रमितोदरवारिनिनादभरैः । उदकादुदगादुरगाधिपति- स्त्वदुपांतमशांतरुषाऽंधमनाः ॥4॥
फणशृंगसहस्रविनिस्सृमर- ज्वलदग्निकणोग्रविषांबुधरम् । पुरतः फणिनं समलोकयथा बहुशृंगिणमंजनशैलमिव ॥5॥
ज्वलदक्षि परिक्षरदुग्रविष- श्वसनोष्मभरः स महाभुजगः । परिदश्य भवंतमनंतबलं समवेष्टयदस्फुटचेष्टमहो ॥6॥
अविलोक्य भवंतमथाकुलिते तटगामिनि बालकधेनुगणे । व्रजगेहतलेऽप्यनिमित्तशतं समुदीक्ष्य गता यमुनां पशुपाः ॥7॥
अखिलेषु विभो भवदीय दशा- मवलोक्य जिहासुषु जीवभरम् । फणिबंधनमाशु विमुच्य जवा- दुदगम्यत हासजुषा भवता ॥8॥
अधिरुह्य ततः फणिराजफणान् ननृते भवता मृदुपादरुचा । कलशिंजितनूपुरमंजुमिल- त्करकंकणसंकुलसंक्वणितम् ॥9॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
जहृषुः पशुपास्तुतुषुर्मुनयो ववृषुः कुसुमानि सुरेंद्रगणाः । त्वयि नृत्यति मारुतगेहपते परिपाहि स मां त्वमदांतगदात् ॥10॥
Browse Related Categories: