Devi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि कवचं सर्वसिद्धिदम् । पठित्वा पाठयित्वा च नरो मुच्येत संकटात् ॥ 1 ॥
अज्ञात्वा कवचं देवि दुर्गामंत्रं च यो जपेत् । न चाप्नोति फलं तस्य परं च नरकं व्रजेत् ॥ 2 ॥
उमादेवी शिरः पातु ललाटे शूलधारिणी । चक्षुषी खेचरी पातु कर्णौ चत्वरवासिनी ॥ 3 ॥
सुगंधा नासिकं पातु वदनं सर्वधारिणी । जिह्वां च चंडिकादेवी ग्रीवां सौभद्रिका तथा ॥ 4 ॥
अशोकवासिनी चेतो द्वौ बाहू वज्रधारिणी । हृदयं ललितादेवी उदरं सिंहवाहिनी ॥ 5 ॥
कटिं भगवती देवी द्वावूरू विंध्यवासिनी । महाबला च जंघे द्वे पादौ भूतलवासिनी ॥ 6 ॥
एवं स्थिताऽसि देवि त्वं त्रैलोक्ये रक्षणात्मिका । रक्ष मां सर्वगात्रेषु दुर्गे देवि नमोऽस्तु ते ॥ 7 ॥
Browse Related Categories:
Offered for worship and study, not as prediction. Non-commercial.