Shiva · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
शिष्य उवाच
अखंडे सच्चिदानंदे निर्विकल्पैकरूपिणि । स्थितेऽद्वितीयभावेऽपि कथं पूजा विधीयते ॥ 1
पूर्णस्यावाहनं कुत्र सर्वाधारस्य चासनम् । स्वच्छस्य पाद्यमर्घ्यं च शुद्धस्याचमनं कुतः ॥ 2 ॥
निर्मलस्य कुतः स्नानं वासो विश्वोदरस्य च । अगोत्रस्य त्ववर्णस्य कुतस्तस्योपवीतकम् ॥ 3 ॥
निर्लेपस्य कुतो गंधः पुष्पं निर्वासनस्य च । निर्विशेषस्य का भूषा कोऽलंकारो निराकृतेः ॥ 4 ॥
निरंजनस्य किं धूपैर्दीपैर्वा सर्वसाक्षिणः । निजानंदैकतृप्तस्य नैवेद्यं किं भवेदिह ॥ 5 ॥
विश्वानंदयितुस्तस्य किं तांबूलं प्रकल्पते । स्वयंप्रकाशचिद्रूपो योऽसावर्कादिभासकः ॥ 6 ॥
गीयते श्रुतिभिस्तस्य नीराजनविधिः कुतः । प्रदक्षिणमनंतस्य प्रणामोऽद्वयवस्तुनः ॥ 7 ॥
वेदवाचामवेद्यस्य किं वा स्तोत्रं विधीयते । अंतर्बहिः संस्थितस्य उद्वासनविधिः कुतः ॥ 8 ॥
श्री गुरुरुवाच
Offered for worship and study, not as prediction. Non-commercial.
आराधयामि मणिसंनिभमात्मलिंगम् मायापुरीहृदयपंकजसंनिविष्टम् । श्रद्धानदीविमलचित्तजलाभिषेकै- र्नित्यं समाधिकुसुमैर्नपुनर्भवाय ॥ 9
अयमेकोऽवशिष्टोऽस्मीत्येवमावाहयेच्छिवम् । आसनं कल्पयेत्पश्चात्स्वप्रतिष्ठात्मचिंतनम् ॥ 10 ॥
पुण्यपापरजःसंगो मम नास्तीति वेदनम् । पाद्यं समर्पयेद्विद्वन्सर्वकल्मषनाशनम् ॥ 11 ॥
अनादिकल्पविधृतमूलाज्ञानजलांजलिम् । विसृजेदात्मलिंगस्य तदेवार्घ्यसमर्पणम् ॥ 12 ॥
ब्रह्मानंदाब्धिकल्लोलकणकोट्यंशलेशकम् । पिबंतींद्रादय इति ध्यानमाचमनं मतम् ॥ 13 ॥
ब्रह्मानंदजलेनैव लोकाः सर्वे परिप्लुताः । अच्छेद्योऽयमिति ध्यानमभिषेचनमात्मनः ॥ 14 ॥
निरावरणचैतन्यं प्रकाशोऽस्मीति चिंतनम् । आत्मलिंगस्य सद्वस्त्रमित्येवं चिंतयेन्मुनिः ॥ 15 ॥
त्रिगुणात्माशेषलोकमालिकासूत्रमस्म्यहम् । इति निश्चयमेवात्र ह्युपवीतं परं मतम् ॥ 16 ॥
अनेकवासनामिश्रप्रपंचोऽयं धृतो मया । नान्येनेत्यनुसंधानमात्मनश्चंदनं भवेत् ॥ 17 ॥
रजःसत्त्वतमोवृत्तित्यागरूपैस्तिलाक्षतैः । आत्मलिंगं यजेन्नित्यं जीवन्मुक्तिप्रसिद्धये ॥ 18 ॥
ईश्वरो गुरुरात्मेति भेदत्रयविवर्जितैः । बिल्वपत्रैरद्वितीयैरात्मलिंगं यजेच्छिवम् ॥ 19 ॥
समस्तवासनात्यागं धूपं तस्य विचिंतयेत् । ज्योतिर्मयात्मविज्ञानं दीपं संदर्शयेद्बुधः ॥ 20 ॥
नैवेद्यमात्मलिंगस्य ब्रह्मांडाख्यं महोदनम् । पिबानंदरसं स्वादु मृत्युरस्योपसेचनम् ॥ 21 ॥
अज्ञानोच्छिष्टकरस्य क्षालनं ज्ञानवारिणा । विशुद्धस्यात्मलिंगस्य हस्तप्रक्षालनं स्मरेत् ॥ 22 ॥
रागादिगुणशून्यस्य शिवस्य परमात्मनः । सरागविषयाभ्यासत्यागस्तांबूलचर्वणम् ॥ 23 ॥
अज्ञानध्वांतविध्वंसप्रचंडमतिभास्करम् । आत्मनो ब्रह्मताज्ञानं नीराजनमिहात्मनः ॥ 24 ॥
विविधब्रह्मसंदृष्टिर्मालिकाभिरलंकृतम् । पूर्णानंदात्मतादृष्टिं पुष्पांजलिमनुस्मरेत् ॥ 25 ॥
परिभ्रमंति ब्रह्मांडसहस्राणि मयीश्वरे । कूटस्थाचलरूपोऽहमिति ध्यानं प्रदक्षिणम् ॥ 26 ॥
विश्ववंद्योऽहमेवास्मि नास्ति वंद्यो मदन्यतः । इत्यालोचनमेवात्र स्वात्मलिंगस्य वंदनम् ॥ 27 ॥
आत्मनः सत्क्रिया प्रोक्ता कर्तव्याभावभावना । नामरूपव्यतीतात्मचिंतनं नामकीर्तनम् ॥ 28 ॥
श्रवणं तस्य देवस्य श्रोतव्याभावचिंतनम् । मननं त्वात्मलिंगस्य मंतव्याभावचिंतनम् ॥ 29 ॥
ध्यातव्याभावविज्ञानं निदिध्यासनमात्मनः । समस्तभ्रांतिविक्षेपराहित्येनात्मनिष्ठता ॥ 30 ॥
समाधिरात्मनो नाम नान्यच्चित्तस्य विभ्रमः । तत्रैव बह्मणि सदा चित्तविश्रांतिरिष्यते ॥ 31 ॥
एवं वेदांतकल्पोक्तस्वात्मलिंगप्रपूजनम् । कुर्वन्ना मरणं वापि क्षणं वा सुसमाहितः ॥ 32 ॥
सर्वदुर्वासनाजालं पदपांसुमिव त्यजेत् । विधूयाज्ञानदुःखौघं मोक्षानंदं समश्नुते ॥ 33 ॥
Browse Related Categories: