Hanuma · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
॥ पंचमुख हनुमत्कवचम् ॥
अस्य श्री पंचमुखहनुमन्मंत्रस्य ब्रह्मा ऋषिः गायत्रीछंदः पंचमुखविराट् हनुमान् देवता ह्रीं बीजं श्रीं शक्तिः क्रौं कीलकं क्रूं कवचं क्रैं अस्त्राय फट् इति दिग्बंधः ।
श्री गरुड उवाच
अथ ध्यानं प्रवक्ष्यामि शृणु सर्वांगसुंदरि । यत्कृतं देवदेवेन ध्यानं हनुमतः प्रियम् ॥ 1
पंचवक्त्रं महाभीमं त्रिपंचनयनैर्युतम् । बाहुभिर्दशभिर्युक्तं सर्वकामार्थसिद्धिदम् ॥ 2 ॥
पूर्वं तु वानरं वक्त्रं कोटिसूर्यसमप्रभम् । दंष्ट्राकरालवदनं भृकुटीकुटिलेक्षणम् ॥ 3 ॥
अस्यैव दक्षिणं वक्त्रं नारसिंहं महाद्भुतम् । अत्युग्रतेजोवपुषं भीषणं भयनाशनम् ॥ 4 ॥
पश्चिमं गारुडं वक्त्रं वक्रतुंडं महाबलम् । सर्वनागप्रशमनं विषभूतादिकृंतनम् ॥ 5 ॥
उत्तरं सौकरं वक्त्रं कृष्णं दीप्तं नभोपमम् । पातालसिंहवेतालज्वररोगादिकृंतनम् ॥ 6 ॥
ऊर्ध्वं हयाननं घोरं दानवांतकरं परम् । येन वक्त्रेण विप्रेंद्र तारकाख्यं महासुरम् ॥ 7 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
जघान शरणं तत्स्यात्सर्वशत्रुहरं परम् । ध्यात्वा पंचमुखं रुद्रं हनूमंतं दयानिधिम् ॥ 8 ॥
खड्गं त्रिशूलं खट्वांगं पाशमंकुशपर्वतम् । मुष्टिं कौमोदकीं वृक्षं धारयंतं कमंडलुम् ॥ 9 ॥
भिंदिपालं ज्ञानमुद्रां दशभिर्मुनिपुंगवम् । एतान्यायुधजालानि धारयंतं भजाम्यहम् ॥ 10 ॥
प्रेतासनोपविष्टं तं सर्वाभरणभूषितम् । दिव्यमाल्यांबरधरं दिव्यगंधानुलेपनम् । सर्वाश्चर्यमयं देवं हनुमद्विश्वतोमुखम् ॥ 11 ॥
पंचास्यमच्युतमनेकविचित्रवर्ण- -वक्त्रं शशांकशिखरं कपिराजवर्यम् । पीतांबरादिमुकुटैरुपशोभितांगं पिंगाक्षमाद्यमनिशं मनसा स्मरामि ॥ 12 ॥
मर्कटेशं महोत्साहं सर्वशत्रुहरं परम् । शत्रुं संहर मां रक्ष श्रीमन्नापदमुद्धर ॥ 13 ॥
हरिमर्कट मर्कट मंत्रमिदं परिलिख्यति लिख्यति वामतले । यदि नश्यति नश्यति शत्रुकुलं यदि मुंचति मुंचति वामलता ॥ 14 ॥
ॐ हरिमर्कटाय स्वाहा ।
ॐ नमो भगवते पंचवदनाय पूर्वकपिमुखाय सकलशत्रुसंहारकाय स्वाहा । ॐ नमो भगवते पंचवदनाय दक्षिणमुखाय करालवदनाय नरसिंहाय सकलभूतप्रमथनाय स्वाहा । ॐ नमो भगवते पंचवदनाय पश्चिममुखाय गरुडाननाय सकलविषहराय स्वाहा । ॐ नमो भगवते पंचवदनाय उत्तरमुखाय आदिवराहाय सकलसंपत्कराय स्वाहा । ॐ नमो भगवते पंचवदनाय ऊर्ध्वमुखाय हयग्रीवाय सकलजनवशंकराय स्वाहा ।
ॐ अस्य श्री पंचमुखहनुमन्मंत्रस्य श्रीरामचंद्र ऋषिः अनुष्टुप्छंदः पंचमुखवीरहनुमान् देवता हनुमान् इति बीजं वायुपुत्र इति शक्तिः अंजनीसुत इति कीलकं श्रीरामदूतहनुमत्प्रसादसिद्ध्यर्थे जपे विनियोगः । इति ऋष्यादिकं विन्यसेत् ।
अथ करन्यासः । ॐ अंजनीसुताय अंगुष्ठाभ्यां नमः । ॐ रुद्रमूर्तये तर्जनीभ्यां नमः । ॐ वायुपुत्राय मध्यमाभ्यां नमः । ॐ अग्निगर्भाय अनामिकाभ्यां नमः । ॐ रामदूताय कनिष्ठिकाभ्यां नमः । ॐ पंचमुखहनुमते करतलकरपृष्ठाभ्यां नमः ।
अथ अंगन्यासः । ॐ अंजनीसुताय हृदयाय नमः । ॐ रुद्रमूर्तये शिरसे स्वाहा । ॐ वायुपुत्राय शिखायै वषट् । ॐ अग्निगर्भाय कवचाय हुम् । ॐ रामदूताय नेत्रत्रयाय वौषट् । ॐ पंचमुखहनुमते अस्त्राय फट् । पंचमुखहनुमते स्वाहा इति दिग्बंधः ।
अथ ध्यानम् । वंदे वानरनारसिंहखगराट्क्रोडाश्ववक्त्रान्वितं दिव्यालंकरणं त्रिपंचनयनं देदीप्यमानं रुचा । हस्ताब्जैरसिखेटपुस्तकसुधाकुंभांकुशाद्रिं हलं खट्वांगं फणिभूरुहं दशभुजं सर्वारिवीरापहम् ।
अथ मंत्रः । ॐ श्रीरामदूताय आंजनेयाय वायुपुत्राय महाबलपराक्रमाय सीतादुःखनिवारणाय लंकादहनकारणाय महाबलप्रचंडाय फाल्गुनसखाय कोलाहलसकलब्रह्मांडविश्वरूपाय सप्तसमुद्रनिर्लंघनाय पिंगलनयनाय अमितविक्रमाय सूर्यबिंबफलसेवनाय दुष्टनिवारणाय दृष्टिनिरालंकृताय संजीविनीसंजीवितांगद-लक्ष्मणमहाकपिसैन्यप्राणदाय दशकंठविध्वंसनाय रामेष्टाय महाफाल्गुनसखाय सीतासहितरामवरप्रदाय षट्प्रयोगागमपंचमुखवीरहनुमन्मंत्रजपे विनियोगः ।
ॐ हरिमर्कटमर्कटाय बंबंबंबंबं वौषट् स्वाहा । ॐ हरिमर्कटमर्कटाय फंफंफंफंफं फट् स्वाहा । ॐ हरिमर्कटमर्कटाय खेंखेंखेंखेंखें मारणाय स्वाहा । ॐ हरिमर्कटमर्कटाय लुंलुंलुंलुंलुं आकर्षितसकलसंपत्कराय स्वाहा । ॐ हरिमर्कटमर्कटाय धंधंधंधंधं शत्रुस्तंभनाय स्वाहा ।
ॐ टंटंटंटंटं कूर्ममूर्तये पंचमुखवीरहनुमते परयंत्र परतंत्रोच्चाटनाय स्वाहा । ॐ कंखंगंघंङं चंछंजंझंञं टंठंडंढंणं तंथंदंधंनं पंफंबंभंमं यंरंलंवं शंषंसंहं लंक्षं स्वाहा । इति दिग्बंधः ।
ॐ पूर्वकपिमुखाय पंचमुखहनुमते टंटंटंटंटं सकलशत्रुसंहरणाय स्वाहा । ॐ दक्षिणमुखाय पंचमुखहनुमते करालवदनाय नरसिंहाय ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः सकलभूतप्रेतदमनाय स्वाहा । ॐ पश्चिममुखाय गरुडाननाय पंचमुखहनुमते मंमंमंमंमं सकलविषहराय स्वाहा । ॐ उत्तरमुखाय आदिवराहाय लंलंलंलंलं नृसिंहाय नीलकंठमूर्तये पंचमुखहनुमते स्वाहा । ॐ ऊर्ध्वमुखाय हयग्रीवाय रुंरुंरुंरुंरुं रुद्रमूर्तये सकलप्रयोजननिर्वाहकाय स्वाहा ।
ॐ अंजनीसुताय वायुपुत्राय महाबलाय सीताशोकनिवारणाय श्रीरामचंद्रकृपापादुकाय महावीर्यप्रमथनाय ब्रह्मांडनाथाय कामदाय पंचमुखवीरहनुमते स्वाहा ।
भूतप्रेतपिशाचब्रह्मराक्षस शाकिनीडाकिन्यंतरिक्षग्रह परयंत्र परतंत्रोच्चटनाय स्वाहा । सकलप्रयोजननिर्वाहकाय पंचमुखवीरहनुमते श्रीरामचंद्रवरप्रसादाय जंजंजंजंजं स्वाहा ।
इदं कवचं पठित्वा तु महाकवचं पठेन्नरः । एकवारं जपेत् स्तोत्रं सर्वशत्रुनिवारणम् ॥ 15 ॥
द्विवारं तु पठेन्नित्यं पुत्रपौत्रप्रवर्धनम् । त्रिवारं च पठेन्नित्यं सर्वसंपत्करं शुभम् ॥ 16 ॥
चतुर्वारं पठेन्नित्यं सर्वरोगनिवारणम् । पंचवारं पठेन्नित्यं सर्वलोकवशंकरम् ॥ 17 ॥
षड्वारं च पठेन्नित्यं सर्वदेववशंकरम् । सप्तवारं पठेन्नित्यं सर्वसौभाग्यदायकम् ॥ 18 ॥
अष्टवारं पठेन्नित्यमिष्टकामार्थसिद्धिदम् । नववारं पठेन्नित्यं राजभोगमवाप्नुयात् ॥ 19 ॥
दशवारं पठेन्नित्यं त्रैलोक्यज्ञानदर्शनम् । रुद्रावृत्तिं पठेन्नित्यं सर्वसिद्धिर्भवेद्धृवम् ॥ 20 ॥
निर्बलो रोगयुक्तश्च महाव्याध्यादिपीडितः । कवचस्मरणेनैव महाबलमवाप्नुयात् ॥ 21 ॥
इति सुदर्शनसंहितायां श्रीरामचंद्रसीताप्रोक्तं श्री पंचमुखहनुमत्कवचम् ।
Browse Related Categories: