Vedic · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
पंचमः प्रश्नः
अथ हैनं सैब्यः सत्यकामः पप्रच्छ। स यो ह वै तद् वगवन्मनुष्येषु प्रायणांतमोंकारमभिध्यायीत कतमं-वाँव स तेन लोकं जयतीति ॥1॥
तस्मै स होवाच एतद् वै सत्यकाम परं चापरं च ब्रह्म यदोंकारः। तस्माद् विद्वानेतेनैवायतनेनैकतरमन्वेति ॥2॥
स यध्येकमात्रमभिध्यायीत स तेनैव संवेँदितस्तूर्णमेव जगत्याभिसंपध्यते। तमृचो मनुष्यलोकमुपनयंते स तत्र तपसा ब्रह्मचर्येण श्रद्धया संपन्नो महिमानमनुभवति ॥3॥
अथ यदि द्विमात्रेण मनसि संपद्यते सोऽंतरिक्षं-यँजुर्भिरुन्नीयते सोमलोकम्। स सोमलोके विभुतिमनुभूय पुनरावर्तते ॥4॥
यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत स तेजसि सूर्ये संपन्नः। यथा पादोदरस्त्वचा विनिर्भुच्यत एवं ह वै स पाप्मना विनिर्भुक्तः स सामभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षते तदेतौ श्लोकौ भवतः ॥5॥
तिस्रो मात्रा मृत्युमत्यः प्रयुक्ता अन्योन्यसक्ताः अनविप्रयुक्ताः। क्रियासु बाह्यांतरमध्यमासु सम्यक्प्रयुक्तासु न कंपते ज्ञः ॥6॥
ऋग्भिरेतं-यँजुर्भिरंतरिक्षं सामभिर्यत्तत्कवयो वेदयंते। तमोंकारेणैवायतनेनान्वेति विद्वान् यत्तच्छांतमजरममृतमभयं परं चेति ॥7॥
Offered for worship and study, not as prediction. Non-commercial.
Browse Related Categories: