Vedic · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
षष्ठः प्रश्नः
अथ हैनं सुकेशा भारद्वाजः पप्रच्छ - भगवन् हिरण्यनाभः कौसल्यो राजपुत्रो मामुपेत्यैतं प्रश्नमपृच्छत - षोडशकलं भारद्वाज पुरुषं-वेँत्थ। तमहं कुमारंब्रुवं नाहमिमं-वेँद यध्यहमिममवेदिषं कथं ते नावक्ष्यमिति । समूलो वा एष परिशुष्यति योऽनृतमभिवदति। तस्मान्नार्हम्यनृतं-वँक्तुम्। स तूष्णीं रथमारुह्य प्रवव्राज। तं त्वा पृच्छामि क्वासौ पुरुष इति ॥1॥
तस्मै स होवाच । इहैवांतःशरीरे सोभ्य स पुरुषो यस्मिन्नताः षोडशकलाः प्रभवंतीति ॥2॥
स ईक्षांचक्रे। कस्मिन्नहमुत्क्रांत उत्क्रांतो भविष्यामि कस्मिन् वा प्रतिष्ठिते प्रतिष्टस्यामीति ॥3॥
स प्राणमसृजत। प्राणाच्छ्रद्धां खं-वाँयुर्ज्योतिरापः पृथिवींद्रियं मनोऽन्नमन्नाद्वीर्यं तपो मंत्राः कर्मलोका लोकेषु च नाम च ॥4॥
स यथेमा नध्यः स्यंदमानाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छंति भिध्येते तासां नामरुपे समुद्र इत्येवं प्रोच्यते। एवमेवास्य परिद्रष्टुरिमाः षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छंति भिध्येते चासां नामरुपे पुरुष इत्येवं प्रोच्यते स एषोऽकलोऽमृतो भवति तदेष श्लोकः ॥5॥
अरा इव रथनाभौ कला यस्मिन् प्रतिष्ठिताः। तं-वेँध्यं पुरुषं-वेँद यथा मा वो मृत्युः परिव्यथा इति ॥6॥
तान् होवाचैतावदेवाहमेतत् परं ब्रह्म वेद। नातः परमस्तीति ॥7॥
Offered for worship and study, not as prediction. Non-commercial.
ते तमर्चयंतस्त्वं हि नः पिता योऽस्माकमविध्यायाः परं पारं तारयसीति। नमः परमृषिभ्यो नमः परमृषिभ्यः ॥8॥
Browse Related Categories: