Adi Shankaracharya · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
प्रातः स्मरामि हृदि संस्फुरदात्मतत्त्वं सच्चित्सुखं परमहंसगतिं तुरीयम् । यत्स्वप्नजागरसुषुप्तमवैति नित्यं तद्ब्रह्म निष्कलमहं न च भूतसंघः ॥ 1 ॥
प्रातर्भजामि मनसां वचसामगम्यं वाचो विभांति निखिला यदनुग्रहेण । यन्नेतिनेति वचनैर्निगमा अवोचुः तं देवदेवमजमच्युतमाहुरग्र्यम् ॥ 2 ॥
प्रातर्नमामि तमसः परमर्कवर्णं पूर्णं सनातनपदं पुरुषोत्तमाख्यम् । यस्मिन्निदं जगदशेषमशेषमूर्तौ रज्ज्वां भुजंगम इव प्रतिभासितं वै ॥ 3 ॥
श्लोकत्रयमिदं पुण्यं लोकत्रयविभूषणम् प्रातः काले पठेद्यस्तु स गच्छेत्परमं पदम् ॥
Browse Related Categories:
Offered for worship and study, not as prediction. Non-commercial.