Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
ध्यानम् – वागीशा यस्य वदने लक्ष्मीर्यस्य च वक्षसि । यस्यास्ते हृदये संवित्तं नृसिंहमहं भजे ॥
अथ स्तोत्रम् – देवताकार्यसिद्ध्यर्थं सभास्तंभसमुद्भवम् । श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ 1 ॥
लक्ष्म्यालिंगित वामांकं भक्तानां वरदायकम् । श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ 2 ॥
आंत्रमालाधरं शंखचक्राब्जायुधधारिणम् । श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ 3 ॥
स्मरणात् सर्वपापघ्नं कद्रूजविषनाशनम् । श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ 4 ॥
सिंहनादेन महता दिग्विदिग्भयनाशनम् । [दिग्दंति] श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ 5 ॥
प्रह्लादवरद श्रीशं दैत्येश्वरविदारणम् । श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ 6 ॥
क्रूरग्रहैः पीडितानां भक्तानामभयप्रदम् । श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ 7 ॥
वेदवेदांतयज्ञेशं ब्रह्मरुद्रादिवंदितम् । श्रीनृसिंहं महावीरं नमामि ऋणमुक्तये ॥ 8 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
इत्थं यः पठते नित्यं ऋणमोचन सिद्धये । [संज्ञितम्] अनृणो जायते शीघ्रं धनं विपुलमाप्नुयात् ॥ 9 ॥
सर्वसिद्धिप्रदं नृणां सर्वैश्वर्यप्रदायकम् । तस्मात् सर्वप्रयत्नेन पठेत् स्तोत्रमिदं सदा ॥ 10 ॥
इति श्रीनृसिंहपुराणे ऋणमोचन श्री नृसिंह स्तोत्रम् ।
Browse Related Categories: