Shiva · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
व्यास उवाच
प्रजा पतीनां प्रथमं तेजसां पुरुषं प्रभुम् । भुवनं भूर्भुवं देवं सर्वलोकेश्वरं प्रभुम्॥ 1
ईशानां वरदं पार्थ दृष्णवानसि शंकरम् । तं गच्च शरणं देवं वरदं भवनेश्वरम् ॥ 2
महादेवं महात्मान मीशानं जटिलं शिवम् । त्य्रक्षं महाभुजं रुद्रं शिखिनं चीरवासनम् ॥ 3
महादेवं हरं स्थाणुं वरदं भवनेश्वरम् । जगत्र्पाधानमधिकं जगत्प्रीतमधीश्वरम् ॥ 4
जगद्योनिं जगद्द्वीपं जयनं जगतो गतिम् । विश्वात्मानं विश्वसृजं विश्वमूर्तिं यशस्विनम् ॥ 5
विश्वेश्वरं विश्ववरं कर्माणामीश्वरं प्रभुम् । शंभुं स्वयंभुं भूतेशं भूतभव्यभवोद्भवम् ॥ 6
योगं योगेश्वरं शर्वं सर्वलोकेश्वरेश्वरम् । सर्वश्रेष्टं जगच्छ्रेष्टं वरिष्टं परमेष्ठिनम् ॥ 7
लोकत्रय विधातारमेकं लोकत्रयाश्रयम् । सुदुर्जयं जगन्नाथं जन्ममृत्यु जरातिगम् ॥ 8
Offered for worship and study, not as prediction. Non-commercial.
ज्ञानात्मानां ज्ञानगम्यं ज्ञानश्रेष्ठं सुदर्विदम् । दातारं चैव भक्तानां प्रसादविहितान् वरान् ॥ 9
तस्य पारिषदा दिव्यारूपै र्नानाविधै र्विभोः । वामना जटिला मुंडा ह्रस्वग्रीव महोदराः ॥ 10
महाकाया महोत्साहा महाकर्णास्तदा परे । आननैर्विकृतैः पादैः पार्थवेषैश्च वैकृतैः ॥ 11
ईदृशैस्स महादेवः पूज्यमानो महेश्वरः । सशिवस्तात तेजस्वी प्रसादाद्याति तेऽग्रतः ॥ 12
तस्मिन् घोरे सदा पार्थ संग्रामे रोमहर्षिणे । द्रौणिकर्ण कृपैर्गुप्तां महेष्वासैः प्रहारिभिः ॥ 13
कस्तां सेनां तदा पार्ध मनसापि प्रधर्षयेत् । ऋते देवान्महेष्वासाद्बहुरूपान्महेश्वरात् ॥ 14
प्थातुमुत्सहते कश्चिन्नतस्मिन्नग्रतः स्थिते । न हि भूतं समं तेन त्रिषु लोकेषु विद्यते ॥ 15
गंधे नापि हि संग्रामे तस्य कृद्दस्य शत्रवः । विसंज्ञा हत भूयिष्टा वेपंतिच पतंति च ॥ 16
तस्मै नमस्तु कुर्वंतो देवा स्तिष्ठंति वैदिवि । ये चान्ये मानवा लोके येच स्वर्गजितो नराः ॥ 17
ये भक्ता वरदं देवं शिवं रुद्रमुमापतिम् । इह लोके सुखं प्राप्यते यांति परमां गतिम् ॥ 18
नमस्कुरुष्व कौंतेय तस्मै शांताय वै सदा । रुद्राय शितिकंठाय कनिष्ठाय सुवर्चसे ॥ 19
कपर्दिने करलाय हर्यक्षवरदायच । याम्यायरक्तकेशाय सद्वृत्ते शंकरायच ॥ 20
काम्याय हरिनेत्राय स्थाणुवे पुरुषायच । हरिकेशाय मुंडाय कनिष्ठाय सुवर्चसे ॥ 21
भास्कराय सुतीर्थाय देवदेवाय रंहसे । बहुरूपाय प्रियाय प्रियवाससे ॥ 22
उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीडुषे । गिरीशीय सुशांताय पतये चीरवाससे ॥ 23
हिरण्यबाहवे राजन्नुग्राय पतयेदिशाम् । पर्जन्यपतयेचैव भूतानां पतये नमः ॥ 24
वृक्षाणां पतयेचैव गवां च पतये तथा । वृक्षैरावृत्तकायाय सेनान्ये मध्यमायच ॥ 25
स्रुवहस्ताय देवाय धन्विने भार्गवाय च । बहुरूपाय विश्वस्य पतये मुंजवाससे ॥ 26
सहस्रशिरसे चैव सहस्र नयनायच । सहस्रबाहवे चैव सहस्र चरणाय च ॥ 27
शरणं गच्छ कौंतेय वरदं भुवनेश्वरम् । उमापतिं विरूपाक्षं दक्षं यज्ञनिबर्हणम् ॥ 28
प्रजानां पतिमव्यग्रं भूतानां पतिमव्ययम् । कपर्दिनं वृषावर्तं वृषनाभं वृषध्वजम् ॥ 29
वृषदर्पं वृषपतिं वृषशृंगं वृषर्षभम् । वृषाकं वृषभोदारं वृषभं वृषभेक्षणम् ॥ 30
वृषायुधं वृषशरं वृषभूतं महेश्वरम् । महोदरं महाकायं द्वीपचर्मनिवासिनम् ॥ 31
लोकेशं वरदं मुंडं ब्राह्मण्यं ब्राह्मणप्रियम् । त्रिशूलपाणिं वरदं खड्गचर्मधरं शुभम् ॥ 32
पिनाकिनं खड्गधरं लोकानां पतिमीश्वरम् । प्रपद्ये शरणं देवं शरण्यं चीरवासनम् ॥ 33
नमस्तस्मै सुरेशाय यस्य वैश्रवणस्सखा । सुवाससे नमो नित्यं सुव्रताय सुधन्विने ॥ 34
धनुर्धराय देवाय प्रियधन्वाय धन्विने । धन्वंतराय धनुषे धन्वाचार्याय ते नमः ॥ 35
उग्रायुधाय देवाय नमस्सुरवराय च । नमोऽस्तु बहुरूपाय नमस्ते बहुदन्विने ॥ 36
नमोऽस्तु स्थाणवे नित्यंनमस्तस्मै सुधन्विने । नमोऽस्तु त्रिपुरघ्नाय भवघ्नाय च वै नमः ॥ 37
वनस्पतीनां पतये नराणां पतये नमः । मातॄणां पतये चैव गणानां पतये नमः ॥ 38
गवां च पतये नित्यं यज्ञानां पतये नमः । अपां च पतये नित्यं देवानां पतये नमः ॥ 39
पूष्णो दंतविनाशाय त्र्यक्षाय वरदायच । हराय नीलकंठाय स्वर्णकेशाय वै नमः ॥ 40
ॐ शांतिः ॐ शांतिः ॐ शांतिः
Browse Related Categories: