Dattatreya · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
ऋषय ऊचुः । कथं संकल्पसिद्धिः स्याद्वेदव्यास कलौयुगे । धर्मार्थकाममोक्षाणां साधनं किमुदाहृतम् ॥ 1 ॥
व्यास उवाच
शृण्वंतु ऋषयस्सर्वे शीघ्रं संकल्पसाधनम् । सकृदुच्चारमात्रेण भोगमोक्षप्रदायकम् ॥ 2
गौरीशृंगे हिमवतः कल्पवृक्षोपशोभितम् । दीप्ते दिव्यमहारत्न हेममंडपमध्यगम् ॥ 3 ॥
रत्नसिंहासनासीनं प्रसन्नं परमेश्वरम् । मंदस्मितमुखांभोजं शंकरं प्राह पार्वती ॥ 4 ॥
श्रीदेवी उवाच
देवदेव महादेव लोकशंकर शंकर । मंत्रजालानि सर्वाणि यंत्रजालानि कृत्स्नशः ॥ 5
तंत्रजालान्यनेकानि मया त्वत्तः श्रुतानि वै । इदानीं द्रष्टुमिच्छामि विशेषेण महीतलम् ॥ 6 ॥
इत्युदीरितमाकर्ण्य पार्वत्या परमेश्वरः । करेणामृज्य संतोषात् पार्वतीं प्रत्यभाषत ॥ 7 ॥
मयेदानीं त्वया सार्धं वृषमारुह्य गम्यते । इत्युक्त्वा वृषमारुह्य पार्वत्या सह शंकरः ॥ 8 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
ययौ भूमंडलं द्रष्टुं गौर्याश्चित्राणि दर्शयन् । क्वचित् विंध्याचलप्रांते महारण्ये सुदुर्गमे ॥ 9 ॥
तत्र व्याहर्तुमायांतं भिल्लं परशुधारिणम् । वध्यमानं महाव्याघ्रं नखदंष्ट्राभिरावृतम् ॥ 10 ॥
अतीव चित्रचारित्र्यं वज्रकायसमायुतम् । अप्रयत्नमनायासमखिन्नं सुखमास्थितम् ॥ 11 ॥
पलायंतं मृगं पश्चाद्व्याघ्रो भीत्या पलायतः । एतदाश्चर्यमालोक्य पार्वती प्राह शंकरम् ॥ 12 ॥
श्री पार्वत्युवाच
किमाश्चर्यं किमाश्चर्यमग्रे शंभो निरीक्ष्यताम् । इत्युक्तः स ततः शंभुर्दृष्ट्वा प्राह पुराणवित् ॥ 13
श्री शंकर उवाच
गौरि वक्ष्यामि ते चित्रमवाङ्मानसगोचरम् । अदृष्टपूर्वमस्माभिर्नास्ति किंचिन्न कुत्रचित् ॥ 14
मया सम्यक् समासेन वक्ष्यते शृणु पार्वति । अयं दूरश्रवा नाम भिल्लः परमधार्मिकः ॥ 15 ॥
समित्कुशप्रसूनानि कंदमूलफलादिकम् । प्रत्यहं विपिनं गत्वा समादाय प्रयासतः ॥ 16 ॥
प्रिये पूर्वं मुनींद्रेभ्यः प्रयच्छति न वांछति । तेऽपि तस्मिन्नपि दयां कुर्वते सर्वमौनिनः ॥ 17 ॥
दलादनो महायोगी वसन्नेव निजाश्रमे । कदाचिदस्मरत् सिद्धं दत्तात्रेयं दिगंबरम् ॥ 18 ॥
दत्तात्रेयः स्मर्तृगामी चेतिहासं परीक्षितुम् । तत्क्षणात् सोऽपि योगींद्रो दत्तात्रेयः समुत्थितः ॥ 19 ॥
तं दृष्ट्वाश्चर्यतोषाभ्यां दलादनमहामुनिः । संपूज्याग्रे विषीदंतं दत्तात्रेयमुवाच तम् ॥ 20 ॥
मयोपहूतः संप्राप्तो दत्तात्रेय महामुने । स्मर्तृगामी त्वमित्येतत् किं वदंती परीक्षितुम् ॥ 21 ॥
मयाद्य संस्मृतोऽसि त्वमपराधं क्षमस्व मे । दत्तात्रेयो मुनिं प्राह मम प्रकृतिरीदृशी ॥ 22 ॥
अभक्त्या वा सुभक्त्या वा यः स्मरेन्नामनन्यधीः । तदानीं तमुपागम्य ददामि तदभीप्सितम् ॥ 23 ॥
दत्तात्रेयो मुनिं प्राह दलादनमुनीश्वरम् । यदिष्टं तद्वृणीष्व त्वं यत् प्राप्तोऽहं त्वया स्मृतः ॥ 24 ॥
दत्तात्रेयं मुनिं प्राह मया किमपि नोच्यते । त्वच्चित्ते यत् स्थितं तन्मे प्रयच्छ मुनिपुंगव ॥ 25 ॥
श्री दत्तात्रेय उवाच
ममास्ति वज्रकवचं गृहाणेत्यवदन्मुनिम् । तथेत्यंगीकृतवते दलादमुनये मुनिः ॥ 26
स्ववज्रकवचं प्राह ऋषिच्छंदः पुरस्सरम् । न्यासं ध्यानं फलं तत्र प्रयोजनमशेषतः ॥ 27 ॥
अस्य श्रीदत्तात्रेय वज्रकवच स्तोत्रमंत्रस्य, किरातरूपी महारुद्रृषिः, अनुष्टुप् छंदः, श्रीदत्तात्रेयो देवता, द्रां बीजम्, आं शक्तिः, क्रौं कीलकम्. ॐ आत्मने नमः ॐ द्रीं मनसे नमः ॐ आं द्रीं श्रीं सौः ॐ क्लां क्लीं क्लूं क्लैं क्लौं क्लः श्री दत्तात्रेय प्रसाद सिद्ध्यर्थे जपे विनियोगः
करन्यासः । ॐ द्रां अंगुष्ठाभ्यां नमः । ॐ द्रीं तर्जनीभ्यां नमः । ॐ द्रूं मध्यमाभ्यां नमः । ॐ द्रैं अनामिकाभ्यां नमः । ॐ द्रौं कनिष्ठिकाभ्यां नमः । ॐ द्रः करतलकरपृष्ठाभ्यां नमः ।
हृदयादिन्यासः । ॐ द्रां हृदयाय नमः । ॐ द्रीं शिरसे स्वाहा । ॐ द्रूं शिखायै वषट् । ॐ द्रैं कवचाय हुम् । ॐ द्रौं नेत्रत्रयाय वौषट् । ॐ द्रः अस्त्राय फट् । ॐ भूर्भुवस्सुवरोमिति दिग्बंधः ।
ध्यानम् । जगदंकुरकंदाय सच्चिदानंदमूर्तये । दत्तात्रेयाय योगींद्रचंद्राय परमात्मने ॥ 1 ॥
कदा योगी कदा भोगी कदा नग्नः पिशाचवत् । दत्तात्रेयो हरिः साक्षात् भुक्तिमुक्तिप्रदायकः ॥ 2 ॥
वाराणसीपुरस्नायी कॊल्हापुरजपादरः । माहुरीपुरभीक्षाशी सह्यशायी दिगंबरः ॥ 3 ॥
इंद्रनील समाकारः चंद्रकांतिसमद्युतिः । वैढूर्य सदृशस्फूर्तिः चलत्किंचिज्जटाधरः ॥ 4 ॥
स्निग्धधावल्य युक्ताक्षोऽत्यंतनील कनीनिकः । भ्रूवक्षःश्मश्रुनीलांकः शशांकसदृशाननः ॥ 5 ॥
हासनिर्जित निहारः कंठनिर्जित कंबुकः । मांसलांसो दीर्घबाहुः पाणिनिर्जितपल्लवः ॥ 6 ॥
विशालपीनवक्षाश्च ताम्रपाणिर्दलोदरः । पृथुलश्रोणिललितो विशालजघनस्थलः ॥ 7 ॥
रंभास्तंभोपमानोरुः जानुपूर्वैकजंघकः । गूढगुल्फः कूर्मपृष्ठो लसत्वादोपरिस्थलः ॥ 8 ॥
रक्तारविंदसदृश रमणीय पदाधरः । चर्मांबरधरो योगी स्मर्तृगामी क्षणेक्षणे ॥ 9 ॥
ज्ञानोपदेशनिरतो विपद्धरणदीक्षितः । सिद्धासनसमासीन ऋजुकायो हसन्मुखः ॥ 10 ॥
वामहस्तेन वरदो दक्षिणेनाभयंकरः । बालोन्मत्त पिशाचीभिः क्वचिद् युक्तः परीक्षितः ॥ 11 ॥
त्यागी भोगी महायोगी नित्यानंदो निरंजनः । सर्वरूपी सर्वदाता सर्वगः सर्वकामदः ॥ 12 ॥
भस्मोद्धूलित सर्वांगो महापातकनाशनः । भुक्तिप्रदो मुक्तिदाता जीवन्मुक्तो न संशयः ॥ 13 ॥
एवं ध्यात्वाऽनन्यचित्तो मद्वज्रकवचं पठेत् । मामेव पश्यन्सर्वत्र स मया सह संचरेत् ॥ 14 ॥
दिगंबरं भस्मसुगंध लेपनं चक्रं त्रिशूलं ढमरुं गदायुधम् । पद्मासनं योगिमुनींद्रवंदितं दत्तेतिनामस्मरणेन नित्यम् ॥ 15 ॥
पंचोपचारपूजा ।
ॐ लं पृथिवीतत्त्वात्मने श्रीदत्तात्रेयाय नमः । गंधं परिकल्पयामि।
ॐ हं आकाशतत्त्वात्मने श्रीदत्तात्रेयाय नमः । पुष्पं परिकल्पयामि ।
ॐ यं वायुतत्त्वात्मने श्रीदत्तात्रेयाय नमः । धूपं परिकल्पयामि ।
ॐ रं वह्नितत्त्वात्मने श्रीदत्तात्रेयाय नमः । दीपं परिकल्पयामि ।
ॐ वं अमृत तत्त्वात्मने श्रीदत्तात्रेयाय नमः । अमृतनैवेद्यं परिकल्पयामि ।
ॐ सं सर्वतत्त्वात्मने श्रीदत्तात्रेयाय नमः । तांबूलादिसर्वोपचारान् परिकल्पयामि ।
(अनंतरं ‘ॐ द्रां…’ इति मूलमंत्रं अष्टोत्तरशतवारं (108) जपेत्)
अथ वज्रकवचम् ।
ॐ दत्तात्रेयाय शिरःपातु सहस्राब्जेषु संस्थितः । फालं पात्वानसूयेयः चंद्रमंडलमध्यगः ॥ 1 ॥
कूर्चं मनोमयः पातु हं क्षं द्विदलपद्मभूः । ज्योतिरूपोऽक्षिणीपातु पातु शब्दात्मकः श्रुती ॥ 2 ॥
नासिकां पातु गंधात्मा मुखं पातु रसात्मकः । जिह्वां वेदात्मकः पातु दंतोष्ठौ पातु धार्मिकः ॥ 3 ॥
कपोलावत्रिभूः पातु पात्वशेषं ममात्मवित् । सर्वात्मा षोडशाराब्जस्थितः स्वात्माऽवताद् गलम् ॥ 4 ॥
स्कंधौ चंद्रानुजः पातु भुजौ पातु कृतादिभूः । जत्रुणी शत्रुजित् पातु पातु वक्षस्थलं हरिः ॥ 5 ॥
कादिठांतद्वादशारपद्मगो मरुदात्मकः । योगीश्वरेश्वरः पातु हृदयं हृदयस्थितः ॥ 6 ॥
पार्श्वे हरिः पार्श्ववर्ती पातु पार्श्वस्थितः स्मृतः । हठयोगादियोगज्ञः कुक्षिं पातु कृपानिधिः ॥ 7 ॥
डकारादि फकारांत दशारसरसीरुहे । नाभिस्थले वर्तमानो नाभिं वह्न्यात्मकोऽवतु ॥ 8 ॥
वह्नितत्त्वमयो योगी रक्षतान्मणिपूरकम् । कटिं कटिस्थब्रह्मांडवासुदेवात्मकोऽवतु ॥ 9 ॥
वकारादि लकारांत षट्पत्रांबुजबोधकः । जलतत्त्वमयो योगी स्वाधिष्ठानं ममावतु ॥ 10 ॥
सिद्धासन समासीन ऊरू सिद्धेश्वरोऽवतु । वादिसांत चतुष्पत्रसरोरुह निबोधकः ॥ 11 ॥
मूलाधारं महीरूपो रक्षताद् वीर्यनिग्रही । पृष्ठं च सर्वतः पातु जानुन्यस्तकरांबुजः ॥ 12 ॥
जंघे पात्ववधूतेंद्रः पात्वंघ्री तीर्थपावनः । सर्वांगं पातु सर्वात्मा रोमाण्यवतु केशवः ॥ 13 ॥
चर्म चर्मांबरः पातु रक्तं भक्तिप्रियोऽवतु । मांसं मांसकरः पातु मज्जां मज्जात्मकोऽवतु ॥ 14 ॥
अस्थीनि स्थिरधीः पायान्मेधां वेधाः प्रपालयेत् । शुक्रं सुखकरः पातु चित्तं पातु दृढाकृतिः ॥ 15 ॥
मनोबुद्धिमहंकारं हृषीकेशात्मकोऽवतु । कर्मेंद्रियाणि पात्वीशः पातु ज्ञानेंद्रियाण्यजः ॥ 16 ॥
बंधून् बंधूत्तमः पायाच्छत्रुभ्यः पातु शत्रुजित् । गृहारामधनक्षेत्रपुत्रादीन् शंकरोऽवतु ॥ 17 ॥
भार्यां प्रकृतिवित् पातु पश्वादीन् पातु शार्ंगभृत् । प्राणान् पातु प्रधानज्ञो भक्ष्यादीन् पातु भास्करः ॥ 18 ॥
सुखं चंद्रात्मकः पातु दुःखात् पातु पुरांतकः । पशून् पशुपतिः पातु भूतिं भूतेश्वरो मम ॥ 19 ॥
प्राच्यां विषहरः पातु पात्वाग्नेय्यां मखात्मकः । याम्यां धर्मात्मकः पातु नैरृत्यां सर्ववैरिहृत् ॥ 20 ॥
वराहः पातु वारुण्यां वायव्यां प्राणदोऽवतु । कौबेर्यां धनदः पातु पात्वैशान्यां महागुरुः ॥ 21 ॥
ऊर्ध्वं पातु महासिद्धः पात्वधस्ताज्जटाधरः । रक्षाहीनं तु यत् स्थानं रक्षत्वादिमुनीश्वरः ॥ 22 ॥
करन्यासः । ॐ द्रां अंगुष्ठाभ्यां नमः । ॐ द्रीं तर्जनीभ्यां नमः । ॐ द्रूं मध्यमाभ्यां नमः । ॐ द्रैं अनामिकाभ्यां नमः । ॐ द्रौं कनिष्ठिकाभ्यां नमः । ॐ द्रः करतलकरपृष्ठाभ्यां नमः ।
हृदयादिन्यासः । ॐ द्रां हृदयाय नमः । ॐ द्रीं शिरसे स्वाहा । ॐ द्रूं शिखायै वषट् । ॐ द्रैं कवचाय हुम् । ॐ द्रौं नेत्रत्रयाय वौषट् । ॐ द्रः अस्त्राय फट् । ॐ भूर्भुवस्सुवरोमिति दिग्विमोकः ।
फलशृति ॥
एतन्मे वज्रकवचं यः पठेत् शृणुयादपि । वज्रकायश्चिरंजीवी दत्तात्रेयोऽहमब्रुवम् ॥ 23 ॥
त्यागी भोगी महायोगी सुखदुःखविवर्जितः । सर्वत्र सिद्धसंकल्पो जीवन्मुक्तोऽद्यवर्तते ॥ 24 ॥
इत्युक्त्वांतर्दधे योगी दत्तात्रेयो दिगंबरः । दलादनोऽपि तज्जप्त्वा जीवन्मुक्तः स वर्तते ॥ 25 ॥
भिल्लो दूरश्रवा नाम तदानीं श्रुतवानिदम् । सकृच्छ्रवणमात्रेण वज्रांगोऽभवदप्यसौ ॥ 26 ॥
इत्येतद् वज्रकवचं दत्तात्रेयस्य योगिनः । श्रुत्वा शेषं शंभुमुखात् पुनरप्याह पार्वती ॥ 27 ॥
श्री पार्वत्युवाच
एतत् कवच माहात्म्यं वद विस्तरतो मम । कुत्र केन कदा जाप्यं कियज्जाप्यं कथं कथम् ॥ 28 ॥
उवाच
शंभुस्तत् सर्वं पार्वत्या विनयोदितम्
श्रीपरमेश्वर उवाच
शृणु पार्वति वक्ष्यामि समाहितमनाविलम् ॥ 29 ॥
धर्मार्थकाममोक्षाणामिदमेव परायणम् । हस्त्यश्वरथपादाति सर्वैश्वर्य प्रदायकम् ॥ 30 ॥
पुत्रमित्रकलत्रादि सर्वसंतोषसाधनम् । वेदशास्त्रादिविद्यानां विधानं परमं हि तत् ॥ 31 ॥
संगीत शास्त्र साहित्य सत्कवित्व विधायकम् । बुद्धि विद्या स्मृति प्रज्ञा मति प्रौढिप्रदायकम् ॥ 32 ॥
सर्वसंतोषकरणं सर्वदुःखनिवारणम् । शत्रुसंहारकं शीघ्रं यशःकीर्तिविवर्धनम् ॥ 33 ॥
अष्टसंख्या महारोगाः सन्निपातास्त्रयोदश । षण्णवत्यक्षिरोगाश्च विंशतिर्मेहरोगकाः ॥ 34 ॥
अष्टादशतु कुष्ठानि गुल्मान्यष्टविधान्यपि । अशीतिर्वातरोगाश्च चत्वारिंशत्तु पैत्तिकाः ॥ 35 ॥
विंशतिः श्लेष्मरोगाश्च क्षयचातुर्थिकादयः । मंत्रयंत्रकुयोगाद्याः कल्पतंत्रादिनिर्मिताः ॥ 36 ॥
ब्रह्मराक्षस वेतालकूष्मांडादि ग्रहोद्भवाः । संगजा देशकालस्थास्तापत्रयसमुत्थिताः ॥ 37 ॥
नवग्रहसमुद्भूता महापातक संभवाः । सर्वे रोगाः प्रणश्यंति सहस्रावर्तनाद् ध्रुवम् ॥ 38 ॥
अयुतावृत्तिमात्रेण वंध्या पुत्रवती भवेत् । अयुतद्वितयावृत्त्या ह्यपमृत्युजयो भवेत् ॥ 39 ॥
अयुतत्रितयाच्चैव खेचरत्वं प्रजायते । सहस्रायुतदर्वाक् सर्वकार्याणि साधयेत् ॥ 40 ॥
लक्षावृत्त्या सर्वसिद्धिर्भवत्येव न संशयः ॥ 41 ॥
विषवृक्षस्य मूलेषु तिष्ठन् वै दक्षिणामुखः । कुरुते मासमात्रेण वैरिणं विकलेंद्रियम् ॥ 42 ॥
औदुंबरतरोर्मूले वृद्धिकामेन जाप्यते । श्रीवृक्षमूले श्रीकामी तिंत्रिणी शांतिकर्मणि ॥ 43 ॥
ओजस्कामोऽश्वत्थमूले स्त्रीकामैः सहकारके । ज्ञानार्थी तुलसीमूले गर्भगेहे सुतार्थिभिः ॥ 44 ॥
धनार्थिभिस्तु सुक्षेत्रे पशुकामैस्तु गोष्ठके । देवालये सर्वकामैस्तत्काले सर्वदर्शितम् ॥ 45 ॥
नाभिमात्रजले स्थित्वा भानुमालोक्य यो जपेत् । युद्धे वा शास्त्रवादे वा सहस्रेण जयो भवेत् ॥ 46 ॥
कंठमात्रे जले स्थित्वा यो रात्रौ कवचं पठेत् । ज्वरापस्मारकुष्ठादि तापज्वरनिवारणम् ॥ 47 ॥
यत्र यत् स्यात् स्थिरं यद्यत् प्रसक्तं तन्निवर्तते । तेन तत्र हि जप्तव्यं ततः सिद्धिर्भवेद्ध्रुवम् ॥ 48 ॥
इत्युक्तवान् शिवो गौर्वै रहस्यं परमं शुभम् । यः पठेत् वज्रकवचं दत्तात्रेय समो भवेत् ॥ 49 ॥
एवं शिवेन कथितं हिमवत्सुतायै प्रोक्तं दलादमुनयेऽत्रिसुतेन पूर्वम् । यः कोऽपि वज्रकवचं पठतीह लोके दत्तोपमश्चरति योगिवरश्चिरायुः ॥ 50 ॥
इति श्री रुद्रयामले हिमवत्खंडे मंत्रशास्त्रे उमामहेश्वरसंवादे श्री दत्तात्रेय वज्रकवचस्तोत्रं संपूर्णम् ॥
Browse Related Categories: