Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
श्रीक्षोण्यौ रमणीयुगं सुरमणीपुत्रोऽपि वाणीपतिः पौत्रश्चंद्रशिरोमणिः फणिपतिः शय्या सुराः सेवकाः । तार्क्ष्यो यस्य रथो महश्च भवनं ब्रह्मांडमाद्यः पुमान् श्रीमद्वेंकटभूधरेंद्ररमणः कुर्याद्धरिर्मंगलम् ॥ 1 ॥
यत्तेजो रविकोटिकोटिकिरणान् धिक्कृत्य जेजीयते यस्य श्रीवदनांबुजस्य सुषमा राकेंदुकोटीरपि । सौंदर्यं च मनोभवानपि बहून् कांतिश्च कादंबिनीं श्रीमद्वेंकटभूधरेंद्ररमणः कुर्याद्धरिर्मंगलम् ॥ 2 ॥
नानारत्न किरीटकुंडलमुखैर्भूषागणैर्भूषितः श्रीमत्कौस्तुभरत्न भव्यहृदयः श्रीवत्ससल्लांछनः । विद्युद्वर्णसुवर्णवस्त्ररुचिरो यः शंखचक्रादिभिः श्रीमद्वेंकटभूधरेंद्ररमणः कुर्याद्धरिर्मंगलम् ॥ 3 ॥
यत्फाले मृगनाभिचारुतिलको नेत्रेऽब्जपत्रायते कस्तूरीघनसारकेसरमिलच्छ्रीगंधसारो द्रवैः । गंधैर्लिप्ततनुः सुगंधसुमनोमालाधरो यः प्रभुः श्रीमद्वेंकटभूधरेंद्ररमणः कुर्याद्धरिर्मंगलम् ॥ 4 ॥
एतद्दिव्यपदं ममास्ति भुवि तत्संपश्यतेत्यादरा- -द्भक्तेभ्यः स्वकरेण दर्शयति यद्दृष्ट्याऽतिसौख्यं गतः । एतद्भक्तिमतो महानपि भवांभोधिर्नदीति स्पृशन् श्रीमद्वेंकटभूधरेंद्ररमणः कुर्याद्धरिर्मंगलम् ॥ 5 ॥
यः स्वामी सरसस्तटे विहरतो श्रीस्वामिनाम्नः सदा सौवर्णालयमंदिरो विधिमुखैर्बर्हिर्मुखैः सेवितः । यः शत्रून् हनयन् निजानवति च श्रीभूवराहात्मकः श्रीमद्वेंकटभूधरेंद्ररमणः कुर्याद्धरिर्मंगलम् ॥ 6 ॥
यो ब्रह्मादिसुरान् मुनींश्च मनुजान् ब्रह्मोत्सवायागतान् दृष्ट्वा हृष्टमना बभूव बहुशस्तैरर्चितः संस्तुतः । तेभ्यो यः प्रददाद्वरान् बहुविधान् लक्ष्मीनिवासो विभुः श्रीमद्वेंकटभूधरेंद्ररमणः कुर्याद्धरिर्मंगलम् ॥ 7 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
यो देवो भुवि वर्तते कलियुगे वैकुंठलोकस्थितो भक्तानां परिपालनाय सततं कारुण्यवारां निधिः । श्रीशेषाख्यमहींध्रमस्तकमणिर्भक्तैकचिंतामणिः श्रीमद्वेंकटभूधरेंद्ररमणः कुर्याद्धरिर्मंगलम् ॥ 8 ॥
शेषाद्रिप्रभुमंगलाष्टकमिदं तुष्टेन यस्येशितुः प्रीत्यर्थं रचितं रमेशचरणद्वंद्वैकनिष्ठावता । वैवाह्यादिशुभक्रियासु पठितं यैः साधु तेषामपि श्रीमद्वेंकटभूधरेंद्ररमणः कुर्याद्धरिर्मंगलम् ॥ 9 ॥
इति श्री वेंकटेश मंगलाष्टकम् ।
Browse Related Categories: