Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
श्री गणेशाय नमः ॥
श्रीसुदर्शन परब्रह्मणे नमः ॥
अथ श्रीसुदर्शन सहस्रनाम स्तोत्रम् ॥
कैलासशिखरे रम्ये मुक्तामाणिक्य मंडपे । रक्तसिंहासनासीनं प्रमथैः परिवारितम् ॥ 1॥
बद्धांजलिपुटा भूत्वा पप्रच्छ विनयान्विता । भर्तारं सर्वधर्मज्ञं पार्वती परमेश्वरम् ॥ 2॥
पार्वती -- यत् त्वयोक्तं जगन्नाथ सुभ्रुशं क्षेममिच्छताम् । सौदर्शनं रुते शास्त्रं नास्तिचान्यदिति प्रभो ॥ 3॥
तत्र काचित् विवक्षास्थि तमर्थं प्रति मे प्रभो । एवमुक्तस्त्वहिर्बुद्ध्न्यः पार्वतीं प्रत्युवाच ताम् ॥ 4॥
अहिर्बुद्ध्न्य -- संशयो यदि ते तत्र तं ब्रूहि त्वं वरानने । इत्येवमुक्ता गिरिजा गिरिशेन महात्मना ॥ 5॥
पुनः प्रोवाच सर्वज्ञं ज्ञानमुद्राधरं पतिम् ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
पार्वत्युवाच
लोके सौदर्शनं मंत्रं यंत्रंतत्तत् प्रयोगवत् ॥ 6
सर्वं विज्ञातुमभ्यत्र यथावत् समनुष्ठितुम् । अतिवेलमशक्तानां तं मार्गं भृशमीछ्ताम् ॥ 7॥
को मार्गः का कथिस्तेषां कार्यसिद्धिः कथं भवेत् । एतन्मे ब्रूहि लोकेश त्वदन्यः को वदेतमुम् ॥ 8॥
ईश्वर उवाच
अहं ते कथयिश्यामि सर्व सिद्धिकरं शुभम् । अनायासेन यज्जप्त्वा नरस्सिद्धिमवाप्नुयात् ॥ 9
तश्च सौदर्शनं दिव्यं गुह्यं नामसहस्रकम् । नियमात् पठतां नॄणां चिंतितार्थ प्रदायकम् ॥ 10॥
तस्य नामसहस्रस्य सोऽहमेव ऋषिः स्मृतः । छंदोनुष्टुप् देवता तु परमात्मा सुदर्शनः ॥ 11॥
श्रीं बीजं ह्रीं तु शक्तिस्सा क्लीं कीलकमुदाहृतम् । समस्ताभीष्ट सिध्यर्थे विनियोग उदाहृतः ॥ 12॥
शंखं चक्रं च चापादि ध्यानमस्य समीरितम् ॥
ध्यानं -- शंखं चक्रं च चापं परशुमसिमिशुं शूल पाशांकुशाब्जम् बिभ्राणं वज्रखेटौ हल मुसल गदा कुंदमत्युग्र दंष्ट्रम् । ज्वाला केशं त्रिनेत्रं ज्वल दलननिभं हार केयूर भूषम् ध्यायेत् षट्कोण संस्थं सकल रिपुजन प्राण संहारि चक्रम् ॥
॥ हरिः ओम् ॥
श्रीचक्रः श्रीकरः श्रीशः श्रीविष्णुः श्रीविभावनः । श्रीमदांत्य हरः श्रीमान् श्रीवत्सकृत लक्षणः ॥ 1॥
श्रीनिधिः श्रीवरः स्रग्वी श्रीलक्ष्मी करपूजितः । श्रीरतः श्रीविभुः सिंधुकन्यापतिः अधोक्षजः ॥ 2॥
अच्युतश्चांबुजग्रीवः सहस्रारः सनातनः । समर्चितो वेदमूर्तिः समतीत सुराग्रजः ॥ 3॥
षट्कोण मध्यगो वीरः सर्वगोऽष्टभुजः प्रभुः । चंडवेगो भीमरवः शिपिविष्टार्चितो हरिः ॥ 4॥
शाश्वतः सकलः श्यामः श्यामलः शकटार्थनः । दैत्यारिः शारदस्कंधः सकटाक्षः शिरीषगः ॥ 5॥
शरपारिर्भक्तवश्यः शशांको वामनोव्ययः । वरूथीवारिजः कंजलोचनो वसुधादिपः ॥ 6॥
वरेण्यो वाहनोऽनंतः चक्रपाणिर्गदाग्रजः । गभीरो गोलकाधीशो गदापणिस्सुलोचनः ॥ 7॥
सहस्राक्षः चतुर्बाहुः शंखचक्र गदाधरः । भीषणो भीतिदो भद्रो भीमाभीष्ट फलप्रदः ॥ 8॥
भीमार्चितो भीमसेनो भानुवंश प्रकाशकः । प्रह्लादवरदः बाललोचनो लोकपूजितः ॥ 9॥
उत्तरामानदो मानी मानवाभीष्ट सिद्धिदः । भक्तपालः पापहारी बलदो दहनध्वजः ॥ 10॥
करीशः कनको दाता कामपाल पुरातनः । अक्रूरः क्रूरजनकः क्रूरदंष्ट्रः कुलादिपः ॥ 11॥
क्रूरकर्मा क्रूररूपि क्रूरहारी कुशेशयः । मंदरो मानिनीकांतो मधुहा माधवप्रियः ॥ 12॥
सुप्रतप्त स्वर्णरूपी बाणासुर भुजांतकृत् । धराधरो दानवारिर्दनुजेंद्रारि पूजितः ॥ 13॥
भाग्यप्रदो महासत्त्वो विश्वात्मा विगतज्वरः । सुराचार्यार्चितो वश्यो वासुदेवो वसुप्रदः ॥ 14॥
प्रणतार्तिहरः श्रेष्टः शरण्यः पापनाशनः । पावको वारणाद्रीशो वैकुंठो विगतकल्मषः ॥ 15॥
वज्रदंष्ट्रो वज्रनखो वायुरूपी निराश्रयः । निरीहो निस्पृहो नित्यो नीतिज्ञो नीतिपावनः ॥ 16॥
नीरूपो नारदनुतो नकुलाचल वासकृत् । नित्यानंदो बृहद्भानुः बृहदीशः पुरातनः ॥ 17॥
निधिनामधिपोऽनंदो नरकार्णव तारकः । अगाधोऽविरलो मर्त्यो ज्वालाकेशः ककार्च्चितः ॥ 18॥
तरुणस्तनुकृत् भक्तः परमः चित्तसंभवः । चिंत्यस्सत्वनिधिः साग्रस्चिदानंदः शिवप्रियः ॥ 19॥
शिन्शुमारश्शतमखः शातकुंभ निभप्रभः । भोक्तारुणेशो बलवान् बालग्रह निवारकः ॥ 20॥
सर्वारिष्ट प्रशमनो महाभय निवारकः । बंधुः सुबंधुः सुप्रीतस्संतुष्टस्सुरसन्नुतः ॥ 21॥
बीजकेश्यो बको भानुः अमितार्चिर्पांपतिः । सुयज्ञो ज्योतिषश्शांतो विरूपाक्षः सुरेश्वरः ॥ 22॥
वह्निप्राकार संवीतो रक्तगर्भः प्रभाकरः । सुशीलः सुभगः स्वक्षः सुमुखः सुखदः सुखी ॥ 23॥
महासुरः शिरच्छेता पाकशासन वंदितः । शतमूर्ति सहस्रारो हिरण्य ज्योतिरव्ययः ॥ 24॥
मंडली मंडलाकारः चंद्रसूर्याग्नि लोचनः । प्रभंजनः तीक्ष्णधारः प्रशांतः शारदप्रियः ॥ 25॥
भक्तप्रियो बलिहरो लावण्योलक्षणप्रियः । विमलो दुर्लभस्सोम्यस्सुलभो भीमविक्रमः ॥ 26॥
जितमन्युः जितारातिः महाक्षो भृगुपूजितः । तत्त्वरूपः तत्त्ववेदिः सर्वतत्व प्रतिष्ठितः ॥27॥
भावज्ञो बंधुजनको दीनबंधुः पुराणवित् । शस्त्रेशो निर्मतो नेता नरो नानासुरप्रियः ॥ 28॥
नाभिचक्रो नतामित्रो नधीश करपूजितः । दमनः कालिकः कर्मी कांतः कालार्थनः कविः ॥ 29॥
वसुंधरो वायुवेगो वराहो वरुणालयः । कमनीयकृतिः कालः कमलासन सेवितः । कृपालुः कपिलः कामी कामितार्थ प्रदायकः ॥ 30॥
धर्मसेतुर्धर्मपालो धर्मी धर्ममयः परः । ज्वालाजिम्हः शिखामौलीः सुरकार्य प्रवर्तकः ॥ 31॥
कलाधरः सुरारिघ्नः कोपहा कालरूपदृक् । दाताऽऽनंदमयो दिव्यो ब्रह्मरूपी प्रकाशकृत् ॥ 32 । सर्वयज्ञमयो यज्ञो यज्ञभुक् यज्ञभावनः । वह्निध्वजो वह्निसखो वंजुलद्रुम मूलकः ॥ 33॥
दक्षहा दानकारी च नरो नारायणप्रियः । दैत्यदंडधरो दांतः शुभ्रांगः शुभदायकः ॥ 34॥
लोहिताक्षो महारौद्रौ मायारूपधरः खगः । उन्नतो भानुजः सांगो महाचक्रः पराक्रमी ॥ 35॥
अग्नीशोऽग्निमयः द्वग्निलोचनोग्नि समप्रभः । अग्निमानग्निरसनो युद्धसेवी रविप्रियः ॥ 36॥
आश्रित घौघ विध्वंसी नित्यानंद प्रदायकः । असुरघ्नो महाबाहूर्भीमकर्मा शुभप्रदः ॥ 37॥
शशांक प्रणवाधारः समस्थाशी विषापहः । तर्को वितर्को विमलो बिलको बादरायणः ॥ 38॥
बदिरग्नस्चक्रवालः षट्कोणांतर्गतस्शिखीः । दृतधन्वा शोडषाक्षो दीर्घबाहूर्दरीमुखः ॥ 39॥
प्रसन्नो वामजनको निम्नो नीतिकरः शुचिः । नरभेदि सिंहरूपी पुराधीशः पुरंदरः ॥ 40॥
रविस्तुतो यूतपालो युतपारिस्सतांगतिः । हृषिकेशो द्वित्रमूर्तिः द्विरष्टायुदभृत् वरः ॥ 41॥
दिवाकरो निशानाथो दिलीपार्चित विग्रहः । धन्वंतरिस्श्यामलारिर्भक्तशोक विनाशकः ॥ 42॥
रिपुप्राण हरो जेता शूरस्चातुर्य विग्रहः । विधाता सच्चिदानंदस्सर्वदुष्ट निवारकः ॥ 43॥
उल्को महोल्को रक्तोल्कस्सहस्रोल्कस्शतार्चिषः । बुद्धो बौद्धहरो बौद्ध जनमोहो बुधाश्रयः ॥ 44 ॥
पूर्णबोधः पूर्णरूपः पूर्णकामो महाद्युतिः । पूर्णमंत्रः पूर्णगात्रः पूर्णषाड्गुण्य विग्रहः ॥ 45॥
पूर्णनेमिः पूर्ननाभिः पूर्णाशी पूर्णमानसः । पूर्णसारः पूर्णशक्तिः रंगसेवि रणप्रियः ॥ 46॥
पूरिताशोऽरिष्टदाति पूर्णार्थः पूर्णभूषणः । पद्मगर्भः पारिजातः परमित्रस्शराकृतिः ॥ 47॥
भूबृत्वपुः पुण्यमूर्ति भूभृतां पतिराशुकः । भाग्योदयो भक्तवश्यो गिरिजावल्लभप्रियः ॥ 48॥
गविष्टो गजमानीशो गमनागमन प्रियः । ब्रह्मचारि बंधुमानी सुप्रतीकस्सुविक्रमः ॥ 49॥
शंकराभीष्टदो भव्यः साचिव्यस्सव्यलक्षणः । महाहंसस्सुखकरो नाभाग तनयार्चितः ॥ 50॥
कोटिसूर्यप्रभो दीप्तो विद्युत्कोटि समप्रभः । वज्रकल्पो वज्रसखो वज्रनिर्घात निस्वनः ॥ 51॥
गिरीशो मानदो मान्यो नारायण करालयः । अनिरुद्धः परामर्षी उपेंद्रः पूर्णविग्रहः ॥ 52॥
आयुधेशस्शतारिघ्नः शमनः शतसैनिकः । सर्वासुर वधोद्युक्तः सूर्य दुर्मान भेदकः ॥ 53॥
राहुविप्लोषकारी च काशीनगर दाहकः । पीयुषांशु परंज्योतिः संपूर्ण क्रतुभुक् प्रभुः ॥ 54॥
मांधातृ वरदस्शुद्धो हरसेव्यस्शचीष्टदः । सहिष्णुर्बलभुक् वीरो लोकभृल्लोकनायकः ॥55॥
दुर्वासोमुनि दर्पघ्नो जयतो विजयप्रियः । पुराधीशोऽसुरारातिः गोविंद करभूषणः ॥ 56॥
रथरूपी रथाधीशः कालचक्र कृपानिधिः । चक्ररूपधरो विष्णुः स्थूलसूक्ष्मश्शिखिप्रभः ॥ 57॥
शरणागत संत्राता वेतालारिर्महाबलः । ज्ञानदो वाक्पतिर्मानी महावेगो महामणिः ॥ 58॥
विद्युत् केशो विहारेशः पद्मयोनिः चतुर्भुजः । कामात्मा कामदः कामी कालनेमि शिरोहरः ॥ 59॥
शुभ्रस्शुचीस्शुनासीरः शुक्रमित्रः शुभाननः । वृषकायो वृषारातिः वृषभेंद्र सुपूजितः ॥ 60॥
विश्वंभरो वीतिहोत्रो वीर्यो विश्वजनप्रियः । विश्वकृत् विश्वभो विश्वहर्ता साहसकर्मकृत् ॥ 61॥
बाणबाहूहरो ज्योतिः परात्मा शोकनाशनः । विमलादिपतिः पुण्यो ज्ञाता ज्ञेयः प्रकाशकः ॥ 62॥
म्लेच्छ प्रहारी दुष्टघ्नः सूर्यमंडलमध्यगः । दिगंबरो वृशाद्रीशो विविधायुध रूपकः ॥ 63॥
सत्ववान् सत्यवागीशः सत्यधर्म परायणः । रुद्रप्रीतिकरो रुद्र वरदो रुग्विभेदकः ॥ 64॥
नारायणो नक्रभेदी गजेंद्र परिमोक्षकः । धर्मप्रियः षडाधारो वेदात्मा गुणसागरः ॥ 65॥
गदामित्रः पृथुभुजो रसातल विभेदकः । तमोवैरी महातेजाः महाराजो महातपाः ॥ 66॥
समस्तारिहरः शांत क्रूरो योगेश्वरेश्वरः । स्थविरस्स्वर्ण वर्णांगः शत्रुसैन्य विनाशकृत् ॥ 67॥
प्राज्ञो विश्वतनुत्राता शऋतिस्मृतिमयः कृति । व्यक्ताव्यक्त स्वरूपांसः कालचक्रः कलानिधिः ॥ 68॥
महाध्युतिरमेयात्मा वज्रनेमिः प्रभानिधिः । महास्फुलिंग धारार्चिः महायुद्ध कृतच्युतः ॥ 69॥
कृतज्ञस्सहनो वाग्मी ज्वालामाला विभूषणः । चतुर्मुखनुतः श्रीमान् भ्राजिष्णुर्भक्तवत्सलः ॥ 70॥
चातुर्यगमनश्चक्री चातुर्वर्ग प्रदायकः । विचित्रमाल्याभरणः तीक्ष्णधारः सुरार्चितः ॥ 71॥
युगकृत् युगपालश्च युगसंधिर्युगांतकृत् । सुतीक्ष्णारगणो गम्यो बलिध्वंसी त्रिलोकपः ॥ 72॥
त्रिनेत्रस्त्रिजगद्वंध्यः तृणीकृत महासुरः । त्रिकालज्ञस्त्रिलोकज्ञः त्रिनाभिः त्रिजगत्प्रियः ॥ 73॥
सर्वयंत्रमयो मंत्रस्सर्वशत्रु निबर्हणः । सर्वगस्सर्ववित् सौम्यस्सर्वलोकहितंकरः ॥74॥
आदिमूलः सद्गुणाढ्यो वरेण्यस्त्रिगुणात्मकः । ध्यानगम्यः कल्मषघ्नः कलिगर्व प्रभेदकः ॥ 75॥
कमनीय तनुत्राणः कुंडली मंडिताननः । सुकुंठीकृत चंडेशः सुसंत्रस्थ षडाननः ॥ 76॥
विषाधीकृत विघ्नेशो विगतानंद नंदिकः । मथित प्रमथव्यूहः प्रणत प्रमदाधिपः ॥ 77॥
प्राणभिक्षा प्रदोऽनंतो लोकसाक्षी महास्वनः । मेधावी शाश्वथोऽक्रूरः क्रूरकर्माऽपराजितः ॥ 78॥
अरी दृष्टोऽप्रमेयात्मा सुंदरश्शत्रुतापनः । योग योगीश्वराधीशो भक्ताभीष्ट प्रपूरकः ॥ 79॥
सर्वकामप्रदोऽचिंत्यः शुभांगः कुलवर्धनः । निर्विकारोऽंतरूपो नरनारायणप्रियः ॥ 80॥
मंत्र यंत्र स्वरूपात्मा परमंत्र प्रभेदकः । भूतवेताल विध्वंसी चंड कूष्मांड खंडनः ॥ 81॥
यक्ष रक्षोगण ध्वंसी महाकृत्या प्रदाहकः । सकलीकृत मारीचः भैरव ग्रह भेदकः ॥ 82॥
चूर्णिकृत महाभूतः कबलीकृत दुर्ग्रहः । सुदुर्ग्रहो जंभभेदी सूचीमुख निषूदनः ॥ 83॥
वृकोदरबलोद्धर्त्ता पुरंदर बलानुगः । अप्रमेय बलः स्वामी भक्तप्रीति विवर्धनः ॥ 84॥
महाभूतेश्वरश्शूरो नित्यस्शारदविग्रहः । धर्माध्यक्षो विधर्मघ्नः सुधर्मस्थापकश्शिवः ॥ 85॥
विधूमज्वलनो भानुर्भानुमान् भास्वतां पतिः । जगन्मोहन पाटीरस्सर्वोपद्रव शोधकः ॥ 86॥
कुलिशाभरणो ज्वालावृतस्सौभाग्य वर्धनः । ग्रहप्रध्वंसकः स्वात्मरक्षको धारणात्मकः ॥ 87॥
संतापनो वज्रसारस्सुमेधाऽमृत सागरः । संतान पंजरो बाणताटंको वज्रमालिकः ॥ 88॥
मेखालग्निशिखो वज्र पंजरस्ससुरांकुशः । सर्वरोग प्रशमनो गांधर्व विशिखाकृतिः ॥ 89॥
प्रमोह मंडलो भूत ग्रह शऋंखल कर्मकृत् । कलावृतो महाशंखु धारणस्शल्य चंद्रिकः ॥ 90॥
छेदनो धारकस्शल्य क्षूत्रोन्मूलन तत्परः । बंधनावरणस्शल्य कृंतनो वज्रकीलकः ॥ 91॥
प्रतीकबंधनो ज्वाला मंडलस्शस्त्रधारणः । इंद्राक्षीमालिकः कृत्या दंडस्चित्तप्रभेदकः ॥ 92॥
ग्रह वागुरिकस्सर्व बंधनो वज्रभेदकः । लघुसंतान संकल्पो बद्धग्रह विमोचनः ॥ 93॥
मौलिकांचन संधाता विपक्ष मतभेदकः । दिग्बंधन करस्सूची मुखाग्निस्चित्तपातकः ॥ 94॥
चोराग्नि मंडलाकारः परकंकाल मर्दनः । तांत्रीकस्शत्रुवंशघ्नो नानानिगल मोचनः ॥ 95॥
समस्थलोक सारंगः सुमहा विषदूषणः । सुमहा मेरुकोदंडः सर्व वश्यकरेश्वरः ॥ 96॥
निखिलाकर्षणपटुः सर्व सम्मोह कर्मकृत् । संस्थंबन करः सर्व भूतोच्चाटन तत्परः ॥ 97॥
अहितामय कारी च द्विषन्मारण कारकः । एकायन गदामित्र विद्वेषण परायणः ॥ 98॥
सर्वार्थ सिद्धिदो दाता विधाता विश्वपालकः । विरूपाक्षो महावक्षाः वरिष्टो माधवप्रियः ॥ 99॥
अमित्रकर्शन शांतः प्रशांतः प्रणतार्तिहा । रमणीयो रणोत्साहो रक्ताक्षो रणपंडितः ॥ 100॥
रणांतकृत् रताकारः रतांगो रविपूजितः । वीरहा विविधाकारः वरुणाराधितो वशीः । सर्व शत्रु वधाकांक्षी शक्तिमान् भक्तमानदः ॥ 101॥
सर्वलोकधरः पुण्यः पुरुषः पुरुषोत्तमः । पुराणः पुंडरीकाक्षः परमर्म प्रभेदकः ॥ 102॥
वीरासनगतो वर्मी सर्वाधारो निरंकुशः । जगत्रक्षो जगन्मूर्तिः जगदानंद वर्धनः ॥ 103॥
शारदः शकटारातिः शंकरस्शकटाकृतिः । विरक्तो रक्तवर्णाढ्यो रामसायक रूपदृत् ॥ 104॥
महावराह् दंष्ट्रात्मा नृसिंह नगरात्मकः । समदृङ्मोक्षदो वंध्यो विहारी वीतकल्मषः ॥ 105॥
गंभीरो गर्भगो गोप्ता गभस्तिर्गुह्यगोगुरुः । श्रीधरः श्रीरतस्श्रांतः शत्रुघ्नस्शऋतिगोचरः ॥ 106॥
पुराणो विततो वीरः पवित्रस्चरणाह्वयः । महाधीरो महावीर्यो महाबल पराक्रमः ॥ 107॥
सुविग्रहो विग्रहघ्नः सुमानी मानदायकः । मायी मायापहो मंत्री मान्यो मानविवर्धनः ॥ 108॥
शत्रुसंहारकस्शूरः शुक्रारिश्शंकरार्चितः । सर्वाधारः परंज्योतिः प्राणः प्राणभृतच्युतः ॥ 109॥
चंद्रधामाऽप्रतिद्वंदः परमात्मा सुदुर्गमः । विशुद्धात्मा महातेजाः पुण्यश्लोकः पुराणवित् ॥ 110॥
समस्थ जगदाधारो विजेता विक्रमः क्रमः । आदिदेवो ध्रुवो दृश्यः सात्त्विकः प्रीतिवर्धनः ॥ 111॥
सर्वलोकाश्रयस्सेव्यः सर्वात्मा वंशवर्धनः । दुराधर्षः प्रकाशात्मा सर्वदृक् सर्ववित्समः ॥ 112॥
सद्गतिस्सत्वसंपन्नः नित्यसंकल्प कल्पकः । वर्णी वाचस्पतिर्वाग्मी महाशक्तिः कलानिधिः ॥ 113॥
अंतरिक्षगतिः कल्यः कलिकालुष्य मोचनः । सत्यधर्मः प्रसन्नात्मा प्रकृष्टो व्योमवाहनः ॥ 114॥
शितधारस्शिखि रौद्रो भद्रो रुद्रसुपूजितः । दरिमुखाग्निजंभघ्नो वीरहा वासवप्रियः ॥ 115॥
दुस्तरस्सुदुरारोहो दुर्ज्ञेयो दुष्टनिग्रहः । भूतावासो भूतहंता भूतेशो भूतभावनः ॥ 116॥
भावज्ञो भवरोगघ्नो मनोवेगी महाभुजः । सर्वदेवमयः कांतः स्मृतिमान् सर्वपावनः ॥ 117॥
नीतिमन् सर्वजित् सौम्यो महर्षीरपराजितः । रुद्रांबरीष वरदो जितमायः पुरातनः ॥ 118॥
अध्यात्म निलयो भोक्ता संपूर्णस्सर्वकामदः । सत्योऽक्षरो गभीरात्मा विश्वभर्ता मरीचिमान् ॥ 119॥
निरंजनो जितभ्रांशुः अग्निगर्भोऽग्नि गोचरः । सर्वजित् संभवो विष्णुः पूज्यो मंत्रवितक्रियः ॥ 120॥
शतावर्त्तः कलानाथः कालः कालमयो हरिः । अरूपो रूपसंपन्नो विश्वरूपो विरूपकृत् ॥ 121॥
स्वाम्यात्मा समरश्लाघी सुव्रतो विजयांवितः । चंड्घ्नस्चंडकिरणः चतुरस्चारणप्रियः ॥ 122॥
पुण्यकीर्तिः परामर्षी नृसिंहो नाभिमध्यगः । यज्ञात्म यज्ञसंकल्पो यज्ञकेतुर्महेश्वरः ॥ 123॥
जितारिर्यज्ञनिलयश्शरण्यश्शकटाकृतिः । उत्त्मोऽनुत्त्मोनंगस्सांगस्सर्वांग शोभनः ॥ 124॥
कालाग्निः कालनेमिघ्नः कामि कारुण्यसागरः । रमानंदकरो रामो रजनीशांतरस्थितः ॥ 125॥
संवर्धन समरांवेषी द्विषत्प्राण परिग्रहः । महाभिमानी संधाता सर्वाधीशो महागुरुः ॥ 126 सिद्धः सर्वजगद्योनिः सिद्धार्थस्सर्वसिद्धिदः । चतुर्वेदमयश्शास्था सर्वशास्त्र विशारदः ॥ 127 ॥
तिरस्कृतार्क तेजस्को भास्कराराधितश्शुभः । व्यापी विश्वंभरो व्यग्रः स्वयंज्योतिरनंतकृत् ॥ 128॥
जयशीलो जयाकांक्षी जातवेदो जयप्रदः । कविः कल्याणदः काम्यो मोक्षदो मोहनाकृतिः ॥ 129॥
कुंकुमारुण सर्वांग कमलाक्षः कवीश्वरः । सुविक्रमो निष्कलंको विश्वक्सेनो विहारकृत् ॥ 130॥
कदंबासुर विध्वंसी केतनग्रह दाहकः । जुगुप्साग्नस्तीक्ष्णधारो वैकुंठ भुजवासकृत् ॥ 131॥
सारज्ञः करुणामूर्तिः वैष्णवो विष्णुभक्तिदः । सुक्रुतज्ञो महोदारो दुष्कृतघ्नस्सुविग्रहः ॥ 132॥
सर्वाभीष्ट प्रदोऽंतो नित्यानंदो गुणाकरः । चक्री कुंदधरः खड्गी परश्वत धरोऽग्निभृत् ॥ 133॥
दृतांकुशो दंडधरः शक्तिहस्थस्सुशंखभ्रुत् । धन्वी दृतमहापाशो हलि मुसलभूषणः ॥ 134॥
गदायुधधरो वज्री महाशूल लसत्भुजः । समस्तायुध संपूर्णस्सुदर्शन महाप्रभुः ॥ 135॥
॥ फलशऋतिः ॥
इति सौदर्शनं दिव्यं गुह्यं नामसहस्रकम् । सर्वसिद्धिकरं सर्व यंत्र मंत्रात्मकं परम् ॥ 136॥
एतन्नाम सहस्रं तु नित्यं यः पठेत् सुधीः । शऋणोति वा श्रावयति तस्य सिद्धिः करस्तिता ॥ 137॥
दैत्यानां देवशत्रूणां दुर्जयानां महौजसाम् । विनाशार्थमिदं देवि हरो रासाधितं मया ॥ 138॥
शत्रुसंहारकमिदं सर्वदा जयवर्धनम् । जल शैल महारण्य दुर्गमेषु महापति ॥ 139॥
भयंकरेषु शापत्सु संप्राप्तेषु महत्सुच । यस्सकृत् पठनं कुर्यात् तस्य नैव भवेत् भयम् ॥ 140॥
ब्रह्मघ्नश्च पशुघ्नश्च मातापितॄ विनिंदकः । देवानां दूषकश्चापि गुरुतल्पगतोऽपि वा ॥ 141॥
जप्त्वा सकृतिदं स्तोत्रं मुच्यते सर्वकिल्बिषैः । तिष्ठन् गच्छन् स्वपन् भुंजन् जाग्रन्नपि हसन्नपि ॥ 142॥
सुदर्शन नृसिंहेति यो वदेत्तु सकृन्नरः । स वै न लिप्यते पापैः भुक्तिं मुक्तिं च विंदति ॥ 143॥
आदयो व्यादयस्सर्वे रोगा रोगादिदेवताः । शीघ्रं नश्यंति ते सर्वे पठनात्तस्य वै नृणाम् ॥ 144॥
बहूनात्र किमुक्तेन जप्त्वेदं मंत्र पुष्कलम् । यत्र मर्त्यश्चरेत् तत्र रक्षति श्रीसुदर्शनः ॥ 145॥
इति श्री विहगेश्वर उत्तरखंडे उमामहेश्वरसंवादे मंत्रविधाने श्री सुदर्शन सहस्रनाम स्तोत्रं नाम षोडश प्रकाशः ॥
Browse Related Categories: