Nitya Parayana · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
"गायंतं त्रायते इति गायत्री"
ॐ भूर्भुव॒स्सुवः॑ ॥ तथ्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचोदया᳚त् ॥
1। शरीर शुद्धि
श्लो॥ अपवित्रः पवित्रो वा सर्वावस्थां᳚ गतोऽपिवा । यः स्मरेत् पुंडरीकाक्षं स बाह्याभ्यंतरश्शुचिः ॥
2। आचमनम् ॐ आचम्य । ॐ केशवाय स्वाहा । ॐ नारायणाय स्वाहा । ॐ माधवाय स्वाहा । ॐ गोविंदाय नमः । ॐ-विँष्णवे नमः । ॐ मधुसूदनाय नमः । ॐ त्रिविक्रमाय नमः । ॐ-वाँमनाय नमः । ॐ श्रीधराय नमः । ॐ हृषीकेशाय नमः । ॐ पद्मनाभाय नमः । ॐ दामोदराय नमः । ॐ संकर्षणाय नमः । ॐ-वाँसुदेवाय नमः । ॐ प्रद्युम्नाय नमः । ॐ अनिरुद्धाय नमः । ॐ पुरुषोत्तमाय नमः । ॐ अधोक्षजाय नमः । ॐ नारसिंहाय नमः । ॐ अच्युताय नमः । ॐ जनार्धनाय नमः । ॐ उपेंद्राय नमः । ॐ हरये नमः । ॐ श्रीकृष्णाय नमः । ॐ श्रीकृष्ण परब्रह्मणे नमो नमः ।
3। भूतोच्चाटन उत्तिष्ठंतु । भूत पिशाचाः । ये ते भूमिभारकाः । ये तेषामविरोधेन । ब्रह्मकर्म समारभे । ॐ भूर्भुवस्सुवः ।
4। प्राणायामम् ॐ भूः । ॐ भुवः । ओग्ं सुवः । ॐ महः । ॐ जनः । ॐ तपः । ओग्ं स॒त्यम् । ॐ तथ्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो नः॑ प्रचोदया᳚त् ॥ ओमापो॒ ज्योती॒ रसो॒ऽमृतं॒ ब्रह्म॒ भू-र्भुव॒-स्सुव॒रोम् ॥ (तै. अर. 10-27) 5। संकल्पम् ममोपात्त, दुरितक्षयद्वारा, श्री परमेश्वर प्रीत्यर्थं, शुभे, शोभनेमुहूर्ते, महाविष्णोराज्ञया, प्रवर्तमानस्य अद्यब्रह्मणः द्वितीयपरार्थे, श्वेतवराहकल्पे, वैवश्वतमन्वंतरे, कलियुगे, प्रथमपादे, जंभूद्वीपे, भरतवर्षे, भरतखंडे, अस्मिन् वर्तमान व्यावहारिक चांद्रमानेन ------- संवँत्सरे ------ अयने ------- ऋतौ ------- मासे ------- पक्षे ------- तिधौ ------ वासरे -------- शुभनक्षत्रे (भारत देशः - जंबू द्वीपे, भरत वर्षे, भरत खंडे, मेरोः दक्षिण/उत्तर दिग्भागे; अमेरिका - क्रौंच द्वीपे, रमणक वर्षे, ऐंद्रिक खंडे, सप्त समुद्रांतरे, कपिलारण्ये) शुभयोगे शुभकरण एवंगुण विशेषण विशिष्ठायां शुभतिथौ श्रीमान् -------- गोत्रस्य ------- नामधेयस्य (विवाहितानाम् - धर्मपत्नी समेतस्य) श्रीमतः गोत्रस्य ममोपात्तदुरितक्षयद्वारा श्रीपरमेश्वर प्रीत्यर्थं मम सकल श्रौतस्मार्त नित्यकर्मानुष्ठान योग्यताफलसिध्यर्थं नूतन यज्ञोपवीतधारणं करिष्ये ।
Offered for worship and study, not as prediction. Non-commercial.
6। यज्ञोपवीत धारण
यज्ञोपवीत प्राण प्रतिष्ठापनं करिष्ये।
श्लो॥ ॐ असुनीते पुनरस्मासु चक्षुः पुनःप्राणमिह नो धेहि भोगम् । ज्योक्पश्येम सूर्यमुच्चरं तमनुमते मृडया नः स्स्वस्ति ॥ ऋ.वे. - 10.59.6 अमृतं-वैँ प्राणा अमृतमापः प्राणानेव यथास्थानमुपह्वयते ।
7। यज्ञोपवीत मंत्रम्
श्लो॥ यज्ञोपवीते तस्य मंत्रस्य परमेष्टि परब्रह्मर्षिः । परमात्म देवता, देवी गायत्रीच्छंदः । यज्ञोपवीत धारणे विनियोगः ॥
8। यज्ञोपवीत धारण मंत्रम्
श्लो॥ यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् । आयुष्यमग्र्यं प्रतिमुंच शुभ्रं-यँज्ञोपवीतं बलमस्तु तेजः ॥
9। जीर्ण यज्ञोपवीत विसर्जन
श्लो॥ उपवीतं छिन्नतंतुं जीर्णं कश्मलदूषितं विसृजामि यशो ब्रह्मवर्चो दीर्घायुरस्तु मे ॥ ॐ शांति शांति शांतिः
चतुस्सागर पर्यंतं गो ब्राह्मणेभ्यः शुभं भवतु । ---------- प्रवरान्वित --------- गोत्रोत्पन्न --------- शर्म --------- अहं भो अभिवादये ।
समर्पण
यस्य स्मृत्या च नामोक्त्या तपस्संध्या क्रियादिषु न्यूनं संपूर्णतां-याँति सद्यो वंदे तमच्युतम् । मंत्रहीनं क्रियाहीनं भक्तिहीनं रमापते यत्कृतं तु मया देव परिपूर्णं तदस्तु मे ॥
अनेन यज्ञोपवीत धारणेन, श्री लक्ष्मीनारायण प्रेरणाय, श्री लक्ष्मीनारायण प्रीयंतां-वँरदो भवतु । श्री कृष्णार्पणमस्तु ॥
कायेन वाचा मनसेंद्रियैर्वा बुद्ध्याஉत्मना वा प्रकृते स्स्वभावात् । करोमि यद्यत्सकलं परस्मै श्रीमन्नारायणायेति समर्पयामि ॥
Browse Related Categories: