Karma Siddhanta · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
अष्टावक्र उवाच
आचक्ष्व शृणु वा तात नानाशास्त्राण्यनेकशः । तथापि न तव स्वास्थ्यं सर्वविस्मरणादृते ॥ 16-1
भोगं कर्म समाधिं वा कुरु विज्ञ तथापि ते । चित्तं निरस्तसर्वाशमत्यर्थं रोचयिष्यति ॥ 16-2॥
आयासात्सकलो दुःखी नैनं जानाति कश्चन । अनेनैवोपदेशेन धन्यः प्राप्नोति निर्वृतिम् ॥ 16-3॥
व्यापारे खिद्यते यस्तु निमेषोन्मेषयोरपि । तस्यालस्य धुरीणस्य सुखं नान्यस्य कस्यचित् ॥ 16-4॥
इदं कृतमिदं नेति द्वंद्वैर्मुक्तं यदा मनः । धर्मार्थकाममोक्षेषु निरपेक्षं तदा भवेत् ॥ 16-5॥
विरक्तो विषयद्वेष्टा रागी विषयलोलुपः । ग्रहमोक्षविहीनस्तु न विरक्तो न रागवान् ॥ 16-6॥
हेयोपादेयता तावत्संसारविटपांकुरः । स्पृहा जीवति यावद् वै निर्विचारदशास्पदम् ॥ 16-7॥
प्रवृत्तौ जायते रागो निर्वृत्तौ द्वेष एव हि । निर्द्वंद्वो बालवद् धीमान् एवमेव व्यवस्थितः ॥ 16-8॥
हातुमिच्छति संसारं रागी दुःखजिहासया । वीतरागो हि निर्दुःखस्तस्मिन्नपि न खिद्यति ॥ 16-9॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
यस्याभिमानो मोक्षेऽपि देहेऽपि ममता तथा । न च ज्ञानी न वा योगी केवलं दुःखभागसौ ॥ 16-10॥
हरो यद्युपदेष्टा ते हरिः कमलजोऽपि वा । तथापि न तव स्वास्थ्यं सर्वविस्मरणादृते ॥ 16-11॥
Browse Related Categories: