Ganesha · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
गृत्समद उवाच
विघ्नेशवीर्याणि विचित्रकाणि बंदीजनैर्मागधकैः स्मृतानि । श्रुत्वा समुत्तिष्ठ गजानन त्वं ब्राह्मे जगन्मंगलकं कुरुष्व ॥ 1
एवं मया प्रार्थित विघ्नराज- -श्चित्तेन चोत्थाय बहिर्गणेशः । तं निर्गतं वीक्ष्य नमंति देवाः शंभ्वादयो योगिमुखास्तथाहम् ॥ 2 ॥
शौचादिकं ते परिकल्पयामि हेरंब वै दंतविशुद्धिमेवम् । वस्त्रेण संप्रोक्ष्य मुखारविंदं देवं सभायां विनिवेशयामि ॥ 3 ॥
द्विजादिसर्वैरभिवंदितं च शुकादिभिर्मोदसुमोदकाद्यैः । संभाष्य चालोक्य समुत्थितं तं सुमंडपं कल्प्य निवेशयामि ॥ 4 ॥
रत्नैः सुदीप्तैः प्रतिबिंबितं तं पश्यामि चित्तेन विनायकं च । तत्रासनं रत्नसुवर्णयुक्तं संकल्प्य देवं विनिवेशयामि ॥ 5 ॥
सिद्ध्या च बुद्ध्या सह विघ्नराज पाद्यं कुरु प्रेमभरेण सर्वैः । सुवासितं नीरमथो गृहाण चित्तेन दत्तं च सुखोष्णभावम् ॥ 6 ॥
ततः सुवस्त्रेण गणेशमादौ संप्रोक्ष्य दूर्वादिभिरर्चयामि । चित्तेन भावप्रिय दीनबंधो मनो विलीनं कुरु ते पदाब्जे ॥ 7 ॥
कर्पूरकैलादिसुवासितं तु सुकल्पितं तोयमथो गृहाण । आचम्य तेनैव गजानन त्वं कृपाकटाक्षेण विलोकयाशु ॥ 8 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
प्रवालमुक्ताफलहाटकाद्यैः सुसंस्कृतं ह्यंतरभावकेन । अनर्घ्यमर्घ्यं सफलं कुरुष्व मया प्रदत्तं गणराज ढुंढे ॥ 9 ॥
सौगंध्ययुक्तं मधुपर्कमाद्यं संकल्पितं भावयुतं गृहाण । पुनस्तथाचम्य विनायक त्वं भक्तांश्च भक्तेश सुरक्षयाशु ॥ 10 ॥
सुवासितं चंपकजातिकाद्यै- -स्तैलं मया कल्पितमेव ढुंढे । गृहाण तेन प्रविमर्दयामि सर्वांगमेवं तव सेवनाय ॥ 11 ॥
ततः सुखोष्णेन जलेन चाह- -मनेकतीर्थाहृतकेन ढुंढे । चित्तेन शुद्धेन च स्नापयामि स्नानं मया दत्तमथो गृहाण ॥ 12 ॥
ततः पयःस्नानमचिंत्यभाव गृहाण तोयस्य तथा गणेश । पुनर्दधिस्नानमनामय त्वं चित्तेन दत्तं च जलस्य चैव ॥ 13 ॥
ततो घृतस्नानमपारवंद्य सुतीर्थजं विघ्नहर प्रसीद । गृहाण चित्तेन सुकल्पितं तु ततो मधुस्नानमथो जलस्य ॥ 14 ॥
सुशर्करायुक्तमथो गृहाण स्नानं मया कल्पितमेव ढुंढे । ततो जलस्नानमघापहंतृ विघ्नेश मायाभ्रमं वारयाशु ॥ 15 ॥
सुयक्षपंकस्थमथो गृहाण स्नानं परेशाधिपते ततश्च । कौमंडलीसंभवजं कुरुष्व विशुद्धमेवं परिकल्पितं तु ॥ 16 ॥
ततस्तु सूक्तैर्मनसा गणेशं संपूज्य दूर्वादिभिरल्पभावैः । अपारकैर्मंडलभूतब्रह्म- -णस्पत्यकैस्तं ह्यभिषेचयामि ॥ 17 ॥
ततः सुवस्त्रेण तु प्रोंछनं त्वं गृहाण चित्तेन मया सुकल्पितम् । ततो विशुद्धेन जलेन ढुंढे ह्याचांतमेवं कुरु विघ्नराज ॥ 18 ॥
अग्नौ विशुद्धे तु गृहाण वस्त्रे ह्यनर्घ्यमौल्ये मनसा मया ते । दत्ते परिच्छाद्य निजात्मदेहं ताभ्यां मयूरेश जनांश्च पालय ॥ 19 ॥
आचम्य विघ्नेश पुनस्तथैव चित्तेन दत्तं मुखमुत्तरीयम् । गृहाण भक्तप्रतिपालक त्वं नमो यथा तारकसंयुतं तु ॥ 20 ॥
यज्ञोपवीतं त्रिगुणस्वरूपं सौवर्णमेवं ह्यहिनाथभूतम् । भावेन दत्तं गणनाथ तत्त्वं गृहाण भक्तोद्धृतिकारणाय ॥ 21 ॥
आचांतमेवं मनसा प्रदत्तं कुरुष्व शुद्धेन जलेन ढुंढे । पुनश्च कौमंडलकेन पाहि विश्वं प्रभो खेलकरं सदा ते ॥ 22 ॥
उद्यद्दिनेशाभमथो गृहाण सिंदूरकं ते मनसा प्रदत्तम् । सर्वांगसंलेपनमादराद्वै कुरुष्व हेरंब च तेन पूर्णम् ॥ 23 ॥
सहस्रशीर्षं मनसा मया त्वं दत्तं किरीटं तु सुवर्णजं वै । अनेकरत्नैः खचितं गृहाण ब्रह्मेश ते मस्तकशोभनाय ॥ 24 ॥
विचित्ररत्नैः कनकेन ढुंढे युतानि चित्तेन मया परेश । दत्तानि नानापदकुंडलानि गृहाण शूर्पश्रुतिभूषणाय ॥ 25 ॥
शुंडाविभूषार्थमनंतखेलिन् सुवर्णजं कंचुकमागृहाण । रत्नैश्च युक्तं मनसा मया य- -द्दत्तं प्रभो तत्सफलं कुरुष्व ॥ 26 ॥
सुवर्णरत्नैश्च युतानि ढुंढे सदैकदंताभरणानि कल्प्य । गृहाण चूडाकृतये परेश दत्तानि दंतस्य च शोभनार्थम् ॥ 27 ॥
रत्नैः सुवर्णेन कृतानि तानि गृहाण चत्वारि मया प्रकल्प्य । संभूषय त्वं कटकानि नाथ चतुर्भुजेषु ह्यज विघ्नहारिन् ॥ 28 ॥
विचित्ररत्नैः खचितं सुवर्ण- -संभूतकं गृह्य मया प्रदत्तम् । तथांगुलीष्वंगुलिकं गणेश चित्तेन संशोभय तत्परेश ॥ 29 ॥
विचित्ररत्नैः खचितानि ढुंढे केयूरकाणि ह्यथ कल्पितानि । सुवर्णजानि प्रमथाधिनाथ गृहाण दत्तानि तु बाहुषु त्वम् ॥ 30 ॥
प्रवालमुक्ताफलरत्नजैस्त्वं सुवर्णसूत्रैश्च गृहाण कंठे । चित्तेन दत्ता विविधाश्च माला उरोदरे शोभय विघ्नराज ॥ 31 ॥
चंद्रं ललाटे गणनाथ पूर्णं वृद्धिक्षयाभ्यां तु विहीनमाद्यम् । संशोभय त्वं वरसंयुतं ते भक्तिप्रियत्वं प्रकटीकुरुष्व ॥ 32 ॥
चिंतामणिं चिंतितदं परेश हृद्देशगं ज्योतिर्मयं कुरुष्व । मणिं सदानंदसुखप्रदं च विघ्नेश दीनार्थद पालयस्व ॥ 33 ॥
नाभौ फणीशं च सहस्रशीर्षं संवेष्टनेनैव गणाधिनाथ । भक्तं सुभूषं कुरु भूषणेन वरप्रदानं सफलं परेश ॥ 34 ॥
कटीतटे रत्नसुवर्णयुक्तां कांचीं सुचित्तेन च धारयामि । विघ्नेश ज्योतिर्गणदीपनीं ते प्रसीद भक्तं कुरु मां दयाब्धे ॥ 35 ॥
हेरंब ते रत्नसुवर्णयुक्ते सुनूपुरे मंजिरके तथैव । सुकिंकिणीनादयुते सुबुद्ध्या सुपादयोः शोभय मे प्रदत्ते ॥ 36 ॥
इत्यादि नानाविधभूषणानि तवेच्छया मानसकल्पितानि । संभूषयाम्येव त्वदंगकेषु विचित्रधातुप्रभवानि ढुंढे ॥ 37 ॥
सुचंदनं रक्तममोघवीर्यं सुघर्षितं ह्यष्टकगंधमुख्यैः । युक्तं मया कल्पितमेकदंत गृहाण ते त्वंगविलेपनार्थम् ॥ 38 ॥
लिप्तेषु वैचित्र्यमथाष्टगंधै- -रंगेषु तेऽहं प्रकरोमि चित्रम् । प्रसीद चित्तेन विनायक त्वं ततः सुरक्तं रविमेव फाले ॥ 39 ॥
घृतेन वै कुंकुमकेन रक्तान् सुतंडुलांस्ते परिकल्पयामि । फाले गणाध्यक्ष गृहाण पाहि भक्तान् सुभक्तिप्रिय दीनबंधो ॥ 40 ॥
गृहाण भो चंपकमालतीनि जलपंकजानि स्थलपंकजानि । चित्तेन दत्तानि च मल्लिकानि पुष्पाणि नानाविधवृक्षजानि ॥ 41 ॥
पुष्पोपरि त्वं मनसा गृहाण हेरंब मंदारशमीदलानि । मया सुचित्तेन प्रकल्पितानि ह्यपारकाणि प्रणवाकृते तु ॥ 42 ॥
दूर्वांकुरान्वै मनसा प्रदत्तां- -स्त्रिपंचपत्रैर्युतकांश्च स्निग्धान् । गृहाण विघ्नेश्वर संख्यया त्वं हीनांश्च सर्वोपरि वक्रतुंड ॥ 43 ॥
दशांगभूतं मनसा मया ते धूपं प्रदत्तं गणराज ढुंढे । गृहाण सौरभ्यकरं परेश सिद्ध्या च बुद्ध्या सह भक्तपाल ॥ 44 ॥
दीपं सुवर्त्या युतमादरात्ते दत्तं मया मानसकं गणेश । गृहाण नानाविधजं घृतादि- -तैलादिसंभूतममोघदृष्टे ॥ 45 ॥
भोज्यं च लेह्यं गणराज पेयं चोष्यं च नानाविधषड्रसाढ्यम् । गृहाण नैवेद्यमथो मया ते सुकल्पितं पुष्टिपते महात्मन् ॥ 46 ॥
सुवासितं भोजनमध्यभागे जलं मया दत्तमथो गृहाण । कमंडलुस्थं मनसा गणेश पिबस्व विश्वादिकतृप्तिकारिन् ॥ 47 ॥
ततः करोद्वर्तनकं गृहाण सौगंध्ययुक्तं मुखमार्जनाय । सुवासितेनैव सुतीर्थजेन सुकल्पितं नाथ गृहाण ढुंढे ॥ 48 ॥
पुनस्तथाचम्य सुवासितं च दत्तं मया तीर्थजलं पिबस्व । प्रकल्प्य विघ्नेश ततः परं ते संप्रोंछनं हस्तमुखे करोमि ॥ 49 ॥
द्राक्षादिरंभाफलचूतकानि खार्जूरकार्कंधुकदाडिमानि । सुस्वादयुक्तानि मया प्रकल्प्य गृहाण दत्तानि फलानि ढुंढे ॥ 50 ॥
पुनर्जलेनैव करादिकं ते संक्षालयामि मनसा गणेश । सुवासितं तोयमथो पिबस्व मया प्रदत्तं मनसा परेश ॥ 51 ॥
अष्टांगयुक्तं गणनाथ दत्तं तांबूलकं ते मनसा मया वै । गृहाण विघ्नेश्वर भावयुक्तं सदा सकृत्तुंडविशोधनार्थम् ॥ 52 ॥
ततो मया कल्पितके गणेश महासने रत्नसुवर्णयुक्ते । मंदारकार्पासकयुक्तवस्त्रै- -रनर्घ्यसंछादितके प्रसीद ॥ 53 ॥
ततस्त्वदीयावरणं परेश संपूजयामि मनसा यथावत् । नानोपचारैः परमप्रियैस्तु त्वत्प्रीतिकामार्थमनाथबंधो ॥ 54 ॥
गृहाण लंबोदर दक्षिणां ते ह्यसंख्यभूतां मनसा प्रदत्ताम् । सौवर्णमुद्रादिकमुख्यभावां पाहि प्रभो विश्वमिदं गणेश ॥ 55 ॥
राजोपचारान्विविधान्गृहाण हस्त्यश्वछत्रादिकमादराद्वै । चित्तेन दत्तान् गणनाथ ढुंढे ह्यपारसंख्यान् स्थिरजंगमांस्ते ॥ 56 ॥
दानाय नानाविधरूपकांस्ते गृहाण दत्तान्मनसा मया वै । पदार्थभूतान् स्थिरजंगमांश्च हेरंब मां तारय मोहभावात् ॥ 57 ॥
मंदारपुष्पाणि शमीदलानि दूर्वांकुरांस्ते मनसा ददामि । हेरंब लंबोदर दीनपाल गृहाण भक्तं कुरु मां पदे ते ॥ 58 ॥
ततो हरिद्रामबिरं गुलालं सिंदूरकं ते परिकल्पयामि । सुवासितं वस्तु सुवासभूतै- -र्गृहाण ब्रह्मेश्वर शोभनार्थम् ॥ 59 ॥
ततः शुकाद्याः शिवविष्णुमुख्या इंद्रादयः शेषमुखास्तथान्ये । मुनींद्रकाः सेवकभावयुक्ताः सभासनस्थं प्रणमंति ढुंढिम् ॥ 60 ॥
वामांगके शक्तियुता गणेशं सिद्धिस्तु नानाविधसिद्धिभिस्तम् । अत्यंतभावेन सुसेवते तु मायास्वरूपा परमार्थभूता ॥ 61 ॥
गणेश्वरं दक्षिणभागसंस्था बुद्धिः कलाभिश्च सुबोधिकाभिः । विद्याभिरेवं भजते परेश मायासु सांख्यप्रदचित्तरूपाः ॥ 62 ॥
प्रमोदमोदादयः पृष्ठभागे गणेश्वरं भावयुता भजंते । भक्तेश्वरा मुद्गलशंभुमुख्याः शुकादयस्तं स्म पुरो भजंते ॥ 63 ॥
गंधर्वमुख्या मधुरं जगुश्च गणेशगीतं विविधस्वरूपम् । नृत्यं कलायुक्तमथो पुरस्ता- -च्चक्रुस्तथा ह्यप्सरसो विचित्रम् ॥ 64 ॥
इत्यादिनानाविधभावयुक्तैः संसेवितं विघ्नपतिं भजामि । चित्तेन ध्यात्वा तु निरंजनं वै करोमि नानाविधदीपयुक्तम् ॥ 65 ॥
चतुर्भुजं पाशधरं गणेशं तथांकुशं दंतयुतं तमेवम् । त्रिनेत्रयुक्तं त्वभयंकरं तं महोदरं चैकरदं गजास्यम् ॥ 66 ॥
सर्पोपवीतं गजकर्णधारं विभूतिभिः सेवितपादपद्मम् । ध्यायेद्गणेशं विविधप्रकारैः सुपूजितं शक्तियुतं परेशम् ॥ 67 ॥
ततो जपं वै मनसा करोमि स्वमूलमंत्रस्य विधानयुक्तम् । असंख्यभूतं गणराज हस्ते समर्पयाम्येव गृहाण ढुंढे ॥ 68 ॥
आरार्तिकां कर्पूरकादिभूता- -मपारदीपां प्रकरोमि पूर्णाम् । चित्तेन लंबोदर तां गृहाण ह्यज्ञानध्वांताघहरां निजानाम् ॥ 69 ॥
वेदेषु विघ्नेश्वरकैः सुमंत्रैः सुमंत्रितं पुष्पदलं प्रभूतम् । गृहाण चित्तेन मया प्रदत्त- -मपारवृत्त्या त्वथ मंत्रपुष्पम् ॥ 70 ॥
अपारवृत्या स्तुतिमेकदंतं गृहाण चित्तेन कृतां गणेश । युक्तां श्रुतिस्मार्तभवैः पुराणैः सर्वैः परेशाधिपते मया ते ॥ 71 ॥
प्रदक्षिणा मानसकल्पितास्ता गृहाण लंबोदर भावयुक्ताः । संख्याविहीना विविधस्वरूपा भक्तान् सदा रक्ष भवार्णवाद्वै ॥ 72 ॥
नतिं ततो विघ्नपते गृहाण साष्टांगकाद्यां विविधस्वरूपाम् । संख्याविहीनां मनसा कृतां ते सिद्ध्या च बुद्ध्या परिपालयाशु ॥ 73 ॥
न्यूनातिरिक्तं तु मया कृतं चे- -त्तदर्थमंते मनसा गृहाण । दूर्वांकुरान्विघ्नपते प्रदत्तान् संपूर्णमेवं कुरु पूजनं मे ॥ 74 ॥
क्षमस्व विघ्नाधिपते मदीयान् सदापराधान् विविधस्वरूपान् । भक्तिं मदीयां सफलां कुरुष्व संप्रार्थयामि मनसा गणेश ॥ 75 ॥
ततः प्रसन्नेन गजाननेन दत्तं प्रसादं शिरसाभिवंद्य । स्वमस्तके तं परिधारयामि चित्तेन विघ्नेश्वरमानतोऽस्मि ॥ 76 ॥
उत्थाय विघ्नेश्वर एव तस्मा- -द्गतस्ततस्त्वंतरधानशक्त्या । शिवादयस्तं प्रणिपत्य सर्वे गताः सुचित्तेन च चिंतयामि ॥ 77 ॥
सर्वान्नमस्कृत्य ततोऽहमेव भजामि चित्तेन गणाधिपं तम् । स्वस्थानमागत्य महानुभावै- -र्भक्तैर्गणेशस्य च खेलयामि ॥ 78 ॥
एवं त्रिकालेषु गणाधिपं तं चित्तेन नित्यं परिपूजयामि । तेनैव तुष्टः प्रददातु भावं विश्वेश्वरो भक्तिमयं तु मह्यम् ॥ 79 ॥
गणेशपादोदकपानकं च ह्युच्छिष्टगंधस्य सुलेपनं तु । निर्माल्यसंधारणकं सुभोज्यं लंबोदरस्यास्तु हि भुक्तशेषम् ॥ 80 ॥
यं यं करोम्येव तदेव दीक्षा गणेश्वरस्यास्तु सदा गणेश । प्रसीद नित्यं तव पादभक्तं कुरुष्व मां ब्रह्मपते दयालो ॥ 81 ॥
ततस्तु शय्यां परिकल्पयामि मंदारकार्पासकवस्त्रयुक्ताम् । सुवासपुष्पादिभिरर्चितां ते गृहाण निद्रां कुरु विघ्नराज ॥ 82 ॥
सिद्ध्या च बुद्ध्या सहितं गणेश सुनिद्रितं वीक्ष्य तथाहमेव । गत्वा स्ववासं च करोमि निद्रां ध्यात्वा हृदि ब्रह्मपतिं तदीयः ॥ 83 ॥
एतादृशं सौख्यममोघशक्ते देहि प्रभो मानसजं गणेश । मह्यं च तेनैव कृतार्थरूपो भवामि भक्तिरसलालसोऽहम् ॥ 84 ॥
गार्ग्य उवाच
एवं नित्यं महाराज गृत्समदो महायशाः । चकार मानसीं पूजां योगींद्राणां गुरुः स्वयम् ॥ 85
य एतां मानसीं पूजां करिष्यति नरोत्तमः । पठिष्यति सदा सोऽपि गाणपत्यो भविष्यति ॥ 86 ॥
श्रावयिष्यति यो मर्त्यः श्रोष्यते भावसंयुतः । स क्रमेण महीपाल ब्रह्मभूतो भविष्यति ॥ 87 ॥
यं यमिच्छति तं तं वै सफलं तस्य जायते । अंते स्वानंदगः सोऽपि योगिवंद्यो भविष्यति ॥ 88 ॥
इति श्रीमदांत्ये मौद्गल्ये गणेशमानसपूजा संपूर्णम् ।
Browse Related Categories: