Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
यत्सेवनेन पितृमातृसहोदराणां चित्तं न मोहमहिमा मलिनं करोति । इत्थं समीक्ष्य तव भक्तजनान्मुरारे मूकोऽस्मि तेऽंघ्रिकमलं तदतीव धन्यम् ॥ 1 ॥
ये ये विलग्नमनसः सुखमाप्तुकामाः ते ते भवंति जगदुद्भवमोहशून्याः । दृष्ट्वा विनष्टधनधान्यगृहान्मुरारे मूकोऽस्मि तेऽंघ्रिकमलं तदतीव धन्यम् ॥ 2 ॥
वस्त्राणि दिग्वलयमावसतिः श्मशाने पात्रं कपालमपि मुंडविभूषणानि । रुद्रे प्रसादमचलं तव वीक्ष्य शौरे मूकोऽस्मि तेऽंघ्रिकमलं तदतीव धन्यम् ॥ 3 ॥
यत्कीर्तिगायनपरस्य विधातृसूनोः कौपीनमैणमजिनं विपुलां विभूतिम् । स्वस्यार्थ दिग्भ्रमणमीक्ष्य तु सार्वकालं मूकोऽस्मि तेऽंघ्रिकमलं तदतीव धन्यम् ॥ 4 ॥
यद्वीक्षणे धृतधियामशनं फलादि वासोऽपि निर्जिनवने गिरिकंदरासु । वासांसि वल्कलमयानि विलोक्य चैवं मूकोऽस्मि तेऽंघ्रिकमलं तदतीव धन्यम् ॥ 5 ॥
स्तोत्रं पादांबुजस्यैतच्छ्रीशस्य विजितेंद्रियः । पठित्वा तत्पदं याति श्लोकार्थज्ञस्तु यो नरः ॥ 6 ॥
इति मुरारि पंचरत्नम् ।
Browse Related Categories:
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts