Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
विष्णोर्वीर्याणि को वा कथयतु धरणेः कश्च रेणून्मिमीते यस्यैवांघ्रित्रयेण त्रिजगदभिमितं मोदते पूर्णसंपत् योसौ विश्वानि धत्ते प्रियमिह परमं धाम तस्याभियायां त्वद्भक्ता यत्र माद्यंत्यमृतरसमरंदस्य यत्र प्रवाहः ॥1॥
आद्यायाशेषकर्त्रे प्रतिनिमिषनवीनाय भर्त्रे विभूते- र्भक्तात्मा विष्णवे यः प्रदिशति हविरादीनि यज्ञार्चनादौ । कृष्णाद्यं जन्म यो वा महदिह महतो वर्णयेत्सोऽयमेव प्रीतः पूर्णो यशोभिस्त्वरितमभिसरेत् प्राप्यमंते पदं ते ॥2॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
हे स्तोतारः कवींद्रास्तमिह खलु यथा चेतयध्वे तथैव व्यक्तं वेदस्य सारं प्रणुवत जननोपात्तलीलाकथाभिः । जानंतश्चास्य नामान्यखिलसुखकराणीति संकीर्तयध्वं हे विष्णो कीर्तनाद्यैस्तव खलु महतस्तत्त्वबोधं भजेयम् ॥3॥
विष्णोः कर्माणि संपश्यत मनसि सदा यैः स धर्मानबध्नाद् यानींद्रस्यैष भृत्यः प्रियसख इव च व्यातनोत् क्षेमकारी । वीक्षंते योगसिद्धाः परपदमनिशं यस्य सम्यक्प्रकाशं विप्रेंद्रा जागरूकाः कृतबहुनुतयो यच्च निर्भासयंते ॥4॥
नो जातो जायमानोऽपि च समधिगतस्त्वन्महिम्नोऽवसानं देव श्रेयांसि विद्वान् प्रतिमुहुरपि ते नाम शंसामि विष्णो । तं त्वां संस्तौमि नानाविधनुतिवचनैरस्य लोकत्रयस्या- प्यूर्ध्वं विभ्राजमाने विरचितवसतिं तत्र वैकुंठलोके ॥5॥
आपः सृष्ट्यादिजन्याः प्रथममयि विभो गर्भदेशे दधुस्त्वां यत्र त्वय्येव जीवा जलशयन हरे संगता ऐक्यमापन् । तस्याजस्य प्रभो ते विनिहितमभवत् पद्ममेकं हि नाभौ दिक्पत्रं यत् किलाहुः कनकधरणिभृत् कर्णिकं लोकरूपम् ॥6॥
हे लोका विष्णुरेतद्भुवनमजनयत्तन्न जानीथ यूयं युष्माकं ह्यंतरस्थं किमपि तदपरं विद्यते विष्णुरूपम् । नीहारप्रख्यमायापरिवृतमनसो मोहिता नामरूपैः प्राणप्रीत्येकतृप्ताश्चरथ मखपरा हंत नेच्छा मुकुंदे ॥7॥
मूर्ध्नामक्ष्णां पदानां वहसि खलु सहस्राणि संपूर्य विश्वं तत्प्रोत्क्रम्यापि तिष्ठन् परिमितविवरे भासि चित्तांतरेऽपि । भूतं भव्यं च सर्वं परपुरुष भवान् किंच देहेंद्रियादि- ष्वाविष्टोऽप्युद्गतत्वादमृतसुखरसं चानुभुंक्षे त्वमेव ॥8॥
यत्तु त्रैलोक्यरूपं दधदपि च ततो निर्गतोऽनंतशुद्ध- ज्ञानात्मा वर्तसे त्वं तव खलु महिमा सोऽपि तावान् किमन्यत् । स्तोकस्ते भाग एवाखिलभुवनतया दृश्यते त्र्यंशकल्पं भूयिष्ठं सांद्रमोदात्मकमुपरि ततो भाति तस्मै नमस्ते ॥9॥
अव्यक्तं ते स्वरूपं दुरधिगमतमं तत्तु शुद्धैकसत्त्वं व्यक्तं चाप्येतदेव स्फुटममृतरसांभोधिकल्लोलतुल्यम् । सर्वोत्कृष्टामभीष्टां तदिह गुणरसेनैव चित्तं हरंतीं मूर्तिं ते संश्रयेऽहं पवनपुरपते पाहि मां कृष्ण रोगात् ॥10॥
Browse Related Categories: