Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
ॐ गोपालाय विद्महे गोपीजन वल्लभाय धीमहि । तन्नो गोपालः प्रचोदयात् ॥
ॐ श्रीं ह्रीं क्लीं ग्लौं देवकी सुत गोविंद वासुदेव जगत्पते देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ भूर्भुवस्सुवरोम् । इति दिग्विमोकः ॥
श्रीशं कमलपत्राक्षं देवकीनंदनं हरिम् । सुतसंप्राप्तये कृष्णं नमामि मधुसूदनम् ॥ 1 ॥
नमाम्यहं वासुदेवं सुतसंप्राप्तये हरिम् । यशोदांकगतं बालं गोपालं नंदनंदनम् ॥ 2 ॥
अस्माकं पुत्रलाभाय गोविंदं मुनिवंदितम् । नमाम्यहं वासुदेवं देवकीनंदनं सदा ॥ 3 ॥
गोपालं डिंभकं वंदे कमलापतिमच्युतम् । पुत्रसंप्राप्तये कृष्णं नमामि यदुपुंगवम् ॥ 4 ॥
पुत्रकामेष्टि फलदं कंजाक्षं कमलापतिम् । देवकीनंदनं वंदे सुतसंप्राप्तये त्वहम् (मम) ॥ 5 ॥
पद्मापते पद्मनेत्र पद्मनाभ जनार्दन । देहि मे तनयं श्रीश वासुदेव जगत्पते ॥ 6 ॥
यशोदांकगतं बालं गोविंदं मुनिवंदितम् । अनंत (अस्माकं) पुत्रलाभाय नमामि श्रीशमच्युतम् ॥ 7 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
भूतकृत्-भूतभृद्भावो भुतात्मा भूतभावनः (श्रीपते देवदेवेश दीनार्तिर्हरणाच्युत) । गोविंद मे सुतं देहि नमामि त्वां जनार्दन ॥ 8 ॥
भक्तकामद गोविंद भक्तरक्ष शुभप्रद । देहि मे तनयं कृष्ण रुक्मिणीवल्लभ प्रभो ॥ 9 ॥
रुक्मिणीनाथ सर्वेश देहि मे तनयं सदा । भक्तमंदार पद्माक्ष त्वामहं शरणं गतः ॥ 10 ॥
देवकीसुत गोविंद वासुदेव जगत्पते । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ 11 ॥
वासुदेव जगद्वंद्य श्रीपते पुरुषोत्तम । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ 12 ॥
कंजाक्ष कमलानाथ परकारुणिकोत्तम । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ 13 ॥
लक्ष्मीपते पद्मनाभ मुकुंद मुनिवंदित । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ 14 ॥
कार्यकारणरूपाय वासुदेवाय ते सदा । नमामि पुत्रलाभार्थं सुखदाय बुधाय ते ॥ 15 ॥
राजीवनेत्र श्रीराम रावणारे हरे कवे । तुभ्यं नमामि देवेश तनयं देहि मे हरे ॥ 16 ॥
अनंत (अस्माकं) पुत्रलाभाय भजामि त्वां जगत्पते । देहि मे तनयं कृष्ण वासुदेव रमापते ॥ 17 ॥
श्रीमानिनी मानहारि (श्रीमानिनी मानचोर) गोपीवस्त्रापहारक । देहि मे तनयं कृष्ण वासुदेव जगत्पते ॥ 18 ॥
अस्माकं पुत्रसंप्राप्तिं कुरुष्व यदुनंदन । रमापते वासुदेव मुकुंद मुनिवंदित ॥ 19 ॥
वासुदेव सुतं देहि तनयं देहि माधव । पुत्रं मे देहि श्रीकृष्ण वत्सं देहि महाप्रभो ॥ 20 ॥
डिंभकं देहि श्रीकृष्ण आत्मजं देहि राघव । भक्तमंदार मे देहि तनयं नंदनंदन ॥ 21 ॥
नंदनं देहि मे कृष्ण वासुदेव जगत्पते । कमलानाथ गोविंद मुकुंद मुनिवंदित ॥ 22 ॥
अन्यथा शरणं नास्ति त्वमेव शरणं मम । सुतं देहि श्रियं देहि श्रियं पुत्रं प्रदेहि मे ॥ 23 ॥
यशोदास्तन्यपानज्ञं पिबंतं यदुनंदनम् । वंदेऽहं पुत्रलाभार्थं कपिलाक्षं हरिं सदा ॥ 24 ॥
नंदनंदन देवेश नंदनं देहि मे प्रभो । रमापते वासुदेव श्रियं पुत्रं जगत्पते ॥ 25 ॥
पुत्रं श्रियं श्रियं पुत्रं पुत्रं मे देहि माधव । अस्माकं दीनवाक्यं च (दीनवाक्यस्य) अवधारय श्रीपते ॥ 26 ॥
गोपाल डिंभ गोविंद वासुदेव रमापते । अस्माकं डिंभकं देहि श्रियं देहि जगत्पते ॥ 27 ॥
मद्वांछितफलं देहि देवकीनंदनाच्युत । मांद (मम) पुत्रार्थितं धन्यं कुरुष्व यदुनंदन ॥ 28 ॥
याचेऽहं त्वां श्रियं पुत्रं देहि मे पुत्रसंपदम् । भक्तचिंतामणे राम कल्पवृक्ष महाप्रभो ॥ 29 ॥
आत्मजं नंदनं पुत्रं कुमारं डिंभकं सुतम् । अर्भकं तनयं देहि सदा मे रघुनंदन ॥ 30 ॥
वंदे संतानगोपालं माधवं भक्तकामदम् । अस्माकं पुत्रसंप्राप्त्यै सदा गोविंदमच्युतम् ॥ 31 ॥
ॐकारयुक्तं गोपालं श्रीयुक्तं यदुनंदनम् । क्लींयुक्तं देवकीपुत्रं नमामि यदुनायकम् ॥ 32 ॥
वासुदेव मुकुंदेश गोविंद माधवाच्युत । देहि मे तनयं कृष्ण रमानाथ महाप्रभो ॥ 33 ॥
राजीवनेत्र गोविंद कपिलाक्ष हरे प्रभो । समस्त काम्यवरद देहि मे तनयं सदा ॥ 34 ॥
पद्मनाभ श्यामपद्म बृंदरूप जगद्पते (अब्जपद्मनिभ पद्मवृंदरूप जगत्पते) । सत्पुत्रं (वरसत्पुत्रं) देहि मे देव रमानायक (रूपनायक) माधव ॥ 35 ॥
नंदपाल धरापाल गोविंद यदुनंदन । देहि मे तनयं कृष्ण रुक्मिणीवल्लभ प्रभो ॥ 36 ॥
दासमंदार गोविंद मुकुंद माधवाच्युत । गोपाल पुंडरीकाक्ष देहि मे तनयं श्रियम् ॥ 37 ॥
यदुनायक पद्मेश नंदगोपवधूसुत । देहि मे तनयं कृष्ण श्रीराध (श्रीधर) प्राणनायक ॥ 38 ॥
अस्माकं वांछितं देहि देहि पुत्रं रमापते । स्तुवदाम् (भगवन्) कृष्ण सर्वेश वासुदेव जगत्पते ॥ 39 ॥
रमाहृदयसंभार सत्यभामामनःप्रिय । देहि मे तनयं कृष्ण रुक्मिणीवल्लभ प्रभो ॥ 40 ॥
चंद्रसूर्याक्ष गोविंद पुंडरीकाक्ष माधव । अस्माकं भाग्यसत्पुत्रं देहि देव जगत्पते ॥ 41 ॥
कारुण्यरूप पद्माक्ष पद्मनाभ-समर्चित । देहि मे तनयं कृष्ण देवकीनंदनंदन ॥ 42 ॥
देवकीसुत श्रीनाथ वासुदेव जगत्पते । समस्तकामफलद देहि मे तनयं सदा ॥ 43 ॥
भक्तमंदार गंभीर शंकराच्युत माधव । देहि मे तनयं गोप-बालवत्सल रमापते (श्रीपते) ॥ 44 ॥
श्रीपते वासुदेवेश देवकीप्रियनंदन । भक्तमंदार मे देहि तनयं जगतां प्रभो ॥ 45 ॥
जगन्नाथ रमानाथ भूमिनाथ दयानिधे । वासुदेवेश सर्वेश देहि मे तनयं प्रभो ॥ 46 ॥
श्रीनाथ कमलपत्राक्ष वासुदेव जगत्पते । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ 47 ॥
दासमंदार गोविंद भक्तचिंतामणे प्रभो । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ 48 ॥
गोविंद पुंडरीकाक्ष रमानाथ महाप्रभो । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ 49 ॥
श्रीनाथ कमलपत्राक्ष गोविंद मधुसूदन । सत्पुत्रफल (मत्पुत्रफल)-सिद्ध्यर्थं भजामि त्वां जनार्दन ॥ 50 ॥
स्तन्यं पिबंतं जननीमुखांबुजं विलोक्य मंदस्मितमुज्ज्वलांगम् । स्पृशंतमन्यस्तनमंगुलीभिः वंदे यशोदांकगतं मुकुंदम् ॥ 51 ॥
याचेऽहं पुत्रसंतानं भवंतं पद्मलोचन । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ 52 ॥
अस्माकं पुत्रसंपत्ते-श्चिंतयामि जगत्पते । शीघ्रं मे देहि दातव्यं भवता मुनिवंदित ॥ 53 ॥
वासुदेव जगन्नाथ श्रीपते पुरुषोत्तम । कुरु मां पुत्रदत्तं च कृष्ण देवेंद्रपूजितः ॥ 54 ॥
कुरु मां पुत्रदत्तं च यशोदाप्रियनंदन । मह्यं च पुत्रसंतानं दातव्यं भवता हरे ॥ 55 ॥
वासुदेव जगन्नाथ गोविंद देवकीसुत । देहि मे तनयं राम कौसल्याप्रियनंदन ॥ 56 ॥
पद्मपत्राक्ष गोविंद विष्णो वामन माधव । देहि मे तनयं सीता-प्राणनायक राघव ॥ 57 ॥
कंजाक्ष कृष्ण देवेंद्र-मंडित मुनिवंदित । लक्ष्मणाग्रज श्रीराम देहि मे तनयं सदा ॥ 58 ॥
देहि मे तनयं राम दशरथप्रियनंदन । सीतानायक कंजाक्ष मुचुकुंदवरप्रद ॥ 59 ॥
विभीषणाय या लंका भवता वलीयता प्रभो (विभीषणस्यया लंका प्रदत्ता भवता पुरा) । अस्माकं तत्प्रकारेण तनयं देहि माधव ॥ 60 ॥
भवदीयपदांभोजे चिंतयामि निरंतरम् । देहि मे तनयं सीता-प्राणवल्लभ राघव ॥ 61 ॥
राम मत्काम्यवरद पुत्रोत्पत्तिफलप्रद । देहि मे तनयं श्रीश कमलासनवंदित ॥ 62 ॥
राम राघव सीतेश लक्ष्मणानुज देहि मे । भाग्यवत्पुत्रसंतानं दशरथात्मज श्रीपते ॥ 63 ॥
देवकीगर्भसंजात यशोदाप्रियनंदन । देहि मे तनयं राम कृष्ण गोपाल माधव ॥ 64 ॥
कृष्ण माधव गोविंद वामनाच्युत शंकर । देहि मे तनयं श्रीश गोपबालकनायक ॥ 65 ॥
गोपबाल महाधन्य गोविंदाच्युत माधव । देहि मे तनयं कृष्ण वासुदेव जगत्पते ॥ 66 ॥
दिशतु दिशतु पुत्रं देवकीनंदनोऽयं दिशतु दिशतु शीघ्रं भाग्यवत्पुत्रलाभम् । दिशतु दिशतु श्रीशो राघवो रामचंद्रो दिशतु दिशतु पुत्रं वंशविस्तारहेतोः ॥ 67 ॥
ददातु मां वासुदेवोही (दीयतां वासुदेवेन) तनयोमत्प्रियः सुतम् (सुतः) । कुमारो नंदनः सीता-नायकॊ-विशदा मम (नायकेन सदा मम) ॥ 68 ॥
राम राघव गोविंद देवकीसुत माधव । देहि मे तनयं श्रीश गोपबालकनायक ॥ 69 ॥
वंशविस्तारकं पुत्रं देहि मे मधुसूदन । सुतं देहि सुतं देहि त्वामहं शरणं गतः ॥ 70 ॥
ममाभीष्टसुतं देहि कंसारे माधवाच्युत । सुतं देहि सुतं देहि त्वामहं शरणं गतः ॥ 71 ॥
चंद्रार्क-कल्पपर्यंतं तनयं देहि माधव । सुतं देहि सुतं देहि त्वामहं शरणं गतः ॥ 72 ॥
विद्यावंतं बुद्धिमंतं श्रीमंतं तनयं सदा । देहि मे तनयं कृष्ण देवकीनंदनं सदा (देवकीनंदन प्रभो) ॥ 73 ॥
नमामि त्वां पद्मनेत्र सुतलाभाय कामदम् । मुकुंदं पुंडरीकाक्षं गोविंदं मधुसूदनम् ॥ 74 ॥
भगवन् कृष्ण गोविंद सर्वकामफलप्रद । देहि मे तनयं स्वामिन् त्वामहं शरणं गतः ॥ 75 ॥
स्वामिन् त्वं भगवन् राम कृष्ण माधव कामद । देहि मे तनयं नित्यं त्वामहं शरणं गतः ॥ 76 ॥
तनयं देहि गोविंद कंजाक्ष कमलापते । सुतं देहि सुतं देहि त्वामहं शरणं गतः ॥ 77 ॥
पद्मापते पद्मनेत्र पद्मजनक माधव (प्रद्युम्नजनक प्रभो) । सुतं देहि सुतं देहि त्वामहं शरणं गतः ॥ 78 ॥
शंखचक्रगदाखड्ग शार्ङ्गपाणे रमापते । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ 79 ॥
नारायण रमानाथ राजीवपत्रलोचन । सुतं मे देहि देवेश पद्मपद्मानुवंदित ॥ 80 ॥
राम माधव गोविंद देवकीवरनंदन । रुक्मिणीनाथ सर्वेश नारदादिसुरार्चित ॥ 81 ॥
देवकीसुत गोविंद वासुदेव जगत्पते । देहि मे तनयं श्रीश गोपबालकनायक ॥ 82 ॥
मुनिवंदित गोविंद रुक्मिणीवल्लभ प्रभो । देहि मे तनयं श्रीश (कृष्ण) गोपबालकनायक (त्वामहं शरणं गतः) ॥ 83 ॥
गोपिका लूनपुष्पणां मकरंद रथप्रिय (गोपिकार्जितपंकेजमरंदासक्तमानस)। देहि मे तनयं श्रीश (कृष्ण) गोपबालकनायक (त्वामहं शरणं गतः )॥ 84 ॥
र्रमा हृदय राजीव लोलमाधव कामद । (रमाहृदय पंकेजलोल माधव कामद) ममाभीष्टसुतं देहि त्वामहं शरणं गतः ॥ 85 ॥
वासुदेव रमानाथ दासानां मंगलप्रद । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ 86 ॥
कल्याणप्रद गोविंद मुरारे मुनिवंदित । देहि मे तनयं श्रीश (कृष्ण) गोपबालकनायक (त्वामहं शरणं गतः) ॥ 87 ॥
पुत्रप्रद मुकुंदेश रुक्मिणीवल्लभ प्रभो । देहि मे तनयं श्रीश (कृष्ण) गोपबालकनायक (त्वामहं शरणं गतः) ॥ 88 ॥
पुंडरीकाक्ष गोविंद वासुदेव जगत्पते । देहि मे तनयं श्रीश (कृष्ण) गोपबालकनायक (त्वामहं शरणं गतः) ॥ 89 ॥
दयानिधे वासुदेव मुकुंद मुनिवंदित । देहि मे तनयं श्रीश (कृष्ण) गोपबालकनायक (त्वामहं शरणं गतः) ॥ 90 ॥
पुत्रसंपत्प्रदातारं गोविंदं देवपूजितम् । वंदामहे सदा कृष्णं पुत्रलाभप्रदायिनम् ॥ 91 ॥
कारुण्यनिधये गोपीवल्लभाय मुरारये । नमस्ते पुत्रलाभार्थं देहि मे तनयं विभो ॥ 92 ॥
नमस्तस्मै रमेशाय रुक्मिणीवल्लभाय ते । देहि मे तनयं श्रीश गोपबालकनायक ॥ 93 ॥
नमस्ते वासुदेवाय नित्यश्रीकामुकाय च । पुत्रदाय च सर्पेंद्र....शायिने रंगशायिने ॥ 94 ॥
रंगशायिन् रमानाथ मंगलप्रद माधव । देहि मे तनयं श्रीश गोपबालकनायक ॥ 95 ॥
दासस्य मे सुतं देहि दीनमंदार राघव । सुतं देहि सुतं देहि पुत्रं देहि रमापते ॥ 96 ॥
यशोदातनयाभीष्ट पुत्रदानरतः सदा । देहि मे तनयं श्रीश (कृष्ण) गोपबालकनायक (त्वामहं शरणं गतः) ॥ 97 ॥
मदिष्टदेव गोविंद वासुदेव जनार्दन । देहि मे तनयं श्रीश (कृष्ण) गोपबालकनायक (त्वामहं शरणं गतः) ॥ 98 ॥
नीतिमान् धनवान् पुत्रो विद्यावांश्च प्रजापते । भगवंस्त्वत्कृपायाश्च वासुदेवेंद्रपूजित ॥ 99 ॥
यः पठेत् पुत्रशतकं सोऽपि सत्पुत्रवान् भवेत् । श्रीवासुदेवकथितं स्तोत्ररत्नं सुखाय च ॥ 100 ॥
जपकाले पठेन्नित्यं पुत्रलाभं धनं श्रियम् । ऐश्वर्यं राजसम्मानं सद्यो याति न संशयः ॥ 101 ॥
Browse Related Categories: