Shiva · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
शिवो महेश्वर-श्शंभुः पिनाकी शशिशेखरः वामदेवो विरूपाक्षः कपर्दी नीललोहितः ॥ 1 ॥
शंकर-श्शूलपाणिश्च खट्वांगी विष्णुवल्लभः शिपिविष्टोऽंबिकानाथः श्रीकंठो भक्तवत्सलः ॥ 2 ॥
भव-श्शर्व-स्त्रिलोकेशः शितिकंठः शिवाप्रियः उग्रः कपाली कामारि रंधकासुरसूदनः ॥ 3 ॥
गंगाधरो ललाटाक्षः कालकालः कृपानिधिः भीमः परशुहस्तश्च मृगपाणि-र्जटाधरः ॥ 4 ॥
कैलासवासी कवची कठोर-स्त्रिपुरांतकः वृषांको वृषभारूढो भस्मोद्धूलितविग्रहः ॥ 5 ॥
सामप्रिय-स्स्वरमय-स्त्रयीमूर्ति-रनीश्वरः सर्वज्ञः परमात्मा च सोमसूर्याग्निलोचनः ॥ 6 ॥
हवि-र्यज्ञमय-स्सोमः पंचवक्त्र-स्सदाशिवः विश्वेश्वरो वीरभद्रो गणनाथः प्रजापतिः ॥ 7 ॥
हिरण्यरेता दुर्धर्षो गिरीशो गिरिशोऽनघः भुजंगभूषणो भर्गो गिरिधन्वा गिरिप्रियः ॥ 8 ॥
कृत्तिवासाः पुराराति-र्भगवान् प्रमथाधिपः मृत्युंजय-स्सूक्ष्मतनु-र्जगद्व्यापी जगद्गुरुः ॥ 9 ॥
Offered for worship and study, not as prediction. Non-commercial.
व्योमकेशो महासेनजनक-श्चारुविक्रमः रुद्रो भूतपतिः स्थाणु-रहिर्भुध्न्यो दिगंबरः ॥ 10 ॥
अष्टमूर्ति-रनेकात्मा सात्त्विक-श्शुद्धविग्रहः शाश्वतः खंडपरशु-रजः पाशविमोचकः ॥ 11 ॥
मृडः पशुपति-र्देवो महादेवोऽव्ययो हरिः पूषदंतभि-दव्यग्रो दक्षाध्वरहरो हरः ॥ 12 ॥
भगनेत्रभि-दव्यक्तो सहस्राक्ष-स्सहस्रपात् अपवर्गप्रदोऽनंत-स्तारकः परमेश्वरः ॥ 13 ॥
एवं श्री शंभुदेवस्य नाम्नामष्टोत्तरं शतम् ॥
इति श्री शिवाष्टोत्तरशतनामस्तोत्ररत्नं समाप्तम् ।
Browse Related Categories: