Shiva · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
ॐ स्थिराय नमः । ॐ स्थाणवे नमः । ॐ प्रभवे नमः । ॐ भीमाय नमः । ॐ प्रवराय नमः । ॐ वरदाय नमः । ॐ वराय नमः । ॐ सर्वात्मने नमः । ॐ सर्वविख्याताय नमः । ॐ सर्वस्मै नमः । ॐ सर्वकराय नमः । ॐ भवाय नमः । ॐ जटिने नमः । ॐ चर्मिणे नमः । ॐ शिखंडिने नमः । ॐ सर्वांगाय नमः । ॐ सर्वभावनाय नमः । ॐ हराय नमः । ॐ हरिणाक्षाय नमः । ॐ सर्वभूतहराय नमः । 20 ।
ॐ प्रभवे नमः । ॐ प्रवृत्तये नमः । ॐ निवृत्तये नमः । ॐ नियताय नमः । ॐ शाश्वताय नमः । ॐ ध्रुवाय नमः । ॐ श्मशानवासिने नमः । ॐ भगवते नमः । ॐ खचराय नमः । ॐ गोचराय नमः । ॐ अर्दनाय नमः । ॐ अभिवाद्याय नमः । ॐ महाकर्मणे नमः । ॐ तपस्विने नमः । ॐ भूतभावनाय नमः । ॐ उन्मत्तवेषप्रच्छन्नाय नमः । ॐ सर्वलोकप्रजापतये नमः । ॐ महारूपाय नमः । ॐ महाकायाय नमः । ॐ वृषरूपाय नमः । 40 ।
ॐ महायशसे नमः । ॐ महात्मने नमः । ॐ सर्वभूतात्मने नमः । ॐ विश्वरूपाय नमः । ॐ महाहनवे नमः । ॐ लोकपालाय नमः । ॐ अंतर्हितात्मने नमः । ॐ प्रसादाय नमः । ॐ हयगर्दभये नमः । ॐ पवित्राय नमः । ॐ महते नमः । ॐ नियमाय नमः । ॐ नियमाश्रिताय नमः । ॐ सर्वकर्मणे नमः । ॐ स्वयंभूताय नमः । ॐ आदये नमः । ॐ आदिकराय नमः । ॐ निधये नमः । ॐ सहस्राक्षाय नमः । ॐ विशालाक्षाय नमः । 60 ।
ॐ सोमाय नमः । ॐ नक्षत्रसाधकाय नमः । ॐ चंद्राय नमः । ॐ सूर्याय नमः । ॐ शनये नमः । ॐ केतवे नमः । ॐ ग्रहाय नमः । ॐ ग्रहपतये नमः । ॐ वराय नमः ॐ अत्रये नमः । ॐ अत्र्या नमस्कर्त्रे नमः । ॐ मृगबाणार्पणाय नमः । ॐ अनघाय नमः । ॐ महातपसे नमः । ॐ घोरतपसे नमः । ॐ अदीनाय नमः । ॐ दीनसाधकाय नमः । ॐ संवत्सरकराय नमः । ॐ मंत्राय नमः । ॐ प्रमाणाय नमः । 80 ।
ॐ परमाय तपसे नमः । ॐ योगिने नमः । ॐ योज्याय नमः । ॐ महाबीजाय नमः । ॐ महारेतसे नमः । ॐ महाबलाय नमः । ॐ सुवर्णरेतसे नमः । ॐ सर्वज्ञाय नमः । ॐ सुबीजाय नमः । ॐ बीजवाहनाय नमः । ॐ दशबाहवे नमः । ॐ अनिमिषाय नमः । ॐ नीलकंठाय नमः । ॐ उमापतये नमः । ॐ विश्वरूपाय नमः । ॐ स्वयंश्रेष्ठाय नमः । ॐ बलवीराय नमः । ॐ बलाय नमः । ॐ गणाय गणकर्त्रे नमः । ॐ गणपतये नमः । 100 ।
Offered for worship and study, not as prediction. Non-commercial.
ॐ दिग्वाससे नमः । ॐ कामाय नमः । ॐ मंत्रविदे नमः । ॐ परमो मंत्राय नमः । ॐ सर्वभावकराय नमः । ॐ हराय नमः । ॐ कमंडलुधराय नमः । ॐ धन्विने नमः । ॐ बाणहस्ताय नमः । ॐ कपालवते नमः । ॐ अशनिने नमः । ॐ शतघ्निने नमः । ॐ खड्गिने नमः । ॐ पट्टिशिने नमः । ॐ आयुधिने नमः । ॐ महते नमः । ॐ स्रुवहस्ताय नमः । ॐ सुरूपाय नमः । ॐ तेजसे नमः । ॐ तेजस्कराय निधये नमः । 120 ।
ॐ उष्णीषिणे नमः । ॐ सुवक्त्राय नमः । ॐ उदग्राय नमः । ॐ विनताय नमः । ॐ दीर्घाय नमः । ॐ हरिकेशाय नमः । ॐ सुतीर्थाय नमः । ॐ कृष्णाय नमः । ॐ सृगालरूपाय नमः । ॐ सिद्धार्थाय नमः । ॐ मुंडाय नमः । ॐ सर्वशुभंकराय नमः । ॐ अजाय नमः । ॐ बहुरूपाय नमः । ॐ गंधधारिणे नमः । ॐ कपर्दिने नमः । ॐ ऊर्ध्वरेतसे नमः । ॐ ऊर्ध्वलिंगाय नमः । ॐ ऊर्ध्वशायिने नमः । ॐ नभः स्थलाय नमः । 140 ।
ॐ त्रिजटिने नमः । ॐ चीरवाससे नमः । ॐ रुद्राय नमः । ॐ सेनापतये नमः । ॐ विभवे नमः । ॐ अहश्चराय नमः । ॐ नक्तंचराय नमः । ॐ तिग्ममन्यवे नमः । ॐ सुवर्चसाय नमः । ॐ गजघ्ने नमः । ॐ दैत्यघ्ने नमः । ॐ कालाय नमः । ॐ लोकधात्रे नमः । ॐ गुणाकराय नमः । ॐ सिंहशार्दूलरूपाय नमः । ॐ आर्द्रचर्मांबरावृताय नमः । ॐ कालयोगिने नमः । ॐ महानादाय नमः । ॐ सर्वकामाय नमः । ॐ चतुष्पथाय नमः । 160 ।
ॐ निशाचराय नमः । ॐ प्रेतचारिणे नमः । ॐ भूतचारिणे नमः । ॐ महेश्वराय नमः । ॐ बहुभूताय नमः । ॐ बहुधराय नमः । ॐ स्वर्भानवे नमः । ॐ अमिताय नमः । ॐ गतये नमः । ॐ नृत्यप्रियाय नमः । ॐ नित्यनर्ताय नमः । ॐ नर्तकाय नमः । ॐ सर्वलालसाय नमः । ॐ घोराय नमः । ॐ महातपसे नमः । ॐ पाशाय नमः । ॐ नित्याय नमः । ॐ गिरिरुहाय नमः । ॐ नभसे नमः । ॐ सहस्रहस्ताय नमः । 180 ।
ॐ विजयाय नमः । ॐ व्यवसायाय नमः । ॐ अतंद्रिताय नमः । ॐ अधर्षणाय नमः । ॐ धर्षणात्मने नमः । ॐ यज्ञघ्ने नमः । ॐ कामनाशकाय नमः । ॐ दक्षयागापहारिणे नमः । ॐ सुसहाय नमः । ॐ मध्यमाय नमः । ॐ तेजोपहारिणे नमः । ॐ बलघ्ने नमः । ॐ मुदिताय नमः । ॐ अर्थाय नमः । ॐ अजिताय नमः । ॐ अवराय नमः । ॐ गंभीरघोषय नमः । ॐ गंभीराय नमः । ॐ गंभीरबलवाहनाय नमः । ॐ न्यग्रोधरूपाय नमः । 200 ।
ॐ न्यग्रोधाय नमः । ॐ वृक्षकर्णस्थितये नमः । ॐ विभवे नमः । ॐ सुतीक्ष्णदशनाय नमः । ॐ महाकायाय नमः । ॐ महाननाय नमः । ॐ विष्वक्सेनाय नमः । ॐ हराय नमः । ॐ यज्ञाय नमः । ॐ संयुगापीडवाहनाय नमः । ॐ तीक्ष्णतापाय नमः । ॐ हर्यश्वाय नमः । ॐ सहायाय नमः । ॐ कर्मकालविदे नमः । ॐ विष्णुप्रसादिताय नमः । ॐ यज्ञाय नमः । ॐ समुद्राय नमः ॐ बडबामुखाय नमः । ॐ हुताशनसहायाय नमः । ॐ प्रशांतात्मने नमः । 220 ।
ॐ हुताशनाय नमः । ॐ उग्रतेजसे नमः । ॐ महातेजसे नमः । ॐ जन्याय नमः । ॐ विजयकालविदे नमः । ॐ ज्योतिषामयनाय नमः । ॐ सिद्धये नमः । ॐ सर्वविग्रहाय नमः । ॐ शिखिने नमः । ॐ मुंडिने नमः । ॐ जटिने नमः । ॐ ज्वालिने नमः । ॐ मूर्तिजाय नमः । ॐ मूर्धगाय नमः । ॐ बलिने नमः । ॐ वैणविने नमः । ॐ पणविने नमः । ॐ तालिने नमः । ॐ खलिने नमः । ॐ कालकटंकटाय नमः । 240 ।
ॐ नक्षत्रविग्रहमतये नमः । ॐ गुणबुद्धये नमः । ॐ लयाय नमः । ॐ अगमाय नमः । ॐ प्रजापतये नमः । ॐ विश्वबाहवे नमः । ॐ विभागाय नमः । ॐ सर्वगाय ॐ अमुखाय नमः । ॐ विमोचनाय नमः । ॐ सुसरणाय नमः । ॐ हिरण्यकवचोद्भवाय नमः । ॐ मेढ्रजाय नमः । ॐ बलचारिणे नमः । ॐ महीचारिणे नमः । ॐ स्रुताय नमः । ॐ सर्वतूर्यनिनादिने नमः । ॐ सर्वतोद्यपरिग्रहाय नमः । ॐ व्यालरूपाय नमः । ॐ गुहावासिने नमः । 260 ।
ॐ गुहाय नमः । ॐ मालिने नमः । ॐ तरंगविदे नमः । ॐ त्रिदशाय नमः । ॐ त्रिकालदृशे नमः । ॐ कर्मसर्वबंधविमोचनाय नमः । ॐ असुरेंद्राणां बंधनाय नमः । ॐ युधि शत्रुविनाशनाय नमः । ॐ सांख्यप्रदाय नमः । ॐ दुर्वाससे नमः । ॐ सर्वसाधुनिषेविताय नमः । ॐ प्रस्कंदनाय नमः । ॐ विभागज्ञाय नमः । ॐ अतुल्याय नमः । ॐ यज्ञविभागविदे नमः । ॐ सर्ववासाय नमः । ॐ सर्वचारिणे नमः । ॐ दुर्वाससे नमः । ॐ वासवाय नमः । ॐ अमराय नमः । 280 ।
ॐ हैमाय नमः । ॐ हेमकराय नमः । ॐ अयज्ञाय नमः । ॐ सर्वधारिणे नमः । ॐ धरोत्तमाय नमः । ॐ लोहिताक्षाय नमः । ॐ महाक्षाय नमः । ॐ विजयाक्षाय नमः । ॐ विशारदाय नमः । ॐ संग्रहाय नमः । ॐ निग्रहाय नमः । ॐ कर्त्रे नमः । ॐ सर्पचीरनिवासनाय नमः । ॐ मुख्याय नमः । ॐ अमुख्याय नमः । ॐ देहाय नमः । ॐ काहलये नमः । ॐ सर्वकामदाय नमः । ॐ सर्वकालप्रसादये नमः । ॐ सुबलाय नमः । 300 ।
ॐ बलरूपधृते नमः । ॐ सर्वकामवराय नमः । ॐ सर्वदाय नमः । ॐ सर्वतोमुखाय नमः । ॐ आकाशनिर्विरूपाय नमः । ॐ निपातिने नमः । ॐ अवशाय नमः । ॐ खगाय नमः । ॐ रौद्ररूपाय नमः । ॐ अंशवे नमः । ॐ आदित्याय नमः । ॐ बहुरश्मये नमः । ॐ सुवर्चसिने नमः । ॐ वसुवेगाय नमः । ॐ महावेगाय नमः । ॐ मनोवेगाय नमः । ॐ निशाचराय नमः । ॐ सर्ववासिने नमः । ॐ श्रियावासिने नमः । ॐ उपदेशकराय नमः । 320 ।
ॐ अकराय नमः । ॐ मुनये नमः । ॐ आत्मनिरालोकाय नमः । ॐ संभग्नाय नमः । ॐ सहस्रदाय नमः । ॐ पक्षिणे नमः । ॐ पक्षरूपाय नमः । ॐ अतिदीप्ताय नमः । ॐ विशां पतये नमः । ॐ उन्मादाय नमः । ॐ मदनाय नमः । ॐ कामाय नमः । ॐ अश्वत्थाय नमः । ॐ अर्थकराय नमः । ॐ यशसे नमः । ॐ वामदेवाय नमः । ॐ वामाय नमः । ॐ प्राचे नमः । ॐ दक्षिणाय नमः । ॐ वामनाय नमः । 340 ।
ॐ सिद्धयोगिने नमः । ॐ महर्षये नमः । ॐ सिद्धार्थाय नमः । ॐ सिद्धसाधकाय नमः । ॐ भिक्षवे नमः । ॐ भिक्षुरूपाय नमः । ॐ विपणाय नमः । ॐ मृदवे नमः । ॐ अव्ययाय नमः । ॐ महासेनाय नमः । ॐ विशाखाय नमः । ॐ षष्टिभागाय नमः । ॐ गवां पतये नमः । ॐ वज्रहस्ताय नमः । ॐ विष्कंभिने नमः । ॐ चमूस्तंभनाय नमः । ॐ वृत्तावृत्तकराय नमः । ॐ तालाय नमः । ॐ मधवे नमः । ॐ मधुकलोचनाय नमः । 360 ।
ॐ वाचस्पत्याय नमः । ॐ वाजसनाय नमः । ॐ नित्यमाश्रमपूजिताय नमः । ॐ ब्रह्मचारिणे नमः । ॐ लोकचारिणे नमः । ॐ सर्वचारिणे नमः । ॐ विचारविदे नमः । ॐ ईशानाय नमः । ॐ ईश्वराय नमः । ॐ कालाय नमः । ॐ निशाचारिणे नमः । ॐ पिनाकभृते नमः । ॐ निमित्तस्थाय नमः । ॐ निमित्ताय नमः । ॐ नंदये नमः । ॐ नंदिकराय नमः । ॐ हरये नमः । ॐ नंदीश्वराय नमः । ॐ नंदिने नमः । ॐ नंदनाय नमः । 380 ।
ॐ नंदिवर्धनाय नमः । ॐ भगहारिणे नमः । ॐ निहंत्रे नमः । ॐ कालाय नमः । ॐ ब्रह्मणे नमः । ॐ पितामहाय नमः । ॐ चतुर्मुखाय नमः । ॐ महालिंगाय नमः । ॐ चारुलिंगाय नमः । ॐ लिंगाध्यक्षाय नमः । ॐ सुराध्यक्षाय नमः । ॐ योगाध्यक्षाय नमः । ॐ युगावहाय नमः । ॐ बीजाध्यक्षाय नमः । ॐ बीजकर्त्रे नमः । ॐ अध्यात्मानुगताय नमः । ॐ बलाय नमः । ॐ इतिहासाय नमः । ॐ सकल्पाय नमः । ॐ गौतमाय नमः । 400 ।
ॐ निशाकराय नमः । ॐ दंभाय नमः । ॐ अदंभाय नमः । ॐ वैदंभाय नमः । ॐ वश्याय नमः । ॐ वशकराय नमः । ॐ कलये नमः । ॐ लोककर्त्रे नमः । ॐ पशुपतये नमः । ॐ महाकर्त्रे नमः । ॐ अनौषधाय नमः । ॐ अक्षराय नमः । ॐ परमाय ब्रह्मणे नमः । ॐ बलवते नमः । ॐ शक्राय नमः । ॐ नीतये नमः । ॐ अनीतये नमः । ॐ शुद्धात्मने नमः । ॐ शुद्धाय नमः । ॐ मान्याय नमः । 420 ।
ॐ गतागताय नमः । ॐ बहुप्रसादाय नमः । ॐ सुस्वप्नाय नमः । ॐ दर्पणाय नमः । ॐ अमित्रजिते नमः । ॐ वेदकाराय नमः । ॐ मंत्रकाराय नमः । ॐ विदुषे नमः । ॐ समरमर्दनाय नमः । ॐ महामेघनिवासिने नमः । ॐ महाघोराय नमः । ॐ वशीने नमः । ॐ कराय नमः । ॐ अग्निज्वालाय नमः । ॐ महाज्वालाय नमः । ॐ अतिधूम्राय नमः । ॐ हुताय नमः । ॐ हविषे नमः । ॐ वृषणाय नमः । ॐ शंकराय नमः । 440 ।
ॐ नित्यवर्चस्विने नमः । ॐ धूमकेतनाय नमः । ॐ नीलाय नमः । ॐ अंगलुब्धाय नमः । ॐ शोभनाय नमः । ॐ निरवग्रहाय नमः । ॐ स्वस्तिदाय नमः । ॐ स्वस्तिभावाय नमः । ॐ भागिने नमः । ॐ भागकराय नमः । ॐ लघवे नमः । ॐ उत्संगाय नमः । ॐ महांगाय नमः । ॐ महागर्भपरायणाय नमः । ॐ कृष्णवर्णाय नमः । ॐ सुवर्णाय नमः । ॐ सर्वदेहिनामिंद्रियाय नमः । ॐ महापादाय नमः । ॐ महाहस्ताय नमः । ॐ महाकायाय नमः । 460 ।
ॐ महायशसे नमः । ॐ महामूर्ध्ने नमः । ॐ महामात्राय नमः । ॐ महानेत्राय नमः । ॐ निशालयाय नमः । ॐ महांतकाय नमः । ॐ महाकर्णाय नमः । ॐ महोष्ठाय नमः । ॐ महाहनवे नमः । ॐ महानासाय नमः । ॐ महाकंबवे नमः । ॐ महाग्रीवाय नमः । ॐ श्मशानभाजे नमः । ॐ महावक्षसे नमः । ॐ महोरस्काय नमः । ॐ अंतरात्मने नमः । ॐ मृगालयाय नमः । ॐ लंबनाय नमः । ॐ लंबितोष्ठाय नमः । ॐ महामायाय नमः । 480 ।
ॐ पयोनिधये नमः । ॐ महादंताय नमः । ॐ महादंष्ट्राय नमः । ॐ महजिह्वाय नमः । ॐ महामुखाय नमः । ॐ महानखाय नमः । ॐ महारोमाय नमः । ॐ महाकोशाय नमः । ॐ महाजटाय नमः । ॐ प्रसन्नाय नमः । ॐ प्रसादाय नमः । ॐ प्रत्ययाय नमः । ॐ गिरिसाधनाय नमः । ॐ स्नेहनाय नमः । ॐ अस्नेहनाय नमः । ॐ अजिताय नमः । ॐ महामुनये नमः । ॐ वृक्षाकाराय नमः । ॐ वृक्षकेतवे नमः । ॐ अनलाय नमः । 500 ।
ॐ वायुवाहनाय नमः । ॐ गंडलिने नमः । ॐ मेरुधाम्ने नमः । ॐ देवाधिपतये नमः । ॐ अथर्वशीर्षाय नमः । ॐ सामास्याय नमः । ॐ ऋक्सहस्रामितेक्षणाय नमः । ॐ यजुःपादभुजाय नमः । ॐ गुह्याय नमः । ॐ प्रकाशाय नमः । ॐ जंगमाय नमः । ॐ अमोघार्थाय नमः । ॐ प्रसादाय नमः । ॐ अभिगम्याय नमः । ॐ सुदर्शनाय नमः । ॐ उपकाराय नमः । ॐ प्रियाय नमः । ॐ सर्वाय नमः । ॐ कनकाय नमः । ॐ कांचनच्छवये नमः । 520 ।
ॐ नाभये नमः । ॐ नंदिकराय नमः । ॐ भावाय नमः । ॐ पुष्करस्थपतये नमः । ॐ स्थिराय नमः । ॐ द्वादशाय नमः । ॐ त्रासनाय नमः । ॐ आद्याय नमः । ॐ यज्ञाय नमः । ॐ यज्ञसमाहिताय नमः । ॐ नक्ताय नमः । ॐ कलये नमः । ॐ कालाय नमः । ॐ मकराय नमः । ॐ कालपूजिताय नमः । ॐ सगणाय नमः । ॐ गणकाराय नमः । ॐ भूतवाहनसारथये नमः । ॐ भस्मशयाय नमः । ॐ भस्मगोप्त्रे नमः । 540 ।
ॐ भस्मभूताय नमः । ॐ तरवे नमः । ॐ गणाय नमः । ॐ लोकपालाय नमः । ॐ अलोकाय नमः । ॐ महात्मने नमः । ॐ सर्वपूजिताय नमः । ॐ शुक्लाय नमः । ॐ त्रिशुक्लाय नमः । ॐ संपन्नाय नमः । ॐ शुचये नमः । ॐ भूतनिषेविताय नमः । ॐ आश्रमस्थाय नमः । ॐ क्रियावस्थाय नमः । ॐ विश्वकर्ममतये नमः । ॐ वराय नमः । ॐ विशालशाखाय नमः । ॐ ताम्रोष्ठाय नमः । ॐ अंबुजालाय नमः । ॐ सुनिश्चलाय नमः । 560 ।
ॐ कपिलाय नमः । ॐ कपिशाय नमः । ॐ शुक्लाय नमः । ॐ आयुषे नमः । ॐ पराय नमः । ॐ अपराय नमः । ॐ गंधर्वाय नमः । ॐ अदितये नमः । ॐ तार्क्ष्याय नमः । ॐ सुविज्ञेयाय नमः । ॐ सुशारदाय नमः । ॐ परश्वधायुधाय नमः । ॐ देवाय नमः । ॐ अनुकारिणे नमः । ॐ सुबांधवाय नमः । ॐ तुंबवीणाय नमः । ॐ महाक्रोधाय नमः । ॐ ऊर्ध्वरेतसे नमः । ॐ जलेशयाय नमः । ॐ उग्राय नमः । 580 ।
ॐ वंशकराय नमः । ॐ वंशाय नमः । ॐ वंशनादाय नमः । ॐ अनिंदिताय नमः । ॐ सर्वांगरूपाय नमः । ॐ मायाविने नमः । ॐ सुहृदाय नमः । ॐ अनिलाय नमः । ॐ अनलाय नमः । ॐ बंधनाय नमः । ॐ बंधकर्त्रे नमः । ॐ सुबंधनविमोचनाय नमः । ॐ यज्ञारये नमः । ॐ कामारये नमः । ॐ महादंष्ट्राय नमः । ॐ महायुधाय नमः । ॐ बहुधा निंदिताय नमः । ॐ शर्वाय नमः । ॐ शंकराय नमः । ॐ शंकराय नमः । 600 ।
ॐ अधनाय नमः । ॐ अमरेशाय नमः । ॐ महादेवाय नमः । ॐ विश्वदेवाय नमः । ॐ सुरारिघ्ने नमः । ॐ अहिर्बुध्न्याय नमः । ॐ अनिलाभाय नमः । ॐ चेकितानाय नमः । ॐ हविषे नमः । ॐ अजैकपादे नमः । ॐ कापालिने नमः । ॐ त्रिशंकवे नमः । ॐ अजिताय नमः । ॐ शिवाय नमः । ॐ धन्वंतरये नमः । ॐ धूमकेतवे नमः । ॐ स्कंदाय नमः । ॐ वैश्रवणाय नमः । ॐ धात्रे नमः । ॐ शक्राय नमः । 620 ।
ॐ विष्णवे नमः । ॐ मित्राय नमः । ॐ त्वष्ट्रे नमः । ॐ ध्रुवाय नमः । ॐ धराय नमः । ॐ प्रभावाय नमः । ॐ सर्वगाय वायवे नमः । ॐ अर्यम्णे नमः । ॐ सवित्रे नमः । ॐ रवये नमः । ॐ उषंगवे नमः । ॐ विधात्रे नमः । ॐ मांधात्रे नमः । ॐ भूतभावनाय नमः । ॐ विभवे नमः । ॐ वर्णविभाविने नमः । ॐ सर्वकामगुणावहाय नमः । ॐ पद्मनाभाय नमः । ॐ महागर्भाय नमः । ॐ चंद्रवक्त्राय नमः । 640 ।
ॐ अनिलाय नमः । ॐ अनलाय नमः । ॐ बलवते नमः । ॐ उपशांताय नमः । ॐ पुराणाय नमः । ॐ पुण्यचंचुरिणे नमः । ॐ कुरुकर्त्रे नमः । ॐ कुरुवासिने नमः । ॐ कुरुभूताय नमः । ॐ गुणौषधाय नमः । ॐ सर्वाशयाय नमः । ॐ दर्भचारिणे नमः । ॐ सर्वेषं प्राणिनां पतये नमः । ॐ देवदेवाय नमः । ॐ सुखासक्ताय नमः । ॐ सते नमः । ॐ असते नमः । ॐ सर्वरत्नविदे नमः । ॐ कैलासगिरिवासिने नमः । ॐ हिमवद्गिरिसंश्रयाय नमः । 660 ।
ॐ कूलहारिणे नमः । ॐ कुलकर्त्रे नमः । ॐ बहुविद्याय नमः । ॐ बहुप्रदाय नमः । ॐ वणिजाय नमः । ॐ वर्धकिने नमः । ॐ वृक्षाय नमः । ॐ वकुलाय नमः । ॐ चंदनाय नमः । ॐ छदाय नमः । ॐ सारग्रीवाय नमः । ॐ महाजत्रवे नमः । ॐ अलोलाय नमः । ॐ महौषधाय नमः । ॐ सिद्धार्थकारिणे नमः । ॐ सिद्धार्थश्छंदोव्याकरणोत्तराय नमः । ॐ सिंहनादाय नमः । ॐ सिंहदंष्ट्राय नमः । ॐ सिंहगाय नमः । ॐ सिंहवाहनाय नमः । 680 ।
ॐ प्रभावात्मने नमः । ॐ जगत्कालस्थालाय नमः । ॐ लोकहिताय नमः । ॐ तरवे नमः । ॐ सारंगाय नमः । ॐ नवचक्रांगाय नमः । ॐ केतुमालिने नमः । ॐ सभावनाय नमः । ॐ भूतालयाय नमः । ॐ भूतपतये नमः । ॐ अहोरात्राय नमः । ॐ अनिंदिताय नमः । ॐ सर्वभूतानां वाहित्रे नमः । ॐ सर्वभूतानां निलयाय नमः । ॐ विभवे नमः । ॐ भवाय नमः । ॐ अमोघाय नमः । ॐ संयताय नमः । ॐ अश्वाय नमः । ॐ भोजनाय नमः । 700 ।
ॐ प्राणधारणाय नमः । ॐ धृतिमते नमः । ॐ मतिमते नमः । ॐ दक्षाय नमः । ॐ सत्कृताय नमः । ॐ युगाधिपाय नमः । ॐ गोपालिने नमः । ॐ गोपतये नमः । ॐ ग्रामाय नमः । ॐ गोचर्मवसनाय नमः । ॐ हरये नमः । ॐ हिरण्यबाहवे नमः । ॐ प्रवेशिनां गुहापालाय नमः । ॐ प्रकृष्टारये नमः । ॐ महाहर्षाय नमः । ॐ जितकामाय नमः । ॐ जितेंद्रियाय नमः । ॐ गांधाराय नमः । ॐ सुवासाय नमः । ॐ तपः सक्ताय नमः । 720 ।
ॐ रतये नमः । ॐ नराय नमः । ॐ महागीताय नमः । ॐ महानृत्याय नमः । ॐ अप्सरोगणसेविताय नमः । ॐ महाकेतवे नमः । ॐ महाधातवे नमः । ॐ नैकसानुचराय नमः । ॐ चलाय नमः । ॐ आवेदनीयाय नमः । ॐ आदेशाय नमः । ॐ सर्वगंधसुखाहवाय नमः । ॐ तोरणाय नमः । ॐ तारणाय नमः । ॐ वाताय नमः । ॐ परिधिने नमः । ॐ पतिखेचराय नमः । ॐ संयोगाय वर्धनाय नमः । ॐ वृद्धाय नमः । ॐ अतिवृद्धाय नमः । 740 ।
ॐ गुणाधिकाय नमः । ॐ नित्य आत्मसहायाय नमः । ॐ देवासुरपतये नमः । ॐ पतये नमः । ॐ युक्ताय नमः । ॐ युक्तबाहवे नमः । ॐ देवाय दिविसुपर्वणाय नमः । ॐ आषाढाय नमः । ॐ सुषाढाय नमः । ॐ ध्रुवाय नमः । ॐ हरिणाय नमः । ॐ हराय नमः । ॐ वपुरावर्तमानेभ्यो नमः । ॐ वसुश्रेष्ठाय नमः । ॐ महापथाय नमः । ॐ शिरोहारिणे विमर्शाय नमः । ॐ सर्वलक्षणलक्षिताय नमः । ॐ अक्षश्च रथयोगिने नमः । ॐ सर्वयोगिने नमः । ॐ महाबलाय नमः । 760 ।
ॐ समाम्नायाय नमः । ॐ असमाम्नायाय नमः । ॐ तीर्थदेवाय नमः । ॐ महारथाय नमः । ॐ निर्जीवाय नमः । ॐ जीवनाय नमः । ॐ मंत्राय नमः । ॐ शुभाक्षाय नमः । ॐ बहुकर्कशाय नमः । ॐ रत्नप्रभूताय नमः । ॐ रत्नांगाय नमः । ॐ महार्णवनिपानविदे नमः । ॐ मूलाय नमः । ॐ विशालाय नमः । ॐ अमृताय नमः । ॐ व्यक्ताव्यक्ताय नमः । ॐ तपोनिधये नमः । ॐ आरोहणाय नमः । ॐ अधिरोहाय नमः । ॐ शीलधारिणे नमः । 780 ।
ॐ महायशसे नमः । ॐ सेनाकल्पाय नमः । ॐ महाकल्पाय नमः । ॐ योगाय नमः । ॐ युगकराय नमः । ॐ हरये नमः । ॐ युगरूपाय नमः । ॐ महारूपाय नमः । ॐ महानागहनाय नमः । ॐ वधाय नमः । ॐ न्यायनिर्वपणाय नमः । ॐ पादाय नमः । ॐ पंडिताय नमः । ॐ अचलोपमाय नमः । ॐ बहुमालाय नमः । ॐ महामालाय नमः । ॐ शशिने हरसुलोचनाय नमः । ॐ विस्ताराय लवणाय कूपाय नमः । ॐ त्रियुगाय नमः । ॐ सफलोदयाय नमः । 800 ।
ॐ त्रिलोचनाय नमः । ॐ विषण्णांगाय नमः । ॐ मणिविद्धाय नमः । ॐ जटाधराय नमः । ॐ बिंदवे नमः । ॐ विसर्गाय नमः । ॐ सुमुखाय नमः । ॐ शराय नमः । ॐ सर्वायुधाय नमः । ॐ सहाय नमः । ॐ निवेदनाय नमः । ॐ सुखाजाताय नमः । ॐ सुगंधाराय नमः । ॐ महाधनुषे नमः । ॐ गंधपालिने भगवते नमः । ॐ सर्वकर्मणां उत्थानाय नमः । ॐ मंथानो बहुलो वायवे नमः । ॐ सकलाय नमः । ॐ सर्वलोचनाय नमः । ॐ तलस्तालाय नमः । 820 ।
ॐ करस्थालिने नमः । ॐ ऊर्ध्वसंहननाय नमः । ॐ महते नमः । ॐ छत्राय नमः । ॐ सुछत्राय नमः । ॐ विख्याताय लोकाय नमः । ॐ सर्वाश्रय क्रमाय नमः । ॐ मुंडाय नमः । ॐ विरूपाय नमः । ॐ विकृताय नमः । ॐ दंडिने नमः । ॐ कुंडिने नमः । ॐ विकुर्वणाय नमः । ॐ हर्यक्षाय नमः । ॐ ककुभाय नमः । ॐ वज्रिणे नमः । ॐ शतजिह्वाय नमः । ॐ सहस्रपादे नमः । ॐ सहस्रमुर्ध्ने नमः । ॐ देवेंद्राय नमः । 840 ।
ॐ सर्वदेवमयाय नमः । ॐ गुरवे नमः । ॐ सहस्रबाहवे नमः । ॐ सर्वांगाय नमः । ॐ शरण्याय नमः । ॐ सर्वलोककृते नमः । ॐ पवित्राय नमः । ॐ त्रिककुदे मंत्राय नमः । ॐ कनिष्ठाय नमः । ॐ कृष्णपिंगलाय नमः । ॐ ब्रह्मदंडविनिर्मात्रे नमः । ॐ शतघ्नीपाशशक्तिमते नमः । ॐ पद्मगर्भाय नमः । ॐ महागर्भाय नमः । ॐ ब्रह्मगर्भाय नमः । ॐ जलोद्भवाय नमः । ॐ गभस्तये नमः । ॐ ब्रह्मकृते नमः । ॐ ब्रह्मिणे नमः । ॐ ब्रह्मविदे नमः । 860 ।
ॐ ब्राह्मणाय नमः । ॐ गतये नमः । ॐ अनंतरूपाय नमः । ॐ नैकात्मने नमः । ॐ स्वयंभुव तिग्मतेजसे नमः । ॐ ऊर्ध्वगात्मने नमः । ॐ पशुपतये नमः । ॐ वातरंहाय नमः । ॐ मनोजवाय नमः । ॐ चंदनिने नमः । ॐ पद्मनालाग्राय नमः । ॐ सुरभ्युत्तरणाय नमः । ॐ नराय नमः । ॐ कर्णिकारमहास्रग्विणे नमः । ॐ नीलमौलये नमः । ॐ पिनाकधृते नमः । ॐ उमापतये नमः । ॐ उमाकांताय नमः । ॐ जाह्नवीधृते नमः । ॐ उमाधवाय नमः । 880 ।
ॐ वराय वराहाय नमः । ॐ वरदाय नमः । ॐ वरेण्याय नमः । ॐ सुमहास्वनाय नमः । ॐ महाप्रसादाय नमः । ॐ दमनाय नमः । ॐ शत्रुघ्ने नमः । ॐ श्वेतपिंगलाय नमः । ॐ पीतात्मने नमः । ॐ परमात्मने नमः । ॐ प्रयतात्माने नमः । ॐ प्रधानधृते नमः । ॐ सर्वपार्श्वमुखाय नमः । ॐ त्र्यक्षाय नमः । ॐ धर्मसाधारणो वराय नमः । ॐ चराचरात्मने नमः । ॐ सूक्ष्मात्मने नमः । ॐ अमृताय गोवृषेश्वराय नमः । ॐ साध्यर्षये नमः । ॐ वसवे आदित्याय नमः । 900 ।
ॐ विवस्वते सवितामृताय नमः । ॐ व्यासाय नमः । ॐ सर्गाय सुसंक्षेपाय विस्तराय नमः । ॐ पर्यायो नराय नमः । ॐ ऋतवे नमः । ॐ संवत्सराय नमः । ॐ मासाय नमः । ॐ पक्षाय नमः । ॐ संख्यासमापनाय नमः । ॐ कलाभ्यो नमः । ॐ काष्ठाभ्यो नमः । ॐ लवेभ्यो नमः । ॐ मात्राभ्यो नमः । ॐ मुहूर्ताहः क्षपाभ्यो नमः । ॐ क्षणेभ्यो नमः । ॐ विश्वक्षेत्राय नमः । ॐ प्रजाबीजाय नमः । ॐ लिंगाय नमः । ॐ आद्याय निर्गमाय नमः । ॐ सते नमः । 920 ।
ॐ असते नमः । ॐ व्यक्ताय नमः । ॐ अव्यक्ताय नमः । ॐ पित्रे नमः । ॐ मात्रे नमः । ॐ पितामहाय नमः । ॐ स्वर्गद्वाराय नमः । ॐ प्रजाद्वाराय नमः । ॐ मोक्षद्वाराय नमः । ॐ त्रिविष्टपाय नमः । ॐ निर्वाणाय नमः । ॐ ह्लादनाय नमः । ॐ ब्रह्मलोकाय नमः । ॐ परागतये नमः । ॐ देवासुरविनिर्मात्रे नमः । ॐ देवासुरपरायणाय नमः । ॐ देवासुरगुरवे नमः । ॐ देवाय नमः । ॐ देवासुरनमस्कृताय नमः । ॐ देवासुरमहामात्राय नमः । 940 ।
ॐ देवासुरगणाश्रयाय नमः । ॐ देवासुरगणाध्यक्षाय नमः । ॐ देवासुरगणाग्रण्यै नमः । ॐ देवातिदेवाय नमः । ॐ देवर्षये नमः । ॐ देवासुरवरप्रदाय नमः । ॐ देवासुरेश्वराय नमः । ॐ विश्वाय नमः । ॐ देवासुरमहेश्वराय नमः । ॐ सर्वदेवमयाय नमः । ॐ अचिंत्याय नमः । ॐ देवतात्मने नमः । ॐ आत्मसंभवाय नमः । ॐ उद्भिदे नमः । ॐ त्रिविक्रमाय नमः । ॐ वैद्याय नमः । ॐ विरजाय नमः । ॐ नीरजाय नमः । ॐ अमराय नमः । ॐ ईड्याय नमः । 960 ।
ॐ हस्तीश्वराय नमः । ॐ व्यघ्राय नमः । ॐ देवसिंहाय नमः । ॐ नरर्षभाय नमः । ॐ विबुधाय नमः । ॐ अग्रवराय नमः । ॐ सूक्ष्माय नमः । ॐ सर्वदेवाय नमः । ॐ तपोमयाय नमः । ॐ सुयुक्ताय नमः । ॐ शोभनाय नमः । ॐ वज्रिणे नमः । ॐ प्रासानां प्रभवाय नमः । ॐ अव्ययाय नमः । ॐ गुहाय नमः । ॐ कांताय नमः । ॐ निजाय सर्गाय नमः । ॐ पवित्राय नमः । ॐ सर्वपावनाय नमः । ॐ शृंगिणे नमः । 980 ।
ॐ शृंगप्रियाय नमः । ॐ बभ्रुवे नमः । ॐ राजराजाय नमः । ॐ निरामयाय नमः । ॐ अभिरामाय नमः । ॐ सुरगणाय नमः । ॐ विरामाय नमः । ॐ सर्वसाधनाय नमः । ॐ ललाटाक्षाय नमः । ॐ विश्वदेवाय नमः । ॐ हरिणाय नमः । ॐ ब्रह्मवर्चसाय नमः । ॐ स्थावराणां पतये नमः । ॐ नियमेंद्रियवर्धनाय नमः । ॐ सिद्धार्थाय नमः । ॐ सिद्धभूतार्थाय नमः । ॐ अचिंत्याय नमः । ॐ सत्यव्रताय नमः । ॐ शुचये नमः । ॐ व्रताधिपाय नमः । 1000 ।
ॐ परस्मै नमः । ॐ ब्रह्मणे नमः । ॐ भक्तानां परमायै गतये नमः । ॐ विमुक्ताय नमः । ॐ मुक्ततेजसे नमः । ॐ श्रीमते नमः । ॐ श्रीवर्धनाय नमः । ॐ जगते नमः । 1008 ।
इति शिवसहस्रनामावलिः ॥
Browse Related Categories: